Ṛk 8.48.11
Saṃhitā
अप॒ त्या अ॑स्थु॒रनि॑रा॒ अमी॑वा॒ निर॑त्रसं॒तमि॑षीची॒रभै॑षुः ।
आ सोमो॑ अ॒स्माँ अ॑रुह॒द्विहा॑या॒ अग॑न्म॒ यत्र॑ प्रति॒रंत॒ आयुः॑ ॥
अप त्या अस्थुर् अनिरा अमीवा निर् अत्रसन् तमिषीचीर् अभैषुः |
आ सोमो अस्मां अरुहद् विहाया अगन्म यत्र प्रतिरन्त आयुः ||
ápa tyā́ asthuránirā ámīvā níratrasantámiṣīcīrábhaiṣuḥ ǀ
ā́ sómo asmā́m̐ aruhadvíhāyā áganma yátra pratiránta ā́yuḥ ǁ
apa tyā asthur anirā amīvā nir atrasan tamiṣīcīr abhaiṣuḥ |
ā somo asmāṃ aruhad vihāyā aganma yatra pratiranta āyuḥ ||
Padapāṭha
अप॑ । त्याः । अ॒स्थुः॒ । अनि॑राः । अमी॑वाः । निः । अ॒त्र॒स॒न् । तमि॑षीचीः । अभै॑षुः ।
आ । सोमः॑ । अ॒स्मान् । अ॒रु॒ह॒त् । विऽहा॑याः । अग॑न्म । यत्र॑ । प्र॒ऽति॒रन्ते॑ । आयुः॑ ॥
अप । त्याः । अस्थुः । अनिराः । अमीवाः । निः । अत्रसन् । तमिषीचीः । अभैषुः ।
आ । सोमः । अस्मान् । अरुहत् । विऽहायाः । अगन्म । यत्र । प्रऽतिरन्ते । आयुः ॥
ápa ǀ tyā́ḥ ǀ asthuḥ ǀ ánirāḥ ǀ ámīvāḥ ǀ níḥ ǀ atrasan ǀ támiṣīcīḥ ǀ ábhaiṣuḥ ǀ
ā́ ǀ sómaḥ ǀ asmā́n ǀ aruhat ǀ ví-hāyāḥ ǀ áganma ǀ yátra ǀ pra-tiránte ǀ ā́yuḥ ǁ
apa ǀ tyāḥ ǀ asthuḥ ǀ anirāḥ ǀ amīvāḥ ǀ niḥ ǀ atrasan ǀ tamiṣīcīḥ ǀ abhaiṣuḥ ǀ
ā ǀ somaḥ ǀ asmān ǀ aruhat ǀ vi-hāyāḥ ǀ aganma ǀ yatra ǀ pra-tirante ǀ āyuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.048.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.13.01
- Maṇḍala · Anuvāka · Ṛk
- 08.06.167
- Devatā देवता
- Soma
- Ṛṣi ऋषि
- Pragātha Kāṇva
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.