Ṛk 8.15.9
Saṃhitā
त्वां विष्णु॑र्बृ॒हन्क्षयो॑ मि॒त्रो गृ॑णाति॒ वरु॑णः ।
त्वां शर्धो॑ मद॒त्यनु॒ मारु॑तं ॥
त्वां विष्णुर् बृहन् क्षयो मित्रो गृणाति वरुणः |
त्वां शर्धो मदत्य् अनु मारुतम् ||
tvā́m víṣṇurbṛhánkṣáyo mitró gṛṇāti váruṇaḥ ǀ
tvā́m śárdho madatyánu mā́rutam ǁ
tvāṃ viṣṇur bṛhan kṣayo mitro gṛṇāti varuṇaḥ |
tvāṃ śardho madaty anu mārutam ||
Padapāṭha
त्वाम् । विष्णुः॑ । बृ॒हन् । क्षयः॑ । मि॒त्रः । गृ॒णा॒ति॒ । वरु॑णः ।
त्वाम् । शर्धः॑ । म॒द॒ति॒ । अनु॑ । मारु॑तम् ॥
त्वाम् । विष्णुः । बृहन् । क्षयः । मित्रः । गृणाति । वरुणः ।
त्वाम् । शर्धः । मदति । अनु । मारुतम् ॥
tvā́m ǀ víṣṇuḥ ǀ bṛhán ǀ kṣáyaḥ ǀ mitráḥ ǀ gṛṇāti ǀ váruṇaḥ ǀ
tvā́m ǀ śárdhaḥ ǀ madati ǀ ánu ǀ mā́rutam ǁ
tvām ǀ viṣṇuḥ ǀ bṛhan ǀ kṣayaḥ ǀ mitraḥ ǀ gṛṇāti ǀ varuṇaḥ ǀ
tvām ǀ śardhaḥ ǀ madati ǀ anu ǀ mārutam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.015.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.1.18.04
- Maṇḍala · Anuvāka · Ṛk
- 08.03.057
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Aśvasūktin Kāṇvāyana; Goṣūktin Kāṇvāyana
- Chandas छन्दस्
- Uṣṇih
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.