Ṛk 8.15.7
Saṃhitā
तव॒ त्यदिं॑द्रि॒यं बृ॒हत्तव॒ शुष्म॑मु॒त क्रतुं॑ ।
वज्रं॑ शिशाति धि॒षणा॒ वरे॑ण्यं ॥
तव त्यद् इन्द्रियम् बृहत् तव शुष्मम् उत क्रतुम् |
वज्रं शिशाति धिषणा वरेण्यम् ||
táva tyádindriyám bṛháttáva śúṣmamutá krátum ǀ
vájram śiśāti dhiṣáṇā váreṇyam ǁ
tava tyad indriyam bṛhat tava śuṣmam uta kratum |
vajraṃ śiśāti dhiṣaṇā vareṇyam ||
Padapāṭha
तव॑ । त्यत् । इ॒न्द्रि॒यम् । बृ॒हत् । तव॑ । शुष्म॑म् । उ॒त । क्रतु॑म् ।
वज्र॑म् । शि॒शा॒ति॒ । धि॒षणा॑ । वरे॑ण्यम् ॥
तव । त्यत् । इन्द्रियम् । बृहत् । तव । शुष्मम् । उत । क्रतुम् ।
वज्रम् । शिशाति । धिषणा । वरेण्यम् ॥
táva ǀ tyát ǀ indriyám ǀ bṛhát ǀ táva ǀ śúṣmam ǀ utá ǀ krátum ǀ
vájram ǀ śiśāti ǀ dhiṣáṇā ǀ váreṇyam ǁ
tava ǀ tyat ǀ indriyam ǀ bṛhat ǀ tava ǀ śuṣmam ǀ uta ǀ kratum ǀ
vajram ǀ śiśāti ǀ dhiṣaṇā ǀ vareṇyam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.015.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.1.18.02
- Maṇḍala · Anuvāka · Ṛk
- 08.03.055
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Aśvasūktin Kāṇvāyana; Goṣūktin Kāṇvāyana
- Chandas छन्दस्
- Uṣṇih
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.