Ṛk 8.20.6
Saṃhitā
अमा॑य वो मरुतो॒ यात॑वे॒ द्यौर्जिही॑त॒ उत्त॑रा बृ॒हत् ।
यत्रा॒ नरो॒ देदि॑शते त॒नूष्वा त्वक्षां॑सि बा॒ह्वो॑जसः ॥
अमाय वो मरुतो यातवे द्यौर् जिहीत उत्तरा बृहत् |
यत्रा नरो देदिशते तनूष्व् आ त्वक्षांसि बाह्वोजसः ||
ámāya vo maruto yā́tave dyáurjíhīta úttarā bṛhát ǀ
yátrā náro dédiśate tanū́ṣvā́ tvákṣāṃsi bāhvójasaḥ ǁ
amāya vo maruto yātave dyaur jihīta uttarā bṛhat |
yatrā naro dediśate tanūṣv ā tvakṣāṃsi bāhvojasaḥ ||
Padapāṭha
अमा॑य । वः॒ । म॒रु॒तः॒ । यात॑वे । द्यौः । जिही॑ते । उत्ऽत॑रा । बृ॒हत् ।
यत्र॑ । नरः॑ । देदि॑शते । त॒नूषु॑ । आ । त्वक्षां॑सि । ब॒हुऽओ॑जसः ॥
अमाय । वः । मरुतः । यातवे । द्यौः । जिहीते । उत्ऽतरा । बृहत् ।
यत्र । नरः । देदिशते । तनूषु । आ । त्वक्षांसि । बहुऽओजसः ॥
ámāya ǀ vaḥ ǀ marutaḥ ǀ yā́tave ǀ dyáuḥ ǀ jíhīte ǀ út-tarā ǀ bṛhát ǀ
yátra ǀ náraḥ ǀ dédiśate ǀ tanū́ṣu ǀ ā́ ǀ tvákṣāṃsi ǀ bahú-ojasaḥ ǁ
amāya ǀ vaḥ ǀ marutaḥ ǀ yātave ǀ dyauḥ ǀ jihīte ǀ ut-tarā ǀ bṛhat ǀ
yatra ǀ naraḥ ǀ dediśate ǀ tanūṣu ǀ ā ǀ tvakṣāṃsi ǀ bahu-ojasaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.020.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.1.37.01
- Maṇḍala · Anuvāka · Ṛk
- 08.03.153
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Sobhari Kāṇva
- Chandas छन्दस्
- Kakubh, Satobṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.