Sūkta 6
- Devatā देवता
- 1-45: Indra; 46-48: Pārśavya’s Dānastuti
- Ṛṣi ऋषि
- Vatsa Kāṇva
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1-13, 15-17, 19, 25-27, 29, 30, 32, 35, 38, 42); nicṛdgāyatrī (14, 18, 23, 33, 34, 36, 37, 39-41, 43, 45, 48); virāḍārṣīgāyatrī (21, 22, 28, 31, 44, 46); gāyatrī (pādanicṛdgāyatrī) (24, 47); svarāḍārcīgāyatrī (20)
2nd set of styles gāyatrī
-
Ṛk 1
म॒हाँ इंद्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ इ॑व ।
स्तोमै॑र्व॒त्सस्य॑ वावृधे ॥महां इन्द्रो य ओजसा पर्जन्यो वृष्टिमां इव |
स्तोमैर् वत्सस्य वावृधे ||mahā́m̐ índro yá ójasā parjányo vṛṣṭimā́m̐ iva ǀ
stómairvatsásya vāvṛdhe ǁmahāṃ indro ya ojasā parjanyo vṛṣṭimāṃ iva |
stomair vatsasya vāvṛdhe ||म॒हान् । इन्द्रः॑ । यः । ओज॑सा । प॒र्जन्यः॑ । वृ॒ष्टि॒मान्ऽइ॑व ।
स्तोमैः॑ । व॒त्सस्य॑ । व॒वृ॒धे॒ ॥महान् । इन्द्रः । यः । ओजसा । पर्जन्यः । वृष्टिमान्ऽइव ।
स्तोमैः । वत्सस्य । ववृधे ॥mahā́n ǀ índraḥ ǀ yáḥ ǀ ójasā ǀ parjányaḥ ǀ vṛṣṭimā́n-iva ǀ
stómaiḥ ǀ vatsásya ǀ vavṛdhe ǁmahān ǀ indraḥ ǀ yaḥ ǀ ojasā ǀ parjanyaḥ ǀ vṛṣṭimān-iva ǀ
stomaiḥ ǀ vatsasya ǀ vavṛdhe ǁ8.6.1 Aṣṭaka 5.8.9.1Anuvāka 8.2.1
-
Ṛk 2
प्र॒जामृ॒तस्य॒ पिप्र॑तः॒ प्र यद्भरं॑त॒ वह्न॑यः ।
विप्रा॑ ऋ॒तस्य॒ वाह॑सा ॥प्रजाम् ऋतस्य पिप्रतः प्र यद् भरन्त वह्नयः |
विप्रा ऋतस्य वाहसा ||prajā́mṛtásya píprataḥ prá yádbháranta váhnayaḥ ǀ
víprā ṛtásya vā́hasā ǁprajām ṛtasya piprataḥ pra yad bharanta vahnayaḥ |
viprā ṛtasya vāhasā ||प्र॒ऽजाम् । ऋ॒तस्य॑ । पिप्र॑तः । प्र । यत् । भर॑न्त । वह्न॑यः ।
विप्राः॑ । ऋ॒तस्य॑ । वाह॑सा ॥प्रऽजाम् । ऋतस्य । पिप्रतः । प्र । यत् । भरन्त । वह्नयः ।
विप्राः । ऋतस्य । वाहसा ॥pra-jā́m ǀ ṛtásya ǀ píprataḥ ǀ prá ǀ yát ǀ bháranta ǀ váhnayaḥ ǀ
víprāḥ ǀ ṛtásya ǀ vā́hasā ǁpra-jām ǀ ṛtasya ǀ piprataḥ ǀ pra ǀ yat ǀ bharanta ǀ vahnayaḥ ǀ
viprāḥ ǀ ṛtasya ǀ vāhasā ǁ8.6.2 Aṣṭaka 5.8.9.2Anuvāka 8.2.2
-
Ṛk 3
कण्वा॒ इंद्रं॒ यदक्र॑त॒ स्तोमै॑र्य॒ज्ञस्य॒ साध॑नं ।
जा॒मि ब्रु॑वत॒ आयु॑धं ॥कण्वा इन्द्रं यद् अक्रत स्तोमैर् यज्ञस्य साधनम् |
जामि ब्रुवत आयुधम् ||káṇvā índram yádákrata stómairyajñásya sā́dhanam ǀ
jāmí bruvata ā́yudham ǁkaṇvā indraṃ yad akrata stomair yajñasya sādhanam |
jāmi bruvata āyudham ||कण्वाः॑ । इन्द्र॑म् । यत् । अक्र॑त । स्तोमैः॑ । य॒ज्ञस्य॑ । साध॑नम् ।
जा॒मि । ब्रु॒व॒ते॒ । आयु॑धम् ॥कण्वाः । इन्द्रम् । यत् । अक्रत । स्तोमैः । यज्ञस्य । साधनम् ।
जामि । ब्रुवते । आयुधम् ॥káṇvāḥ ǀ índram ǀ yát ǀ ákrata ǀ stómaiḥ ǀ yajñásya ǀ sā́dhanam ǀ
jāmí ǀ bruvate ǀ ā́yudham ǁkaṇvāḥ ǀ indram ǀ yat ǀ akrata ǀ stomaiḥ ǀ yajñasya ǀ sādhanam ǀ
jāmi ǀ bruvate ǀ āyudham ǁ8.6.3 Aṣṭaka 5.8.9.3Anuvāka 8.2.3
-
Ṛk 4
सम॑स्य म॒न्यवे॒ विशो॒ विश्वा॑ नमंत कृ॒ष्टयः॑ ।
स॒मु॒द्राये॑व॒ सिंध॑वः ॥सम् अस्य मन्यवे विशो विश्वा नमन्त कृष्टयः |
समुद्रायेव सिन्धवः ||sámasya manyáve víśo víśvā namanta kṛṣṭáyaḥ ǀ
samudrā́yeva síndhavaḥ ǁsam asya manyave viśo viśvā namanta kṛṣṭayaḥ |
samudrāyeva sindhavaḥ ||सम् । अ॒स्य॒ । म॒न्यवे॑ । विशः॑ । विश्वाः॑ । न॒म॒न्त॒ । कृ॒ष्टयः॑ ।
स॒मु॒द्राय॑ऽइव । सिन्ध॑वः ॥सम् । अस्य । मन्यवे । विशः । विश्वाः । नमन्त । कृष्टयः ।
समुद्रायऽइव । सिन्धवः ॥sám ǀ asya ǀ manyáve ǀ víśaḥ ǀ víśvāḥ ǀ namanta ǀ kṛṣṭáyaḥ ǀ
samudrā́ya-iva ǀ síndhavaḥ ǁsam ǀ asya ǀ manyave ǀ viśaḥ ǀ viśvāḥ ǀ namanta ǀ kṛṣṭayaḥ ǀ
samudrāya-iva ǀ sindhavaḥ ǁ8.6.4 Aṣṭaka 5.8.9.4Anuvāka 8.2.4
-
Ṛk 5
ओज॒स्तद॑स्य तित्विष उ॒भे यत्स॒मव॑र्तयत् ।
इंद्र॒श्चर्मे॑व॒ रोद॑सी ॥ओजस् तद् अस्य तित्विष उभे यत् समवर्तयत् |
इन्द्रश् चर्मेव रोदसी ||ójastádasya titviṣa ubhé yátsamávartayat ǀ
índraścármeva ródasī ǁojas tad asya titviṣa ubhe yat samavartayat |
indraś carmeva rodasī ||ओजः॑ । तत् । अ॒स्य॒ । ति॒त्वि॒षे॒ । उ॒भे इति॑ । यत् । स॒म्ऽअव॑र्तयत् ।
इन्द्रः॑ । चर्म॑ऽइव । रोद॑सी॒ इति॑ ॥ओजः । तत् । अस्य । तित्विषे । उभे इति । यत् । सम्ऽअवर्तयत् ।
इन्द्रः । चर्मऽइव । रोदसी इति ॥ójaḥ ǀ tát ǀ asya ǀ titviṣe ǀ ubhé íti ǀ yát ǀ sam-ávartayat ǀ
índraḥ ǀ cárma-iva ǀ ródasī íti ǁojaḥ ǀ tat ǀ asya ǀ titviṣe ǀ ubhe iti ǀ yat ǀ sam-avartayat ǀ
indraḥ ǀ carma-iva ǀ rodasī iti ǁ8.6.5 Aṣṭaka 5.8.9.5Anuvāka 8.2.5
-
Ṛk 6
वि चि॑द्वृ॒त्रस्य॒ दोध॑तो॒ वज्रे॑ण श॒तप॑र्वणा ।
शिरो॑ बिभेद वृ॒ष्णिना॑ ॥वि चिद् वृत्रस्य दोधतो वज्रेण शतपर्वणा |
शिरो बिभेद वृष्णिना ||ví cidvṛtrásya dódhato vájreṇa śatáparvaṇā ǀ
śíro bibheda vṛṣṇínā ǁvi cid vṛtrasya dodhato vajreṇa śataparvaṇā |
śiro bibheda vṛṣṇinā ||वि । चि॒त् । वृ॒त्रस्य॑ । दोध॑तः । वज्रे॑ण । श॒तऽप॑र्वणा ।
शिरः॑ । बि॒भे॒द॒ । वृ॒ष्णिना॑ ॥वि । चित् । वृत्रस्य । दोधतः । वज्रेण । शतऽपर्वणा ।
शिरः । बिभेद । वृष्णिना ॥ví ǀ cit ǀ vṛtrásya ǀ dódhataḥ ǀ vájreṇa ǀ śatá-parvaṇā ǀ
śíraḥ ǀ bibheda ǀ vṛṣṇínā ǁvi ǀ cit ǀ vṛtrasya ǀ dodhataḥ ǀ vajreṇa ǀ śata-parvaṇā ǀ
śiraḥ ǀ bibheda ǀ vṛṣṇinā ǁ8.6.6 Aṣṭaka 5.8.10.1Anuvāka 8.2.6
-
Ṛk 7
इ॒मा अ॒भि प्र णो॑नुमो वि॒पामग्रे॑षु धी॒तयः॑ ।
अ॒ग्नेः शो॒चिर्न दि॒द्युतः॑ ॥इमा अभि प्र णोनुमो विपाम् अग्रेषु धीतयः |
अग्नेः शोचिर् न दिद्युतः ||imā́ abhí prá ṇonumo vipā́mágreṣu dhītáyaḥ ǀ
agnéḥ śocírná didyútaḥ ǁimā abhi pra ṇonumo vipām agreṣu dhītayaḥ |
agneḥ śocir na didyutaḥ ||इ॒माः । अ॒भि । प्र । नो॒नु॒मः॒ । वि॒पाम् । अग्रे॑षु । धी॒तयः॑ ।
अ॒ग्नेः । शो॒चिः । न । दि॒द्युतः॑ ॥इमाः । अभि । प्र । नोनुमः । विपाम् । अग्रेषु । धीतयः ।
अग्नेः । शोचिः । न । दिद्युतः ॥imā́ḥ ǀ abhí ǀ prá ǀ nonumaḥ ǀ vipā́m ǀ ágreṣu ǀ dhītáyaḥ ǀ
agnéḥ ǀ śocíḥ ǀ ná ǀ didyútaḥ ǁimāḥ ǀ abhi ǀ pra ǀ nonumaḥ ǀ vipām ǀ agreṣu ǀ dhītayaḥ ǀ
agneḥ ǀ śociḥ ǀ na ǀ didyutaḥ ǁ8.6.7 Aṣṭaka 5.8.10.2Anuvāka 8.2.7
-
Ṛk 8
गुहा॑ स॒तीरुप॒ त्मना॒ प्र यच्छोचं॑त धी॒तयः॑ ।
कण्वा॑ ऋ॒तस्य॒ धार॑या ॥गुहा सतीर् उप त्मना प्र यच् छोचन्त धीतयः |
कण्वा ऋतस्य धारया ||gúhā satī́rúpa tmánā prá yácchócanta dhītáyaḥ ǀ
káṇvā ṛtásya dhā́rayā ǁguhā satīr upa tmanā pra yac chocanta dhītayaḥ |
kaṇvā ṛtasya dhārayā ||गुहा॑ । स॒तीः । उप॑ । त्मना॑ । प्र । यत् । शोच॑न्त । धी॒तयः॑ ।
कण्वाः॑ । ऋ॒तस्य॑ । धार॑या ॥गुहा । सतीः । उप । त्मना । प्र । यत् । शोचन्त । धीतयः ।
कण्वाः । ऋतस्य । धारया ॥gúhā ǀ satī́ḥ ǀ úpa ǀ tmánā ǀ prá ǀ yát ǀ śócanta ǀ dhītáyaḥ ǀ
káṇvāḥ ǀ ṛtásya ǀ dhā́rayā ǁguhā ǀ satīḥ ǀ upa ǀ tmanā ǀ pra ǀ yat ǀ śocanta ǀ dhītayaḥ ǀ
kaṇvāḥ ǀ ṛtasya ǀ dhārayā ǁ8.6.8 Aṣṭaka 5.8.10.3Anuvāka 8.2.8
-
Ṛk 9
प्र तमिं॑द्र नशीमहि र॒यिं गोमं॑तम॒श्विनं॑ ।
प्र ब्रह्म॑ पू॒र्वचि॑त्तये ॥प्र तम् इन्द्र नशीमहि रयिं गोमन्तम् अश्विनम् |
प्र ब्रह्म पूर्वचित्तये ||prá támindra naśīmahi rayím gómantamaśvínam ǀ
prá bráhma pūrvácittaye ǁpra tam indra naśīmahi rayiṃ gomantam aśvinam |
pra brahma pūrvacittaye ||प्र । तम् । इ॒न्द्र॒ । न॒शी॒म॒हि॒ । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् ।
प्र । ब्रह्म॑ । पू॒र्वऽचि॑त्तये ॥प्र । तम् । इन्द्र । नशीमहि । रयिम् । गोऽमन्तम् । अश्विनम् ।
प्र । ब्रह्म । पूर्वऽचित्तये ॥prá ǀ tám ǀ indra ǀ naśīmahi ǀ rayím ǀ gó-mantam ǀ aśvínam ǀ
prá ǀ bráhma ǀ pūrvá-cittaye ǁpra ǀ tam ǀ indra ǀ naśīmahi ǀ rayim ǀ go-mantam ǀ aśvinam ǀ
pra ǀ brahma ǀ pūrva-cittaye ǁ8.6.9 Aṣṭaka 5.8.10.4Anuvāka 8.2.9
-
Ṛk 10
अ॒हमिद्धि पि॒तुष्परि॑ मे॒धामृ॒तस्य॑ ज॒ग्रभ॑ ।
अ॒हं सूर्य॑ इवाजनि ॥अहम् इद् धि पितुष् परि मेधाम् ऋतस्य जग्रभ |
अहं सूर्य इवाजनि ||ahámíddhí pitúṣpári medhā́mṛtásya jagrábha ǀ
ahám sū́rya ivājani ǁaham id dhi pituṣ pari medhām ṛtasya jagrabha |
ahaṃ sūrya ivājani ||अ॒हम् । इत् । हि । पि॒तुः । परि॑ । मे॒धाम् । ऋ॒तस्य॑ । ज॒ग्रभ॑ ।
अ॒हम् । सूर्यः॑ऽइव । अ॒ज॒नि॒ ॥अहम् । इत् । हि । पितुः । परि । मेधाम् । ऋतस्य । जग्रभ ।
अहम् । सूर्यःऽइव । अजनि ॥ahám ǀ ít ǀ hí ǀ pitúḥ ǀ pári ǀ medhā́m ǀ ṛtásya ǀ jagrábha ǀ
ahám ǀ sū́ryaḥ-iva ǀ ajani ǁaham ǀ it ǀ hi ǀ pituḥ ǀ pari ǀ medhām ǀ ṛtasya ǀ jagrabha ǀ
aham ǀ sūryaḥ-iva ǀ ajani ǁ8.6.10 Aṣṭaka 5.8.10.5Anuvāka 8.2.10
-
Ṛk 11
अ॒हं प्र॒त्नेन॒ मन्म॑ना॒ गिरः॑ शुंभामि कण्व॒वत् ।
येनेंद्रः॒ शुष्म॒मिद्द॒धे ॥अहम् प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत् |
येनेन्द्रः शुष्मम् इद् दधे ||ahám pratnéna mánmanā gíraḥ śumbhāmi kaṇvavát ǀ
yénéndraḥ śúṣmamíddadhé ǁaham pratnena manmanā giraḥ śumbhāmi kaṇvavat |
yenendraḥ śuṣmam id dadhe ||अ॒हम् । प्र॒त्नेन॑ । मन्म॑ना । गिरः॑ । शु॒म्भा॒मि॒ । क॒ण्व॒ऽवत् ।
येन॑ । इन्द्रः॑ । शुष्म॑म् । इत् । द॒धे ॥अहम् । प्रत्नेन । मन्मना । गिरः । शुम्भामि । कण्वऽवत् ।
येन । इन्द्रः । शुष्मम् । इत् । दधे ॥ahám ǀ pratnéna ǀ mánmanā ǀ gíraḥ ǀ śumbhāmi ǀ kaṇva-vát ǀ
yéna ǀ índraḥ ǀ śúṣmam ǀ ít ǀ dadhé ǁaham ǀ pratnena ǀ manmanā ǀ giraḥ ǀ śumbhāmi ǀ kaṇva-vat ǀ
yena ǀ indraḥ ǀ śuṣmam ǀ it ǀ dadhe ǁ8.6.11 Aṣṭaka 5.8.11.1Anuvāka 8.2.11
-
Ṛk 12
ये त्वामिं॑द्र॒ न तु॑ष्टु॒वुर्ऋष॑यो॒ ये च॑ तुष्टु॒वुः ।
ममेद्व॑र्धस्व॒ सुष्टु॑तः ॥ये त्वाम् इन्द्र न तुष्टुवुर् ऋषयो ये च तुष्टुवुः |
ममेद् वर्धस्व सुष्टुतः ||yé tvā́mindra ná tuṣṭuvúrṛ́ṣayo yé ca tuṣṭuvúḥ ǀ
mámédvardhasva súṣṭutaḥ ǁye tvām indra na tuṣṭuvur ṛṣayo ye ca tuṣṭuvuḥ |
mamed vardhasva suṣṭutaḥ ||ये । त्वाम् । इ॒न्द्र॒ । न । तु॒स्तु॒वुः । ऋष॑यः । ये । च॒ । तु॒स्तु॒वुः ।
मम॑ । इत् । व॒र्ध॒स्व॒ । सुऽस्तु॑तः ॥ये । त्वाम् । इन्द्र । न । तुस्तुवुः । ऋषयः । ये । च । तुस्तुवुः ।
मम । इत् । वर्धस्व । सुऽस्तुतः ॥yé ǀ tvā́m ǀ indra ǀ ná ǀ tustuvúḥ ǀ ṛ́ṣayaḥ ǀ yé ǀ ca ǀ tustuvúḥ ǀ
máma ǀ ít ǀ vardhasva ǀ sú-stutaḥ ǁye ǀ tvām ǀ indra ǀ na ǀ tustuvuḥ ǀ ṛṣayaḥ ǀ ye ǀ ca ǀ tustuvuḥ ǀ
mama ǀ it ǀ vardhasva ǀ su-stutaḥ ǁ8.6.12 Aṣṭaka 5.8.11.2Anuvāka 8.2.12
-
Ṛk 13
यद॑स्य म॒न्युरध्व॑नी॒द्वि वृ॒त्रं प॑र्व॒शो रु॒जन् ।
अ॒पः स॑मु॒द्रमैर॑यत् ॥यद् अस्य मन्युर् अध्वनीद् वि वृत्रम् पर्वशो रुजन् |
अपः समुद्रम् ऐरयत् ||yádasya manyúrádhvanīdví vṛtrám parvaśó ruján ǀ
apáḥ samudrámáirayat ǁyad asya manyur adhvanīd vi vṛtram parvaśo rujan |
apaḥ samudram airayat ||यत् । अ॒स्य॒ । म॒न्युः । अध्व॑नीत् । वि । वृ॒त्रम् । प॒र्व॒ऽशः । रु॒जन् ।
अ॒पः । स॒मु॒द्रम् । ऐर॑यत् ॥यत् । अस्य । मन्युः । अध्वनीत् । वि । वृत्रम् । पर्वऽशः । रुजन् ।
अपः । समुद्रम् । ऐरयत् ॥yát ǀ asya ǀ manyúḥ ǀ ádhvanīt ǀ ví ǀ vṛtrám ǀ parva-śáḥ ǀ ruján ǀ
apáḥ ǀ samudrám ǀ áirayat ǁyat ǀ asya ǀ manyuḥ ǀ adhvanīt ǀ vi ǀ vṛtram ǀ parva-śaḥ ǀ rujan ǀ
apaḥ ǀ samudram ǀ airayat ǁ8.6.13 Aṣṭaka 5.8.11.3Anuvāka 8.2.13
-
Ṛk 14
नि शुष्ण॑ इंद्र धर्ण॒सिं वज्रं॑ जघंथ॒ दस्य॑वि ।
वृषा॒ ह्यु॑ग्र शृण्वि॒षे ॥नि शुष्ण इन्द्र धर्णसिं वज्रं जघन्थ दस्यवि |
वृषा ह्य् उग्र शृण्विषे ||ní śúṣṇa indra dharṇasím vájram jaghantha dásyavi ǀ
vṛ́ṣā hyúgra śṛṇviṣé ǁni śuṣṇa indra dharṇasiṃ vajraṃ jaghantha dasyavi |
vṛṣā hy ugra śṛṇviṣe ||नि । शुष्णे॑ । इ॒न्द्र॒ । ध॒र्ण॒सिम् । वज्र॑म् । ज॒घ॒न्थ॒ । दस्य॑वि ।
वृषा॑ । हि । उ॒ग्र॒ । शृ॒ण्वि॒षे ॥नि । शुष्णे । इन्द्र । धर्णसिम् । वज्रम् । जघन्थ । दस्यवि ।
वृषा । हि । उग्र । शृण्विषे ॥ní ǀ śúṣṇe ǀ indra ǀ dharṇasím ǀ vájram ǀ jaghantha ǀ dásyavi ǀ
vṛ́ṣā ǀ hí ǀ ugra ǀ śṛṇviṣé ǁni ǀ śuṣṇe ǀ indra ǀ dharṇasim ǀ vajram ǀ jaghantha ǀ dasyavi ǀ
vṛṣā ǀ hi ǀ ugra ǀ śṛṇviṣe ǁ8.6.14 Aṣṭaka 5.8.11.4Anuvāka 8.2.14
-
Ṛk 15
न द्याव॒ इंद्र॒मोज॑सा॒ नांतरि॑क्षाणि व॒ज्रिणं॑ ।
न वि॑व्यचंत॒ भूम॑यः ॥न द्याव इन्द्रम् ओजसा नान्तरिक्षाणि वज्रिणम् |
न विव्यचन्त भूमयः ||ná dyā́va índramójasā nā́ntárikṣāṇi vajríṇam ǀ
ná vivyacanta bhū́mayaḥ ǁna dyāva indram ojasā nāntarikṣāṇi vajriṇam |
na vivyacanta bhūmayaḥ ||न । द्यावः॑ । इन्द्र॑म् । ओज॑सा । न । अ॒न्तरि॑क्षाणि । व॒ज्रिण॑म् ।
न । वि॒व्य॒च॒न्त॒ । भूम॑यः ॥न । द्यावः । इन्द्रम् । ओजसा । न । अन्तरिक्षाणि । वज्रिणम् ।
न । विव्यचन्त । भूमयः ॥ná ǀ dyā́vaḥ ǀ índram ǀ ójasā ǀ ná ǀ antárikṣāṇi ǀ vajríṇam ǀ
ná ǀ vivyacanta ǀ bhū́mayaḥ ǁna ǀ dyāvaḥ ǀ indram ǀ ojasā ǀ na ǀ antarikṣāṇi ǀ vajriṇam ǀ
na ǀ vivyacanta ǀ bhūmayaḥ ǁ8.6.15 Aṣṭaka 5.8.11.5Anuvāka 8.2.15
-
Ṛk 16
यस्त॑ इंद्र म॒हीर॒पः स्त॑भू॒यमा॑न॒ आश॑यत् ।
नि तं पद्या॑सु शिश्नथः ॥यस् त इन्द्र महीर् अप स्तभूयमान आशयत् |
नि तम् पद्यासु शिश्नथः ||yásta indra mahī́rapáḥ stabhūyámāna ā́śayat ǀ
ní tám pádyāsu śiśnathaḥ ǁyas ta indra mahīr apa stabhūyamāna āśayat |
ni tam padyāsu śiśnathaḥ ||यः । ते॒ । इ॒न्द्र॒ । म॒हीः । अ॒पः । स्त॒भु॒ऽयमा॑नः । आ । अश॑यत् ।
नि । तम् । पद्या॑सु । शि॒श्न॒थः॒ ॥यः । ते । इन्द्र । महीः । अपः । स्तभुऽयमानः । आ । अशयत् ।
नि । तम् । पद्यासु । शिश्नथः ॥yáḥ ǀ te ǀ indra ǀ mahī́ḥ ǀ apáḥ ǀ stabhu-yámānaḥ ǀ ā́ ǀ áśayat ǀ
ní ǀ tám ǀ pádyāsu ǀ śiśnathaḥ ǁyaḥ ǀ te ǀ indra ǀ mahīḥ ǀ apaḥ ǀ stabhu-yamānaḥ ǀ ā ǀ aśayat ǀ
ni ǀ tam ǀ padyāsu ǀ śiśnathaḥ ǁ8.6.16 Aṣṭaka 5.8.12.1Anuvāka 8.2.16
-
Ṛk 17
य इ॒मे रोद॑सी म॒ही स॑मी॒ची स॒मज॑ग्रभीत् ।
तमो॑भिरिंद्र॒ तं गु॑हः ॥य इमे रोदसी मही समीची समजग्रभीत् |
तमोभिर् इन्द्र तं गुहः ||yá imé ródasī mahī́ samīcī́ samájagrabhīt ǀ
támobhirindra tám guhaḥ ǁya ime rodasī mahī samīcī samajagrabhīt |
tamobhir indra taṃ guhaḥ ||यः । इ॒मे इति॑ । रोद॑सी॒ इति॑ । म॒ही इति॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । स॒म्ऽअज॑ग्रभीत् ।
तमः॑ऽभिः । इ॒न्द्र॒ । तम् । गु॒हः॒ ॥यः । इमे इति । रोदसी इति । मही इति । समीची इति सम्ऽईची । सम्ऽअजग्रभीत् ।
तमःऽभिः । इन्द्र । तम् । गुहः ॥yáḥ ǀ imé íti ǀ ródasī íti ǀ mahī́ íti ǀ samīcī́ íti sam-īcī́ ǀ sam-ájagrabhīt ǀ
támaḥ-bhiḥ ǀ indra ǀ tám ǀ guhaḥ ǁyaḥ ǀ ime iti ǀ rodasī iti ǀ mahī iti ǀ samīcī iti sam-īcī ǀ sam-ajagrabhīt ǀ
tamaḥ-bhiḥ ǀ indra ǀ tam ǀ guhaḥ ǁ8.6.17 Aṣṭaka 5.8.12.2Anuvāka 8.2.17
-
Ṛk 18
य इं॑द्र॒ यत॑यस्त्वा॒ भृग॑वो॒ ये च॑ तुष्टु॒वुः ।
ममेदु॑ग्र श्रुधी॒ हवं॑ ॥य इन्द्र यतयस् त्वा भृगवो ये च तुष्टुवुः |
ममेद् उग्र श्रुधी हवम् ||yá indra yátayastvā bhṛ́gavo yé ca tuṣṭuvúḥ ǀ
mámédugra śrudhī hávam ǁya indra yatayas tvā bhṛgavo ye ca tuṣṭuvuḥ |
mamed ugra śrudhī havam ||ये । इ॒न्द्र॒ । यत॑यः । त्वा॒ । भृग॑वः । ये । च॒ । तु॒स्तु॒वुः ।
मम॑ । इत् । उ॒ग्र॒ । श्रु॒धि॒ । हव॑म् ॥ये । इन्द्र । यतयः । त्वा । भृगवः । ये । च । तुस्तुवुः ।
मम । इत् । उग्र । श्रुधि । हवम् ॥yé ǀ indra ǀ yátayaḥ ǀ tvā ǀ bhṛ́gavaḥ ǀ yé ǀ ca ǀ tustuvúḥ ǀ
máma ǀ ít ǀ ugra ǀ śrudhi ǀ hávam ǁye ǀ indra ǀ yatayaḥ ǀ tvā ǀ bhṛgavaḥ ǀ ye ǀ ca ǀ tustuvuḥ ǀ
mama ǀ it ǀ ugra ǀ śrudhi ǀ havam ǁ8.6.18 Aṣṭaka 5.8.12.3Anuvāka 8.2.18
-
Ṛk 19
इ॒मास्त॑ इंद्र॒ पृश्न॑यो घृ॒तं दु॑हत आ॒शिरं॑ ।
ए॒नामृ॒तस्य॑ पि॒प्युषीः॑ ॥इमास् त इन्द्र पृश्नयो घृतं दुहत आशिरम् |
एनाम् ऋतस्य पिप्युषीः ||imā́sta indra pṛ́śnayo ghṛtám duhata āśíram ǀ
enā́mṛtásya pipyúṣīḥ ǁimās ta indra pṛśnayo ghṛtaṃ duhata āśiram |
enām ṛtasya pipyuṣīḥ ||इ॒माः । ते॒ । इ॒न्द्र॒ । पृश्न॑यः । घृ॒तम् । दु॒ह॒ते॒ । आ॒ऽशिर॑म् ।
ए॒नाम् । ऋ॒तस्य॑ । पि॒प्युषीः॑ ॥इमाः । ते । इन्द्र । पृश्नयः । घृतम् । दुहते । आऽशिरम् ।
एनाम् । ऋतस्य । पिप्युषीः ॥imā́ḥ ǀ te ǀ indra ǀ pṛ́śnayaḥ ǀ ghṛtám ǀ duhate ǀ ā-śíram ǀ
enā́m ǀ ṛtásya ǀ pipyúṣīḥ ǁimāḥ ǀ te ǀ indra ǀ pṛśnayaḥ ǀ ghṛtam ǀ duhate ǀ ā-śiram ǀ
enām ǀ ṛtasya ǀ pipyuṣīḥ ǁ8.6.19 Aṣṭaka 5.8.12.4Anuvāka 8.2.19
-
Ṛk 20
या इं॑द्र प्र॒स्व॑स्त्वा॒सा गर्भ॒मच॑क्रिरन् ।
परि॒ धर्मे॑व॒ सूर्यं॑ ॥या इन्द्र प्रस्वस् त्वासा गर्भम् अचक्रिरन् |
परि धर्मेव सूर्यम् ||yā́ indra prasvástvāsā́ gárbhamácakriran ǀ
pári dhármeva sū́ryam ǁyā indra prasvas tvāsā garbham acakriran |
pari dharmeva sūryam ||याः । इ॒न्द्र॒ । प्र॒ऽस्वः॑ । त्वा॒ । आ॒सा । गर्भ॑म् । अच॑क्रिरन् ।
परि॑ । धर्म॑ऽइव । सूर्य॑म् ॥याः । इन्द्र । प्रऽस्वः । त्वा । आसा । गर्भम् । अचक्रिरन् ।
परि । धर्मऽइव । सूर्यम् ॥yā́ḥ ǀ indra ǀ pra-sváḥ ǀ tvā ǀ āsā́ ǀ gárbham ǀ ácakriran ǀ
pári ǀ dhárma-iva ǀ sū́ryam ǁyāḥ ǀ indra ǀ pra-svaḥ ǀ tvā ǀ āsā ǀ garbham ǀ acakriran ǀ
pari ǀ dharma-iva ǀ sūryam ǁ8.6.20 Aṣṭaka 5.8.12.5Anuvāka 8.2.20
-
Ṛk 21
त्वामिच्छ॑वसस्पते॒ कण्वा॑ उ॒क्थेन॑ वावृधुः ।
त्वां सु॒तास॒ इंद॑वः ॥त्वाम् इच् छवसस् पते कण्वा उक्थेन वावृधुः |
त्वां सुतास इन्दवः ||tvā́mícchavasaspate káṇvā ukthéna vāvṛdhuḥ ǀ
tvā́m sutā́sa índavaḥ ǁtvām ic chavasas pate kaṇvā ukthena vāvṛdhuḥ |
tvāṃ sutāsa indavaḥ ||त्वाम् । इत् । श॒व॒सः॒ । प॒ते॒ । कण्वाः॑ । उ॒क्थेन॑ । व॒वृ॒धुः॒ ।
त्वाम् । सु॒तासः॑ । इन्द॑वः ॥त्वाम् । इत् । शवसः । पते । कण्वाः । उक्थेन । ववृधुः ।
त्वाम् । सुतासः । इन्दवः ॥tvā́m ǀ ít ǀ śavasaḥ ǀ pate ǀ káṇvāḥ ǀ ukthéna ǀ vavṛdhuḥ ǀ
tvā́m ǀ sutā́saḥ ǀ índavaḥ ǁtvām ǀ it ǀ śavasaḥ ǀ pate ǀ kaṇvāḥ ǀ ukthena ǀ vavṛdhuḥ ǀ
tvām ǀ sutāsaḥ ǀ indavaḥ ǁ8.6.21 Aṣṭaka 5.8.13.1Anuvāka 8.2.21
-
Ṛk 22
तवेदिं॑द्र॒ प्रणी॑तिषू॒त प्रश॑स्तिरद्रिवः ।
य॒ज्ञो वि॑तंत॒साय्यः॑ ॥तवेद् इन्द्र प्रणीतिषूत प्रशस्तिर् अद्रिवः |
यज्ञो वितन्तसाय्यः ||távédindra práṇītiṣūtá práśastiradrivaḥ ǀ
yajñó vitantasā́yyaḥ ǁtaved indra praṇītiṣūta praśastir adrivaḥ |
yajño vitantasāyyaḥ ||तव॑ । इत् । इ॒न्द्र॒ । प्रऽनी॑तिषु । उ॒त । प्रऽश॑स्तिः । अ॒द्रि॒ऽवः॒ ।
य॒ज्ञः । वि॒त॒न्त॒साय्यः॑ ॥तव । इत् । इन्द्र । प्रऽनीतिषु । उत । प्रऽशस्तिः । अद्रिऽवः ।
यज्ञः । वितन्तसाय्यः ॥táva ǀ ít ǀ indra ǀ prá-nītiṣu ǀ utá ǀ prá-śastiḥ ǀ adri-vaḥ ǀ
yajñáḥ ǀ vitantasā́yyaḥ ǁtava ǀ it ǀ indra ǀ pra-nītiṣu ǀ uta ǀ pra-śastiḥ ǀ adri-vaḥ ǀ
yajñaḥ ǀ vitantasāyyaḥ ǁ8.6.22 Aṣṭaka 5.8.13.2Anuvāka 8.2.22
-
Ṛk 23
आ न॑ इंद्र म॒हीमिषं॒ पुरं॒ न द॑र्षि॒ गोम॑तीं ।
उ॒त प्र॒जां सु॒वीर्यं॑ ॥आ न इन्द्र महीम् इषम् पुरं न दर्षि गोमतीम् |
उत प्रजां सुवीर्यम् ||ā́ na indra mahī́míṣam púram ná darṣi gómatīm ǀ
utá prajā́m suvī́ryam ǁā na indra mahīm iṣam puraṃ na darṣi gomatīm |
uta prajāṃ suvīryam ||आ । नः॒ । इ॒न्द्र॒ । म॒हीम् । इष॑म् । पुर॑म् । न । द॒र्षि॒ । गोऽम॑तीम् ।
उ॒त । प्र॒ऽजाम् । सु॒ऽवीर्य॑म् ॥आ । नः । इन्द्र । महीम् । इषम् । पुरम् । न । दर्षि । गोऽमतीम् ।
उत । प्रऽजाम् । सुऽवीर्यम् ॥ā́ ǀ naḥ ǀ indra ǀ mahī́m ǀ íṣam ǀ púram ǀ ná ǀ darṣi ǀ gó-matīm ǀ
utá ǀ pra-jā́m ǀ su-vī́ryam ǁā ǀ naḥ ǀ indra ǀ mahīm ǀ iṣam ǀ puram ǀ na ǀ darṣi ǀ go-matīm ǀ
uta ǀ pra-jām ǀ su-vīryam ǁ8.6.23 Aṣṭaka 5.8.13.3Anuvāka 8.2.23
-
Ṛk 24
उ॒त त्यदा॒श्वश्व्यं॒ यदिं॑द्र॒ नाहु॑षी॒ष्वा ।
अग्रे॑ वि॒क्षु प्र॒दीद॑यत् ॥उत त्यद् आश्वश्व्यं यद् इन्द्र नाहुषीष्व् आ |
अग्रे विक्षु प्रदीदयत् ||utá tyádāśváśvyam yádindra nā́huṣīṣvā́ ǀ
ágre vikṣú pradī́dayat ǁuta tyad āśvaśvyaṃ yad indra nāhuṣīṣv ā |
agre vikṣu pradīdayat ||उ॒त । त्यत् । आ॒शु॒ऽअश्व्य॑म् । यत् । इ॒न्द्र॒ । नाहु॑षीषु । आ ।
अग्रे॑ । वि॒क्षु । प्र॒ऽदीद॑यत् ॥उत । त्यत् । आशुऽअश्व्यम् । यत् । इन्द्र । नाहुषीषु । आ ।
अग्रे । विक्षु । प्रऽदीदयत् ॥utá ǀ tyát ǀ āśu-áśvyam ǀ yát ǀ indra ǀ nā́huṣīṣu ǀ ā́ ǀ
ágre ǀ vikṣú ǀ pra-dī́dayat ǁuta ǀ tyat ǀ āśu-aśvyam ǀ yat ǀ indra ǀ nāhuṣīṣu ǀ ā ǀ
agre ǀ vikṣu ǀ pra-dīdayat ǁ8.6.24 Aṣṭaka 5.8.13.4Anuvāka 8.2.24
-
Ṛk 25
अ॒भि व्र॒जं न त॑त्निषे॒ सूर॑ उपा॒कच॑क्षसं ।
यदिं॑द्र मृ॒ळया॑सि नः ॥अभि व्रजं न तत्निषे सूर उपाकचक्षसम् |
यद् इन्द्र मृऌअयासि नः ||abhí vrajám ná tatniṣe sū́ra upākácakṣasam ǀ
yádindra mṛḷáyāsi naḥ ǁabhi vrajaṃ na tatniṣe sūra upākacakṣasam |
yad indra mṛḷayāsi naḥ ||अ॒भि । व्र॒जम् । न । त॒त्नि॒षे॒ । सूरः॑ । उ॒पा॒कऽच॑क्षसम् ।
यत् । इ॒न्द्र॒ । मृ॒ळया॑सि । नः॒ ॥अभि । व्रजम् । न । तत्निषे । सूरः । उपाकऽचक्षसम् ।
यत् । इन्द्र । मृळयासि । नः ॥abhí ǀ vrajám ǀ ná ǀ tatniṣe ǀ sū́raḥ ǀ upāká-cakṣasam ǀ
yát ǀ indra ǀ mṛḷáyāsi ǀ naḥ ǁabhi ǀ vrajam ǀ na ǀ tatniṣe ǀ sūraḥ ǀ upāka-cakṣasam ǀ
yat ǀ indra ǀ mṛḷayāsi ǀ naḥ ǁ8.6.25 Aṣṭaka 5.8.13.5Anuvāka 8.2.25
-
Ṛk 26
यदं॒ग त॑विषी॒यस॒ इंद्र॑ प्र॒राज॑सि क्षि॒तीः ।
म॒हाँ अ॑पा॒र ओज॑सा ॥यद् अङ्ग तविषीयस इन्द्र प्रराजसि क्षितीः |
महां अपार ओजसा ||yádaṅgá taviṣīyása índra prarā́jasi kṣitī́ḥ ǀ
mahā́m̐ apārá ójasā ǁyad aṅga taviṣīyasa indra prarājasi kṣitīḥ |
mahāṃ apāra ojasā ||यत् । अ॒ङ्ग । त॒वि॒षी॒ऽयसे॑ । इन्द्र॑ । प्र॒ऽराज॑सि । क्षि॒तीः ।
म॒हान् । अ॒पा॒रः । ओज॑सा ॥यत् । अङ्ग । तविषीऽयसे । इन्द्र । प्रऽराजसि । क्षितीः ।
महान् । अपारः । ओजसा ॥yát ǀ aṅgá ǀ taviṣī-yáse ǀ índra ǀ pra-rā́jasi ǀ kṣitī́ḥ ǀ
mahā́n ǀ apāráḥ ǀ ójasā ǁyat ǀ aṅga ǀ taviṣī-yase ǀ indra ǀ pra-rājasi ǀ kṣitīḥ ǀ
mahān ǀ apāraḥ ǀ ojasā ǁ8.6.26 Aṣṭaka 5.8.14.1Anuvāka 8.2.26
-
Ṛk 27
तं त्वा॑ ह॒विष्म॑ती॒र्विश॒ उप॑ ब्रुवत ऊ॒तये॑ ।
उ॒रु॒ज्रय॑स॒मिंदु॑भिः ॥तं त्वा हविष्मतीर् विश उप ब्रुवत ऊतये |
उरुज्रयसम् इन्दुभिः ||tám tvā havíṣmatīrvíśa úpa bruvata ūtáye ǀ
urujráyasamíndubhiḥ ǁtaṃ tvā haviṣmatīr viśa upa bruvata ūtaye |
urujrayasam indubhiḥ ||तम् । त्वा॒ । ह॒विष्म॑तीः । विशः॑ । उप॑ । ब्रु॒व॒ते॒ । ऊ॒तये॑ ।
उ॒रु॒ऽज्रय॑सम् । इन्दु॑ऽभिः ॥तम् । त्वा । हविष्मतीः । विशः । उप । ब्रुवते । ऊतये ।
उरुऽज्रयसम् । इन्दुऽभिः ॥tám ǀ tvā ǀ havíṣmatīḥ ǀ víśaḥ ǀ úpa ǀ bruvate ǀ ūtáye ǀ
uru-jráyasam ǀ índu-bhiḥ ǁtam ǀ tvā ǀ haviṣmatīḥ ǀ viśaḥ ǀ upa ǀ bruvate ǀ ūtaye ǀ
uru-jrayasam ǀ indu-bhiḥ ǁ8.6.27 Aṣṭaka 5.8.14.2Anuvāka 8.2.27
-
Ṛk 28
उ॒प॒ह्व॒रे गि॑री॒णां सं॑ग॒थे च॑ न॒दीनां॑ ।
धि॒या विप्रो॑ अजायत ॥उपह्वरे गिरीणां संगथे च नदीनाम् |
धिया विप्रो अजायत ||upahvaré girīṇā́m saṃgathé ca nadī́nām ǀ
dhiyā́ vípro ajāyata ǁupahvare girīṇāṃ saṃgathe ca nadīnām |
dhiyā vipro ajāyata ||उ॒प॒ऽह्व॒रे । गि॒री॒णाम् । स॒म्ऽग॒थे । च॒ । न॒दीना॑म् ।
धि॒या । विप्रः॑ । अ॒जा॒य॒त॒ ॥उपऽह्वरे । गिरीणाम् । सम्ऽगथे । च । नदीनाम् ।
धिया । विप्रः । अजायत ॥upa-hvaré ǀ girīṇā́m ǀ sam-gathé ǀ ca ǀ nadī́nām ǀ
dhiyā́ ǀ vípraḥ ǀ ajāyata ǁupa-hvare ǀ girīṇām ǀ sam-gathe ǀ ca ǀ nadīnām ǀ
dhiyā ǀ vipraḥ ǀ ajāyata ǁ8.6.28 Aṣṭaka 5.8.14.3Anuvāka 8.2.28
-
Ṛk 29
अतः॑ समु॒द्रमु॒द्वत॑श्चिकि॒त्वाँ अव॑ पश्यति ।
यतो॑ विपा॒न एज॑ति ॥अतः समुद्रम् उद्वतश् चिकित्वां अव पश्यति |
यतो विपान एजति ||átaḥ samudrámudvátaścikitvā́m̐ áva paśyati ǀ
yáto vipāná éjati ǁataḥ samudram udvataś cikitvāṃ ava paśyati |
yato vipāna ejati ||अतः॑ । स॒मु॒द्रम् । उ॒त्ऽवतः॑ । चि॒कि॒त्वान् । अव॑ । प॒श्य॒ति॒ ।
यतः॑ । वि॒पा॒नः । एज॑ति ॥अतः । समुद्रम् । उत्ऽवतः । चिकित्वान् । अव । पश्यति ।
यतः । विपानः । एजति ॥átaḥ ǀ samudrám ǀ ut-vátaḥ ǀ cikitvā́n ǀ áva ǀ paśyati ǀ
yátaḥ ǀ vipānáḥ ǀ éjati ǁataḥ ǀ samudram ǀ ut-vataḥ ǀ cikitvān ǀ ava ǀ paśyati ǀ
yataḥ ǀ vipānaḥ ǀ ejati ǁ8.6.29 Aṣṭaka 5.8.14.4Anuvāka 8.2.29
-
Ṛk 30
आदित्प्र॒त्नस्य॒ रेत॑सो॒ ज्योति॑ष्पश्यंति वास॒रं ।
प॒रो यदि॒ध्यते॑ दि॒वा ॥आद् इत् प्रत्नस्य रेतसो ज्योतिष् पश्यन्ति वासरम् |
परो यद् इध्यते दिवा ||ā́dítpratnásya rétaso jyótiṣpaśyanti vāsarám ǀ
paró yádidhyáte divā́ ǁād it pratnasya retaso jyotiṣ paśyanti vāsaram |
paro yad idhyate divā ||आत् । इत् । प्र॒त्नस्य॑ । रेत॑सः । ज्योतिः॑ । प॒श्य॒न्ति॒ । वा॒स॒रम् ।
प॒रः । यत् । इ॒ध्यते॑ । दि॒वा ॥आत् । इत् । प्रत्नस्य । रेतसः । ज्योतिः । पश्यन्ति । वासरम् ।
परः । यत् । इध्यते । दिवा ॥ā́t ǀ ít ǀ pratnásya ǀ rétasaḥ ǀ jyótiḥ ǀ paśyanti ǀ vāsarám ǀ
paráḥ ǀ yát ǀ idhyáte ǀ divā́ ǁāt ǀ it ǀ pratnasya ǀ retasaḥ ǀ jyotiḥ ǀ paśyanti ǀ vāsaram ǀ
paraḥ ǀ yat ǀ idhyate ǀ divā ǁ8.6.30 Aṣṭaka 5.8.14.5Anuvāka 8.2.30
-
Ṛk 31
कण्वा॑स इंद्र ते म॒तिं विश्वे॑ वर्धंति॒ पौंस्यं॑ ।
उ॒तो श॑विष्ठ॒ वृष्ण्यं॑ ॥कण्वास इन्द्र ते मतिं विश्वे वर्धन्ति पौंस्यम् |
उतो शविष्ठ वृष्ण्यम् ||káṇvāsa indra te matím víśve vardhanti páuṃsyam ǀ
utó śaviṣṭha vṛ́ṣṇyam ǁkaṇvāsa indra te matiṃ viśve vardhanti pauṃsyam |
uto śaviṣṭha vṛṣṇyam ||कण्वा॑सः । इ॒न्द्र॒ । ते॒ । म॒तिम् । विश्वे॑ । व॒र्ध॒न्ति॒ । पौंस्य॑म् ।
उ॒तो इति॑ । श॒वि॒ष्ठ॒ । वृष्ण्य॑म् ॥कण्वासः । इन्द्र । ते । मतिम् । विश्वे । वर्धन्ति । पौंस्यम् ।
उतो इति । शविष्ठ । वृष्ण्यम् ॥káṇvāsaḥ ǀ indra ǀ te ǀ matím ǀ víśve ǀ vardhanti ǀ páuṃsyam ǀ
utó íti ǀ śaviṣṭha ǀ vṛ́ṣṇyam ǁkaṇvāsaḥ ǀ indra ǀ te ǀ matim ǀ viśve ǀ vardhanti ǀ pauṃsyam ǀ
uto iti ǀ śaviṣṭha ǀ vṛṣṇyam ǁ8.6.31 Aṣṭaka 5.8.15.1Anuvāka 8.2.31
-
Ṛk 32
इ॒मां म॑ इंद्र सुष्टु॒तिं जु॒षस्व॒ प्र सु माम॑व ।
उ॒त प्र व॑र्धया म॒तिं ॥इमाम् म इन्द्र सुष्टुतिं जुषस्व प्र सु माम् अव |
उत प्र वर्धया मतिम् ||imā́m ma indra suṣṭutím juṣásva prá sú mā́mava ǀ
utá prá vardhayā matím ǁimām ma indra suṣṭutiṃ juṣasva pra su mām ava |
uta pra vardhayā matim ||इ॒माम् । मे॒ । इ॒न्द्र॒ । सु॒ऽस्तु॒तिम् । जु॒षस्व॑ । प्र । सु । माम् । अ॒व॒ ।
उ॒त । प्र । व॒र्ध॒य॒ । म॒तिम् ॥इमाम् । मे । इन्द्र । सुऽस्तुतिम् । जुषस्व । प्र । सु । माम् । अव ।
उत । प्र । वर्धय । मतिम् ॥imā́m ǀ me ǀ indra ǀ su-stutím ǀ juṣásva ǀ prá ǀ sú ǀ mā́m ǀ ava ǀ
utá ǀ prá ǀ vardhaya ǀ matím ǁimām ǀ me ǀ indra ǀ su-stutim ǀ juṣasva ǀ pra ǀ su ǀ mām ǀ ava ǀ
uta ǀ pra ǀ vardhaya ǀ matim ǁ8.6.32 Aṣṭaka 5.8.15.2Anuvāka 8.2.32
-
Ṛk 33
उ॒त ब्र॑ह्म॒ण्या व॒यं तुभ्यं॑ प्रवृद्ध वज्रिवः ।
विप्रा॑ अतक्ष्म जी॒वसे॑ ॥उत ब्रह्मण्या वयं तुभ्यम् प्रवृद्ध वज्रिवः |
विप्रा अतक्ष्म जीवसे ||utá brahmaṇyā́ vayám túbhyam pravṛddha vajrivaḥ ǀ
víprā atakṣma jīváse ǁuta brahmaṇyā vayaṃ tubhyam pravṛddha vajrivaḥ |
viprā atakṣma jīvase ||उ॒त । ब्र॒ह्म॒ण्या । व॒यम् । तुभ्य॑म् । प्र॒ऽवृ॒द्ध॒ । व॒ज्रि॒ऽवः॒ ।
विप्राः॑ । अ॒त॒क्ष्म॒ । जी॒वसे॑ ॥उत । ब्रह्मण्या । वयम् । तुभ्यम् । प्रऽवृद्ध । वज्रिऽवः ।
विप्राः । अतक्ष्म । जीवसे ॥utá ǀ brahmaṇyā́ ǀ vayám ǀ túbhyam ǀ pra-vṛddha ǀ vajri-vaḥ ǀ
víprāḥ ǀ atakṣma ǀ jīváse ǁuta ǀ brahmaṇyā ǀ vayam ǀ tubhyam ǀ pra-vṛddha ǀ vajri-vaḥ ǀ
viprāḥ ǀ atakṣma ǀ jīvase ǁ8.6.33 Aṣṭaka 5.8.15.3Anuvāka 8.2.33
-
Ṛk 34
अ॒भि कण्वा॑ अनूष॒तापो॒ न प्र॒वता॑ य॒तीः ।
इंद्रं॒ वन॑न्वती म॒तिः ॥अभि कण्वा अनूषतापो न प्रवता यतीः |
इन्द्रं वनन्वती मतिः ||abhí káṇvā anūṣatā́po ná pravátā yatī́ḥ ǀ
índram vánanvatī matíḥ ǁabhi kaṇvā anūṣatāpo na pravatā yatīḥ |
indraṃ vananvatī matiḥ ||अ॒भि । कण्वाः॑ । अ॒नू॒ष॒त॒ । आपः॑ । न । प्र॒ऽवता॑ । य॒तीः ।
इन्द्र॑म् । वन॑न्ऽवती । म॒तिः ॥अभि । कण्वाः । अनूषत । आपः । न । प्रऽवता । यतीः ।
इन्द्रम् । वनन्ऽवती । मतिः ॥abhí ǀ káṇvāḥ ǀ anūṣata ǀ ā́paḥ ǀ ná ǀ pra-vátā ǀ yatī́ḥ ǀ
índram ǀ vánan-vatī ǀ matíḥ ǁabhi ǀ kaṇvāḥ ǀ anūṣata ǀ āpaḥ ǀ na ǀ pra-vatā ǀ yatīḥ ǀ
indram ǀ vanan-vatī ǀ matiḥ ǁ8.6.34 Aṣṭaka 5.8.15.4Anuvāka 8.2.34
-
Ṛk 35
इंद्र॑मु॒क्थानि॑ वावृधुः समु॒द्रमि॑व॒ सिंध॑वः ।
अनु॑त्तमन्युम॒जरं॑ ॥इन्द्रम् उक्थानि वावृधुः समुद्रम् इव सिन्धवः |
अनुत्तमन्युम् अजरम् ||índramukthā́ni vāvṛdhuḥ samudrámiva síndhavaḥ ǀ
ánuttamanyumajáram ǁindram ukthāni vāvṛdhuḥ samudram iva sindhavaḥ |
anuttamanyum ajaram ||इन्द्र॑म् । उ॒क्थानि॑ । व॒वृ॒धुः॒ । स॒मु॒द्रम्ऽइ॑व । सिन्ध॑वः ।
अनु॑त्तऽमन्युम् । अ॒जर॑म् ॥इन्द्रम् । उक्थानि । ववृधुः । समुद्रम्ऽइव । सिन्धवः ।
अनुत्तऽमन्युम् । अजरम् ॥índram ǀ ukthā́ni ǀ vavṛdhuḥ ǀ samudrám-iva ǀ síndhavaḥ ǀ
ánutta-manyum ǀ ajáram ǁindram ǀ ukthāni ǀ vavṛdhuḥ ǀ samudram-iva ǀ sindhavaḥ ǀ
anutta-manyum ǀ ajaram ǁ8.6.35 Aṣṭaka 5.8.15.5Anuvāka 8.2.35
-
Ṛk 36
आ नो॑ याहि परा॒वतो॒ हरि॑भ्यां हर्य॒ताभ्यां॑ ।
इ॒ममिं॑द्र सु॒तं पि॑ब ॥आ नो याहि परावतो हरिभ्यां हर्यताभ्याम् |
इमम् इन्द्र सुतम् पिब ||ā́ no yāhi parāváto háribhyām haryatā́bhyām ǀ
imámindra sutám piba ǁā no yāhi parāvato haribhyāṃ haryatābhyām |
imam indra sutam piba ||आ । नः॒ । या॒हि॒ । प॒रा॒ऽवतः॑ । हरि॑ऽभ्याम् । ह॒र्य॒ताभ्या॑म् ।
इ॒मम् । इ॒न्द्र॒ । सु॒तम् । पि॒ब॒ ॥आ । नः । याहि । पराऽवतः । हरिऽभ्याम् । हर्यताभ्याम् ।
इमम् । इन्द्र । सुतम् । पिब ॥ā́ ǀ naḥ ǀ yāhi ǀ parā-vátaḥ ǀ hári-bhyām ǀ haryatā́bhyām ǀ
imám ǀ indra ǀ sutám ǀ piba ǁā ǀ naḥ ǀ yāhi ǀ parā-vataḥ ǀ hari-bhyām ǀ haryatābhyām ǀ
imam ǀ indra ǀ sutam ǀ piba ǁ8.6.36 Aṣṭaka 5.8.16.1Anuvāka 8.2.36
-
Ṛk 37
त्वामिद्वृ॑त्रहंतम॒ जना॑सो वृ॒क्तब॑र्हिषः ।
हवं॑ते॒ वाज॑सातये ॥त्वाम् इद् वृत्रहन्तम जनासो वृक्तबर्हिषः |
हवन्ते वाजसातये ||tvā́mídvṛtrahantama jánāso vṛktábarhiṣaḥ ǀ
hávante vā́jasātaye ǁtvām id vṛtrahantama janāso vṛktabarhiṣaḥ |
havante vājasātaye ||त्वाम् । इत् । वृ॒त्र॒ह॒न्ऽत॒म॒ । जना॑सः । वृ॒क्तऽब॑र्हिषः ।
हव॑न्ते । वाज॑ऽसातये ॥त्वाम् । इत् । वृत्रहन्ऽतम । जनासः । वृक्तऽबर्हिषः ।
हवन्ते । वाजऽसातये ॥tvā́m ǀ ít ǀ vṛtrahan-tama ǀ jánāsaḥ ǀ vṛktá-barhiṣaḥ ǀ
hávante ǀ vā́ja-sātaye ǁtvām ǀ it ǀ vṛtrahan-tama ǀ janāsaḥ ǀ vṛkta-barhiṣaḥ ǀ
havante ǀ vāja-sātaye ǁ8.6.37 Aṣṭaka 5.8.16.2Anuvāka 8.2.37
-
Ṛk 38
अनु॑ त्वा॒ रोद॑सी उ॒भे च॒क्रं न व॒र्त्येत॑शं ।
अनु॑ सुवा॒नास॒ इंद॑वः ॥अनु त्वा रोदसी उभे चक्रं न वर्त्य् एतशम् |
अनु सुवानास इन्दवः ||ánu tvā ródasī ubhé cakrám ná vartyétaśam ǀ
ánu suvānā́sa índavaḥ ǁanu tvā rodasī ubhe cakraṃ na varty etaśam |
anu suvānāsa indavaḥ ||अनु॑ । त्वा॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । च॒क्रम् । न । व॒र्ति॒ । एत॑शम् ।
अनु॑ । सु॒वा॒नासः॑ । इन्द॑वः ॥अनु । त्वा । रोदसी इति । उभे इति । चक्रम् । न । वर्ति । एतशम् ।
अनु । सुवानासः । इन्दवः ॥ánu ǀ tvā ǀ ródasī íti ǀ ubhé íti ǀ cakrám ǀ ná ǀ varti ǀ étaśam ǀ
ánu ǀ suvānā́saḥ ǀ índavaḥ ǁanu ǀ tvā ǀ rodasī iti ǀ ubhe iti ǀ cakram ǀ na ǀ varti ǀ etaśam ǀ
anu ǀ suvānāsaḥ ǀ indavaḥ ǁ8.6.38 Aṣṭaka 5.8.16.3Anuvāka 8.2.38
-
Ṛk 39
मंद॑स्वा॒ सु स्व॑र्णर उ॒तेंद्र॑ शर्य॒णाव॑ति ।
मत्स्वा॒ विव॑स्वतो म॒ती ॥मन्दस्वा सु स्वर्णर उतेन्द्र शर्यणावति |
मत्स्वा विवस्वतो मती ||mándasvā sú svárṇara uténdra śaryaṇā́vati ǀ
mátsvā vívasvato matī́ ǁmandasvā su svarṇara utendra śaryaṇāvati |
matsvā vivasvato matī ||मन्द॑स्व । सु । स्वः॑ऽनरे । उ॒त । इ॒न्द्र॒ । श॒र्य॒णाऽव॑ति ।
मत्स्व॑ । विव॑स्वतः । म॒ती ॥मन्दस्व । सु । स्वःऽनरे । उत । इन्द्र । शर्यणाऽवति ।
मत्स्व । विवस्वतः । मती ॥mándasva ǀ sú ǀ sváḥ-nare ǀ utá ǀ indra ǀ śaryaṇā́-vati ǀ
mátsva ǀ vívasvataḥ ǀ matī́ ǁmandasva ǀ su ǀ svaḥ-nare ǀ uta ǀ indra ǀ śaryaṇā-vati ǀ
matsva ǀ vivasvataḥ ǀ matī ǁ8.6.39 Aṣṭaka 5.8.16.4Anuvāka 8.2.39
-
Ṛk 40
वा॒वृ॒धा॒न उप॒ द्यवि॒ वृषा॑ व॒ज्र्य॑रोरवीत् ।
वृ॒त्र॒हा सो॑म॒पात॑मः ॥वावृधान उप द्यवि वृषा वज्र्य् अरोरवीत् |
वृत्रहा सोमपातमः ||vāvṛdhāná úpa dyávi vṛ́ṣā vajryároravīt ǀ
vṛtrahā́ somapā́tamaḥ ǁvāvṛdhāna upa dyavi vṛṣā vajry aroravīt |
vṛtrahā somapātamaḥ ||व॒वृ॒धा॒नः । उप॑ । द्यवि॑ । वृषा॑ । व॒ज्री । अ॒रो॒र॒वी॒त् ।
वृ॒त्र॒ऽहा । सो॒म॒ऽपात॑मः ॥ववृधानः । उप । द्यवि । वृषा । वज्री । अरोरवीत् ।
वृत्रऽहा । सोमऽपातमः ॥vavṛdhānáḥ ǀ úpa ǀ dyávi ǀ vṛ́ṣā ǀ vajrī́ ǀ aroravīt ǀ
vṛtra-hā́ ǀ soma-pā́tamaḥ ǁvavṛdhānaḥ ǀ upa ǀ dyavi ǀ vṛṣā ǀ vajrī ǀ aroravīt ǀ
vṛtra-hā ǀ soma-pātamaḥ ǁ8.6.40 Aṣṭaka 5.8.16.5Anuvāka 8.2.40
-
Ṛk 41
ऋषि॒र्हि पू॑र्व॒जा अस्येक॒ ईशा॑न॒ ओज॑सा ।
इंद्र॑ चोष्कू॒यसे॒ वसु॑ ॥ऋषिर् हि पूर्वजा अस्य् एक ईशान ओजसा |
इन्द्र चोष्कूयसे वसु ||ṛ́ṣirhí pūrvajā́ ásyéka ī́śāna ójasā ǀ
índra coṣkūyáse vásu ǁṛṣir hi pūrvajā asy eka īśāna ojasā |
indra coṣkūyase vasu ||ऋषिः॑ । हि । पू॒र्व॒ऽजाः । असि॑ । एकः॑ । ईशा॑नः । ओज॑सा ।
इन्द्र॑ । चो॒ष्कू॒यसे॑ । वसु॑ ॥ऋषिः । हि । पूर्वऽजाः । असि । एकः । ईशानः । ओजसा ।
इन्द्र । चोष्कूयसे । वसु ॥ṛ́ṣiḥ ǀ hí ǀ pūrva-jā́ḥ ǀ ási ǀ ékaḥ ǀ ī́śānaḥ ǀ ójasā ǀ
índra ǀ coṣkūyáse ǀ vásu ǁṛṣiḥ ǀ hi ǀ pūrva-jāḥ ǀ asi ǀ ekaḥ ǀ īśānaḥ ǀ ojasā ǀ
indra ǀ coṣkūyase ǀ vasu ǁ8.6.41 Aṣṭaka 5.8.17.1Anuvāka 8.2.41
-
Ṛk 42
अ॒स्माकं॑ त्वा सु॒ताँ उप॑ वी॒तपृ॑ष्ठा अ॒भि प्रयः॑ ।
श॒तं व॑हंतु॒ हर॑यः ॥अस्माकं त्वा सुतां उप वीतपृष्ठा अभि प्रयः |
शतं वहन्तु हरयः ||asmā́kam tvā sutā́m̐ úpa vītápṛṣṭhā abhí práyaḥ ǀ
śatám vahantu hárayaḥ ǁasmākaṃ tvā sutāṃ upa vītapṛṣṭhā abhi prayaḥ |
śataṃ vahantu harayaḥ ||अ॒स्माक॑म् । त्वा॒ । सु॒तान् । उप॑ । वी॒तऽपृ॑ष्ठाः । अ॒भि । प्रयः॑ ।
श॒तम् । व॒ह॒न्तु॒ । हर॑यः ॥अस्माकम् । त्वा । सुतान् । उप । वीतऽपृष्ठाः । अभि । प्रयः ।
शतम् । वहन्तु । हरयः ॥asmā́kam ǀ tvā ǀ sutā́n ǀ úpa ǀ vītá-pṛṣṭhāḥ ǀ abhí ǀ práyaḥ ǀ
śatám ǀ vahantu ǀ hárayaḥ ǁasmākam ǀ tvā ǀ sutān ǀ upa ǀ vīta-pṛṣṭhāḥ ǀ abhi ǀ prayaḥ ǀ
śatam ǀ vahantu ǀ harayaḥ ǁ8.6.42 Aṣṭaka 5.8.17.2Anuvāka 8.2.42
-
Ṛk 43
इ॒मां सु पू॒र्व्यां धियं॒ मधो॑र्घृ॒तस्य॑ पि॒प्युषीं॑ ।
कण्वा॑ उ॒क्थेन॑ वावृधुः ॥इमां सु पूर्व्यां धियम् मधोर् घृतस्य पिप्युषीम् |
कण्वा उक्थेन वावृधुः ||imā́m sú pūrvyā́m dhíyam mádhorghṛtásya pipyúṣīm ǀ
káṇvā ukthéna vāvṛdhuḥ ǁimāṃ su pūrvyāṃ dhiyam madhor ghṛtasya pipyuṣīm |
kaṇvā ukthena vāvṛdhuḥ ||इ॒माम् । सु । पू॒र्व्याम् । धिय॑म् । मधोः॑ । घृ॒तस्य॑ । पि॒प्युषी॑म् ।
कण्वाः॑ । उ॒क्थेन॑ । व॒वृ॒धुः॒ ॥इमाम् । सु । पूर्व्याम् । धियम् । मधोः । घृतस्य । पिप्युषीम् ।
कण्वाः । उक्थेन । ववृधुः ॥imā́m ǀ sú ǀ pūrvyā́m ǀ dhíyam ǀ mádhoḥ ǀ ghṛtásya ǀ pipyúṣīm ǀ
káṇvāḥ ǀ ukthéna ǀ vavṛdhuḥ ǁimām ǀ su ǀ pūrvyām ǀ dhiyam ǀ madhoḥ ǀ ghṛtasya ǀ pipyuṣīm ǀ
kaṇvāḥ ǀ ukthena ǀ vavṛdhuḥ ǁ8.6.43 Aṣṭaka 5.8.17.3Anuvāka 8.2.43
-
Ṛk 44
इंद्र॒मिद्विम॑हीनां॒ मेधे॑ वृणीत॒ मर्त्यः॑ ।
इंद्रं॑ सनि॒ष्युरू॒तये॑ ॥इन्द्रम् इद् विमहीनाम् मेधे वृणीत मर्त्यः |
इन्द्रं सनिष्युर् ऊतये ||índramídvímahīnām médhe vṛṇīta mártyaḥ ǀ
índram saniṣyúrūtáye ǁindram id vimahīnām medhe vṛṇīta martyaḥ |
indraṃ saniṣyur ūtaye ||इन्द्र॑म् । इत् । विऽम॑हीनाम् । मेधे॑ । वृ॒णी॒त॒ । मर्त्यः॑ ।
इन्द्र॑म् । स॒नि॒ष्युः । ऊ॒तये॑ ॥इन्द्रम् । इत् । विऽमहीनाम् । मेधे । वृणीत । मर्त्यः ।
इन्द्रम् । सनिष्युः । ऊतये ॥índram ǀ ít ǀ ví-mahīnām ǀ médhe ǀ vṛṇīta ǀ mártyaḥ ǀ
índram ǀ saniṣyúḥ ǀ ūtáye ǁindram ǀ it ǀ vi-mahīnām ǀ medhe ǀ vṛṇīta ǀ martyaḥ ǀ
indram ǀ saniṣyuḥ ǀ ūtaye ǁ8.6.44 Aṣṭaka 5.8.17.4Anuvāka 8.2.44
-
Ṛk 45
अ॒र्वांचं॑ त्वा पुरुष्टुत प्रि॒यमे॑धस्तुता॒ हरी॑ ।
सो॒म॒पेया॑य वक्षतः ॥अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी |
सोमपेयाय वक्षतः ||arvā́ñcam tvā puruṣṭuta priyámedhastutā hárī ǀ
somapéyāya vakṣataḥ ǁarvāñcaṃ tvā puruṣṭuta priyamedhastutā harī |
somapeyāya vakṣataḥ ||अ॒र्वाञ्च॑म् । त्वा॒ । पु॒रु॒ऽस्तु॒त॒ । प्रि॒यमे॑धऽस्तुता । हरी॒ इति॑ ।
सो॒म॒ऽपेया॑य । व॒क्ष॒तः॒ ॥अर्वाञ्चम् । त्वा । पुरुऽस्तुत । प्रियमेधऽस्तुता । हरी इति ।
सोमऽपेयाय । वक्षतः ॥arvā́ñcam ǀ tvā ǀ puru-stuta ǀ priyámedha-stutā ǀ hárī íti ǀ
soma-péyāya ǀ vakṣataḥ ǁarvāñcam ǀ tvā ǀ puru-stuta ǀ priyamedha-stutā ǀ harī iti ǀ
soma-peyāya ǀ vakṣataḥ ǁ8.6.45 Aṣṭaka 5.8.17.5Anuvāka 8.2.45
-
Ṛk 46
श॒तम॒हं ति॒रिंदि॑रे स॒हस्रं॒ पर्शा॒वा द॑दे ।
राधां॑सि॒ याद्वा॑नां ॥शतम् अहं तिरिन्दिरे सहस्रम् पर्शाव् आ ददे |
राधांसि याद्वानाम् ||śatámahám tiríndire sahásram párśāvā́ dade ǀ
rā́dhāṃsi yā́dvānām ǁśatam ahaṃ tirindire sahasram parśāv ā dade |
rādhāṃsi yādvānām ||श॒तम् । अ॒हम् । ति॒रिन्दि॑रे । स॒हस्र॑म् । पर्शौ॑ । आ । द॒दे॒ ।
राधां॑सि । याद्वा॑नाम् ॥शतम् । अहम् । तिरिन्दिरे । सहस्रम् । पर्शौ । आ । ददे ।
राधांसि । याद्वानाम् ॥śatám ǀ ahám ǀ tiríndire ǀ sahásram ǀ párśau ǀ ā́ ǀ dade ǀ
rā́dhāṃsi ǀ yā́dvānām ǁśatam ǀ aham ǀ tirindire ǀ sahasram ǀ parśau ǀ ā ǀ dade ǀ
rādhāṃsi ǀ yādvānām ǁ8.6.46 Aṣṭaka 5.8.17.6Anuvāka 8.2.46
-
Ṛk 47
त्रीणि॑ श॒तान्यर्व॑तां स॒हस्रा॒ दश॒ गोनां॑ ।
द॒दुष्प॒ज्राय॒ साम्ने॑ ॥त्रीणि शतान्य् अर्वतां सहस्रा दश गोनाम् |
ददुष् पज्राय साम्ने ||trī́ṇi śatā́nyárvatām sahásrā dáśa gónām ǀ
dadúṣpajrā́ya sā́mne ǁtrīṇi śatāny arvatāṃ sahasrā daśa gonām |
daduṣ pajrāya sāmne ||त्रीणि॑ । श॒तानि॑ । अर्व॑ताम् । स॒हस्रा॑ । दश॑ । गोना॑म् ।
द॒दुः । प॒ज्राय॑ । साम्ने॑ ॥त्रीणि । शतानि । अर्वताम् । सहस्रा । दश । गोनाम् ।
ददुः । पज्राय । साम्ने ॥trī́ṇi ǀ śatā́ni ǀ árvatām ǀ sahásrā ǀ dáśa ǀ gónām ǀ
dadúḥ ǀ pajrā́ya ǀ sā́mne ǁtrīṇi ǀ śatāni ǀ arvatām ǀ sahasrā ǀ daśa ǀ gonām ǀ
daduḥ ǀ pajrāya ǀ sāmne ǁ8.6.47 Aṣṭaka 5.8.17.7Anuvāka 8.2.47
-
Ṛk 48
उदा॑नट् ककु॒हो दिव॒मुष्ट्रां॑चतु॒र्युजो॒ दद॑त् ।
श्रव॑सा॒ याद्वं॒ जनं॑ ॥उद् आनट् ककुहो दिवम् उष्ट्राञ् चतुर्युजो ददत् |
श्रवसा याद्वं जनम् ||údānaṭ kakuhó dívamúṣṭrāñcaturyújo dádat ǀ
śrávasā yā́dvam jánam ǁud ānaṭ kakuho divam uṣṭrāñ caturyujo dadat |
śravasā yādvaṃ janam ||उत् । आ॒न॒ट् । क॒कु॒हः । दिव॑म् । उष्ट्रा॑न् । च॒तुः॒ऽयुजः॑ । दद॑त् ।
श्रव॑सा । याद्व॑म् । जन॑म् ॥उत् । आनट् । ककुहः । दिवम् । उष्ट्रान् । चतुःऽयुजः । ददत् ।
श्रवसा । याद्वम् । जनम् ॥út ǀ ānaṭ ǀ kakuháḥ ǀ dívam ǀ úṣṭrān ǀ catuḥ-yújaḥ ǀ dádat ǀ
śrávasā ǀ yā́dvam ǀ jánam ǁut ǀ ānaṭ ǀ kakuhaḥ ǀ divam ǀ uṣṭrān ǀ catuḥ-yujaḥ ǀ dadat ǀ
śravasā ǀ yādvam ǀ janam ǁ8.6.48 Aṣṭaka 5.8.17.8Anuvāka 8.2.48
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.