Sūkta 15
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Aśvasūktin Kāṇvāyana; Goṣūktin Kāṇvāyana
- Chandas छन्दस्
- Uṣṇih
Metres by ṛk
1st set of styles nicṛduṣṇik (1-3, 5-7, 11, 13); virāḍuṣnik (8, 12); pādanicṛduṣṇik (9, 10); uṣṇik (4)
2nd set of styles uṣṇih
-
Ṛk 1
तम्व॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टु॒तं ।
इंद्रं॑ गी॒र्भिस्त॑वि॒षमा वि॑वासत ॥तम् व् अभि प्र गायत पुरुहूतम् पुरुष्टुतम् |
इन्द्रं गीर्भिस् तविषम् आ विवासत ||támvabhí prá gāyata puruhūtám puruṣṭutám ǀ
índram gīrbhístaviṣámā́ vivāsata ǁtam v abhi pra gāyata puruhūtam puruṣṭutam |
indraṃ gīrbhis taviṣam ā vivāsata ||तम् । ऊं॒ इति॑ । अ॒भि । प्र । गा॒य॒त॒ । पु॒रु॒ऽहू॒तम् । पु॒रु॒ऽस्तु॒तम् ।
इन्द्र॑म् । गीः॒ऽभिः । त॒वि॒षम् । आ । वि॒वा॒स॒त॒ ॥तम् । ऊं इति । अभि । प्र । गायत । पुरुऽहूतम् । पुरुऽस्तुतम् ।
इन्द्रम् । गीःऽभिः । तविषम् । आ । विवासत ॥tám ǀ ūṃ íti ǀ abhí ǀ prá ǀ gāyata ǀ puru-hūtám ǀ puru-stutám ǀ
índram ǀ gīḥ-bhíḥ ǀ taviṣám ǀ ā́ ǀ vivāsata ǁtam ǀ ūṃ iti ǀ abhi ǀ pra ǀ gāyata ǀ puru-hūtam ǀ puru-stutam ǀ
indram ǀ gīḥ-bhiḥ ǀ taviṣam ǀ ā ǀ vivāsata ǁ8.15.1 Aṣṭaka 6.1.17.1Anuvāka 8.3.49
-
Ṛk 2
यस्य॑ द्वि॒बर्ह॑सो बृ॒हत्सहो॑ दा॒धार॒ रोद॑सी ।
गि॒रीँरज्राँ॑ अ॒पः स्व॑र्वृषत्व॒ना ॥यस्य द्विबर्हसो बृहत् सहो दाधार रोदसी |
गिरींर् अज्रां अपः स्वर् वृषत्वना ||yásya dvibárhaso bṛhátsáho dādhā́ra ródasī ǀ
girī́m̐rájrām̐ apáḥ svárvṛṣatvanā́ ǁyasya dvibarhaso bṛhat saho dādhāra rodasī |
girīṃr ajrāṃ apaḥ svar vṛṣatvanā ||यस्य॑ । द्वि॒ऽबर्ह॑सः । बृ॒हत् । सहः॑ । दा॒धार॑ । रोद॑सी॒ इति॑ ।
गि॒रीन् । अज्रा॑न् । अ॒पः । स्वः॑ । वृ॒ष॒ऽत्व॒ना ॥यस्य । द्विऽबर्हसः । बृहत् । सहः । दाधार । रोदसी इति ।
गिरीन् । अज्रान् । अपः । स्वः । वृषऽत्वना ॥yásya ǀ dvi-bárhasaḥ ǀ bṛhát ǀ sáhaḥ ǀ dādhā́ra ǀ ródasī íti ǀ
girī́n ǀ ájrān ǀ apáḥ ǀ sváḥ ǀ vṛṣa-tvanā́ ǁyasya ǀ dvi-barhasaḥ ǀ bṛhat ǀ sahaḥ ǀ dādhāra ǀ rodasī iti ǀ
girīn ǀ ajrān ǀ apaḥ ǀ svaḥ ǀ vṛṣa-tvanā ǁ8.15.2 Aṣṭaka 6.1.17.2Anuvāka 8.3.50
-
Ṛk 3
स रा॑जसि पुरुष्टुतँ॒ एको॑ वृ॒त्राणि॑ जिघ्नसे ।
इंद्र॒ जैत्रा॑ श्रव॒स्या॑ च॒ यंत॑वे ॥स राजसि पुरुष्टुतं एको वृत्राणि जिघ्नसे |
इन्द्र जैत्रा श्रवस्या च यन्तवे ||sá rājasi puruṣṭutam̐ éko vṛtrā́ṇi jighnase ǀ
índra jáitrā śravasyā́ ca yántave ǁsa rājasi puruṣṭutaṃ eko vṛtrāṇi jighnase |
indra jaitrā śravasyā ca yantave ||सः । रा॒ज॒सि॒ । पु॒रु॒ऽस्तु॒त॒ । एकः॑ । वृ॒त्राणि॑ । जि॒घ्न॒से॒ ।
इन्द्र॑ । जैत्रा॑ । श्र॒व॒स्या॑ । च॒ । यन्त॑वे ॥सः । राजसि । पुरुऽस्तुत । एकः । वृत्राणि । जिघ्नसे ।
इन्द्र । जैत्रा । श्रवस्या । च । यन्तवे ॥sáḥ ǀ rājasi ǀ puru-stuta ǀ ékaḥ ǀ vṛtrā́ṇi ǀ jighnase ǀ
índra ǀ jáitrā ǀ śravasyā́ ǀ ca ǀ yántave ǁsaḥ ǀ rājasi ǀ puru-stuta ǀ ekaḥ ǀ vṛtrāṇi ǀ jighnase ǀ
indra ǀ jaitrā ǀ śravasyā ǀ ca ǀ yantave ǁ8.15.3 Aṣṭaka 6.1.17.3Anuvāka 8.3.51
-
Ṛk 4
तं ते॒ मदं॑ गृणीमसि॒ वृष॑णं पृ॒त्सु सा॑स॒हिं ।
उ॒ लो॒क॒कृ॒त्नुम॑द्रिवो हरि॒श्रियं॑ ॥तं ते मदं गृणीमसि वृषणम् पृत्सु सासहिम् |
उ लोककृत्नुम् अद्रिवो हरिश्रियम् ||tám te mádam gṛṇīmasi vṛ́ṣaṇam pṛtsú sāsahím ǀ
u lokakṛtnúmadrivo hariśríyam ǁtaṃ te madaṃ gṛṇīmasi vṛṣaṇam pṛtsu sāsahim |
u lokakṛtnum adrivo hariśriyam ||तम् । ते॒ । मद॑म् । गृ॒णी॒म॒सि॒ । वृष॑णम् । पृ॒त्ऽसु । स॒स॒हिम् ।
ऊं॒ इति॑ । लो॒क॒ऽकृ॒त्नुम् । अ॒द्रि॒ऽवः॒ । ह॒रि॒ऽश्रिय॑म् ॥तम् । ते । मदम् । गृणीमसि । वृषणम् । पृत्ऽसु । ससहिम् ।
ऊं इति । लोकऽकृत्नुम् । अद्रिऽवः । हरिऽश्रियम् ॥tám ǀ te ǀ mádam ǀ gṛṇīmasi ǀ vṛ́ṣaṇam ǀ pṛt-sú ǀ sasahím ǀ
ūṃ íti ǀ loka-kṛtnúm ǀ adri-vaḥ ǀ hari-śríyam ǁtam ǀ te ǀ madam ǀ gṛṇīmasi ǀ vṛṣaṇam ǀ pṛt-su ǀ sasahim ǀ
ūṃ iti ǀ loka-kṛtnum ǀ adri-vaḥ ǀ hari-śriyam ǁ8.15.4 Aṣṭaka 6.1.17.4Anuvāka 8.3.52
-
Ṛk 5
येन॒ ज्योतीं॑ष्या॒यवे॒ मन॑वे च वि॒वेदि॑थ ।
मं॒दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥येन ज्योतींष्य् आयवे मनवे च विवेदिथ |
मन्दानो अस्य बर्हिषो वि राजसि ||yéna jyótīṃṣyāyáve mánave ca vivéditha ǀ
mandānó asyá barhíṣo ví rājasi ǁyena jyotīṃṣy āyave manave ca viveditha |
mandāno asya barhiṣo vi rājasi ||येन॑ । ज्योतीं॑षि । आ॒यवे॑ । मन॑वे । च॒ । वि॒वेदि॑थ ।
म॒न्दा॒नः । अ॒स्य । ब॒र्हिषः॑ । वि । रा॒ज॒सि॒ ॥येन । ज्योतींषि । आयवे । मनवे । च । विवेदिथ ।
मन्दानः । अस्य । बर्हिषः । वि । राजसि ॥yéna ǀ jyótīṃṣi ǀ āyáve ǀ mánave ǀ ca ǀ vivéditha ǀ
mandānáḥ ǀ asyá ǀ barhíṣaḥ ǀ ví ǀ rājasi ǁyena ǀ jyotīṃṣi ǀ āyave ǀ manave ǀ ca ǀ viveditha ǀ
mandānaḥ ǀ asya ǀ barhiṣaḥ ǀ vi ǀ rājasi ǁ8.15.5 Aṣṭaka 6.1.17.5Anuvāka 8.3.53
-
Ṛk 6
तद॒द्या चि॑त्त उ॒क्थिनोऽनु॑ ष्टुवंति पू॒र्वथा॑ ।
वृष॑पत्नीर॒पो ज॑या दि॒वेदि॑वे ॥तद् अद्या चित् त उक्थिनो ऽनु ष्टुवन्ति पूर्वथा |
वृषपत्नीर् अपो जया दिवे-दिवे ||tádadyā́ citta ukthínó’nu ṣṭuvanti pūrváthā ǀ
vṛ́ṣapatnīrapó jayā divédive ǁtad adyā cit ta ukthino 'nu ṣṭuvanti pūrvathā |
vṛṣapatnīr apo jayā dive-dive ||तत् । अ॒द्य । चि॒त् । ते॒ । उ॒क्थिनः॑ । अनु॑ । स्तु॒व॒न्ति॒ । पू॒र्वऽथा॑ ।
वृष॑ऽपत्नीः । अ॒पः । ज॒य॒ । दि॒वेऽदि॑वे ॥तत् । अद्य । चित् । ते । उक्थिनः । अनु । स्तुवन्ति । पूर्वऽथा ।
वृषऽपत्नीः । अपः । जय । दिवेऽदिवे ॥tát ǀ adyá ǀ cit ǀ te ǀ ukthínaḥ ǀ ánu ǀ stuvanti ǀ pūrvá-thā ǀ
vṛ́ṣa-patnīḥ ǀ apáḥ ǀ jaya ǀ divé-dive ǁtat ǀ adya ǀ cit ǀ te ǀ ukthinaḥ ǀ anu ǀ stuvanti ǀ pūrva-thā ǀ
vṛṣa-patnīḥ ǀ apaḥ ǀ jaya ǀ dive-dive ǁ8.15.6 Aṣṭaka 6.1.18.1Anuvāka 8.3.54
-
Ṛk 7
तव॒ त्यदिं॑द्रि॒यं बृ॒हत्तव॒ शुष्म॑मु॒त क्रतुं॑ ।
वज्रं॑ शिशाति धि॒षणा॒ वरे॑ण्यं ॥तव त्यद् इन्द्रियम् बृहत् तव शुष्मम् उत क्रतुम् |
वज्रं शिशाति धिषणा वरेण्यम् ||táva tyádindriyám bṛháttáva śúṣmamutá krátum ǀ
vájram śiśāti dhiṣáṇā váreṇyam ǁtava tyad indriyam bṛhat tava śuṣmam uta kratum |
vajraṃ śiśāti dhiṣaṇā vareṇyam ||तव॑ । त्यत् । इ॒न्द्रि॒यम् । बृ॒हत् । तव॑ । शुष्म॑म् । उ॒त । क्रतु॑म् ।
वज्र॑म् । शि॒शा॒ति॒ । धि॒षणा॑ । वरे॑ण्यम् ॥तव । त्यत् । इन्द्रियम् । बृहत् । तव । शुष्मम् । उत । क्रतुम् ।
वज्रम् । शिशाति । धिषणा । वरेण्यम् ॥táva ǀ tyát ǀ indriyám ǀ bṛhát ǀ táva ǀ śúṣmam ǀ utá ǀ krátum ǀ
vájram ǀ śiśāti ǀ dhiṣáṇā ǀ váreṇyam ǁtava ǀ tyat ǀ indriyam ǀ bṛhat ǀ tava ǀ śuṣmam ǀ uta ǀ kratum ǀ
vajram ǀ śiśāti ǀ dhiṣaṇā ǀ vareṇyam ǁ8.15.7 Aṣṭaka 6.1.18.2Anuvāka 8.3.55
-
Ṛk 8
तव॒ द्यौरिं॑द्र॒ पौंस्यं॑ पृथि॒वी व॑र्धति॒ श्रवः॑ ।
त्वामापः॒ पर्व॑तासश्च हिन्विरे ॥तव द्यौर् इन्द्र पौंस्यम् पृथिवी वर्धति श्रवः |
त्वाम् आपः पर्वतासश् च हिन्विरे ||táva dyáurindra páuṃsyam pṛthivī́ vardhati śrávaḥ ǀ
tvā́mā́paḥ párvatāsaśca hinvire ǁtava dyaur indra pauṃsyam pṛthivī vardhati śravaḥ |
tvām āpaḥ parvatāsaś ca hinvire ||तव॑ । द्यौः । इ॒न्द्र॒ । पौंस्य॑म् । पृ॒थि॒वी । व॒र्ध॒ति॒ । श्रवः॑ ।
त्वाम् । आपः॑ । पर्व॑तासः । च॒ । हि॒न्वि॒रे॒ ॥तव । द्यौः । इन्द्र । पौंस्यम् । पृथिवी । वर्धति । श्रवः ।
त्वाम् । आपः । पर्वतासः । च । हिन्विरे ॥táva ǀ dyáuḥ ǀ indra ǀ páuṃsyam ǀ pṛthivī́ ǀ vardhati ǀ śrávaḥ ǀ
tvā́m ǀ ā́paḥ ǀ párvatāsaḥ ǀ ca ǀ hinvire ǁtava ǀ dyauḥ ǀ indra ǀ pauṃsyam ǀ pṛthivī ǀ vardhati ǀ śravaḥ ǀ
tvām ǀ āpaḥ ǀ parvatāsaḥ ǀ ca ǀ hinvire ǁ8.15.8 Aṣṭaka 6.1.18.3Anuvāka 8.3.56
-
Ṛk 9
त्वां विष्णु॑र्बृ॒हन्क्षयो॑ मि॒त्रो गृ॑णाति॒ वरु॑णः ।
त्वां शर्धो॑ मद॒त्यनु॒ मारु॑तं ॥त्वां विष्णुर् बृहन् क्षयो मित्रो गृणाति वरुणः |
त्वां शर्धो मदत्य् अनु मारुतम् ||tvā́m víṣṇurbṛhánkṣáyo mitró gṛṇāti váruṇaḥ ǀ
tvā́m śárdho madatyánu mā́rutam ǁtvāṃ viṣṇur bṛhan kṣayo mitro gṛṇāti varuṇaḥ |
tvāṃ śardho madaty anu mārutam ||त्वाम् । विष्णुः॑ । बृ॒हन् । क्षयः॑ । मि॒त्रः । गृ॒णा॒ति॒ । वरु॑णः ।
त्वाम् । शर्धः॑ । म॒द॒ति॒ । अनु॑ । मारु॑तम् ॥त्वाम् । विष्णुः । बृहन् । क्षयः । मित्रः । गृणाति । वरुणः ।
त्वाम् । शर्धः । मदति । अनु । मारुतम् ॥tvā́m ǀ víṣṇuḥ ǀ bṛhán ǀ kṣáyaḥ ǀ mitráḥ ǀ gṛṇāti ǀ váruṇaḥ ǀ
tvā́m ǀ śárdhaḥ ǀ madati ǀ ánu ǀ mā́rutam ǁtvām ǀ viṣṇuḥ ǀ bṛhan ǀ kṣayaḥ ǀ mitraḥ ǀ gṛṇāti ǀ varuṇaḥ ǀ
tvām ǀ śardhaḥ ǀ madati ǀ anu ǀ mārutam ǁ8.15.9 Aṣṭaka 6.1.18.4Anuvāka 8.3.57
-
Ṛk 10
त्वं वृषा॒ जना॑नां॒ मंहि॑ष्ठ इंद्र जज्ञिषे ।
स॒त्रा विश्वा॑ स्वप॒त्यानि॑ दधिषे ॥त्वं वृषा जनानाम् मंहिष्ठ इन्द्र जज्ञिषे |
सत्रा विश्वा स्वपत्यानि दधिषे ||tvám vṛ́ṣā jánānām máṃhiṣṭha indra jajñiṣe ǀ
satrā́ víśvā svapatyā́ni dadhiṣe ǁtvaṃ vṛṣā janānām maṃhiṣṭha indra jajñiṣe |
satrā viśvā svapatyāni dadhiṣe ||त्वम् । वृषा॑ । जना॑नाम् । मंहि॑ष्ठः । इ॒न्द्र॒ । ज॒ज्ञि॒षे॒ ।
स॒त्रा । विश्वा॑ । सु॒ऽअ॒प॒त्यानि॑ । द॒धि॒षे॒ ॥त्वम् । वृषा । जनानाम् । मंहिष्ठः । इन्द्र । जज्ञिषे ।
सत्रा । विश्वा । सुऽअपत्यानि । दधिषे ॥tvám ǀ vṛ́ṣā ǀ jánānām ǀ máṃhiṣṭhaḥ ǀ indra ǀ jajñiṣe ǀ
satrā́ ǀ víśvā ǀ su-apatyā́ni ǀ dadhiṣe ǁtvam ǀ vṛṣā ǀ janānām ǀ maṃhiṣṭhaḥ ǀ indra ǀ jajñiṣe ǀ
satrā ǀ viśvā ǀ su-apatyāni ǀ dadhiṣe ǁ8.15.10 Aṣṭaka 6.1.18.5Anuvāka 8.3.58
-
Ṛk 11
स॒त्रा त्वं पु॑रुष्टुतँ॒ एको॑ वृ॒त्राणि॑ तोशसे ।
नान्य इंद्रा॒त्कर॑णं॒ भूय॑ इन्वति ॥सत्रा त्वम् पुरुष्टुतं एको वृत्राणि तोशसे |
नान्य इन्द्रात् करणम् भूय इन्वति ||satrā́ tvám puruṣṭutam̐ éko vṛtrā́ṇi tośase ǀ
nā́nyá índrātkáraṇam bhū́ya invati ǁsatrā tvam puruṣṭutaṃ eko vṛtrāṇi tośase |
nānya indrāt karaṇam bhūya invati ||स॒त्रा । त्वम् । पु॒रु॒ऽस्तु॒त॒ । एकः॑ । वृ॒त्राणि॑ । तो॒श॒से॒ ।
न । अ॒न्यः । इन्द्रा॑त् । कर॑णम् । भूयः॑ । इ॒न्व॒ति॒ ॥सत्रा । त्वम् । पुरुऽस्तुत । एकः । वृत्राणि । तोशसे ।
न । अन्यः । इन्द्रात् । करणम् । भूयः । इन्वति ॥satrā́ ǀ tvám ǀ puru-stuta ǀ ékaḥ ǀ vṛtrā́ṇi ǀ tośase ǀ
ná ǀ anyáḥ ǀ índrāt ǀ káraṇam ǀ bhū́yaḥ ǀ invati ǁsatrā ǀ tvam ǀ puru-stuta ǀ ekaḥ ǀ vṛtrāṇi ǀ tośase ǀ
na ǀ anyaḥ ǀ indrāt ǀ karaṇam ǀ bhūyaḥ ǀ invati ǁ8.15.11 Aṣṭaka 6.1.19.1Anuvāka 8.3.59
-
Ṛk 12
यदिं॑द्र मन्म॒शस्त्वा॒ नाना॒ हवं॑त ऊ॒तये॑ ।
अ॒स्माके॑भि॒र्नृभि॒रत्रा॒ स्व॑र्जय ॥यद् इन्द्र मन्मशस् त्वा नाना हवन्त ऊतये |
अस्माकेभिर् नृभिर् अत्रा स्वर् जय ||yádindra manmaśástvā nā́nā hávanta ūtáye ǀ
asmā́kebhirnṛ́bhirátrā svárjaya ǁyad indra manmaśas tvā nānā havanta ūtaye |
asmākebhir nṛbhir atrā svar jaya ||यत् । इ॒न्द्र॒ । म॒न्म॒ऽशः । त्वा॒ । नाना॑ । हव॑न्ते । ऊ॒तये॑ ।
अ॒स्माके॑भिः । नृऽभिः॑ । अत्र॑ । स्वः॑ । ज॒य॒ ॥यत् । इन्द्र । मन्मऽशः । त्वा । नाना । हवन्ते । ऊतये ।
अस्माकेभिः । नृऽभिः । अत्र । स्वः । जय ॥yát ǀ indra ǀ manma-śáḥ ǀ tvā ǀ nā́nā ǀ hávante ǀ ūtáye ǀ
asmā́kebhiḥ ǀ nṛ́-bhiḥ ǀ átra ǀ sváḥ ǀ jaya ǁyat ǀ indra ǀ manma-śaḥ ǀ tvā ǀ nānā ǀ havante ǀ ūtaye ǀ
asmākebhiḥ ǀ nṛ-bhiḥ ǀ atra ǀ svaḥ ǀ jaya ǁ8.15.12 Aṣṭaka 6.1.19.2Anuvāka 8.3.60
-
Ṛk 13
अरं॒ क्षया॑य नो म॒हे विश्वा॑ रू॒पाण्या॑वि॒शन् ।
इंद्रं॒ जैत्रा॑य हर्षया॒ शची॒पतिं॑ ॥अरं क्षयाय नो महे विश्वा रूपाण्य् आविशन् |
इन्द्रं जैत्राय हर्षया शचीपतिम् ||áram kṣáyāya no mahé víśvā rūpā́ṇyāviśán ǀ
índram jáitrāya harṣayā śácīpátim ǁaraṃ kṣayāya no mahe viśvā rūpāṇy āviśan |
indraṃ jaitrāya harṣayā śacīpatim ||अर॑म् । क्षया॑य । नः॒ । म॒हे । विश्वा॑ । रू॒पाणि॑ । आ॒ऽवि॒शन् ।
इन्द्र॑म् । जैत्रा॑य । ह॒र्ष॒य॒ । शची॒३॒॑ऽपति॑म् ॥अरम् । क्षयाय । नः । महे । विश्वा । रूपाणि । आऽविशन् ।
इन्द्रम् । जैत्राय । हर्षय । शचीऽपतिम् ॥áram ǀ kṣáyāya ǀ naḥ ǀ mahé ǀ víśvā ǀ rūpā́ṇi ǀ ā-viśán ǀ
índram ǀ jáitrāya ǀ harṣaya ǀ śacī́-pátim ǁaram ǀ kṣayāya ǀ naḥ ǀ mahe ǀ viśvā ǀ rūpāṇi ǀ ā-viśan ǀ
indram ǀ jaitrāya ǀ harṣaya ǀ śacī-patim ǁ8.15.13 Aṣṭaka 6.1.19.3Anuvāka 8.3.61
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.