Ṛk 8.20.14
Saṃhitā
तान्वं॑दस्व म॒रुत॒स्ताँ उप॑ स्तुहि॒ तेषां॒ हि धुनी॑नां ।
अ॒राणां॒ न च॑र॒मस्तदे॑षां दा॒ना म॒ह्ना तदे॑षां ॥
तान् वन्दस्व मरुतस् तां उप स्तुहि तेषां हि धुनीनाम् |
अराणां न चरमस् तद् एषां दाना मह्ना तद् एषाम् ||
tā́nvandasva marútastā́m̐ úpa stuhi téṣām hí dhúnīnām ǀ
arā́ṇām ná caramástádeṣām dānā́ mahnā́ tádeṣām ǁ
tān vandasva marutas tāṃ upa stuhi teṣāṃ hi dhunīnām |
arāṇāṃ na caramas tad eṣāṃ dānā mahnā tad eṣām ||
Padapāṭha
तान् । व॒न्द॒स्व॒ । म॒रुतः॑ । तान् । उप॑ । स्तु॒हि॒ । तेषा॑म् । हि । धुनी॑नाम् ।
अ॒राणा॑म् । न । च॒र॒मः । तत् । ए॒षा॒म् । दा॒ना । म॒ह्ना । तत् । ए॒षा॒म् ॥
तान् । वन्दस्व । मरुतः । तान् । उप । स्तुहि । तेषाम् । हि । धुनीनाम् ।
अराणाम् । न । चरमः । तत् । एषाम् । दाना । मह्ना । तत् । एषाम् ॥
tā́n ǀ vandasva ǀ marútaḥ ǀ tā́n ǀ úpa ǀ stuhi ǀ téṣām ǀ hí ǀ dhúnīnām ǀ
arā́ṇām ǀ ná ǀ caramáḥ ǀ tát ǀ eṣām ǀ dānā́ ǀ mahnā́ ǀ tát ǀ eṣām ǁ
tān ǀ vandasva ǀ marutaḥ ǀ tān ǀ upa ǀ stuhi ǀ teṣām ǀ hi ǀ dhunīnām ǀ
arāṇām ǀ na ǀ caramaḥ ǀ tat ǀ eṣām ǀ dānā ǀ mahnā ǀ tat ǀ eṣām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.020.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.1.38.04
- Maṇḍala · Anuvāka · Ṛk
- 08.03.161
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Sobhari Kāṇva
- Chandas छन्दस्
- Kakubh, Satobṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.