Sūkta 45
- Devatā देवता
- 1: Indra, Agni; 2-42: Indra
- Ṛṣi ऋषि
- Triśoka Kāṇva
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1, 3-6, 8, 9, 12, 13, 15-21, 23-25, 31, 36, 37, 39-42); nicṛdgāyatrī (2, 10, 11, 14, 22, 28-30, 33-35); virāḍgāyatrī (26, 27, 32, 38); gāyatrī (pādanicṛdgāyatrī) (7)
2nd set of styles gāyatrī
-
Ṛk 1
आ घा॒ ये अ॒ग्निमिं॑ध॒ते स्तृ॒णंति॑ ब॒र्हिरा॑नु॒षक् ।
येषा॒मिंद्रो॒ युवा॒ सखा॑ ॥आ घा ये अग्निम् इन्धते स्तृणन्ति बर्हिर् आनुषक् |
येषाम् इन्द्रो युवा सखा ||ā́ ghā yé agnímindhaté stṛṇánti barhírānuṣák ǀ
yéṣāmíndro yúvā sákhā ǁā ghā ye agnim indhate stṛṇanti barhir ānuṣak |
yeṣām indro yuvā sakhā ||आ । घ॒ । ये । अ॒ग्निम् । इ॒न्ध॒ते । स्तृ॒णन्ति॑ । ब॒र्हिः । आ॒नु॒षक् ।
येषा॑म् । इन्द्रः॑ । युवा॑ । सखा॑ ॥आ । घ । ये । अग्निम् । इन्धते । स्तृणन्ति । बर्हिः । आनुषक् ।
येषाम् । इन्द्रः । युवा । सखा ॥ā́ ǀ gha ǀ yé ǀ agním ǀ indhaté ǀ stṛṇánti ǀ barhíḥ ǀ ānuṣák ǀ
yéṣām ǀ índraḥ ǀ yúvā ǀ sákhā ǁā ǀ gha ǀ ye ǀ agnim ǀ indhate ǀ stṛṇanti ǀ barhiḥ ǀ ānuṣak ǀ
yeṣām ǀ indraḥ ǀ yuvā ǀ sakhā ǁ8.45.1 Aṣṭaka 6.3.42.1Anuvāka 8.6.64
-
Ṛk 2
बृ॒हन्निदि॒ध्म ए॑षां॒ भूरि॑ श॒स्तं पृ॒थुः स्वरुः॑ ।
येषा॒मिंद्रो॒ युवा॒ सखा॑ ॥बृहन्न् इद् इध्म एषाम् भूरि शस्तम् पृथुः स्वरुः |
येषाम् इन्द्रो युवा सखा ||bṛhánnídidhmá eṣām bhū́ri śastám pṛthúḥ sváruḥ ǀ
yéṣāmíndro yúvā sákhā ǁbṛhann id idhma eṣām bhūri śastam pṛthuḥ svaruḥ |
yeṣām indro yuvā sakhā ||बृ॒हन् । इत् । इ॒ध्मः । ए॒षा॒म् । भूरि॑ । श॒स्तम् । पृ॒थु । स्वरुः॑ ।
येषा॑म् । इन्द्रः॑ । युवा॑ । सखा॑ ॥बृहन् । इत् । इध्मः । एषाम् । भूरि । शस्तम् । पृथु । स्वरुः ।
येषाम् । इन्द्रः । युवा । सखा ॥bṛhán ǀ ít ǀ idhmáḥ ǀ eṣām ǀ bhū́ri ǀ śastám ǀ pṛthú ǀ sváruḥ ǀ
yéṣām ǀ índraḥ ǀ yúvā ǀ sákhā ǁbṛhan ǀ it ǀ idhmaḥ ǀ eṣām ǀ bhūri ǀ śastam ǀ pṛthu ǀ svaruḥ ǀ
yeṣām ǀ indraḥ ǀ yuvā ǀ sakhā ǁ8.45.2 Aṣṭaka 6.3.42.2Anuvāka 8.6.65
-
Ṛk 3
अयु॑द्ध॒ इद्यु॒धा वृतं॒ शूर॒ आज॑ति॒ सत्व॑भिः ।
येषा॒मिंद्रो॒ युवा॒ सखा॑ ॥अयुद्ध इद् युधा वृतं शूर आजति सत्वभिः |
येषाम् इन्द्रो युवा सखा ||áyuddha ídyudhā́ vṛ́tam śū́ra ā́jati sátvabhiḥ ǀ
yéṣāmíndro yúvā sákhā ǁayuddha id yudhā vṛtaṃ śūra ājati satvabhiḥ |
yeṣām indro yuvā sakhā ||अयु॑द्धः । इत् । यु॒धा । वृत॑म् । शूरः॑ । आ । अ॒ज॒ति॒ । सत्व॑ऽभिः ।
येषा॑म् । इन्द्रः॑ । युवा॑ । सखा॑ ॥अयुद्धः । इत् । युधा । वृतम् । शूरः । आ । अजति । सत्वऽभिः ।
येषाम् । इन्द्रः । युवा । सखा ॥áyuddhaḥ ǀ ít ǀ yudhā́ ǀ vṛ́tam ǀ śū́raḥ ǀ ā́ ǀ ajati ǀ sátva-bhiḥ ǀ
yéṣām ǀ índraḥ ǀ yúvā ǀ sákhā ǁayuddhaḥ ǀ it ǀ yudhā ǀ vṛtam ǀ śūraḥ ǀ ā ǀ ajati ǀ satva-bhiḥ ǀ
yeṣām ǀ indraḥ ǀ yuvā ǀ sakhā ǁ8.45.3 Aṣṭaka 6.3.42.3Anuvāka 8.6.66
-
Ṛk 4
आ बुं॒दं वृ॑त्र॒हा द॑दे जा॒तः पृ॑च्छ॒द्वि मा॒तरं॑ ।
क उ॒ग्राः के ह॑ शृण्विरे ॥आ बुन्दं वृत्रहा ददे जातः पृच्छद् वि मातरम् |
क उग्राः के ह शृण्विरे ||ā́ bundám vṛtrahā́ dade jātáḥ pṛcchadví mātáram ǀ
ká ugrā́ḥ ké ha śṛṇvire ǁā bundaṃ vṛtrahā dade jātaḥ pṛcchad vi mātaram |
ka ugrāḥ ke ha śṛṇvire ||आ । बु॒न्दम् । वृ॒त्र॒ऽहा । द॒दे॒ । जा॒तः । पृ॒च्छ॒त् । वि । मा॒तर॑म् ।
के । उ॒ग्राः । के । ह॒ । शृ॒ण्वि॒रे॒ ॥आ । बुन्दम् । वृत्रऽहा । ददे । जातः । पृच्छत् । वि । मातरम् ।
के । उग्राः । के । ह । शृण्विरे ॥ā́ ǀ bundám ǀ vṛtra-hā́ ǀ dade ǀ jātáḥ ǀ pṛcchat ǀ ví ǀ mātáram ǀ
ké ǀ ugrā́ḥ ǀ ké ǀ ha ǀ śṛṇvire ǁā ǀ bundam ǀ vṛtra-hā ǀ dade ǀ jātaḥ ǀ pṛcchat ǀ vi ǀ mātaram ǀ
ke ǀ ugrāḥ ǀ ke ǀ ha ǀ śṛṇvire ǁ8.45.4 Aṣṭaka 6.3.42.4Anuvāka 8.6.67
-
Ṛk 5
प्रति॑ त्वा शव॒सी व॑दद्गि॒रावप्सो॒ न यो॑धिषत् ।
यस्ते॑ शत्रु॒त्वमा॑च॒के ॥प्रति त्वा शवसी वदद् गिराव् अप्सो न योधिषत् |
यस् ते शत्रुत्वम् आचके ||práti tvā śavasī́ vadadgirā́vápso ná yodhiṣat ǀ
yáste śatrutvámācaké ǁprati tvā śavasī vadad girāv apso na yodhiṣat |
yas te śatrutvam ācake ||प्रति॑ । त्वा॒ । श॒व॒सी । व॒द॒त् । गि॒रौ । अप्सः॑ । न । यो॒धि॒ष॒त् ।
यः । ते॒ । श॒त्रु॒ऽत्वम् । आ॒ऽच॒के ॥प्रति । त्वा । शवसी । वदत् । गिरौ । अप्सः । न । योधिषत् ।
यः । ते । शत्रुऽत्वम् । आऽचके ॥práti ǀ tvā ǀ śavasī́ ǀ vadat ǀ giráu ǀ ápsaḥ ǀ ná ǀ yodhiṣat ǀ
yáḥ ǀ te ǀ śatru-tvám ǀ ā-caké ǁprati ǀ tvā ǀ śavasī ǀ vadat ǀ girau ǀ apsaḥ ǀ na ǀ yodhiṣat ǀ
yaḥ ǀ te ǀ śatru-tvam ǀ ā-cake ǁ8.45.5 Aṣṭaka 6.3.42.5Anuvāka 8.6.68
-
Ṛk 6
उ॒त त्वं म॑घवंछृणु॒ यस्ते॒ वष्टि॑ व॒वक्षि॒ तत् ।
यद्वी॒ळया॑सि वी॒ळु तत् ॥उत त्वम् मघवञ् छृणु यस् ते वष्टि ववक्षि तत् |
यद् वीऌअयासि वीऌउ तत् ||utá tvám maghavañchṛṇu yáste váṣṭi vavákṣi tát ǀ
yádvīḷáyāsi vīḷú tat ǁuta tvam maghavañ chṛṇu yas te vaṣṭi vavakṣi tat |
yad vīḷayāsi vīḷu tat ||उ॒त । त्वम् । म॒घ॒ऽव॒न् । शृ॒णु॒ । यः । ते॒ । वष्टि॑ । व॒वक्षि॑ । तत् ।
यत् । वी॒ळया॑सि । वी॒ळु । तत् ॥उत । त्वम् । मघऽवन् । शृणु । यः । ते । वष्टि । ववक्षि । तत् ।
यत् । वीळयासि । वीळु । तत् ॥utá ǀ tvám ǀ magha-van ǀ śṛṇu ǀ yáḥ ǀ te ǀ váṣṭi ǀ vavákṣi ǀ tát ǀ
yát ǀ vīḷáyāsi ǀ vīḷú ǀ tát ǁuta ǀ tvam ǀ magha-van ǀ śṛṇu ǀ yaḥ ǀ te ǀ vaṣṭi ǀ vavakṣi ǀ tat ǀ
yat ǀ vīḷayāsi ǀ vīḷu ǀ tat ǁ8.45.6 Aṣṭaka 6.3.43.1Anuvāka 8.6.69
-
Ṛk 7
यदा॒जिं यात्या॑जि॒कृदिंद्रः॑ स्वश्व॒युरुप॑ ।
र॒थीत॑मो र॒थीनां॑ ॥यद् आजिं यात्य् आजिकृद् इन्द्रः स्वश्वयुर् उप |
रथीतमो रथीनाम् ||yádājím yā́tyājikṛ́díndraḥ svaśvayúrúpa ǀ
rathī́tamo rathī́nām ǁyad ājiṃ yāty ājikṛd indraḥ svaśvayur upa |
rathītamo rathīnām ||यत् । आ॒जिम् । याति॑ । आ॒जि॒ऽकृत् । इन्द्रः॑ । स्व॒श्व॒ऽयुः । उप॑ ।
र॒थिऽत॑मः । र॒थिना॑म् ॥यत् । आजिम् । याति । आजिऽकृत् । इन्द्रः । स्वश्वऽयुः । उप ।
रथिऽतमः । रथिनाम् ॥yát ǀ ājím ǀ yā́ti ǀ āji-kṛ́t ǀ índraḥ ǀ svaśva-yúḥ ǀ úpa ǀ
rathí-tamaḥ ǀ rathínām ǁyat ǀ ājim ǀ yāti ǀ āji-kṛt ǀ indraḥ ǀ svaśva-yuḥ ǀ upa ǀ
rathi-tamaḥ ǀ rathinām ǁ8.45.7 Aṣṭaka 6.3.43.2Anuvāka 8.6.70
-
Ṛk 8
वि षु विश्वा॑ अभि॒युजो॒ वज्रि॒न्विष्व॒ग्यथा॑ वृह ।
भवा॑ नः सु॒श्रव॑स्तमः ॥वि षु विश्वा अभियुजो वज्रिन् विष्वग् यथा वृह |
भवा नः सुश्रवस्तमः ||ví ṣú víśvā abhiyújo vájrinvíṣvagyáthā vṛha ǀ
bhávā naḥ suśrávastamaḥ ǁvi ṣu viśvā abhiyujo vajrin viṣvag yathā vṛha |
bhavā naḥ suśravastamaḥ ||वि । सु । विश्वाः॑ । अ॒भि॒ऽयुजः॑ । वज्रि॑न् । विष्व॑क् । यथा॑ । वृ॒ह॒ ।
भव॑ । नः॒ । सु॒श्रवः॑ऽतमः ॥वि । सु । विश्वाः । अभिऽयुजः । वज्रिन् । विष्वक् । यथा । वृह ।
भव । नः । सुश्रवःऽतमः ॥ví ǀ sú ǀ víśvāḥ ǀ abhi-yújaḥ ǀ vájrin ǀ víṣvak ǀ yáthā ǀ vṛha ǀ
bháva ǀ naḥ ǀ suśrávaḥ-tamaḥ ǁvi ǀ su ǀ viśvāḥ ǀ abhi-yujaḥ ǀ vajrin ǀ viṣvak ǀ yathā ǀ vṛha ǀ
bhava ǀ naḥ ǀ suśravaḥ-tamaḥ ǁ8.45.8 Aṣṭaka 6.3.43.3Anuvāka 8.6.71
-
Ṛk 9
अ॒स्माकं॒ सु रथं॑ पु॒र इंद्रः॑ कृणोतु सा॒तये॑ ।
न यं धूर्वं॑ति धू॒र्तयः॑ ॥अस्माकं सु रथम् पुर इन्द्रः कृणोतु सातये |
न यं धूर्वन्ति धूर्तयः ||asmā́kam sú rátham purá índraḥ kṛṇotu sātáye ǀ
ná yám dhū́rvanti dhūrtáyaḥ ǁasmākaṃ su ratham pura indraḥ kṛṇotu sātaye |
na yaṃ dhūrvanti dhūrtayaḥ ||अ॒स्माक॑म् । सु । रथ॑म् । पु॒रः । इन्द्रः॑ । कृ॒णो॒तु॒ । सा॒तये॑ ।
न । यम् । धूर्व॑न्ति । धू॒र्तयः॑ ॥अस्माकम् । सु । रथम् । पुरः । इन्द्रः । कृणोतु । सातये ।
न । यम् । धूर्वन्ति । धूर्तयः ॥asmā́kam ǀ sú ǀ rátham ǀ puráḥ ǀ índraḥ ǀ kṛṇotu ǀ sātáye ǀ
ná ǀ yám ǀ dhū́rvanti ǀ dhūrtáyaḥ ǁasmākam ǀ su ǀ ratham ǀ puraḥ ǀ indraḥ ǀ kṛṇotu ǀ sātaye ǀ
na ǀ yam ǀ dhūrvanti ǀ dhūrtayaḥ ǁ8.45.9 Aṣṭaka 6.3.43.4Anuvāka 8.6.72
-
Ṛk 10
वृ॒ज्याम॑ ते॒ परि॒ द्विषोऽरं॑ ते शक्र दा॒वने॑ ।
ग॒मेमेदिं॑द्र॒ गोम॑तः ॥वृज्याम ते परि द्विषो ऽरं ते शक्र दावने |
गमेमेद् इन्द्र गोमतः ||vṛjyā́ma te pári dvíṣó’ram te śakra dāváne ǀ
gamémédindra gómataḥ ǁvṛjyāma te pari dviṣo 'raṃ te śakra dāvane |
gamemed indra gomataḥ ||वृ॒ज्याम॑ । ते॒ । परि॑ । द्विषः॑ । अर॑म् । ते॒ । श॒क्र॒ । दा॒वने॑ ।
ग॒मेम॑ । इत् । इ॒न्द्र॒ । गोऽम॑तः ॥वृज्याम । ते । परि । द्विषः । अरम् । ते । शक्र । दावने ।
गमेम । इत् । इन्द्र । गोऽमतः ॥vṛjyā́ma ǀ te ǀ pári ǀ dvíṣaḥ ǀ áram ǀ te ǀ śakra ǀ dāváne ǀ
gaméma ǀ ít ǀ indra ǀ gó-mataḥ ǁvṛjyāma ǀ te ǀ pari ǀ dviṣaḥ ǀ aram ǀ te ǀ śakra ǀ dāvane ǀ
gamema ǀ it ǀ indra ǀ go-mataḥ ǁ8.45.10 Aṣṭaka 6.3.43.5Anuvāka 8.6.73
-
Ṛk 11
शनै॑श्चि॒द्यंतो॑ अद्रि॒वोऽश्वा॑वंतः शत॒ग्विनः॑ ।
वि॒वक्ष॑णा अने॒हसः॑ ॥शनैश् चिद् यन्तो अद्रिवो ऽश्वावन्तः शतग्विनः |
विवक्षणा अनेहसः ||śánaiścidyánto adrivó’śvāvantaḥ śatagvínaḥ ǀ
vivákṣaṇā anehásaḥ ǁśanaiś cid yanto adrivo 'śvāvantaḥ śatagvinaḥ |
vivakṣaṇā anehasaḥ ||शनैः॑ । चि॒त् । यन्तः॑ । अ॒द्रि॒ऽवः॒ । अश्व॑ऽवन्तः । श॒त॒ऽग्विनः॑ ।
वि॒वक्ष॑णाः । अ॒ने॒हसः॑ ॥शनैः । चित् । यन्तः । अद्रिऽवः । अश्वऽवन्तः । शतऽग्विनः ।
विवक्षणाः । अनेहसः ॥śánaiḥ ǀ cit ǀ yántaḥ ǀ adri-vaḥ ǀ áśva-vantaḥ ǀ śata-gvínaḥ ǀ
vivákṣaṇāḥ ǀ anehásaḥ ǁśanaiḥ ǀ cit ǀ yantaḥ ǀ adri-vaḥ ǀ aśva-vantaḥ ǀ śata-gvinaḥ ǀ
vivakṣaṇāḥ ǀ anehasaḥ ǁ8.45.11 Aṣṭaka 6.3.44.1Anuvāka 8.6.74
-
Ṛk 12
ऊ॒र्ध्वा हि ते॑ दि॒वेदि॑वे स॒हस्रा॑ सू॒नृता॑ श॒ता ।
ज॒रि॒तृभ्यो॑ वि॒मंह॑ते ॥ऊर्ध्वा हि ते दिवे-दिवे सहस्रा सूनृता शता |
जरितृभ्यो विमंहते ||ūrdhvā́ hí te divédive sahásrā sūnṛ́tā śatā́ ǀ
jaritṛ́bhyo vimáṃhate ǁūrdhvā hi te dive-dive sahasrā sūnṛtā śatā |
jaritṛbhyo vimaṃhate ||ऊ॒र्ध्वा । हि । ते॒ । दि॒वेऽदि॑वे । स॒हस्रा॑ । सू॒नृता॑ । श॒ता ।
ज॒रि॒तृऽभ्यः॑ । वि॒ऽमंह॑ते ॥ऊर्ध्वा । हि । ते । दिवेऽदिवे । सहस्रा । सूनृता । शता ।
जरितृऽभ्यः । विऽमंहते ॥ūrdhvā́ ǀ hí ǀ te ǀ divé-dive ǀ sahásrā ǀ sūnṛ́tā ǀ śatā́ ǀ
jaritṛ́-bhyaḥ ǀ vi-máṃhate ǁūrdhvā ǀ hi ǀ te ǀ dive-dive ǀ sahasrā ǀ sūnṛtā ǀ śatā ǀ
jaritṛ-bhyaḥ ǀ vi-maṃhate ǁ8.45.12 Aṣṭaka 6.3.44.2Anuvāka 8.6.75
-
Ṛk 13
वि॒द्मा हि त्वा॑ धनंज॒यमिंद्र॑ दृ॒ळ्हा चि॑दारु॒जं ।
आ॒दा॒रिणं॒ यथा॒ गयं॑ ॥विद्मा हि त्वा धनञ्जयम् इन्द्र दृऌहा चिद् आरुजम् |
आदारिणं यथा गयम् ||vidmā́ hí tvā dhanaṃjayámíndra dṛḷhā́ cidārujám ǀ
ādāríṇam yáthā gáyam ǁvidmā hi tvā dhanañjayam indra dṛḷhā cid ārujam |
ādāriṇaṃ yathā gayam ||वि॒द्म । हि । त्वा॒ । ध॒न॒म्ऽज॒यम् । इन्द्र॑ । दृ॒ळ्हा । चि॒त् । आ॒ऽरु॒जम् ।
आ॒दा॒रिण॑म् । यथा॑ । गय॑म् ॥विद्म । हि । त्वा । धनम्ऽजयम् । इन्द्र । दृळ्हा । चित् । आऽरुजम् ।
आदारिणम् । यथा । गयम् ॥vidmá ǀ hí ǀ tvā ǀ dhanam-jayám ǀ índra ǀ dṛḷhā́ ǀ cit ǀ ā-rujám ǀ
ādāríṇam ǀ yáthā ǀ gáyam ǁvidma ǀ hi ǀ tvā ǀ dhanam-jayam ǀ indra ǀ dṛḷhā ǀ cit ǀ ā-rujam ǀ
ādāriṇam ǀ yathā ǀ gayam ǁ8.45.13 Aṣṭaka 6.3.44.3Anuvāka 8.6.76
-
Ṛk 14
क॒कु॒हं चि॑त्त्वा कवे॒ मंदं॑तु धृष्ण॒विंद॑वः ।
आ त्वा॑ प॒णिं यदीम॑हे ॥ककुहं चित् त्वा कवे मन्दन्तु धृष्णव् इन्दवः |
आ त्वा पणिं यद् ईमहे ||kakuhám cittvā kave mándantu dhṛṣṇavíndavaḥ ǀ
ā́ tvā paṇím yádī́mahe ǁkakuhaṃ cit tvā kave mandantu dhṛṣṇav indavaḥ |
ā tvā paṇiṃ yad īmahe ||क॒कु॒हम् । चि॒त् । त्वा॒ । क॒वे॒ । मन्द॑न्तु । धृ॒ष्णो॒ इति॑ । इन्द॑वः ।
आ । त्वा॒ । प॒णिम् । यत् । ईम॑हे ॥ककुहम् । चित् । त्वा । कवे । मन्दन्तु । धृष्णो इति । इन्दवः ।
आ । त्वा । पणिम् । यत् । ईमहे ॥kakuhám ǀ cit ǀ tvā ǀ kave ǀ mándantu ǀ dhṛṣṇo íti ǀ índavaḥ ǀ
ā́ ǀ tvā ǀ paṇím ǀ yát ǀ ī́mahe ǁkakuham ǀ cit ǀ tvā ǀ kave ǀ mandantu ǀ dhṛṣṇo iti ǀ indavaḥ ǀ
ā ǀ tvā ǀ paṇim ǀ yat ǀ īmahe ǁ8.45.14 Aṣṭaka 6.3.44.4Anuvāka 8.6.77
-
Ṛk 15
यस्ते॑ रे॒वाँ अदा॑शुरिः प्रम॒मर्ष॑ म॒घत्त॑ये ।
तस्य॑ नो॒ वेद॒ आ भ॑र ॥यस् ते रेवां अदाशुरिः प्रममर्ष मघत्तये |
तस्य नो वेद आ भर ||yáste revā́m̐ ádāśuriḥ pramamárṣa magháttaye ǀ
tásya no véda ā́ bhara ǁyas te revāṃ adāśuriḥ pramamarṣa maghattaye |
tasya no veda ā bhara ||यः । ते॒ । रे॒वान् । अदा॑शुरिः । प्र॒ऽम॒मर्ष॑ । म॒घत्त॑ये ।
तस्य॑ । नः॒ । वेदः॑ । आ । भ॒र॒ ॥यः । ते । रेवान् । अदाशुरिः । प्रऽममर्ष । मघत्तये ।
तस्य । नः । वेदः । आ । भर ॥yáḥ ǀ te ǀ revā́n ǀ ádāśuriḥ ǀ pra-mamárṣa ǀ magháttaye ǀ
tásya ǀ naḥ ǀ védaḥ ǀ ā́ ǀ bhara ǁyaḥ ǀ te ǀ revān ǀ adāśuriḥ ǀ pra-mamarṣa ǀ maghattaye ǀ
tasya ǀ naḥ ǀ vedaḥ ǀ ā ǀ bhara ǁ8.45.15 Aṣṭaka 6.3.44.5Anuvāka 8.6.78
-
Ṛk 16
इ॒म उ॑ त्वा॒ वि च॑क्षते॒ सखा॑य इंद्र सो॒मिनः॑ ।
पु॒ष्टावं॑तो॒ यथा॑ प॒शुं ॥इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः |
पुष्टावन्तो यथा पशुम् ||imá u tvā ví cakṣate sákhāya indra somínaḥ ǀ
puṣṭā́vanto yáthā paśúm ǁima u tvā vi cakṣate sakhāya indra sominaḥ |
puṣṭāvanto yathā paśum ||इ॒मे । ऊं॒ इति॑ । त्वा॒ । वि । च॒क्ष॒ते॒ । सखा॑यः । इ॒न्द्र॒ । सो॒मिनः॑ ।
पु॒ष्टऽव॑न्तः । यथा॑ । प॒शुम् ॥इमे । ऊं इति । त्वा । वि । चक्षते । सखायः । इन्द्र । सोमिनः ।
पुष्टऽवन्तः । यथा । पशुम् ॥imé ǀ ūṃ íti ǀ tvā ǀ ví ǀ cakṣate ǀ sákhāyaḥ ǀ indra ǀ somínaḥ ǀ
puṣṭá-vantaḥ ǀ yáthā ǀ paśúm ǁime ǀ ūṃ iti ǀ tvā ǀ vi ǀ cakṣate ǀ sakhāyaḥ ǀ indra ǀ sominaḥ ǀ
puṣṭa-vantaḥ ǀ yathā ǀ paśum ǁ8.45.16 Aṣṭaka 6.3.45.1Anuvāka 8.6.79
-
Ṛk 17
उ॒त त्वाब॑धिरं व॒यं श्रुत्क॑र्णं॒ संत॑मू॒तये॑ ।
दू॒रादि॒ह ह॑वामहे ॥उत त्वाबधिरं वयं श्रुत्कर्णं सन्तम् ऊतये |
दूराद् इह हवामहे ||utá tvā́badhiram vayám śrútkarṇam sántamūtáye ǀ
dūrā́dihá havāmahe ǁuta tvābadhiraṃ vayaṃ śrutkarṇaṃ santam ūtaye |
dūrād iha havāmahe ||उ॒त । त्वा॒ । अब॑धिरम् । व॒यम् । श्रुत्ऽक॑र्णम् । सन्त॑म् । ऊ॒तये॑ ।
दू॒रात् । इ॒ह । ह॒वा॒म॒हे॒ ॥उत । त्वा । अबधिरम् । वयम् । श्रुत्ऽकर्णम् । सन्तम् । ऊतये ।
दूरात् । इह । हवामहे ॥utá ǀ tvā ǀ ábadhiram ǀ vayám ǀ śrút-karṇam ǀ sántam ǀ ūtáye ǀ
dūrā́t ǀ ihá ǀ havāmahe ǁuta ǀ tvā ǀ abadhiram ǀ vayam ǀ śrut-karṇam ǀ santam ǀ ūtaye ǀ
dūrāt ǀ iha ǀ havāmahe ǁ8.45.17 Aṣṭaka 6.3.45.2Anuvāka 8.6.80
-
Ṛk 18
यच्छु॑श्रू॒या इ॒मं हवं॑ दु॒र्मर्षं॑ चक्रिया उ॒त ।
भवे॑रा॒पिर्नो॒ अंत॑मः ॥यच् छुश्रूया इमं हवं दुर्मर्षं चक्रिया उत |
भवेर् आपिर् नो अन्तमः ||yácchuśrūyā́ imám hávam durmárṣam cakriyā utá ǀ
bháverāpírno ántamaḥ ǁyac chuśrūyā imaṃ havaṃ durmarṣaṃ cakriyā uta |
bhaver āpir no antamaḥ ||यत् । शु॒श्रु॒याः । इ॒मम् । हव॑म् । दुः॒ऽमर्ष॑म् । च॒क्रि॒याः॒ । उ॒त ।
भवेः॑ । आ॒पिः । नः॒ । अन्त॑मः ॥यत् । शुश्रुयाः । इमम् । हवम् । दुःऽमर्षम् । चक्रियाः । उत ।
भवेः । आपिः । नः । अन्तमः ॥yát ǀ śuśruyā́ḥ ǀ imám ǀ hávam ǀ duḥ-márṣam ǀ cakriyāḥ ǀ utá ǀ
bháveḥ ǀ āpíḥ ǀ naḥ ǀ ántamaḥ ǁyat ǀ śuśruyāḥ ǀ imam ǀ havam ǀ duḥ-marṣam ǀ cakriyāḥ ǀ uta ǀ
bhaveḥ ǀ āpiḥ ǀ naḥ ǀ antamaḥ ǁ8.45.18 Aṣṭaka 6.3.45.3Anuvāka 8.6.81
-
Ṛk 19
यच्चि॒द्धि ते॒ अपि॒ व्यथि॑र्जग॒न्वांसो॒ अम॑न्महि ।
गो॒दा इदिं॑द्र बोधि नः ॥यच् चिद् धि ते अपि व्यथिर् जगन्वांसो अमन्महि |
गोदा इद् इन्द्र बोधि नः ||yácciddhí te ápi vyáthirjaganvā́ṃso ámanmahi ǀ
godā́ ídindra bodhi naḥ ǁyac cid dhi te api vyathir jaganvāṃso amanmahi |
godā id indra bodhi naḥ ||यत् । चि॒त् । हि । ते॒ । अपि॑ । व्यथिः॑ । ज॒ग॒न्वांसः॑ । अम॑न्महि ।
गो॒ऽदाः । इत् । इ॒न्द्र॒ । बो॒धि॒ । नः॒ ॥यत् । चित् । हि । ते । अपि । व्यथिः । जगन्वांसः । अमन्महि ।
गोऽदाः । इत् । इन्द्र । बोधि । नः ॥yát ǀ cit ǀ hí ǀ te ǀ ápi ǀ vyáthiḥ ǀ jaganvā́ṃsaḥ ǀ ámanmahi ǀ
go-dā́ḥ ǀ ít ǀ indra ǀ bodhi ǀ naḥ ǁyat ǀ cit ǀ hi ǀ te ǀ api ǀ vyathiḥ ǀ jaganvāṃsaḥ ǀ amanmahi ǀ
go-dāḥ ǀ it ǀ indra ǀ bodhi ǀ naḥ ǁ8.45.19 Aṣṭaka 6.3.45.4Anuvāka 8.6.82
-
Ṛk 20
आ त्वा॑ रं॒भं न जिव्र॑यो रर॒भ्मा श॑वसस्पते ।
उ॒श्मसि॑ त्वा स॒धस्थ॒ आ ॥आ त्वा रम्भं न जिव्रयो ररभ्मा शवसस् पते |
उश्मसि त्वा सधस्थ आ ||ā́ tvā rambhám ná jívrayo rarabhmā́ śavasaspate ǀ
uśmási tvā sadhástha ā́ ǁā tvā rambhaṃ na jivrayo rarabhmā śavasas pate |
uśmasi tvā sadhastha ā ||आ । त्वा॒ । र॒म्भम् । न । जिव्र॑यः । र॒र॒भ्म । श॒व॒सः॒ । प॒ते॒ ।
उ॒श्मसि॑ । त्वा॒ । स॒धऽस्थे॑ । आ ॥आ । त्वा । रम्भम् । न । जिव्रयः । ररभ्म । शवसः । पते ।
उश्मसि । त्वा । सधऽस्थे । आ ॥ā́ ǀ tvā ǀ rambhám ǀ ná ǀ jívrayaḥ ǀ rarabhmá ǀ śavasaḥ ǀ pate ǀ
uśmási ǀ tvā ǀ sadhá-sthe ǀ ā́ ǁā ǀ tvā ǀ rambham ǀ na ǀ jivrayaḥ ǀ rarabhma ǀ śavasaḥ ǀ pate ǀ
uśmasi ǀ tvā ǀ sadha-sthe ǀ ā ǁ8.45.20 Aṣṭaka 6.3.45.5Anuvāka 8.6.83
-
Ṛk 21
स्तो॒त्रमिंद्रा॑य गायत पुरुनृ॒म्णाय॒ सत्व॑ने ।
नकि॒र्यं वृ॑ण्व॒ते यु॒धि ॥स्तोत्रम् इन्द्राय गायत पुरुनृम्णाय सत्वने |
नकिर् यं वृण्वते युधि ||stotrámíndrāya gāyata purunṛmṇā́ya sátvane ǀ
nákiryám vṛṇvaté yudhí ǁstotram indrāya gāyata purunṛmṇāya satvane |
nakir yaṃ vṛṇvate yudhi ||स्तो॒त्रम् । इन्द्रा॑य । गा॒य॒त॒ । पु॒रु॒ऽनृ॒म्णाय॑ । सत्व॑ने ।
नकिः॑ । यम् । वृ॒ण्व॒ते । यु॒धि ॥स्तोत्रम् । इन्द्राय । गायत । पुरुऽनृम्णाय । सत्वने ।
नकिः । यम् । वृण्वते । युधि ॥stotrám ǀ índrāya ǀ gāyata ǀ puru-nṛmṇā́ya ǀ sátvane ǀ
nákiḥ ǀ yám ǀ vṛṇvaté ǀ yudhí ǁstotram ǀ indrāya ǀ gāyata ǀ puru-nṛmṇāya ǀ satvane ǀ
nakiḥ ǀ yam ǀ vṛṇvate ǀ yudhi ǁ8.45.21 Aṣṭaka 6.3.46.1Anuvāka 8.6.84
-
Ṛk 22
अ॒भि त्वा॑ वृषभा सु॒ते सु॒तं सृ॑जामि पी॒तये॑ ।
तृं॒पा व्य॑श्नुही॒ मदं॑ ॥अभि त्वा वृषभा सुते सुतं सृजामि पीतये |
तृम्पा व्य् अश्नुही मदम् ||abhí tvā vṛṣabhā suté sutám sṛjāmi pītáye ǀ
tṛmpā́ vyáśnuhī mádam ǁabhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye |
tṛmpā vy aśnuhī madam ||अ॒भि । त्वा॒ । वृ॒ष॒भ॒ । सु॒ते । सु॒तम् । सृ॒जा॒मि॒ । पी॒तये॑ ।
तृ॒म्प । वि । अ॒श्नु॒हि॒ । मद॑म् ॥अभि । त्वा । वृषभ । सुते । सुतम् । सृजामि । पीतये ।
तृम्प । वि । अश्नुहि । मदम् ॥abhí ǀ tvā ǀ vṛṣabha ǀ suté ǀ sutám ǀ sṛjāmi ǀ pītáye ǀ
tṛmpá ǀ ví ǀ aśnuhi ǀ mádam ǁabhi ǀ tvā ǀ vṛṣabha ǀ sute ǀ sutam ǀ sṛjāmi ǀ pītaye ǀ
tṛmpa ǀ vi ǀ aśnuhi ǀ madam ǁ8.45.22 Aṣṭaka 6.3.46.2Anuvāka 8.6.85
-
Ṛk 23
मा त्वा॑ मू॒रा अ॑वि॒ष्यवो॒ मोप॒हस्वा॑न॒ आ द॑भन् ।
माकीं॑ ब्रह्म॒द्विषो॑ वनः ॥मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् |
माकीम् ब्रह्मद्विषो वनः ||mā́ tvā mūrā́ aviṣyávo mópahásvāna ā́ dabhan ǀ
mā́kīm brahmadvíṣo vanaḥ ǁmā tvā mūrā aviṣyavo mopahasvāna ā dabhan |
mākīm brahmadviṣo vanaḥ ||मा । त्वा॒ । मू॒राः । अ॒वि॒ष्यवः॑ । मा । उ॒प॒ऽहस्वा॑नः । आ । द॒भ॒न् ।
माकी॑म् । ब्र॒ह्म॒ऽद्विषः॑ । व॒नः॒ ॥मा । त्वा । मूराः । अविष्यवः । मा । उपऽहस्वानः । आ । दभन् ।
माकीम् । ब्रह्मऽद्विषः । वनः ॥mā́ ǀ tvā ǀ mūrā́ḥ ǀ aviṣyávaḥ ǀ mā́ ǀ upa-hásvānaḥ ǀ ā́ ǀ dabhan ǀ
mā́kīm ǀ brahma-dvíṣaḥ ǀ vanaḥ ǁmā ǀ tvā ǀ mūrāḥ ǀ aviṣyavaḥ ǀ mā ǀ upa-hasvānaḥ ǀ ā ǀ dabhan ǀ
mākīm ǀ brahma-dviṣaḥ ǀ vanaḥ ǁ8.45.23 Aṣṭaka 6.3.46.3Anuvāka 8.6.86
-
Ṛk 24
इ॒ह त्वा॒ गोप॑रीणसा म॒हे मं॑दंतु॒ राध॑से ।
सरो॑ गौ॒रो यथा॑ पिब ॥इह त्वा गोपरीणसा महे मन्दन्तु राधसे |
सरो गौरो यथा पिब ||ihá tvā góparīṇasā mahé mandantu rā́dhase ǀ
sáro gauró yáthā piba ǁiha tvā goparīṇasā mahe mandantu rādhase |
saro gauro yathā piba ||इ॒ह । त्वा॒ । गोऽप॑रीणसा । म॒हे । म॒न्द॒न्तु॒ । राध॑से ।
सरः॑ । गौ॒रः । यथा॑ । पि॒ब॒ ॥इह । त्वा । गोऽपरीणसा । महे । मन्दन्तु । राधसे ।
सरः । गौरः । यथा । पिब ॥ihá ǀ tvā ǀ gó-parīṇasā ǀ mahé ǀ mandantu ǀ rā́dhase ǀ
sáraḥ ǀ gauráḥ ǀ yáthā ǀ piba ǁiha ǀ tvā ǀ go-parīṇasā ǀ mahe ǀ mandantu ǀ rādhase ǀ
saraḥ ǀ gauraḥ ǀ yathā ǀ piba ǁ8.45.24 Aṣṭaka 6.3.46.4Anuvāka 8.6.87
-
Ṛk 25
या वृ॑त्र॒हा प॑रा॒वति॒ सना॒ नवा॑ च चुच्यु॒वे ।
ता सं॒सत्सु॒ प्र वो॑चत ॥या वृत्रहा परावति सना नवा च चुच्युवे |
ता संसत्सु प्र वोचत ||yā́ vṛtrahā́ parāváti sánā návā ca cucyuvé ǀ
tā́ saṃsátsu prá vocata ǁyā vṛtrahā parāvati sanā navā ca cucyuve |
tā saṃsatsu pra vocata ||या । वृ॒त्र॒ऽहा । प॒रा॒ऽवति॑ । सना॑ । नवा॑ । च॒ । चु॒च्यु॒वे ।
ता । सं॒सत्ऽसु॑ । प्र । वो॒च॒त॒ ॥या । वृत्रऽहा । पराऽवति । सना । नवा । च । चुच्युवे ।
ता । संसत्ऽसु । प्र । वोचत ॥yā́ ǀ vṛtra-hā́ ǀ parā-váti ǀ sánā ǀ návā ǀ ca ǀ cucyuvé ǀ
tā́ ǀ saṃsát-su ǀ prá ǀ vocata ǁyā ǀ vṛtra-hā ǀ parā-vati ǀ sanā ǀ navā ǀ ca ǀ cucyuve ǀ
tā ǀ saṃsat-su ǀ pra ǀ vocata ǁ8.45.25 Aṣṭaka 6.3.46.5Anuvāka 8.6.88
-
Ṛk 26
अपि॑बत्क॒द्रुवः॑ सु॒तमिंद्रः॑ स॒हस्र॑बाह्वे ।
अत्रा॑देदिष्ट॒ पौंस्यं॑ ॥अपिबत् कद्रुवः सुतम् इन्द्रः सहस्रबाह्वे |
अत्रादेदिष्ट पौंस्यम् ||ápibatkadrúvaḥ sutámíndraḥ sahásrabāhve ǀ
átrādediṣṭa páuṃsyam ǁapibat kadruvaḥ sutam indraḥ sahasrabāhve |
atrādediṣṭa pauṃsyam ||अपि॑बत् । क॒द्रुवः॑ । सु॒तम् । इन्द्रः॑ । स॒हस्र॑ऽबाह्वे ।
अत्र॑ । अ॒दे॒दि॒ष्ट॒ । पौंस्य॑म् ॥अपिबत् । कद्रुवः । सुतम् । इन्द्रः । सहस्रऽबाह्वे ।
अत्र । अदेदिष्ट । पौंस्यम् ॥ápibat ǀ kadrúvaḥ ǀ sutám ǀ índraḥ ǀ sahásra-bāhve ǀ
átra ǀ adediṣṭa ǀ páuṃsyam ǁapibat ǀ kadruvaḥ ǀ sutam ǀ indraḥ ǀ sahasra-bāhve ǀ
atra ǀ adediṣṭa ǀ pauṃsyam ǁ8.45.26 Aṣṭaka 6.3.47.1Anuvāka 8.6.89
-
Ṛk 27
स॒त्यं तत्तु॒र्वशे॒ यदौ॒ विदा॑नो अह्नवा॒य्यं ।
व्या॑नट् तु॒र्वणे॒ शमि॑ ॥सत्यं तत् तुर्वशे यदौ विदानो अह्नवाय्यम् |
व्य् आनट् तुर्वणे शमि ||satyám tátturváśe yádau vídāno ahnavāyyám ǀ
vyā́naṭ turváṇe śámi ǁsatyaṃ tat turvaśe yadau vidāno ahnavāyyam |
vy ānaṭ turvaṇe śami ||स॒त्यम् । तत् । तु॒र्वशे॑ । यदौ॑ । विदा॑नः । अ॒ह्न॒वा॒य्यम् ।
वि । आ॒न॒ट् । तु॒र्वणे॑ । शमि॑ ॥सत्यम् । तत् । तुर्वशे । यदौ । विदानः । अह्नवाय्यम् ।
वि । आनट् । तुर्वणे । शमि ॥satyám ǀ tát ǀ turváśe ǀ yádau ǀ vídānaḥ ǀ ahnavāyyám ǀ
ví ǀ ānaṭ ǀ turváṇe ǀ śámi ǁsatyam ǀ tat ǀ turvaśe ǀ yadau ǀ vidānaḥ ǀ ahnavāyyam ǀ
vi ǀ ānaṭ ǀ turvaṇe ǀ śami ǁ8.45.27 Aṣṭaka 6.3.47.2Anuvāka 8.6.90
-
Ṛk 28
त॒रणिं॑ वो॒ जना॑नां त्र॒दं वाज॑स्य॒ गोम॑तः ।
स॒मा॒नमु॒ प्र शं॑सिषं ॥तरणिं वो जनानां त्रदं वाजस्य गोमतः |
समानम् उ प्र शंसिषम् ||taráṇim vo jánānām tradám vā́jasya gómataḥ ǀ
samānámu prá śaṃsiṣam ǁtaraṇiṃ vo janānāṃ tradaṃ vājasya gomataḥ |
samānam u pra śaṃsiṣam ||त॒रणि॑म् । वः॒ । जना॑नाम् । त्र॒दम् । वाज॑स्य । गोऽम॑तः ।
स॒मा॒नम् । ऊं॒ इति॑ । प्र । शं॒सि॒ष॒म् ॥तरणिम् । वः । जनानाम् । त्रदम् । वाजस्य । गोऽमतः ।
समानम् । ऊं इति । प्र । शंसिषम् ॥taráṇim ǀ vaḥ ǀ jánānām ǀ tradám ǀ vā́jasya ǀ gó-mataḥ ǀ
samānám ǀ ūṃ íti ǀ prá ǀ śaṃsiṣam ǁtaraṇim ǀ vaḥ ǀ janānām ǀ tradam ǀ vājasya ǀ go-mataḥ ǀ
samānam ǀ ūṃ iti ǀ pra ǀ śaṃsiṣam ǁ8.45.28 Aṣṭaka 6.3.47.3Anuvāka 8.6.91
-
Ṛk 29
ऋ॒भु॒क्षणं॒ न वर्त॑व उ॒क्थेषु॑ तुग्र्या॒वृधं॑ ।
इंद्रं॒ सोमे॒ सचा॑ सु॒ते ॥ऋभुक्षणं न वर्तव उक्थेषु तुग्र्यावृधम् |
इन्द्रं सोमे सचा सुते ||ṛbhukṣáṇam ná vártava ukthéṣu tugryāvṛ́dham ǀ
índram sóme sácā suté ǁṛbhukṣaṇaṃ na vartava uktheṣu tugryāvṛdham |
indraṃ some sacā sute ||ऋ॒भु॒क्षण॑म् । न । वर्त॑वे । उ॒क्थेषु॑ । तु॒ग्र्य॒ऽवृध॑म् ।
इन्द्र॑म् । सोमे॑ । सचा॑ । सु॒ते ॥ऋभुक्षणम् । न । वर्तवे । उक्थेषु । तुग्र्यऽवृधम् ।
इन्द्रम् । सोमे । सचा । सुते ॥ṛbhukṣáṇam ǀ ná ǀ vártave ǀ ukthéṣu ǀ tugrya-vṛ́dham ǀ
índram ǀ sóme ǀ sácā ǀ suté ǁṛbhukṣaṇam ǀ na ǀ vartave ǀ uktheṣu ǀ tugrya-vṛdham ǀ
indram ǀ some ǀ sacā ǀ sute ǁ8.45.29 Aṣṭaka 6.3.47.4Anuvāka 8.6.92
-
Ṛk 30
यः कृं॒तदिद्वि यो॒न्यं त्रि॒शोका॑य गि॒रिं पृ॒थुं ।
गोभ्यो॑ गा॒तुं निरे॑तवे ॥यः कृन्तद् इद् वि योन्यं त्रिशोकाय गिरिम् पृथुम् |
गोभ्यो गातुं निरेतवे ||yáḥ kṛntádídví yonyám triśókāya girím pṛthúm ǀ
góbhyo gātúm níretave ǁyaḥ kṛntad id vi yonyaṃ triśokāya girim pṛthum |
gobhyo gātuṃ niretave ||यः । कृ॒न्तत् । इत् । वि । यो॒न्यम् । त्रि॒ऽशोका॑य । गि॒रिम् । पृ॒थुम् ।
गोभ्यः॑ । गा॒तुम् । निःऽए॑तवे ॥यः । कृन्तत् । इत् । वि । योन्यम् । त्रिऽशोकाय । गिरिम् । पृथुम् ।
गोभ्यः । गातुम् । निःऽएतवे ॥yáḥ ǀ kṛntát ǀ ít ǀ ví ǀ yonyám ǀ tri-śókāya ǀ girím ǀ pṛthúm ǀ
góbhyaḥ ǀ gātúm ǀ níḥ-etave ǁyaḥ ǀ kṛntat ǀ it ǀ vi ǀ yonyam ǀ tri-śokāya ǀ girim ǀ pṛthum ǀ
gobhyaḥ ǀ gātum ǀ niḥ-etave ǁ8.45.30 Aṣṭaka 6.3.47.5Anuvāka 8.6.93
-
Ṛk 31
यद्द॑धि॒षे म॑न॒स्यसि॑ मंदा॒नः प्रेदिय॑क्षसि ।
मा तत्क॑रिंद्र मृ॒ळय॑ ॥यद् दधिषे मनस्यसि मन्दानः प्रेद् इयक्षसि |
मा तत् कर् इन्द्र मृऌअय ||yáddadhiṣé manasyási mandānáḥ prédíyakṣasi ǀ
mā́ tátkarindra mṛḷáya ǁyad dadhiṣe manasyasi mandānaḥ pred iyakṣasi |
mā tat kar indra mṛḷaya ||यत् । द॒धि॒षे । म॒न॒स्यसि॑ । म॒न्दा॒नः । प्र । इत् । इय॑क्षसि ।
मा । तत् । कः॒ । इ॒न्द्र॒ । मृ॒ळय॑ ॥यत् । दधिषे । मनस्यसि । मन्दानः । प्र । इत् । इयक्षसि ।
मा । तत् । कः । इन्द्र । मृळय ॥yát ǀ dadhiṣé ǀ manasyási ǀ mandānáḥ ǀ prá ǀ ít ǀ íyakṣasi ǀ
mā́ ǀ tát ǀ kaḥ ǀ indra ǀ mṛḷáya ǁyat ǀ dadhiṣe ǀ manasyasi ǀ mandānaḥ ǀ pra ǀ it ǀ iyakṣasi ǀ
mā ǀ tat ǀ kaḥ ǀ indra ǀ mṛḷaya ǁ8.45.31 Aṣṭaka 6.3.48.1Anuvāka 8.6.94
-
Ṛk 32
द॒भ्रं चि॒द्धि त्वाव॑तः कृ॒तं शृ॒ण्वे अधि॒ क्षमि॑ ।
जिगा॑त्विंद्र ते॒ मनः॑ ॥दभ्रं चिद् धि त्वावतः कृतं शृण्वे अधि क्षमि |
जिगात्व् इन्द्र ते मनः ||dabhrám ciddhí tvā́vataḥ kṛtám śṛṇvé ádhi kṣámi ǀ
jígātvindra te mánaḥ ǁdabhraṃ cid dhi tvāvataḥ kṛtaṃ śṛṇve adhi kṣami |
jigātv indra te manaḥ ||द॒भ्रम् । चि॒त् । हि । त्वाऽव॑तः । कृ॒तम् । शृ॒ण्वे । अधि॑ । क्षमि॑ ।
जिगा॑तु । इ॒न्द्र॒ । ते॒ । मनः॑ ॥दभ्रम् । चित् । हि । त्वाऽवतः । कृतम् । शृण्वे । अधि । क्षमि ।
जिगातु । इन्द्र । ते । मनः ॥dabhrám ǀ cit ǀ hí ǀ tvā́-vataḥ ǀ kṛtám ǀ śṛṇvé ǀ ádhi ǀ kṣámi ǀ
jígātu ǀ indra ǀ te ǀ mánaḥ ǁdabhram ǀ cit ǀ hi ǀ tvā-vataḥ ǀ kṛtam ǀ śṛṇve ǀ adhi ǀ kṣami ǀ
jigātu ǀ indra ǀ te ǀ manaḥ ǁ8.45.32 Aṣṭaka 6.3.48.2Anuvāka 8.6.95
-
Ṛk 33
तवेदु॒ ताः सु॑की॒र्तयोऽस॑न्नु॒त प्रश॑स्तयः ।
यदिं॑द्र मृ॒ळया॑सि नः ॥तवेद् उ ताः सुकीर्तयो ऽसन्न् उत प्रशस्तयः |
यद् इन्द्र मृऌअयासि नः ||távédu tā́ḥ sukīrtáyó’sannutá práśastayaḥ ǀ
yádindra mṛḷáyāsi naḥ ǁtaved u tāḥ sukīrtayo 'sann uta praśastayaḥ |
yad indra mṛḷayāsi naḥ ||तव॑ । इत् । ऊं॒ इति॑ । ताः । सु॒ऽकी॒र्तयः॑ । अस॑न् । उ॒त । प्रऽश॑स्तयः ।
यत् । इ॒न्द्र॒ । मृ॒ळया॑सि । नः॒ ॥तव । इत् । ऊं इति । ताः । सुऽकीर्तयः । असन् । उत । प्रऽशस्तयः ।
यत् । इन्द्र । मृळयासि । नः ॥táva ǀ ít ǀ ūṃ íti ǀ tā́ḥ ǀ su-kīrtáyaḥ ǀ ásan ǀ utá ǀ prá-śastayaḥ ǀ
yát ǀ indra ǀ mṛḷáyāsi ǀ naḥ ǁtava ǀ it ǀ ūṃ iti ǀ tāḥ ǀ su-kīrtayaḥ ǀ asan ǀ uta ǀ pra-śastayaḥ ǀ
yat ǀ indra ǀ mṛḷayāsi ǀ naḥ ǁ8.45.33 Aṣṭaka 6.3.48.3Anuvāka 8.6.96
-
Ṛk 34
मा न॒ एक॑स्मि॒न्नाग॑सि॒ मा द्वयो॑रु॒त त्रि॒षु ।
वधी॒र्मा शू॑र॒ भूरि॑षु ॥मा न एकस्मिन्न् आगसि मा द्वयोर् उत त्रिषु |
वधीर् मा शूर भूरिषु ||mā́ na ékasminnā́gasi mā́ dváyorutá triṣú ǀ
vádhīrmā́ śūra bhū́riṣu ǁmā na ekasminn āgasi mā dvayor uta triṣu |
vadhīr mā śūra bhūriṣu ||मा । नः॒ । एक॑स्मिन् । आग॑सि । मा । द्वयोः॑ । उ॒त । त्रि॒षु ।
वधीः॑ । मा । शू॒र॒ । भूरि॑षु ॥मा । नः । एकस्मिन् । आगसि । मा । द्वयोः । उत । त्रिषु ।
वधीः । मा । शूर । भूरिषु ॥mā́ ǀ naḥ ǀ ékasmin ǀ ā́gasi ǀ mā́ ǀ dváyoḥ ǀ utá ǀ triṣú ǀ
vádhīḥ ǀ mā́ ǀ śūra ǀ bhū́riṣu ǁmā ǀ naḥ ǀ ekasmin ǀ āgasi ǀ mā ǀ dvayoḥ ǀ uta ǀ triṣu ǀ
vadhīḥ ǀ mā ǀ śūra ǀ bhūriṣu ǁ8.45.34 Aṣṭaka 6.3.48.4Anuvāka 8.6.97
-
Ṛk 35
बि॒भया॒ हि त्वाव॑त उ॒ग्राद॑भिप्रभं॒गिणः॑ ।
द॒स्माद॒हमृ॑ती॒षहः॑ ॥बिभया हि त्वावत उग्राद् अभिप्रभङ्गिणः |
दस्माद् अहम् ऋतीषहः ||bibháyā hí tvā́vata ugrā́dabhiprabhaṅgíṇaḥ ǀ
dasmā́dahámṛtīṣáhaḥ ǁbibhayā hi tvāvata ugrād abhiprabhaṅgiṇaḥ |
dasmād aham ṛtīṣahaḥ ||बि॒भय॑ । हि । त्वाऽव॑तः । उ॒ग्रात् । अ॒भि॒ऽप्र॒भ॒ङ्गिनः॑ ।
द॒स्मात् । अ॒हम् । ऋ॒ति॒ऽसहः॑ ॥बिभय । हि । त्वाऽवतः । उग्रात् । अभिऽप्रभङ्गिनः ।
दस्मात् । अहम् । ऋतिऽसहः ॥bibháya ǀ hí ǀ tvā́-vataḥ ǀ ugrā́t ǀ abhi-prabhaṅgínaḥ ǀ
dasmā́t ǀ ahám ǀ ṛti-sáhaḥ ǁbibhaya ǀ hi ǀ tvā-vataḥ ǀ ugrāt ǀ abhi-prabhaṅginaḥ ǀ
dasmāt ǀ aham ǀ ṛti-sahaḥ ǁ8.45.35 Aṣṭaka 6.3.48.5Anuvāka 8.6.98
-
Ṛk 36
मा सख्युः॒ शून॒मा वि॑दे॒ मा पु॒त्रस्य॑ प्रभूवसो ।
आ॒वृत्व॑द्भूतु ते॒ मनः॑ ॥मा सख्युः शूनम् आ विदे मा पुत्रस्य प्रभूवसो |
आवृत्वद् भूतु ते मनः ||mā́ sákhyuḥ śū́namā́ vide mā́ putrásya prabhūvaso ǀ
āvṛ́tvadbhūtu te mánaḥ ǁmā sakhyuḥ śūnam ā vide mā putrasya prabhūvaso |
āvṛtvad bhūtu te manaḥ ||मा । सख्युः॑ । शून॑म् । आ । वि॒दे॒ । मा । पु॒त्रस्य॑ । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो ।
आ॒ऽवृत्व॑त् । भू॒तु॒ । ते॒ । मनः॑ ॥मा । सख्युः । शूनम् । आ । विदे । मा । पुत्रस्य । प्रभुवसो इति प्रभुऽवसो ।
आऽवृत्वत् । भूतु । ते । मनः ॥mā́ ǀ sákhyuḥ ǀ śū́nam ǀ ā́ ǀ vide ǀ mā́ ǀ putrásya ǀ prabhuvaso íti prabhu-vaso ǀ
ā-vṛ́tvat ǀ bhūtu ǀ te ǀ mánaḥ ǁmā ǀ sakhyuḥ ǀ śūnam ǀ ā ǀ vide ǀ mā ǀ putrasya ǀ prabhuvaso iti prabhu-vaso ǀ
ā-vṛtvat ǀ bhūtu ǀ te ǀ manaḥ ǁ8.45.36 Aṣṭaka 6.3.49.1Anuvāka 8.6.99
-
Ṛk 37
को नु म॑र्या॒ अमि॑थितः॒ सखा॒ सखा॑यमब्रवीत् ।
ज॒हा को अ॒स्मदी॑षते ॥को नु मर्या अमिथितः सखा सखायम् अब्रवीत् |
जहा को अस्मद् ईषते ||kó nú maryā ámithitaḥ sákhā sákhāyamabravīt ǀ
jahā́ kó asmádīṣate ǁko nu maryā amithitaḥ sakhā sakhāyam abravīt |
jahā ko asmad īṣate ||कः । नु । म॒र्याः॒ । अमि॑थितः । सखा॑ । सखा॑यम् । अ॒ब्र॒वी॒त् ।
ज॒हा । कः । अ॒स्मत् । ई॒ष॒ते॒ ॥कः । नु । मर्याः । अमिथितः । सखा । सखायम् । अब्रवीत् ।
जहा । कः । अस्मत् । ईषते ॥káḥ ǀ nú ǀ maryāḥ ǀ ámithitaḥ ǀ sákhā ǀ sákhāyam ǀ abravīt ǀ
jahā́ ǀ káḥ ǀ asmát ǀ īṣate ǁkaḥ ǀ nu ǀ maryāḥ ǀ amithitaḥ ǀ sakhā ǀ sakhāyam ǀ abravīt ǀ
jahā ǀ kaḥ ǀ asmat ǀ īṣate ǁ8.45.37 Aṣṭaka 6.3.49.2Anuvāka 8.6.100
-
Ṛk 38
ए॒वारे॑ वृषभा सु॒तेऽसि॑न्व॒न्भूर्या॑वयः ।
श्व॒घ्नीव॑ नि॒वता॒ चर॑न् ॥एवारे वृषभा सुते ऽसिन्वन् भूर्य् आवयः |
श्वघ्नीव निवता चरन् ||evā́re vṛṣabhā suté’sinvanbhū́ryāvayaḥ ǀ
śvaghnī́va nivátā cáran ǁevāre vṛṣabhā sute 'sinvan bhūry āvayaḥ |
śvaghnīva nivatā caran ||ए॒वारे॑ । वृ॒ष॒भ॒ । सु॒ते । असि॑न्वन् । भूरि॑ । आ॒व॒यः॒ ।
श्व॒घ्नीऽइ॑व । नि॒ऽवता॑ । चर॑न् ॥एवारे । वृषभ । सुते । असिन्वन् । भूरि । आवयः ।
श्वघ्नीऽइव । निऽवता । चरन् ॥evā́re ǀ vṛṣabha ǀ suté ǀ ásinvan ǀ bhū́ri ǀ āvayaḥ ǀ
śvaghnī́-iva ǀ ni-vátā ǀ cáran ǁevāre ǀ vṛṣabha ǀ sute ǀ asinvan ǀ bhūri ǀ āvayaḥ ǀ
śvaghnī-iva ǀ ni-vatā ǀ caran ǁ8.45.38 Aṣṭaka 6.3.49.3Anuvāka 8.6.101
-
Ṛk 39
आ त॑ ए॒ता व॑चो॒युजा॒ हरी॑ गृभ्णे सु॒मद्र॑था ।
यदीं॑ ब्र॒ह्मभ्य॒ इद्ददः॑ ॥आ त एता वचोयुजा हरी गृभ्णे सुमद्रथा |
यद् ईम् ब्रह्मभ्य इद् ददः ||ā́ ta etā́ vacoyújā hárī gṛbhṇe sumádrathā ǀ
yádīm brahmábhya íddádaḥ ǁā ta etā vacoyujā harī gṛbhṇe sumadrathā |
yad īm brahmabhya id dadaḥ ||आ । ते॒ । ए॒ता । व॒चः॒ऽयुजा॑ । हरी॒ इति॑ । गृ॒भ्णे॒ । सु॒मत्ऽर॑था ।
यत् । ई॒म् । ब्र॒ह्मऽभ्यः॑ । इत् । ददः॑ ॥आ । ते । एता । वचःऽयुजा । हरी इति । गृभ्णे । सुमत्ऽरथा ।
यत् । ईम् । ब्रह्मऽभ्यः । इत् । ददः ॥ā́ ǀ te ǀ etā́ ǀ vacaḥ-yújā ǀ hárī íti ǀ gṛbhṇe ǀ sumát-rathā ǀ
yát ǀ īm ǀ brahmá-bhyaḥ ǀ ít ǀ dádaḥ ǁā ǀ te ǀ etā ǀ vacaḥ-yujā ǀ harī iti ǀ gṛbhṇe ǀ sumat-rathā ǀ
yat ǀ īm ǀ brahma-bhyaḥ ǀ it ǀ dadaḥ ǁ8.45.39 Aṣṭaka 6.3.49.4Anuvāka 8.6.102
-
Ṛk 40
भिं॒धि विश्वा॒ अप॒ द्विषः॒ परि॒ बाधो॑ ज॒ही मृधः॑ ।
वसु॑ स्पा॒र्हं तदा भ॑र ॥भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः |
वसु स्पार्हं तद् आ भर ||bhindhí víśvā ápa dvíṣaḥ pári bā́dho jahī́ mṛ́dhaḥ ǀ
vásu spārhám tádā́ bhara ǁbhindhi viśvā apa dviṣaḥ pari bādho jahī mṛdhaḥ |
vasu spārhaṃ tad ā bhara ||भि॒न्धि । विश्वाः॑ । अप॑ । द्विषः॑ । परि॑ । बाधः॑ । ज॒हि । मृधः॑ ।
वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥भिन्धि । विश्वाः । अप । द्विषः । परि । बाधः । जहि । मृधः ।
वसु । स्पार्हम् । तत् । आ । भर ॥bhindhí ǀ víśvāḥ ǀ ápa ǀ dvíṣaḥ ǀ pári ǀ bā́dhaḥ ǀ jahí ǀ mṛ́dhaḥ ǀ
vásu ǀ spārhám ǀ tát ǀ ā́ ǀ bhara ǁbhindhi ǀ viśvāḥ ǀ apa ǀ dviṣaḥ ǀ pari ǀ bādhaḥ ǀ jahi ǀ mṛdhaḥ ǀ
vasu ǀ spārham ǀ tat ǀ ā ǀ bhara ǁ8.45.40 Aṣṭaka 6.3.49.5Anuvāka 8.6.103
-
Ṛk 41
यद्वी॒ळाविं॑द्र॒ यत्स्थि॒रे यत्पर्शा॑ने॒ परा॑भृतं ।
वसु॑ स्पा॒र्हं तदा भ॑र ॥यद् वीऌआव् इन्द्र यत् स्थिरे यत् पर्शाने पराभृतम् |
वसु स्पार्हं तद् आ भर ||yádvīḷā́vindra yátsthiré yátpárśāne párābhṛtam ǀ
vásu spārhám tádā́ bhara ǁyad vīḷāv indra yat sthire yat parśāne parābhṛtam |
vasu spārhaṃ tad ā bhara ||यत् । वी॒ळौ । इ॒न्द्र॒ । यत् । स्थि॒रे । यत् । पर्शा॑ने । परा॑ऽभृतम् ।
वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥यत् । वीळौ । इन्द्र । यत् । स्थिरे । यत् । पर्शाने । पराऽभृतम् ।
वसु । स्पार्हम् । तत् । आ । भर ॥yát ǀ vīḷáu ǀ indra ǀ yát ǀ sthiré ǀ yát ǀ párśāne ǀ párā-bhṛtam ǀ
vásu ǀ spārhám ǀ tát ǀ ā́ ǀ bhara ǁyat ǀ vīḷau ǀ indra ǀ yat ǀ sthire ǀ yat ǀ parśāne ǀ parā-bhṛtam ǀ
vasu ǀ spārham ǀ tat ǀ ā ǀ bhara ǁ8.45.41 Aṣṭaka 6.3.49.6Anuvāka 8.6.104
-
Ṛk 42
यस्य॑ ते वि॒श्वमा॑नुषो॒ भूरे॑र्द॒त्तस्य॒ वेद॑ति ।
वसु॑ स्पा॒र्हं तदा भ॑र ॥यस्य ते विश्वमानुषो भूरेर् दत्तस्य वेदति |
वसु स्पार्हं तद् आ भर ||yásya te viśvámānuṣo bhū́rerdattásya védati ǀ
vásu spārhám tádā́ bhara ǁyasya te viśvamānuṣo bhūrer dattasya vedati |
vasu spārhaṃ tad ā bhara ||यस्य॑ । ते॒ । वि॒श्वऽमा॑नुषः । भूरेः॑ । द॒त्तस्य॑ । वेद॑ति ।
वसु॑ । स्पा॒र्हम् । तत् । आ । भ॒र॒ ॥यस्य । ते । विश्वऽमानुषः । भूरेः । दत्तस्य । वेदति ।
वसु । स्पार्हम् । तत् । आ । भर ॥yásya ǀ te ǀ viśvá-mānuṣaḥ ǀ bhū́reḥ ǀ dattásya ǀ védati ǀ
vásu ǀ spārhám ǀ tát ǀ ā́ ǀ bhara ǁyasya ǀ te ǀ viśva-mānuṣaḥ ǀ bhūreḥ ǀ dattasya ǀ vedati ǀ
vasu ǀ spārham ǀ tat ǀ ā ǀ bhara ǁ8.45.42 Aṣṭaka 6.3.49.7Anuvāka 8.6.105
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.