Ṛgveda · Maṇḍala 8

Sūkta 20

Maruts · Sobhari Kāṇva · 26 ṛks

Link
Devatā देवता
Maruts
Ṛṣi ऋषि
Sobhari Kāṇva
Chandas छन्दस्
Kakubh, Satobṛhatī
Metres by ṛk

1st set of styles kakubuṣṇik (1, 5, 7, 19, 23); sataḥpaṅkti (2, 10, 16, 22); pādanicṛtpaṅkti (4, 6, 12, 18); nicṛtpaṅkti (8, 20, 24, 26); nicṛduṣṇik (9, 13, 21, 25); virāḍuṣnik (3, 15, 17); pādanicṛduṣṇik (11); ārcībhurikpaṅkti (14)

2nd set of styles kakubh (1, 3, 5, 7, 9, 11, 13, 15, 17, 19, 21, 23, 25); satobṛhatī (2, 4, 6, 8, 10, 12, 14, 16, 18, 20, 22, 24, 26)

  1. Ṛk 1

    आ गं॑ता॒ मा रि॑षण्यत॒ प्रस्था॑वानो॒ माप॑ स्थाता समन्यवः ।
    स्थि॒रा चि॑न्नमयिष्णवः ॥

    आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थाता समन्यवः |
    स्थिरा चिन् नमयिष्णवः ||

    ā́ gantā mā́ riṣaṇyata prásthāvāno mā́pa sthātā samanyavaḥ ǀ
    sthirā́ cinnamayiṣṇavaḥ ǁ

    ā gantā mā riṣaṇyata prasthāvāno māpa sthātā samanyavaḥ |
    sthirā cin namayiṣṇavaḥ ||

    आ । ग॒न्त॒ । मा । रि॒ष॒ण्य॒त॒ । प्रऽस्था॑वानः । मा । अप॑ । स्था॒त॒ । स॒ऽम॒न्य॒वः॒ ।
    स्थि॒रा । चि॒त् । न॒म॒यि॒ष्ण॒वः॒ ॥

    आ । गन्त । मा । रिषण्यत । प्रऽस्थावानः । मा । अप । स्थात । सऽमन्यवः ।
    स्थिरा । चित् । नमयिष्णवः ॥

    ā́ ǀ ganta ǀ mā́ ǀ riṣaṇyata ǀ prá-sthāvānaḥ ǀ mā́ ǀ ápa ǀ sthāta ǀ sa-manyavaḥ ǀ
    sthirā́ ǀ cit ǀ namayiṣṇavaḥ ǁ

    ā ǀ ganta ǀ mā ǀ riṣaṇyata ǀ pra-sthāvānaḥ ǀ mā ǀ apa ǀ sthāta ǀ sa-manyavaḥ ǀ
    sthirā ǀ cit ǀ namayiṣṇavaḥ ǁ

    8.20.1 Aṣṭaka 6.1.36.1Anuvāka 8.3.148

  2. Ṛk 2

    वी॒ळु॒प॒विभि॑र्मरुत ऋभुक्षण॒ आ रु॑द्रासः सुदी॒तिभिः॑ ।
    इ॒षा नो॑ अ॒द्या ग॑ता पुरुस्पृहो य॒ज्ञमा सो॑भरी॒यवः॑ ॥

    वीऌउपविभिर् मरुत ऋभुक्षण आ रुद्रासः सुदीतिभिः |
    इषा नो अद्या गता पुरुस्पृहो यज्ञम् आ सोभरीयवः ||

    vīḷupavíbhirmaruta ṛbhukṣaṇa ā́ rudrāsaḥ sudītíbhiḥ ǀ
    iṣā́ no adyā́ gatā puruspṛho yajñámā́ sobharīyávaḥ ǁ

    vīḷupavibhir maruta ṛbhukṣaṇa ā rudrāsaḥ sudītibhiḥ |
    iṣā no adyā gatā puruspṛho yajñam ā sobharīyavaḥ ||

    वी॒ळु॒प॒विऽभिः॑ । म॒रु॒तः॒ । ऋ॒भु॒क्ष॒णः॒ । आ । रु॒द्रा॒सः॒ । सु॒दी॒तिऽभिः॑ ।
    इ॒षा । नः॒ । अ॒द्य । आ । ग॒त॒ । पु॒रु॒ऽस्पृ॒हः॒ । य॒ज्ञम् । आ । सो॒भ॒री॒ऽयवः॑ ॥

    वीळुपविऽभिः । मरुतः । ऋभुक्षणः । आ । रुद्रासः । सुदीतिऽभिः ।
    इषा । नः । अद्य । आ । गत । पुरुऽस्पृहः । यज्ञम् । आ । सोभरीऽयवः ॥

    vīḷupaví-bhiḥ ǀ marutaḥ ǀ ṛbhukṣaṇaḥ ǀ ā́ ǀ rudrāsaḥ ǀ sudītí-bhiḥ ǀ
    iṣā́ ǀ naḥ ǀ adyá ǀ ā́ ǀ gata ǀ puru-spṛhaḥ ǀ yajñám ǀ ā́ ǀ sobharī-yávaḥ ǁ

    vīḷupavi-bhiḥ ǀ marutaḥ ǀ ṛbhukṣaṇaḥ ǀ ā ǀ rudrāsaḥ ǀ sudīti-bhiḥ ǀ
    iṣā ǀ naḥ ǀ adya ǀ ā ǀ gata ǀ puru-spṛhaḥ ǀ yajñam ǀ ā ǀ sobharī-yavaḥ ǁ

    8.20.2 Aṣṭaka 6.1.36.2Anuvāka 8.3.149

  3. Ṛk 3

    वि॒द्मा हि रु॒द्रिया॑णां॒ शुष्म॑मु॒ग्रं म॒रुतां॒ शिमी॑वतां ।
    विष्णो॑रे॒षस्य॑ मी॒ळ्हुषां॑ ॥

    विद्मा हि रुद्रियाणां शुष्मम् उग्रम् मरुतां शिमीवताम् |
    विष्णोर् एषस्य मीऌहुषाम् ||

    vidmā́ hí rudríyāṇām śúṣmamugrám marútām śímīvatām ǀ
    víṣṇoreṣásya mīḷhúṣām ǁ

    vidmā hi rudriyāṇāṃ śuṣmam ugram marutāṃ śimīvatām |
    viṣṇor eṣasya mīḷhuṣām ||

    वि॒द्म । हि । रु॒द्रिया॑णाम् । शुष्म॑म् । उ॒ग्रम् । म॒रुता॑म् । शिमी॑ऽवताम् ।
    विष्णोः॑ । ए॒षस्य॑ । मी॒ळ्हुषा॑म् ॥

    विद्म । हि । रुद्रियाणाम् । शुष्मम् । उग्रम् । मरुताम् । शिमीऽवताम् ।
    विष्णोः । एषस्य । मीळ्हुषाम् ॥

    vidmá ǀ hí ǀ rudríyāṇām ǀ śúṣmam ǀ ugrám ǀ marútām ǀ śímī-vatām ǀ
    víṣṇoḥ ǀ eṣásya ǀ mīḷhúṣām ǁ

    vidma ǀ hi ǀ rudriyāṇām ǀ śuṣmam ǀ ugram ǀ marutām ǀ śimī-vatām ǀ
    viṣṇoḥ ǀ eṣasya ǀ mīḷhuṣām ǁ

    8.20.3 Aṣṭaka 6.1.36.3Anuvāka 8.3.150

  4. Ṛk 4

    वि द्वी॒पानि॒ पाप॑तं॒तिष्ठ॑द्दु॒च्छुनो॒भे यु॑जंत॒ रोद॑सी ।
    प्र धन्वा॑न्यैरत शुभ्रखादयो॒ यदेज॑थ स्वभानवः ॥

    वि द्वीपानि पापतन् तिष्ठद् दुच्छुनोभे युजन्त रोदसी |
    प्र धन्वान्य् ऐरत शुभ्रखादयो यद् एजथ स्वभानवः ||

    ví dvīpā́ni pā́patantíṣṭhadducchúnobhé yujanta ródasī ǀ
    prá dhánvānyairata śubhrakhādayo yádéjatha svabhānavaḥ ǁ

    vi dvīpāni pāpatan tiṣṭhad ducchunobhe yujanta rodasī |
    pra dhanvāny airata śubhrakhādayo yad ejatha svabhānavaḥ ||

    वि । द्वी॒पानि॑ । पाप॑तन् । तिष्ठ॑त् । दु॒च्छुना॑ । उ॒भे इति॑ । यु॒ज॒न्त॒ । रोद॑सी॒ इति॑ ।
    प्र । धन्वा॑नि । ऐ॒र॒त॒ । शु॒भ्र॒ऽखा॒द॒यः॒ । यत् । एज॑थ । स्व॒ऽभा॒न॒वः॒ ॥

    वि । द्वीपानि । पापतन् । तिष्ठत् । दुच्छुना । उभे इति । युजन्त । रोदसी इति ।
    प्र । धन्वानि । ऐरत । शुभ्रऽखादयः । यत् । एजथ । स्वऽभानवः ॥

    ví ǀ dvīpā́ni ǀ pā́patan ǀ tíṣṭhat ǀ ducchúnā ǀ ubhé íti ǀ yujanta ǀ ródasī íti ǀ
    prá ǀ dhánvāni ǀ airata ǀ śubhra-khādayaḥ ǀ yát ǀ éjatha ǀ sva-bhānavaḥ ǁ

    vi ǀ dvīpāni ǀ pāpatan ǀ tiṣṭhat ǀ ducchunā ǀ ubhe iti ǀ yujanta ǀ rodasī iti ǀ
    pra ǀ dhanvāni ǀ airata ǀ śubhra-khādayaḥ ǀ yat ǀ ejatha ǀ sva-bhānavaḥ ǁ

    8.20.4 Aṣṭaka 6.1.36.4Anuvāka 8.3.151

  5. Ṛk 5

    अच्यु॑ता चिद्वो॒ अज्म॒न्ना नान॑दति॒ पर्व॑तासो॒ वन॒स्पतिः॑ ।
    भूमि॒र्यामे॑षु रेजते ॥

    अच्युता चिद् वो अज्मन्न् आ नानदति पर्वतासो वनस्पतिः |
    भूमिर् यामेषु रेजते ||

    ácyutā cidvo ájmannā́ nā́nadati párvatāso vánaspátiḥ ǀ
    bhū́miryā́meṣu rejate ǁ

    acyutā cid vo ajmann ā nānadati parvatāso vanaspatiḥ |
    bhūmir yāmeṣu rejate ||

    अच्यु॑ता । चि॒त् । वः॒ । अज्म॑न् । आ । नान॑दति । पर्व॑तासः । वन॒स्पतिः॑ ।
    भूमिः॑ । यामे॑षु । रे॒ज॒ते॒ ॥

    अच्युता । चित् । वः । अज्मन् । आ । नानदति । पर्वतासः । वनस्पतिः ।
    भूमिः । यामेषु । रेजते ॥

    ácyutā ǀ cit ǀ vaḥ ǀ ájman ǀ ā́ ǀ nā́nadati ǀ párvatāsaḥ ǀ vánaspátiḥ ǀ
    bhū́miḥ ǀ yā́meṣu ǀ rejate ǁ

    acyutā ǀ cit ǀ vaḥ ǀ ajman ǀ ā ǀ nānadati ǀ parvatāsaḥ ǀ vanaspatiḥ ǀ
    bhūmiḥ ǀ yāmeṣu ǀ rejate ǁ

    8.20.5 Aṣṭaka 6.1.36.5Anuvāka 8.3.152

  6. Ṛk 6

    अमा॑य वो मरुतो॒ यात॑वे॒ द्यौर्जिही॑त॒ उत्त॑रा बृ॒हत् ।
    यत्रा॒ नरो॒ देदि॑शते त॒नूष्वा त्वक्षां॑सि बा॒ह्वो॑जसः ॥

    अमाय वो मरुतो यातवे द्यौर् जिहीत उत्तरा बृहत् |
    यत्रा नरो देदिशते तनूष्व् आ त्वक्षांसि बाह्वोजसः ||

    ámāya vo maruto yā́tave dyáurjíhīta úttarā bṛhát ǀ
    yátrā náro dédiśate tanū́ṣvā́ tvákṣāṃsi bāhvójasaḥ ǁ

    amāya vo maruto yātave dyaur jihīta uttarā bṛhat |
    yatrā naro dediśate tanūṣv ā tvakṣāṃsi bāhvojasaḥ ||

    अमा॑य । वः॒ । म॒रु॒तः॒ । यात॑वे । द्यौः । जिही॑ते । उत्ऽत॑रा । बृ॒हत् ।
    यत्र॑ । नरः॑ । देदि॑शते । त॒नूषु॑ । आ । त्वक्षां॑सि । ब॒हुऽओ॑जसः ॥

    अमाय । वः । मरुतः । यातवे । द्यौः । जिहीते । उत्ऽतरा । बृहत् ।
    यत्र । नरः । देदिशते । तनूषु । आ । त्वक्षांसि । बहुऽओजसः ॥

    ámāya ǀ vaḥ ǀ marutaḥ ǀ yā́tave ǀ dyáuḥ ǀ jíhīte ǀ út-tarā ǀ bṛhát ǀ
    yátra ǀ náraḥ ǀ dédiśate ǀ tanū́ṣu ǀ ā́ ǀ tvákṣāṃsi ǀ bahú-ojasaḥ ǁ

    amāya ǀ vaḥ ǀ marutaḥ ǀ yātave ǀ dyauḥ ǀ jihīte ǀ ut-tarā ǀ bṛhat ǀ
    yatra ǀ naraḥ ǀ dediśate ǀ tanūṣu ǀ ā ǀ tvakṣāṃsi ǀ bahu-ojasaḥ ǁ

    8.20.6 Aṣṭaka 6.1.37.1Anuvāka 8.3.153

  7. Ṛk 7

    स्व॒धामनु॒ श्रियं॒ नरो॒ महि॑ त्वे॒षा अम॑वंतो॒ वृष॑प्सवः ।
    वहं॑ते॒ अह्रु॑तप्सवः ॥

    स्वधाम् अनु श्रियं नरो महि त्वेषा अमवन्तो वृषप्सवः |
    वहन्ते अह्रुतप्सवः ||

    svadhā́mánu śríyam náro máhi tveṣā́ ámavanto vṛ́ṣapsavaḥ ǀ
    váhante áhrutapsavaḥ ǁ

    svadhām anu śriyaṃ naro mahi tveṣā amavanto vṛṣapsavaḥ |
    vahante ahrutapsavaḥ ||

    स्व॒धाम् । अनु॑ । श्रिय॑म् । नरः॑ । महि॑ । त्वे॒षाः । अम॑ऽवन्तः । वृष॑ऽप्सवः ।
    वह॑न्ते । अह्रु॑तऽप्सवः ॥

    स्वधाम् । अनु । श्रियम् । नरः । महि । त्वेषाः । अमऽवन्तः । वृषऽप्सवः ।
    वहन्ते । अह्रुतऽप्सवः ॥

    svadhā́m ǀ ánu ǀ śríyam ǀ náraḥ ǀ máhi ǀ tveṣā́ḥ ǀ áma-vantaḥ ǀ vṛ́ṣa-psavaḥ ǀ
    váhante ǀ áhruta-psavaḥ ǁ

    svadhām ǀ anu ǀ śriyam ǀ naraḥ ǀ mahi ǀ tveṣāḥ ǀ ama-vantaḥ ǀ vṛṣa-psavaḥ ǀ
    vahante ǀ ahruta-psavaḥ ǁ

    8.20.7 Aṣṭaka 6.1.37.2Anuvāka 8.3.154

  8. Ṛk 8

    गोभि॑र्वा॒णो अ॑ज्यते॒ सोभ॑रीणां॒ रथे॒ कोशे॑ हिर॒ण्यये॑ ।
    गोबं॑धवः सुजा॒तास॑ इ॒षे भु॒जे म॒हांतो॑ नः॒ स्पर॑से॒ नु ॥

    गोभिर् वाणो अज्यते सोभरीणां रथे कोशे हिरण्यये |
    गोबन्धवः सुजातास इषे भुजे महान्तो न स्परसे नु ||

    góbhirvāṇó ajyate sóbharīṇām ráthe kóśe hiraṇyáye ǀ
    góbandhavaḥ sujātā́sa iṣé bhujé mahā́nto naḥ spárase nú ǁ

    gobhir vāṇo ajyate sobharīṇāṃ rathe kośe hiraṇyaye |
    gobandhavaḥ sujātāsa iṣe bhuje mahānto na sparase nu ||

    गोभिः॑ । वा॒णः । अ॒ज्य॒ते॒ । सोभ॑रीणाम् । रथे॑ । कोशे॑ । हि॒र॒ण्यये॑ ।
    गोऽब॑न्धवः । सु॒ऽजा॒तासः॑ । इ॒षे । भु॒जे । म॒हान्तः॑ । नः॒ । स्पर॑से । नु ॥

    गोभिः । वाणः । अज्यते । सोभरीणाम् । रथे । कोशे । हिरण्यये ।
    गोऽबन्धवः । सुऽजातासः । इषे । भुजे । महान्तः । नः । स्परसे । नु ॥

    góbhiḥ ǀ vāṇáḥ ǀ ajyate ǀ sóbharīṇām ǀ ráthe ǀ kóśe ǀ hiraṇyáye ǀ
    gó-bandhavaḥ ǀ su-jātā́saḥ ǀ iṣé ǀ bhujé ǀ mahā́ntaḥ ǀ naḥ ǀ spárase ǀ nú ǁ

    gobhiḥ ǀ vāṇaḥ ǀ ajyate ǀ sobharīṇām ǀ rathe ǀ kośe ǀ hiraṇyaye ǀ
    go-bandhavaḥ ǀ su-jātāsaḥ ǀ iṣe ǀ bhuje ǀ mahāntaḥ ǀ naḥ ǀ sparase ǀ nu ǁ

    8.20.8 Aṣṭaka 6.1.37.3Anuvāka 8.3.155

  9. Ṛk 9

    प्रति॑ वो वृषदंजयो॒ वृष्णे॒ शर्धा॑य॒ मारु॑ताय भरध्वं ।
    ह॒व्या वृष॑प्रयाव्णे ॥

    प्रति वो वृषदञ्जयो वृष्णे शर्धाय मारुताय भरध्वम् |
    हव्या वृषप्रयाव्णे ||

    práti vo vṛṣadañjayo vṛ́ṣṇe śárdhāya mā́rutāya bharadhvam ǀ
    havyā́ vṛ́ṣaprayāvṇe ǁ

    prati vo vṛṣadañjayo vṛṣṇe śardhāya mārutāya bharadhvam |
    havyā vṛṣaprayāvṇe ||

    प्रति॑ । वः॒ । वृ॒ष॒त्ऽअ॒ञ्ज॒यः॒ । वृष्णे॑ । शर्धा॑य । मारु॑ताय । भ॒र॒ध्व॒म् ।
    ह॒व्या । वृष॑ऽप्रयाव्ने ॥

    प्रति । वः । वृषत्ऽअञ्जयः । वृष्णे । शर्धाय । मारुताय । भरध्वम् ।
    हव्या । वृषऽप्रयाव्ने ॥

    práti ǀ vaḥ ǀ vṛṣat-añjayaḥ ǀ vṛ́ṣṇe ǀ śárdhāya ǀ mā́rutāya ǀ bharadhvam ǀ
    havyā́ ǀ vṛ́ṣa-prayāvne ǁ

    prati ǀ vaḥ ǀ vṛṣat-añjayaḥ ǀ vṛṣṇe ǀ śardhāya ǀ mārutāya ǀ bharadhvam ǀ
    havyā ǀ vṛṣa-prayāvne ǁ

    8.20.9 Aṣṭaka 6.1.37.4Anuvāka 8.3.156

  10. Ṛk 10

    वृ॒ष॒ण॒श्वेन॑ मरुतो॒ वृष॑प्सुना॒ रथे॑न॒ वृष॑नाभिना ।
    आ श्ये॒नासो॒ न प॒क्षिणो॒ वृथा॑ नरो ह॒व्या नो॑ वी॒तये॑ गत ॥

    वृषणश्वेन मरुतो वृषप्सुना रथेन वृषनाभिना |
    आ श्येनासो न पक्षिणो वृथा नरो हव्या नो वीतये गत ||

    vṛṣaṇaśvéna maruto vṛ́ṣapsunā ráthena vṛ́ṣanābhinā ǀ
    ā́ śyenā́so ná pakṣíṇo vṛ́thā naro havyā́ no vītáye gata ǁ

    vṛṣaṇaśvena maruto vṛṣapsunā rathena vṛṣanābhinā |
    ā śyenāso na pakṣiṇo vṛthā naro havyā no vītaye gata ||

    वृ॒ष॒ण॒श्वेन॑ । म॒रु॒तः॒ । वृष॑ऽप्सुना । रथे॑न । वृष॑ऽनाभिना ।
    आ । श्ये॒नासः॑ । न । प॒क्षिणः॑ । वृथा॑ । न॒रः॒ । ह॒व्या । नः॒ । वी॒तये॑ । ग॒त॒ ॥

    वृषणश्वेन । मरुतः । वृषऽप्सुना । रथेन । वृषऽनाभिना ।
    आ । श्येनासः । न । पक्षिणः । वृथा । नरः । हव्या । नः । वीतये । गत ॥

    vṛṣaṇaśvéna ǀ marutaḥ ǀ vṛ́ṣa-psunā ǀ ráthena ǀ vṛ́ṣa-nābhinā ǀ
    ā́ ǀ śyenā́saḥ ǀ ná ǀ pakṣíṇaḥ ǀ vṛ́thā ǀ naraḥ ǀ havyā́ ǀ naḥ ǀ vītáye ǀ gata ǁ

    vṛṣaṇaśvena ǀ marutaḥ ǀ vṛṣa-psunā ǀ rathena ǀ vṛṣa-nābhinā ǀ
    ā ǀ śyenāsaḥ ǀ na ǀ pakṣiṇaḥ ǀ vṛthā ǀ naraḥ ǀ havyā ǀ naḥ ǀ vītaye ǀ gata ǁ

    8.20.10 Aṣṭaka 6.1.37.5Anuvāka 8.3.157

  11. Ṛk 11

    स॒मा॒नमं॒ज्ये॑षां॒ वि भ्रा॑जंते रु॒क्मासो॒ अधि॑ बा॒हुषु॑ ।
    दवि॑द्युतत्यृ॒ष्टयः॑ ॥

    समानम् अञ्ज्य् एषां वि भ्राजन्ते रुक्मासो अधि बाहुषु |
    दविद्युतत्य् ऋष्टयः ||

    samānámañjyéṣām ví bhrājante rukmā́so ádhi bāhúṣu ǀ
    dávidyutatyṛṣṭáyaḥ ǁ

    samānam añjy eṣāṃ vi bhrājante rukmāso adhi bāhuṣu |
    davidyutaty ṛṣṭayaḥ ||

    स॒मा॒नम् । अ॒ञ्जि । ए॒षा॒म् । वि । भ्रा॒ज॒न्ते॒ । रु॒क्मासः॑ । अधि॑ । बा॒हुषु॑ ।
    दवि॑द्युतति । ऋ॒ष्टयः॑ ॥

    समानम् । अञ्जि । एषाम् । वि । भ्राजन्ते । रुक्मासः । अधि । बाहुषु ।
    दविद्युतति । ऋष्टयः ॥

    samānám ǀ añjí ǀ eṣām ǀ ví ǀ bhrājante ǀ rukmā́saḥ ǀ ádhi ǀ bāhúṣu ǀ
    dávidyutati ǀ ṛṣṭáyaḥ ǁ

    samānam ǀ añji ǀ eṣām ǀ vi ǀ bhrājante ǀ rukmāsaḥ ǀ adhi ǀ bāhuṣu ǀ
    davidyutati ǀ ṛṣṭayaḥ ǁ

    8.20.11 Aṣṭaka 6.1.38.1Anuvāka 8.3.158

  12. Ṛk 12

    त उ॒ग्रासो॒ वृष॑ण उ॒ग्रबा॑हवो॒ नकि॑ष्ट॒नूषु॑ येतिरे ।
    स्थि॒रा धन्वा॒न्यायु॑धा॒ रथे॑षु॒ वोऽनी॑के॒ष्वधि॒ श्रियः॑ ॥

    त उग्रासो वृषण उग्रबाहवो नकिष् टनूषु येतिरे |
    स्थिरा धन्वान्य् आयुधा रथेषु वो ऽनीकेष्व् अधि श्रियः ||

    tá ugrā́so vṛ́ṣaṇa ugrábāhavo nákiṣṭanū́ṣu yetire ǀ
    sthirā́ dhánvānyā́yudhā rátheṣu vó’nīkeṣvádhi śríyaḥ ǁ

    ta ugrāso vṛṣaṇa ugrabāhavo nakiṣ ṭanūṣu yetire |
    sthirā dhanvāny āyudhā ratheṣu vo 'nīkeṣv adhi śriyaḥ ||

    ते । उ॒ग्रासः॑ । वृष॑णः । उ॒ग्रऽबा॑हवः । नकिः॑ । त॒नूषु॑ । ये॒ति॒रे॒ ।
    स्थि॒रा । धन्वा॑नि । आयु॑धा । रथे॑षु । वः॒ । अनी॑केषु । अधि॑ । श्रियः॑ ॥

    ते । उग्रासः । वृषणः । उग्रऽबाहवः । नकिः । तनूषु । येतिरे ।
    स्थिरा । धन्वानि । आयुधा । रथेषु । वः । अनीकेषु । अधि । श्रियः ॥

    té ǀ ugrā́saḥ ǀ vṛ́ṣaṇaḥ ǀ ugrá-bāhavaḥ ǀ nákiḥ ǀ tanū́ṣu ǀ yetire ǀ
    sthirā́ ǀ dhánvāni ǀ ā́yudhā ǀ rátheṣu ǀ vaḥ ǀ ánīkeṣu ǀ ádhi ǀ śríyaḥ ǁ

    te ǀ ugrāsaḥ ǀ vṛṣaṇaḥ ǀ ugra-bāhavaḥ ǀ nakiḥ ǀ tanūṣu ǀ yetire ǀ
    sthirā ǀ dhanvāni ǀ āyudhā ǀ ratheṣu ǀ vaḥ ǀ anīkeṣu ǀ adhi ǀ śriyaḥ ǁ

    8.20.12 Aṣṭaka 6.1.38.2Anuvāka 8.3.159

  13. Ṛk 13

    येषा॒मर्णो॒ न स॒प्रथो॒ नाम॑ त्वे॒षं शश्व॑ता॒मेक॒मिद्भु॒जे ।
    वयो॒ न पित्र्यं॒ सहः॑ ॥

    येषाम् अर्णो न सप्रथो नाम त्वेषं शश्वताम् एकम् इद् भुजे |
    वयो न पित्र्यं सहः ||

    yéṣāmárṇo ná saprátho nā́ma tveṣám śáśvatāmékamídbhujé ǀ
    váyo ná pítryam sáhaḥ ǁ

    yeṣām arṇo na sapratho nāma tveṣaṃ śaśvatām ekam id bhuje |
    vayo na pitryaṃ sahaḥ ||

    येषा॑म् । अर्णः॑ । न । स॒ऽप्रथः॑ । नाम॑ । त्वे॒षम् । शश्व॑ताम् । एक॑म् । इत् । भु॒जे ।
    वयः॑ । न । पित्र्य॑म् । सहः॑ ॥

    येषाम् । अर्णः । न । सऽप्रथः । नाम । त्वेषम् । शश्वताम् । एकम् । इत् । भुजे ।
    वयः । न । पित्र्यम् । सहः ॥

    yéṣām ǀ árṇaḥ ǀ ná ǀ sa-práthaḥ ǀ nā́ma ǀ tveṣám ǀ śáśvatām ǀ ékam ǀ ít ǀ bhujé ǀ
    váyaḥ ǀ ná ǀ pítryam ǀ sáhaḥ ǁ

    yeṣām ǀ arṇaḥ ǀ na ǀ sa-prathaḥ ǀ nāma ǀ tveṣam ǀ śaśvatām ǀ ekam ǀ it ǀ bhuje ǀ
    vayaḥ ǀ na ǀ pitryam ǀ sahaḥ ǁ

    8.20.13 Aṣṭaka 6.1.38.3Anuvāka 8.3.160

  14. Ṛk 14

    तान्वं॑दस्व म॒रुत॒स्ताँ उप॑ स्तुहि॒ तेषां॒ हि धुनी॑नां ।
    अ॒राणां॒ न च॑र॒मस्तदे॑षां दा॒ना म॒ह्ना तदे॑षां ॥

    तान् वन्दस्व मरुतस् तां उप स्तुहि तेषां हि धुनीनाम् |
    अराणां न चरमस् तद् एषां दाना मह्ना तद् एषाम् ||

    tā́nvandasva marútastā́m̐ úpa stuhi téṣām hí dhúnīnām ǀ
    arā́ṇām ná caramástádeṣām dānā́ mahnā́ tádeṣām ǁ

    tān vandasva marutas tāṃ upa stuhi teṣāṃ hi dhunīnām |
    arāṇāṃ na caramas tad eṣāṃ dānā mahnā tad eṣām ||

    तान् । व॒न्द॒स्व॒ । म॒रुतः॑ । तान् । उप॑ । स्तु॒हि॒ । तेषा॑म् । हि । धुनी॑नाम् ।
    अ॒राणा॑म् । न । च॒र॒मः । तत् । ए॒षा॒म् । दा॒ना । म॒ह्ना । तत् । ए॒षा॒म् ॥

    तान् । वन्दस्व । मरुतः । तान् । उप । स्तुहि । तेषाम् । हि । धुनीनाम् ।
    अराणाम् । न । चरमः । तत् । एषाम् । दाना । मह्ना । तत् । एषाम् ॥

    tā́n ǀ vandasva ǀ marútaḥ ǀ tā́n ǀ úpa ǀ stuhi ǀ téṣām ǀ hí ǀ dhúnīnām ǀ
    arā́ṇām ǀ ná ǀ caramáḥ ǀ tát ǀ eṣām ǀ dānā́ ǀ mahnā́ ǀ tát ǀ eṣām ǁ

    tān ǀ vandasva ǀ marutaḥ ǀ tān ǀ upa ǀ stuhi ǀ teṣām ǀ hi ǀ dhunīnām ǀ
    arāṇām ǀ na ǀ caramaḥ ǀ tat ǀ eṣām ǀ dānā ǀ mahnā ǀ tat ǀ eṣām ǁ

    8.20.14 Aṣṭaka 6.1.38.4Anuvāka 8.3.161

  15. Ṛk 15

    सु॒भगः॒ स व॑ ऊ॒तिष्वास॒ पूर्वा॑सु मरुतो॒ व्यु॑ष्टिषु ।
    यो वा॑ नू॒नमु॒तास॑ति ॥

    सुभगः स व ऊतिष्व् आस पूर्वासु मरुतो व्युष्टिषु |
    यो वा नूनम् उतासति ||

    subhágaḥ sá va ūtíṣvā́sa pū́rvāsu maruto vyúṣṭiṣu ǀ
    yó vā nūnámutā́sati ǁ

    subhagaḥ sa va ūtiṣv āsa pūrvāsu maruto vyuṣṭiṣu |
    yo vā nūnam utāsati ||

    सु॒ऽभगः॑ । सः । वः॒ । ऊ॒तिषु॑ । आस॑ । पूर्वा॑सु । म॒रु॒तः॒ । विऽउ॑ष्टिषु ।
    यः । वा॒ । नू॒नम् । उ॒त । अस॑ति ॥

    सुऽभगः । सः । वः । ऊतिषु । आस । पूर्वासु । मरुतः । विऽउष्टिषु ।
    यः । वा । नूनम् । उत । असति ॥

    su-bhágaḥ ǀ sáḥ ǀ vaḥ ǀ ūtíṣu ǀ ā́sa ǀ pū́rvāsu ǀ marutaḥ ǀ ví-uṣṭiṣu ǀ
    yáḥ ǀ vā ǀ nūnám ǀ utá ǀ ásati ǁ

    su-bhagaḥ ǀ saḥ ǀ vaḥ ǀ ūtiṣu ǀ āsa ǀ pūrvāsu ǀ marutaḥ ǀ vi-uṣṭiṣu ǀ
    yaḥ ǀ vā ǀ nūnam ǀ uta ǀ asati ǁ

    8.20.15 Aṣṭaka 6.1.38.5Anuvāka 8.3.162

  16. Ṛk 16

    यस्य॑ वा यू॒यं प्रति॑ वा॒जिनो॑ नर॒ आ ह॒व्या वी॒तये॑ ग॒थ ।
    अ॒भि ष द्यु॒म्नैरु॒त वाज॑सातिभिः सु॒म्ना वो॑ धूतयो नशत् ॥

    यस्य वा यूयम् प्रति वाजिनो नर आ हव्या वीतये गथ |
    अभि ष द्युम्नैर् उत वाजसातिभिः सुम्ना वो धूतयो नशत् ||

    yásya vā yūyám práti vājíno nara ā́ havyā́ vītáye gathá ǀ
    abhí ṣá dyumnáirutá vā́jasātibhiḥ sumnā́ vo dhūtayo naśat ǁ

    yasya vā yūyam prati vājino nara ā havyā vītaye gatha |
    abhi ṣa dyumnair uta vājasātibhiḥ sumnā vo dhūtayo naśat ||

    यस्य॑ । वा॒ । यू॒यम् । प्रति॑ । वा॒जिनः॑ । न॒रः॒ । आ । ह॒व्या । वी॒तये॑ । ग॒थ ।
    अ॒भि । सः । द्यु॒म्नैः । उ॒त । वाज॑सातिऽभिः । सु॒म्ना । वः॒ । धू॒त॒यः॒ । न॒श॒त् ॥

    यस्य । वा । यूयम् । प्रति । वाजिनः । नरः । आ । हव्या । वीतये । गथ ।
    अभि । सः । द्युम्नैः । उत । वाजसातिऽभिः । सुम्ना । वः । धूतयः । नशत् ॥

    yásya ǀ vā ǀ yūyám ǀ práti ǀ vājínaḥ ǀ naraḥ ǀ ā́ ǀ havyā́ ǀ vītáye ǀ gathá ǀ
    abhí ǀ sáḥ ǀ dyumnáiḥ ǀ utá ǀ vā́jasāti-bhiḥ ǀ sumnā́ ǀ vaḥ ǀ dhūtayaḥ ǀ naśat ǁ

    yasya ǀ vā ǀ yūyam ǀ prati ǀ vājinaḥ ǀ naraḥ ǀ ā ǀ havyā ǀ vītaye ǀ gatha ǀ
    abhi ǀ saḥ ǀ dyumnaiḥ ǀ uta ǀ vājasāti-bhiḥ ǀ sumnā ǀ vaḥ ǀ dhūtayaḥ ǀ naśat ǁ

    8.20.16 Aṣṭaka 6.1.39.1Anuvāka 8.3.163

  17. Ṛk 17

    यथा॑ रु॒द्रस्य॑ सू॒नवो॑ दि॒वो वशं॒त्यसु॑रस्य वे॒धसः॑ ।
    युवा॑न॒स्तथेद॑सत् ॥

    यथा रुद्रस्य सूनवो दिवो वशन्त्य् असुरस्य वेधसः |
    युवानस् तथेद् असत् ||

    yáthā rudrásya sūnávo divó váśantyásurasya vedhásaḥ ǀ
    yúvānastáthédasat ǁ

    yathā rudrasya sūnavo divo vaśanty asurasya vedhasaḥ |
    yuvānas tathed asat ||

    यथा॑ । रु॒द्रस्य॑ । सू॒नवः॑ । दि॒वः । वश॑न्ति । असु॑रस्य । वे॒धसः॑ ।
    युवा॑नः । तथा॑ । इत् । अ॒स॒त् ॥

    यथा । रुद्रस्य । सूनवः । दिवः । वशन्ति । असुरस्य । वेधसः ।
    युवानः । तथा । इत् । असत् ॥

    yáthā ǀ rudrásya ǀ sūnávaḥ ǀ diváḥ ǀ váśanti ǀ ásurasya ǀ vedhásaḥ ǀ
    yúvānaḥ ǀ táthā ǀ ít ǀ asat ǁ

    yathā ǀ rudrasya ǀ sūnavaḥ ǀ divaḥ ǀ vaśanti ǀ asurasya ǀ vedhasaḥ ǀ
    yuvānaḥ ǀ tathā ǀ it ǀ asat ǁ

    8.20.17 Aṣṭaka 6.1.39.2Anuvāka 8.3.164

  18. Ṛk 18

    ये चार्हं॑ति म॒रुतः॑ सु॒दान॑वः॒ स्मन्मी॒ळ्हुष॒श्चरं॑ति॒ ये ।
    अत॑श्चि॒दा न॒ उप॒ वस्य॑सा हृ॒दा युवा॑न॒ आ व॑वृध्वं ॥

    ये चार्हन्ति मरुतः सुदानवः स्मन् मीऌहुषश् चरन्ति ये |
    अतश् चिद् आ न उप वस्यसा हृदा युवान आ ववृध्वम् ||

    yé cā́rhanti marútaḥ sudā́navaḥ smánmīḷhúṣaścáranti yé ǀ
    átaścidā́ na úpa vásyasā hṛdā́ yúvāna ā́ vavṛdhvam ǁ

    ye cārhanti marutaḥ sudānavaḥ sman mīḷhuṣaś caranti ye |
    ataś cid ā na upa vasyasā hṛdā yuvāna ā vavṛdhvam ||

    ये । च॒ । अर्ह॑न्ति । म॒रुतः॑ । सु॒ऽदान॑वः । स्मत् । मी॒ळ्हुषः॑ । चर॑न्ति । ये ।
    अतः॑ । चि॒त् । आ । नः॒ । उप॑ । वस्य॑सा । हृ॒दा । युवा॑नः । आ । व॒वृ॒ध्व॒म् ॥

    ये । च । अर्हन्ति । मरुतः । सुऽदानवः । स्मत् । मीळ्हुषः । चरन्ति । ये ।
    अतः । चित् । आ । नः । उप । वस्यसा । हृदा । युवानः । आ । ववृध्वम् ॥

    yé ǀ ca ǀ árhanti ǀ marútaḥ ǀ su-dā́navaḥ ǀ smát ǀ mīḷhúṣaḥ ǀ cáranti ǀ yé ǀ
    átaḥ ǀ cit ǀ ā́ ǀ naḥ ǀ úpa ǀ vásyasā ǀ hṛdā́ ǀ yúvānaḥ ǀ ā́ ǀ vavṛdhvam ǁ

    ye ǀ ca ǀ arhanti ǀ marutaḥ ǀ su-dānavaḥ ǀ smat ǀ mīḷhuṣaḥ ǀ caranti ǀ ye ǀ
    ataḥ ǀ cit ǀ ā ǀ naḥ ǀ upa ǀ vasyasā ǀ hṛdā ǀ yuvānaḥ ǀ ā ǀ vavṛdhvam ǁ

    8.20.18 Aṣṭaka 6.1.39.3Anuvāka 8.3.165

  19. Ṛk 19

    यून॑ ऊ॒ षु नवि॑ष्ठया॒ वृष्णः॑ पाव॒काँ अ॒भि सो॑भरे गि॒रा ।
    गाय॒ गा इ॑व॒ चर्कृ॑षत् ॥

    यून ऊ षु नविष्ठया वृष्णः पावकां अभि सोभरे गिरा |
    गाय गा इव चर्कृषत् ||

    yū́na ū ṣú náviṣṭhayā vṛ́ṣṇaḥ pāvakā́m̐ abhí sobhare girā́ ǀ
    gā́ya gā́ iva cárkṛṣat ǁ

    yūna ū ṣu naviṣṭhayā vṛṣṇaḥ pāvakāṃ abhi sobhare girā |
    gāya gā iva carkṛṣat ||

    यूनः॑ । ऊं॒ इति॑ । सु । नवि॑ष्ठया । वृष्णः॑ । पा॒व॒कान् । अ॒भि । सो॒भ॒रे॒ । गि॒रा ।
    गाय॑ । गाःऽइ॑व । चर्कृ॑षत् ॥

    यूनः । ऊं इति । सु । नविष्ठया । वृष्णः । पावकान् । अभि । सोभरे । गिरा ।
    गाय । गाःऽइव । चर्कृषत् ॥

    yū́naḥ ǀ ūṃ íti ǀ sú ǀ náviṣṭhayā ǀ vṛ́ṣṇaḥ ǀ pāvakā́n ǀ abhí ǀ sobhare ǀ girā́ ǀ
    gā́ya ǀ gā́ḥ-iva ǀ cárkṛṣat ǁ

    yūnaḥ ǀ ūṃ iti ǀ su ǀ naviṣṭhayā ǀ vṛṣṇaḥ ǀ pāvakān ǀ abhi ǀ sobhare ǀ girā ǀ
    gāya ǀ gāḥ-iva ǀ carkṛṣat ǁ

    8.20.19 Aṣṭaka 6.1.39.4Anuvāka 8.3.166

  20. Ṛk 20

    सा॒हा ये संति॑ मुष्टि॒हेव॒ हव्यो॒ विश्वा॑सु पृ॒त्सु होतृ॑षु ।
    वृष्ण॑श्चं॒द्रान्न सु॒श्रव॑स्तमान्गि॒रा वंद॑स्व म॒रुतो॒ अह॑ ॥

    साहा ये सन्ति मुष्टिहेव हव्यो विश्वासु पृत्सु होतृषु |
    वृष्णश् चन्द्रान् न सुश्रवस्तमान् गिरा वन्दस्व मरुतो अह ||

    sāhā́ yé sánti muṣṭihéva hávyo víśvāsu pṛtsú hótṛṣu ǀ
    vṛ́ṣṇaścandrā́nná suśrávastamāngirā́ vándasva marúto áha ǁ

    sāhā ye santi muṣṭiheva havyo viśvāsu pṛtsu hotṛṣu |
    vṛṣṇaś candrān na suśravastamān girā vandasva maruto aha ||

    स॒हाः । ये । सन्ति॑ । मु॒ष्टि॒हाऽइ॑व । हव्यः॑ । विश्वा॑सु । पृ॒त्ऽसु । होतृ॑षु ।
    वृष्णः॑ । च॒न्द्रान् । न । सु॒श्रवः॑ऽतमान् । गि॒रा । वन्द॑स्व । म॒रुतः॑ । अह॑ ॥

    सहाः । ये । सन्ति । मुष्टिहाऽइव । हव्यः । विश्वासु । पृत्ऽसु । होतृषु ।
    वृष्णः । चन्द्रान् । न । सुश्रवःऽतमान् । गिरा । वन्दस्व । मरुतः । अह ॥

    sahā́ḥ ǀ yé ǀ sánti ǀ muṣṭihā́-iva ǀ hávyaḥ ǀ víśvāsu ǀ pṛt-sú ǀ hótṛṣu ǀ
    vṛ́ṣṇaḥ ǀ candrā́n ǀ ná ǀ suśrávaḥ-tamān ǀ girā́ ǀ vándasva ǀ marútaḥ ǀ áha ǁ

    sahāḥ ǀ ye ǀ santi ǀ muṣṭihā-iva ǀ havyaḥ ǀ viśvāsu ǀ pṛt-su ǀ hotṛṣu ǀ
    vṛṣṇaḥ ǀ candrān ǀ na ǀ suśravaḥ-tamān ǀ girā ǀ vandasva ǀ marutaḥ ǀ aha ǁ

    8.20.20 Aṣṭaka 6.1.39.5Anuvāka 8.3.167

  21. Ṛk 21

    गाव॑श्चिद्घा समन्यवः सजा॒त्ये॑न मरुतः॒ सबं॑धवः ।
    रि॒ह॒ते क॒कुभो॑ मि॒थः ॥

    गावश् चिद् घा समन्यवः सजात्येन मरुतः सबन्धवः |
    रिहते ककुभो मिथः ||

    gā́vaścidghā samanyavaḥ sajātyéna marutaḥ sábandhavaḥ ǀ
    rihaté kakúbho mitháḥ ǁ

    gāvaś cid ghā samanyavaḥ sajātyena marutaḥ sabandhavaḥ |
    rihate kakubho mithaḥ ||

    गावः॑ । चि॒त् । घ॒ । स॒ऽम॒न्य॒वः॒ । स॒ऽजा॒त्ये॑न । म॒रु॒तः॒ । सऽब॑न्धवः ।
    रि॒ह॒ते । क॒कुभः॑ । मि॒थः ॥

    गावः । चित् । घ । सऽमन्यवः । सऽजात्येन । मरुतः । सऽबन्धवः ।
    रिहते । ककुभः । मिथः ॥

    gā́vaḥ ǀ cit ǀ gha ǀ sa-manyavaḥ ǀ sa-jātyéna ǀ marutaḥ ǀ sá-bandhavaḥ ǀ
    rihaté ǀ kakúbhaḥ ǀ mitháḥ ǁ

    gāvaḥ ǀ cit ǀ gha ǀ sa-manyavaḥ ǀ sa-jātyena ǀ marutaḥ ǀ sa-bandhavaḥ ǀ
    rihate ǀ kakubhaḥ ǀ mithaḥ ǁ

    8.20.21 Aṣṭaka 6.1.40.1Anuvāka 8.3.168

  22. Ṛk 22

    मर्त॑श्चिद्वो नृतवो रुक्मवक्षस॒ उप॑ भ्रातृ॒त्वमाय॑ति ।
    अधि॑ नो गात मरुतः॒ सदा॒ हि व॑ आपि॒त्वमस्ति॒ निध्रु॑वि ॥

    मर्तश् चिद् वो नृतवो रुक्मवक्षस उप भ्रातृत्वम् आयति |
    अधि नो गात मरुतः सदा हि व आपित्वम् अस्ति निध्रुवि ||

    mártaścidvo nṛtavo rukmavakṣasa úpa bhrātṛtvámā́yati ǀ
    ádhi no gāta marutaḥ sádā hí va āpitvámásti nídhruvi ǁ

    martaś cid vo nṛtavo rukmavakṣasa upa bhrātṛtvam āyati |
    adhi no gāta marutaḥ sadā hi va āpitvam asti nidhruvi ||

    मर्तः॑ । चि॒त् । वः॒ । नृ॒त॒वः॒ । रु॒क्म॒ऽव॒क्ष॒सः॒ । उप॑ । भ्रा॒तृ॒ऽत्वम् । आ । अ॒य॒ति॒ ।
    अधि॑ । नः॒ । गा॒त॒ । म॒रु॒तः॒ । सदा॑ । हि । वः॒ । आ॒पि॒ऽत्वम् । अस्ति॑ । निऽध्रु॑वि ॥

    मर्तः । चित् । वः । नृतवः । रुक्मऽवक्षसः । उप । भ्रातृऽत्वम् । आ । अयति ।
    अधि । नः । गात । मरुतः । सदा । हि । वः । आपिऽत्वम् । अस्ति । निऽध्रुवि ॥

    mártaḥ ǀ cit ǀ vaḥ ǀ nṛtavaḥ ǀ rukma-vakṣasaḥ ǀ úpa ǀ bhrātṛ-tvám ǀ ā́ ǀ ayati ǀ
    ádhi ǀ naḥ ǀ gāta ǀ marutaḥ ǀ sádā ǀ hí ǀ vaḥ ǀ āpi-tvám ǀ ásti ǀ ní-dhruvi ǁ

    martaḥ ǀ cit ǀ vaḥ ǀ nṛtavaḥ ǀ rukma-vakṣasaḥ ǀ upa ǀ bhrātṛ-tvam ǀ ā ǀ ayati ǀ
    adhi ǀ naḥ ǀ gāta ǀ marutaḥ ǀ sadā ǀ hi ǀ vaḥ ǀ āpi-tvam ǀ asti ǀ ni-dhruvi ǁ

    8.20.22 Aṣṭaka 6.1.40.2Anuvāka 8.3.169

  23. Ṛk 23

    मरु॑तो॒ मारु॑तस्य न॒ आ भे॑ष॒जस्य॑ वहता सुदानवः ।
    यू॒यं स॑खायः सप्तयः ॥

    मरुतो मारुतस्य न आ भेषजस्य वहता सुदानवः |
    यूयं सखायः सप्तयः ||

    máruto mā́rutasya na ā́ bheṣajásya vahatā sudānavaḥ ǀ
    yūyám sakhāyaḥ saptayaḥ ǁ

    maruto mārutasya na ā bheṣajasya vahatā sudānavaḥ |
    yūyaṃ sakhāyaḥ saptayaḥ ||

    मरु॑तः । मारु॑तस्य । नः॒ । आ । भे॒ष॒जस्य॑ । व॒ह॒त॒ । सु॒ऽदा॒न॒वः॒ ।
    यू॒यम् । स॒खा॒यः॒ । स॒प्त॒यः॒ ॥

    मरुतः । मारुतस्य । नः । आ । भेषजस्य । वहत । सुऽदानवः ।
    यूयम् । सखायः । सप्तयः ॥

    márutaḥ ǀ mā́rutasya ǀ naḥ ǀ ā́ ǀ bheṣajásya ǀ vahata ǀ su-dānavaḥ ǀ
    yūyám ǀ sakhāyaḥ ǀ saptayaḥ ǁ

    marutaḥ ǀ mārutasya ǀ naḥ ǀ ā ǀ bheṣajasya ǀ vahata ǀ su-dānavaḥ ǀ
    yūyam ǀ sakhāyaḥ ǀ saptayaḥ ǁ

    8.20.23 Aṣṭaka 6.1.40.3Anuvāka 8.3.170

  24. Ṛk 24

    याभिः॒ सिंधु॒मव॑थ॒ याभि॒स्तूर्व॑थ॒ याभि॑र्दश॒स्यथा॒ क्रिविं॑ ।
    मयो॑ नो भूतो॒तिभि॑र्मयोभुवः शि॒वाभि॑रसचद्विषः ॥

    याभिः सिन्धुम् अवथ याभिस् तूर्वथ याभिर् दशस्यथा क्रिविम् |
    मयो नो भूतोतिभिर् मयोभुवः शिवाभिर् असचद्विषः ||

    yā́bhiḥ síndhumávatha yā́bhistū́rvatha yā́bhirdaśasyáthā krívim ǀ
    máyo no bhūtotíbhirmayobhuvaḥ śivā́bhirasacadviṣaḥ ǁ

    yābhiḥ sindhum avatha yābhis tūrvatha yābhir daśasyathā krivim |
    mayo no bhūtotibhir mayobhuvaḥ śivābhir asacadviṣaḥ ||

    याभिः॑ । सिन्धु॑म् । अव॑थ । याभिः॑ । तूर्व॑थ । याभिः॑ । द॒श॒स्यथ॑ । क्रिवि॑म् ।
    मयः॑ । नः॒ । भू॒त॒ । ऊ॒तिऽभिः॑ । म॒यः॒ऽभु॒वः॒ । शि॒वाभिः॑ । अ॒स॒च॒ऽद्वि॒षः॒ ॥

    याभिः । सिन्धुम् । अवथ । याभिः । तूर्वथ । याभिः । दशस्यथ । क्रिविम् ।
    मयः । नः । भूत । ऊतिऽभिः । मयःऽभुवः । शिवाभिः । असचऽद्विषः ॥

    yā́bhiḥ ǀ síndhum ǀ ávatha ǀ yā́bhiḥ ǀ tū́rvatha ǀ yā́bhiḥ ǀ daśasyátha ǀ krívim ǀ
    máyaḥ ǀ naḥ ǀ bhūta ǀ ūtí-bhiḥ ǀ mayaḥ-bhuvaḥ ǀ śivā́bhiḥ ǀ asaca-dviṣaḥ ǁ

    yābhiḥ ǀ sindhum ǀ avatha ǀ yābhiḥ ǀ tūrvatha ǀ yābhiḥ ǀ daśasyatha ǀ krivim ǀ
    mayaḥ ǀ naḥ ǀ bhūta ǀ ūti-bhiḥ ǀ mayaḥ-bhuvaḥ ǀ śivābhiḥ ǀ asaca-dviṣaḥ ǁ

    8.20.24 Aṣṭaka 6.1.40.4Anuvāka 8.3.171

  25. Ṛk 25

    यत्सिंधौ॒ यदसि॑क्न्यां॒ यत्स॑मु॒द्रेषु॑ मरुतः सुबर्हिषः ।
    यत्पर्व॑तेषु भेष॒जं ॥

    यत् सिन्धौ यद् असिक्न्यां यत् समुद्रेषु मरुतः सुबर्हिषः |
    यत् पर्वतेषु भेषजम् ||

    yátsíndhau yádásiknyām yátsamudréṣu marutaḥ subarhiṣaḥ ǀ
    yátpárvateṣu bheṣajám ǁ

    yat sindhau yad asiknyāṃ yat samudreṣu marutaḥ subarhiṣaḥ |
    yat parvateṣu bheṣajam ||

    यत् । सिन्धौ॑ । यत् । असि॑क्न्याम् । यत् । स॒मु॒द्रेषु॑ । म॒रु॒तः॒ । सु॒ऽब॒र्हि॒षः॒ ।
    यत् । पर्व॑तेषु । भे॒ष॒जम् ॥

    यत् । सिन्धौ । यत् । असिक्न्याम् । यत् । समुद्रेषु । मरुतः । सुऽबर्हिषः ।
    यत् । पर्वतेषु । भेषजम् ॥

    yát ǀ síndhau ǀ yát ǀ ásiknyām ǀ yát ǀ samudréṣu ǀ marutaḥ ǀ su-barhiṣaḥ ǀ
    yát ǀ párvateṣu ǀ bheṣajám ǁ

    yat ǀ sindhau ǀ yat ǀ asiknyām ǀ yat ǀ samudreṣu ǀ marutaḥ ǀ su-barhiṣaḥ ǀ
    yat ǀ parvateṣu ǀ bheṣajam ǁ

    8.20.25 Aṣṭaka 6.1.40.5Anuvāka 8.3.172

  26. Ṛk 26

    विश्वं॒ पश्यं॑तो बिभृथा त॒नूष्वा तेना॑ नो॒ अधि॑ वोचत ।
    क्ष॒मा रपो॑ मरुत॒ आतु॑रस्य न॒ इष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ ॥

    विश्वम् पश्यन्तो बिभृथा तनूष्व् आ तेना नो अधि वोचत |
    क्षमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतम् पुनः ||

    víśvam páśyanto bibhṛthā tanū́ṣvā́ ténā no ádhi vocata ǀ
    kṣamā́ rápo maruta ā́turasya na íṣkartā víhrutam púnaḥ ǁ

    viśvam paśyanto bibhṛthā tanūṣv ā tenā no adhi vocata |
    kṣamā rapo maruta āturasya na iṣkartā vihrutam punaḥ ||

    विश्व॑म् । पश्य॑न्तः । बि॒भृ॒थ॒ । त॒नूषु॑ । आ । तेन॑ । नः॒ । अधि॑ । वो॒च॒त॒ ।
    क्ष॒मा । रपः॑ । म॒रु॒तः॒ । आतु॑रस्य । नः॒ । इष्क॑र्त । विऽह्रु॑तम् । पुन॒रिति॑ ॥

    विश्वम् । पश्यन्तः । बिभृथ । तनूषु । आ । तेन । नः । अधि । वोचत ।
    क्षमा । रपः । मरुतः । आतुरस्य । नः । इष्कर्त । विऽह्रुतम् । पुनरिति ॥

    víśvam ǀ páśyantaḥ ǀ bibhṛtha ǀ tanū́ṣu ǀ ā́ ǀ téna ǀ naḥ ǀ ádhi ǀ vocata ǀ
    kṣamā́ ǀ rápaḥ ǀ marutaḥ ǀ ā́turasya ǀ naḥ ǀ íṣkarta ǀ ví-hrutam ǀ púnaríti ǁ

    viśvam ǀ paśyantaḥ ǀ bibhṛtha ǀ tanūṣu ǀ ā ǀ tena ǀ naḥ ǀ adhi ǀ vocata ǀ
    kṣamā ǀ rapaḥ ǀ marutaḥ ǀ āturasya ǀ naḥ ǀ iṣkarta ǀ vi-hrutam ǀ punariti ǁ

    8.20.26 Aṣṭaka 6.1.40.6Anuvāka 8.3.173

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.20 · Maruts

Interpretations

Ralph T. H. Griffith

Ṛk 1

LET none, Swift Travellers! check you: come hither, like-spirited, stay not far away, Ye benders even of what is firm.

Ṛk 2

Maruts, Ṛbhukṣans, Rudras come ye with your cars strong-fellied and exceeding bright. Come, ye for whom we long, with food, to sacrifice, come ye with love to Sobbari.

Ṛk 3

For well we know the vigorous might of Rudra's Sons, the Martits, who are passing strong, Swift Viṣṇu's band, who send the rain.,

Ṛk 4

Islands are bursting forth and misery is stayed: the heaven and earth are joined in one. Decked with bright rings, ye spread the broad expanses out, when ye, Self. luminous, stirred yourselves.

Ṛk 5

Even things immovable shake and reel, the mountains and the forest trees at your approach, And the earth trembles as ye come.

Ṛk 6

To lend free course, O Maruts, to your furious rush, heaven high and higher still gives way, Where they, the Heroes mighty with their arms, display their gleaming omaments on their forms.

Ṛk 7

After their Godlike nature they, the bull. like Heroes, dazzling and impetuous, wear Great splendour as they show erect.

Ṛk 8

The pivot of the Sobharis' chariot within the golden box is balmed with milk. May they the Well-born, Mighty, kindred of the Cow, aid us to food and to delight.

Ṛk 9

Bring, ye who sprinkle balmy drops. oblations to your vigorous Marut company, To those whose leader is the Bull.

Ṛk 10

Come hither, O ye Mares, on your stronghorsed car, solid in look, with solid naves. Lightly like winged falcons, O ye Heroes, come, come to enjoy our ofrerings.

Ṛk 11

Their decoration is the same: their omaments of gold are bright upon their arms; Their lances glitter splendidly.

Ṛk 12

They toil not to defend their bodies from attack, strong Heroes with their mighty arms. Strong are your bows and strong the weapons in your cars, and glory sits on every face.

Ṛk 13

Whose name extendeth like a sea, alone, resplendent, so that all have joy in it, And life-power like ancestral might.

Ṛk 14

Pay honour to these Maruts and sing praise to them, for of the wheel-spokes of the car Of these loud roarers none is last: this is their power, this moves them to give mighty gifts.

Ṛk 15

Blest by your favouring help was he, O Maruts, at the earlier flushings of the morn, And even now shall he be blest.

Ṛk 16

The strong man to whose sacrifice, O Heroes, ye approach that ye may taste thereof, With glories and with war that winneth spoil shall gain great bliss, ye Shakers of the world.

Ṛk 17

Even as Rudra's Sons, the brood of the Creator Dyaus, the Asura, desire, O Youthful Ones, so shall it be:

Ṛk 18

And these the bounteous, worthy of the Maruts who move onward pouring down the rain- Even for their sake, O Youthful Ones, with kindest heart take us to you to be your own.

Ṛk 19

O Sobhari, with newest song sing out unto the youthful purifying Bulls, Even as a plougher to his steers.

Ṛk 20

Who, like a celebrated boxer, overcome the challengers in every fight: They who, like shining bulls, are most illustrious-honour those Maruts with thy song.

Ṛk 21

Allied by common ancestry, ye Maruts, even the Cows, alike in energy, Lick, all by turns, each other's head.

Ṛk 22

Even mortal man, ye Dancers breast adorned with gold, attains to brotherhood with you. Mark ye and notice us, O Maruts; evermore your friendship is secured to us.

Ṛk 23

O Maruts, rich in noble gifts, bring us a portion of the Maruts’ medicine, Ye Coursers who are Friends to us.

Ṛk 24

Haters of those who serve you not, bliss-bringers, bring us bliss with those auspicious aids Wherewith ye are victorious and guard Sindhu well, and succour Krvi in his need.

Ṛk 25

Maruts, who rest on fair trimmed grass, what balm soever Sindhu or Asikni hath, Or mountains or the seas contain.