Ṛk 8.15.11
Saṃhitā
स॒त्रा त्वं पु॑रुष्टुतँ॒ एको॑ वृ॒त्राणि॑ तोशसे ।
नान्य इंद्रा॒त्कर॑णं॒ भूय॑ इन्वति ॥
सत्रा त्वम् पुरुष्टुतं एको वृत्राणि तोशसे |
नान्य इन्द्रात् करणम् भूय इन्वति ||
satrā́ tvám puruṣṭutam̐ éko vṛtrā́ṇi tośase ǀ
nā́nyá índrātkáraṇam bhū́ya invati ǁ
satrā tvam puruṣṭutaṃ eko vṛtrāṇi tośase |
nānya indrāt karaṇam bhūya invati ||
Padapāṭha
स॒त्रा । त्वम् । पु॒रु॒ऽस्तु॒त॒ । एकः॑ । वृ॒त्राणि॑ । तो॒श॒से॒ ।
न । अ॒न्यः । इन्द्रा॑त् । कर॑णम् । भूयः॑ । इ॒न्व॒ति॒ ॥
सत्रा । त्वम् । पुरुऽस्तुत । एकः । वृत्राणि । तोशसे ।
न । अन्यः । इन्द्रात् । करणम् । भूयः । इन्वति ॥
satrā́ ǀ tvám ǀ puru-stuta ǀ ékaḥ ǀ vṛtrā́ṇi ǀ tośase ǀ
ná ǀ anyáḥ ǀ índrāt ǀ káraṇam ǀ bhū́yaḥ ǀ invati ǁ
satrā ǀ tvam ǀ puru-stuta ǀ ekaḥ ǀ vṛtrāṇi ǀ tośase ǀ
na ǀ anyaḥ ǀ indrāt ǀ karaṇam ǀ bhūyaḥ ǀ invati ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.015.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.1.19.01
- Maṇḍala · Anuvāka · Ṛk
- 08.03.059
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Aśvasūktin Kāṇvāyana; Goṣūktin Kāṇvāyana
- Chandas छन्दस्
- Uṣṇih
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.