Ṛk 8.6.11
Saṃhitā
अ॒हं प्र॒त्नेन॒ मन्म॑ना॒ गिरः॑ शुंभामि कण्व॒वत् ।
येनेंद्रः॒ शुष्म॒मिद्द॒धे ॥
अहम् प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत् |
येनेन्द्रः शुष्मम् इद् दधे ||
ahám pratnéna mánmanā gíraḥ śumbhāmi kaṇvavát ǀ
yénéndraḥ śúṣmamíddadhé ǁ
aham pratnena manmanā giraḥ śumbhāmi kaṇvavat |
yenendraḥ śuṣmam id dadhe ||
Padapāṭha
अ॒हम् । प्र॒त्नेन॑ । मन्म॑ना । गिरः॑ । शु॒म्भा॒मि॒ । क॒ण्व॒ऽवत् ।
येन॑ । इन्द्रः॑ । शुष्म॑म् । इत् । द॒धे ॥
अहम् । प्रत्नेन । मन्मना । गिरः । शुम्भामि । कण्वऽवत् ।
येन । इन्द्रः । शुष्मम् । इत् । दधे ॥
ahám ǀ pratnéna ǀ mánmanā ǀ gíraḥ ǀ śumbhāmi ǀ kaṇva-vát ǀ
yéna ǀ índraḥ ǀ śúṣmam ǀ ít ǀ dadhé ǁ
aham ǀ pratnena ǀ manmanā ǀ giraḥ ǀ śumbhāmi ǀ kaṇva-vat ǀ
yena ǀ indraḥ ǀ śuṣmam ǀ it ǀ dadhe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.006.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.8.11.01
- Maṇḍala · Anuvāka · Ṛk
- 08.02.011
- Devatā देवता
- 1-45: Indra; 46-48: Pārśavya’s Dānastuti
- Ṛṣi ऋषि
- Vatsa Kāṇva
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.