Ṛgveda · Maṇḍala 8

Sūkta 31

Dāśvas · Parvata, Nadī, Viṣṇu · Pūṣan, Bhaga · Ādityas · Mitra, Aryaman, Varuṇa · Agni, Mitra · Yajamāna · Manu Vaivasvata · 18 ṛks

Link
Devatā देवता
1-9: Dāśvas; 10: Parvata, Nadī, Viṣṇu; 11: Pūṣan, Bhaga; 12: Ādityas; 13: Mitra, Aryaman, Varuṇa; 14: Agni, Mitra; 15-18: Yajamāna
Ṛṣi ऋषि
Manu Vaivasvata
Chandas छन्दस्
Gāyatrī, Paṅkti, Anuṣṭubh, Pādanicṛt
Metres by ṛk

1st set of styles gāyatrī (1, 3, 5, 7, 12); nicṛdgāyatrī (2, 4, 6, 8); virāṭpaṅkti (15-17); virāḍgāyatrī (11, 13); anuṣṭup (9); gāyatrī (pādanicṛdgāyatrī) (10); virāḍanuṣṭup (14); ārcībhurikpaṅkti (18)

2nd set of styles gāyatrī (1-8, 11-13); paṅkti (15-18); anuṣṭubh (9, 14); pādanicṛt (10)

  1. Ṛk 1

    यो यजा॑ति॒ यजा॑त॒ इत्सु॒नव॑च्च॒ पचा॑ति च ।
    ब्र॒ह्मेदिंद्र॑स्य चाकनत् ॥

    यो यजाति यजात इत् सुनवच् च पचाति च |
    ब्रह्मेद् इन्द्रस्य चाकनत् ||

    yó yájāti yájāta ítsunávacca pácāti ca ǀ
    brahmédíndrasya cākanat ǁ

    yo yajāti yajāta it sunavac ca pacāti ca |
    brahmed indrasya cākanat ||

    यः । यजा॑ति । यजा॑ते । इत् । सु॒नव॑त् । च॒ । पचा॑ति । च॒ ।
    ब्र॒ह्मा । इत् । इन्द्र॑स्य । चा॒क॒न॒त् ॥

    यः । यजाति । यजाते । इत् । सुनवत् । च । पचाति । च ।
    ब्रह्मा । इत् । इन्द्रस्य । चाकनत् ॥

    yáḥ ǀ yájāti ǀ yájāte ǀ ít ǀ sunávat ǀ ca ǀ pácāti ǀ ca ǀ
    brahmā́ ǀ ít ǀ índrasya ǀ cākanat ǁ

    yaḥ ǀ yajāti ǀ yajāte ǀ it ǀ sunavat ǀ ca ǀ pacāti ǀ ca ǀ
    brahmā ǀ it ǀ indrasya ǀ cākanat ǁ

    8.31.1 Aṣṭaka 6.2.38.1Anuvāka 8.5.1

  2. Ṛk 2

    पु॒रो॒ळाशं॒ यो अ॑स्मै॒ सोमं॒ रर॑त आ॒शिरं॑ ।
    पादित्तं श॒क्रो अंह॑सः ॥

    पुरोऌआशं यो अस्मै सोमं ररत आशिरम् |
    पाद् इत् तं शक्रो अंहसः ||

    puroḷā́śam yó asmai sómam rárata āśíram ǀ
    pā́díttám śakró áṃhasaḥ ǁ

    puroḷāśaṃ yo asmai somaṃ rarata āśiram |
    pād it taṃ śakro aṃhasaḥ ||

    पु॒रो॒ळाश॑म् । यः । अ॒स्मै॒ । सोम॑म् । रर॑ते । आ॒ऽशिर॑म् ।
    पात् । इत् । तम् । श॒क्रः । अंह॑सः ॥

    पुरोळाशम् । यः । अस्मै । सोमम् । ररते । आऽशिरम् ।
    पात् । इत् । तम् । शक्रः । अंहसः ॥

    puroḷā́śam ǀ yáḥ ǀ asmai ǀ sómam ǀ rárate ǀ ā-śíram ǀ
    pā́t ǀ ít ǀ tám ǀ śakráḥ ǀ áṃhasaḥ ǁ

    puroḷāśam ǀ yaḥ ǀ asmai ǀ somam ǀ rarate ǀ ā-śiram ǀ
    pāt ǀ it ǀ tam ǀ śakraḥ ǀ aṃhasaḥ ǁ

    8.31.2 Aṣṭaka 6.2.38.2Anuvāka 8.5.2

  3. Ṛk 3

    तस्य॑ द्यु॒माँ अ॑स॒द्रथो॑ दे॒वजू॑तः॒ स शू॑शुवत् ।
    विश्वा॑ व॒न्वन्न॑मि॒त्रिया॑ ॥

    तस्य द्युमां असद् रथो देवजूतः स शूशुवत् |
    विश्वा वन्वन्न् अमित्रिया ||

    tásya dyumā́m̐ asadrátho devájūtaḥ sá śūśuvat ǀ
    víśvā vanvánnamitríyā ǁ

    tasya dyumāṃ asad ratho devajūtaḥ sa śūśuvat |
    viśvā vanvann amitriyā ||

    तस्य॑ । द्यु॒ऽमान् । अ॒स॒त् । रथः॑ । दे॒वऽजू॑तः । सः । शू॒शु॒व॒त् ।
    विश्वा॑ । व॒न्वन् । अ॒मि॒त्रिया॑ ॥

    तस्य । द्युऽमान् । असत् । रथः । देवऽजूतः । सः । शूशुवत् ।
    विश्वा । वन्वन् । अमित्रिया ॥

    tásya ǀ dyu-mā́n ǀ asat ǀ ráthaḥ ǀ devá-jūtaḥ ǀ sáḥ ǀ śūśuvat ǀ
    víśvā ǀ vanván ǀ amitríyā ǁ

    tasya ǀ dyu-mān ǀ asat ǀ rathaḥ ǀ deva-jūtaḥ ǀ saḥ ǀ śūśuvat ǀ
    viśvā ǀ vanvan ǀ amitriyā ǁ

    8.31.3 Aṣṭaka 6.2.38.3Anuvāka 8.5.3

  4. Ṛk 4

    अस्य॑ प्र॒जाव॑ती गृ॒हेऽस॑श्चंती दि॒वेदि॑वे ।
    इळा॑ धेनु॒मती॑ दुहे ॥

    अस्य प्रजावती गृहे ऽसश्चन्ती दिवे-दिवे |
    इऌआ धेनुमती दुहे ||

    ásya prajā́vatī gṛhé’saścantī divédive ǀ
    íḷā dhenumátī duhe ǁ

    asya prajāvatī gṛhe 'saścantī dive-dive |
    iḷā dhenumatī duhe ||

    अस्य॑ । प्र॒जाऽव॑ती । गृ॒हे । अस॑श्चन्ती । दि॒वेऽदि॑वे ।
    इळा॑ । धे॒नु॒ऽमती॑ । दु॒हे॒ ॥

    अस्य । प्रजाऽवती । गृहे । असश्चन्ती । दिवेऽदिवे ।
    इळा । धेनुऽमती । दुहे ॥

    ásya ǀ prajā́-vatī ǀ gṛhé ǀ ásaścantī ǀ divé-dive ǀ
    íḷā ǀ dhenu-mátī ǀ duhe ǁ

    asya ǀ prajā-vatī ǀ gṛhe ǀ asaścantī ǀ dive-dive ǀ
    iḷā ǀ dhenu-matī ǀ duhe ǁ

    8.31.4 Aṣṭaka 6.2.38.4Anuvāka 8.5.4

  5. Ṛk 5

    या दंप॑ती॒ सम॑नसा सुनु॒त आ च॒ धाव॑तः ।
    देवा॑सो॒ नित्य॑या॒शिरा॑ ॥

    या दम्पती समनसा सुनुत आ च धावतः |
    देवासो नित्ययाशिरा ||

    yā́ dámpatī sámanasā sunutá ā́ ca dhā́vataḥ ǀ
    dévāso nítyayāśírā ǁ

    yā dampatī samanasā sunuta ā ca dhāvataḥ |
    devāso nityayāśirā ||

    या । दम्प॑ती॒ इति॒ दम्ऽप॑ती । सऽम॑नसा । सु॒नु॒तः । आ । च॒ । धाव॑तः ।
    देवा॑सः । नित्य॑या । आ॒ऽशिरा॑ ॥

    या । दम्पती इति दम्ऽपती । सऽमनसा । सुनुतः । आ । च । धावतः ।
    देवासः । नित्यया । आऽशिरा ॥

    yā́ ǀ dámpatī íti dám-patī ǀ sá-manasā ǀ sunutáḥ ǀ ā́ ǀ ca ǀ dhā́vataḥ ǀ
    dévāsaḥ ǀ nítyayā ǀ ā-śírā ǁ

    yā ǀ dampatī iti dam-patī ǀ sa-manasā ǀ sunutaḥ ǀ ā ǀ ca ǀ dhāvataḥ ǀ
    devāsaḥ ǀ nityayā ǀ ā-śirā ǁ

    8.31.5 Aṣṭaka 6.2.38.5Anuvāka 8.5.5

  6. Ṛk 6

    प्रति॑ प्राश॒व्याँ॑ इतः स॒म्यंचा॑ ब॒र्हिरा॑शाते ।
    न ता वाजे॑षु वायतः ॥

    प्रति प्राशव्यां इतः सम्यञ्चा बर्हिर् आशाते |
    न ता वाजेषु वायतः ||

    práti prāśavyā́m̐ itaḥ samyáñcā barhírāśāte ǀ
    ná tā́ vā́jeṣu vāyataḥ ǁ

    prati prāśavyāṃ itaḥ samyañcā barhir āśāte |
    na tā vājeṣu vāyataḥ ||

    प्रति॑ । प्रा॒श॒व्या॑न् । इ॒तः॒ । स॒म्यञ्चा॑ । ब॒र्हिः । आ॒शा॒ते॒ इति॑ ।
    न । ता । वाजे॑षु । वा॒य॒तः॒ ॥

    प्रति । प्राशव्यान् । इतः । सम्यञ्चा । बर्हिः । आशाते इति ।
    न । ता । वाजेषु । वायतः ॥

    práti ǀ prāśavyā́n ǀ itaḥ ǀ samyáñcā ǀ barhíḥ ǀ āśāte íti ǀ
    ná ǀ tā́ ǀ vā́jeṣu ǀ vāyataḥ ǁ

    prati ǀ prāśavyān ǀ itaḥ ǀ samyañcā ǀ barhiḥ ǀ āśāte iti ǀ
    na ǀ tā ǀ vājeṣu ǀ vāyataḥ ǁ

    8.31.6 Aṣṭaka 6.2.39.1Anuvāka 8.5.6

  7. Ṛk 7

    न दे॒वाना॒मपि॑ ह्नुतः सुम॒तिं न जु॑गुक्षतः ।
    श्रवो॑ बृ॒हद्वि॑वासतः ॥

    न देवानाम् अपि ह्नुतः सुमतिं न जुगुक्षतः |
    श्रवो बृहद् विवासतः ||

    ná devā́nāmápi hnutaḥ sumatím ná jugukṣataḥ ǀ
    śrávo bṛhádvivāsataḥ ǁ

    na devānām api hnutaḥ sumatiṃ na jugukṣataḥ |
    śravo bṛhad vivāsataḥ ||

    न । दे॒वाना॑म् । अपि॑ । ह्नु॒तः॒ । सु॒ऽम॒तिम् । न । जु॒घु॒क्ष॒तः॒ ।
    श्रवः॑ । बृ॒हत् । वि॒वा॒स॒तः॒ ॥

    न । देवानाम् । अपि । ह्नुतः । सुऽमतिम् । न । जुघुक्षतः ।
    श्रवः । बृहत् । विवासतः ॥

    ná ǀ devā́nām ǀ ápi ǀ hnutaḥ ǀ su-matím ǀ ná ǀ jughukṣataḥ ǀ
    śrávaḥ ǀ bṛhát ǀ vivāsataḥ ǁ

    na ǀ devānām ǀ api ǀ hnutaḥ ǀ su-matim ǀ na ǀ jughukṣataḥ ǀ
    śravaḥ ǀ bṛhat ǀ vivāsataḥ ǁ

    8.31.7 Aṣṭaka 6.2.39.2Anuvāka 8.5.7

  8. Ṛk 8

    पु॒त्रिणा॒ ता कु॑मा॒रिणा॒ विश्व॒मायु॒र्व्य॑श्नुतः ।
    उ॒भा हिर॑ण्यपेशसा ॥

    पुत्रिणा ता कुमारिणा विश्वम् आयुर् व्य् अश्नुतः |
    उभा हिरण्यपेशसा ||

    putríṇā tā́ kumāríṇā víśvamā́yurvyáśnutaḥ ǀ
    ubhā́ híraṇyapeśasā ǁ

    putriṇā tā kumāriṇā viśvam āyur vy aśnutaḥ |
    ubhā hiraṇyapeśasā ||

    पु॒त्रिणा॑ । ता । कु॒मा॒रिणा॑ । विश्व॑म् । आयुः॑ । वि । अ॒श्नु॒तः॒ ।
    उ॒भा । हिर॑ण्यऽपेशसा ॥

    पुत्रिणा । ता । कुमारिणा । विश्वम् । आयुः । वि । अश्नुतः ।
    उभा । हिरण्यऽपेशसा ॥

    putríṇā ǀ tā́ ǀ kumāríṇā ǀ víśvam ǀ ā́yuḥ ǀ ví ǀ aśnutaḥ ǀ
    ubhā́ ǀ híraṇya-peśasā ǁ

    putriṇā ǀ tā ǀ kumāriṇā ǀ viśvam ǀ āyuḥ ǀ vi ǀ aśnutaḥ ǀ
    ubhā ǀ hiraṇya-peśasā ǁ

    8.31.8 Aṣṭaka 6.2.39.3Anuvāka 8.5.8

  9. Ṛk 9

    वी॒तिहो॑त्रा कृ॒तद्व॑सू दश॒स्यंता॒मृता॑य॒ कं ।
    समूधो॑ रोम॒शं ह॑तो दे॒वेषु॑ कृणुतो॒ दुवः॑ ॥

    वीतिहोत्रा कृतद्वसू दशस्यन्तामृताय कम् |
    सम् ऊधो रोमशं हतो देवेषु कृणुतो दुवः ||

    vītíhotrā kṛtádvasū daśasyántāmṛ́tāya kám ǀ
    sámū́dho romaśám hato devéṣu kṛṇuto dúvaḥ ǁ

    vītihotrā kṛtadvasū daśasyantāmṛtāya kam |
    sam ūdho romaśaṃ hato deveṣu kṛṇuto duvaḥ ||

    वी॒तिऽहो॑त्रा । कृ॒तद्व॑सू॒ इति॑ कृ॒तत्ऽव॑सू । द॒श॒स्यन्ता॑ । अ॒मृता॑य । कम् ।
    सम् । ऊधः॑ । रो॒म॒शम् । ह॒तः॒ । दे॒वेषु॑ । कृ॒णु॒तः॒ । दुवः॑ ॥

    वीतिऽहोत्रा । कृतद्वसू इति कृतत्ऽवसू । दशस्यन्ता । अमृताय । कम् ।
    सम् । ऊधः । रोमशम् । हतः । देवेषु । कृणुतः । दुवः ॥

    vītí-hotrā ǀ kṛtádvasū íti kṛtát-vasū ǀ daśasyántā ǀ amṛ́tāya ǀ kám ǀ
    sám ǀ ū́dhaḥ ǀ romaśám ǀ hataḥ ǀ devéṣu ǀ kṛṇutaḥ ǀ dúvaḥ ǁ

    vīti-hotrā ǀ kṛtadvasū iti kṛtat-vasū ǀ daśasyantā ǀ amṛtāya ǀ kam ǀ
    sam ǀ ūdhaḥ ǀ romaśam ǀ hataḥ ǀ deveṣu ǀ kṛṇutaḥ ǀ duvaḥ ǁ

    8.31.9 Aṣṭaka 6.2.39.4Anuvāka 8.5.9

  10. Ṛk 10

    आ शर्म॒ पर्व॑तानां वृणी॒महे॑ न॒दीनां॑ ।
    आ विष्णोः॑ सचा॒भुवः॑ ॥

    आ शर्म पर्वतानां वृणीमहे नदीनाम् |
    आ विष्णोः सचाभुवः ||

    ā́ śárma párvatānām vṛṇīmáhe nadī́nām ǀ
    ā́ víṣṇoḥ sacābhúvaḥ ǁ

    ā śarma parvatānāṃ vṛṇīmahe nadīnām |
    ā viṣṇoḥ sacābhuvaḥ ||

    आ । शर्म॑ । पर्व॑तानाम् । वृ॒णी॒महे॑ । न॒दीना॑म् ।
    आ । विष्णोः॑ । स॒चा॒ऽभुवः॑ ॥

    आ । शर्म । पर्वतानाम् । वृणीमहे । नदीनाम् ।
    आ । विष्णोः । सचाऽभुवः ॥

    ā́ ǀ śárma ǀ párvatānām ǀ vṛṇīmáhe ǀ nadī́nām ǀ
    ā́ ǀ víṣṇoḥ ǀ sacā-bhúvaḥ ǁ

    ā ǀ śarma ǀ parvatānām ǀ vṛṇīmahe ǀ nadīnām ǀ
    ā ǀ viṣṇoḥ ǀ sacā-bhuvaḥ ǁ

    8.31.10 Aṣṭaka 6.2.39.5Anuvāka 8.5.10

  11. Ṛk 11

    ऐतु॑ पू॒षा र॒यिर्भगः॑ स्व॒स्ति स॑र्व॒धात॑मः ।
    उ॒रुरध्वा॑ स्व॒स्तये॑ ॥

    ऐतु पूषा रयिर् भगः स्वस्ति सर्वधातमः |
    उरुर् अध्वा स्वस्तये ||

    áitu pūṣā́ rayírbhágaḥ svastí sarvadhā́tamaḥ ǀ
    urúrádhvā svastáye ǁ

    aitu pūṣā rayir bhagaḥ svasti sarvadhātamaḥ |
    urur adhvā svastaye ||

    आ । ए॒तु॒ । पू॒षा । र॒यिः । भगः॑ । स्व॒स्ति । स॒र्व॒ऽधात॑मः ।
    उ॒रुः । अध्वा॑ । स्व॒स्तये॑ ॥

    आ । एतु । पूषा । रयिः । भगः । स्वस्ति । सर्वऽधातमः ।
    उरुः । अध्वा । स्वस्तये ॥

    ā́ ǀ etu ǀ pūṣā́ ǀ rayíḥ ǀ bhágaḥ ǀ svastí ǀ sarva-dhā́tamaḥ ǀ
    urúḥ ǀ ádhvā ǀ svastáye ǁ

    ā ǀ etu ǀ pūṣā ǀ rayiḥ ǀ bhagaḥ ǀ svasti ǀ sarva-dhātamaḥ ǀ
    uruḥ ǀ adhvā ǀ svastaye ǁ

    8.31.11 Aṣṭaka 6.2.40.1Anuvāka 8.5.11

  12. Ṛk 12

    अ॒रम॑तिरन॒र्वणो॒ विश्वो॑ दे॒वस्य॒ मन॑सा ।
    आ॒दि॒त्याना॑मने॒ह इत् ॥

    अरमतिर् अनर्वणो विश्वो देवस्य मनसा |
    आदित्यानाम् अनेह इत् ||

    arámatiranarváṇo víśvo devásya mánasā ǀ
    ādityā́nāmanehá ít ǁ

    aramatir anarvaṇo viśvo devasya manasā |
    ādityānām aneha it ||

    अ॒रम॑तिः । अ॒न॒र्वणः॑ । विश्वः॑ । दे॒वस्य॑ । मन॑सा ।
    आ॒दि॒त्याना॑म् । अ॒ने॒हः । इत् ॥

    अरमतिः । अनर्वणः । विश्वः । देवस्य । मनसा ।
    आदित्यानाम् । अनेहः । इत् ॥

    arámatiḥ ǀ anarváṇaḥ ǀ víśvaḥ ǀ devásya ǀ mánasā ǀ
    ādityā́nām ǀ aneháḥ ǀ ít ǁ

    aramatiḥ ǀ anarvaṇaḥ ǀ viśvaḥ ǀ devasya ǀ manasā ǀ
    ādityānām ǀ anehaḥ ǀ it ǁ

    8.31.12 Aṣṭaka 6.2.40.2Anuvāka 8.5.12

  13. Ṛk 13

    यथा॑ नो मि॒त्रो अ॑र्य॒मा वरु॑णः॒ संति॑ गो॒पाः ।
    सु॒गा ऋ॒तस्य॒ पंथाः॑ ॥

    यथा नो मित्रो अर्यमा वरुणः सन्ति गोपाः |
    सुगा ऋतस्य पन्थाः ||

    yáthā no mitró aryamā́ váruṇaḥ sánti gopā́ḥ ǀ
    sugā́ ṛtásya pánthāḥ ǁ

    yathā no mitro aryamā varuṇaḥ santi gopāḥ |
    sugā ṛtasya panthāḥ ||

    यथा॑ । नः॒ । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । सन्ति॑ । गो॒पाः ।
    सु॒ऽगाः । ऋ॒तस्य॑ । पन्थाः॑ ॥

    यथा । नः । मित्रः । अर्यमा । वरुणः । सन्ति । गोपाः ।
    सुऽगाः । ऋतस्य । पन्थाः ॥

    yáthā ǀ naḥ ǀ mitráḥ ǀ aryamā́ ǀ váruṇaḥ ǀ sánti ǀ gopā́ḥ ǀ
    su-gā́ḥ ǀ ṛtásya ǀ pánthāḥ ǁ

    yathā ǀ naḥ ǀ mitraḥ ǀ aryamā ǀ varuṇaḥ ǀ santi ǀ gopāḥ ǀ
    su-gāḥ ǀ ṛtasya ǀ panthāḥ ǁ

    8.31.13 Aṣṭaka 6.2.40.3Anuvāka 8.5.13

  14. Ṛk 14

    अ॒ग्निं वः॑ पू॒र्व्यं गि॒रा दे॒वमी॑ळे॒ वसू॑नां ।
    स॒प॒र्यंतः॑ पुरुप्रि॒यं मि॒त्रं न क्षे॑त्र॒साध॑सं ॥

    अग्निं वः पूर्व्यं गिरा देवम् ईळे वसूनाम् |
    सपर्यन्तः पुरुप्रियम् मित्रं न क्षेत्रसाधसम् ||

    agním vaḥ pūrvyám girā́ devámīḷe vásūnām ǀ
    saparyántaḥ purupriyám mitrám ná kṣetrasā́dhasam ǁ

    agniṃ vaḥ pūrvyaṃ girā devam īḷe vasūnām |
    saparyantaḥ purupriyam mitraṃ na kṣetrasādhasam ||

    अ॒ग्निम् । वः॒ । पू॒र्व्यम् । गि॒रा । दे॒वम् । ई॒ळे॒ । वसू॑नाम् ।
    स॒प॒र्यन्तः॑ । पु॒रु॒ऽप्रि॒यम् । मि॒त्रम् । न । क्षे॒त्र॒ऽसाध॑सम् ॥

    अग्निम् । वः । पूर्व्यम् । गिरा । देवम् । ईळे । वसूनाम् ।
    सपर्यन्तः । पुरुऽप्रियम् । मित्रम् । न । क्षेत्रऽसाधसम् ॥

    agním ǀ vaḥ ǀ pūrvyám ǀ girā́ ǀ devám ǀ īḷe ǀ vásūnām ǀ
    saparyántaḥ ǀ puru-priyám ǀ mitrám ǀ ná ǀ kṣetra-sā́dhasam ǁ

    agnim ǀ vaḥ ǀ pūrvyam ǀ girā ǀ devam ǀ īḷe ǀ vasūnām ǀ
    saparyantaḥ ǀ puru-priyam ǀ mitram ǀ na ǀ kṣetra-sādhasam ǁ

    8.31.14 Aṣṭaka 6.2.40.4Anuvāka 8.5.14

  15. Ṛk 15

    म॒क्षू दे॒वव॑तो॒ रथः॒ शूरो॑ वा पृ॒त्सु कासु॑ चित् ।
    दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥

    मक्षू देववतो रथः शूरो वा पृत्सु कासु चित् |
    देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ||

    makṣū́ devávato ráthaḥ śū́ro vā pṛtsú kā́su cit ǀ
    devā́nām yá ínmáno yájamāna íyakṣatyabhī́dáyajvano bhuvat ǁ

    makṣū devavato rathaḥ śūro vā pṛtsu kāsu cit |
    devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat ||

    म॒क्षु । दे॒वऽव॑तः । रथः॑ । शूरः॑ । वा॒ । पृ॒त्ऽसु । कासु॑ । चि॒त् ।
    दे॒वाना॑म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भि । इत् । अय॑ज्वनः । भु॒व॒त् ॥

    मक्षु । देवऽवतः । रथः । शूरः । वा । पृत्ऽसु । कासु । चित् ।
    देवानाम् । यः । इत् । मनः । यजमानः । इयक्षति । अभि । इत् । अयज्वनः । भुवत् ॥

    makṣú ǀ devá-vataḥ ǀ ráthaḥ ǀ śū́raḥ ǀ vā ǀ pṛt-sú ǀ kā́su ǀ cit ǀ
    devā́nām ǀ yáḥ ǀ ít ǀ mánaḥ ǀ yájamānaḥ ǀ íyakṣati ǀ abhí ǀ ít ǀ áyajvanaḥ ǀ bhuvat ǁ

    makṣu ǀ deva-vataḥ ǀ rathaḥ ǀ śūraḥ ǀ vā ǀ pṛt-su ǀ kāsu ǀ cit ǀ
    devānām ǀ yaḥ ǀ it ǀ manaḥ ǀ yajamānaḥ ǀ iyakṣati ǀ abhi ǀ it ǀ ayajvanaḥ ǀ bhuvat ǁ

    8.31.15 Aṣṭaka 6.2.40.5Anuvāka 8.5.15

  16. Ṛk 16

    न य॑जमान रिष्यसि॒ न सु॑न्वान॒ न दे॑वयो ।
    दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥

    न यजमान रिष्यसि न सुन्वान न देवयो |
    देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ||

    ná yajamāna riṣyasi ná sunvāna ná devayo ǀ
    devā́nām yá ínmáno yájamāna íyakṣatyabhī́dáyajvano bhuvat ǁ

    na yajamāna riṣyasi na sunvāna na devayo |
    devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat ||

    न । य॒ज॒मा॒न॒ । रि॒ष्य॒सि॒ । न । सु॒न्वा॒न॒ । न । दे॒व॒यो॒ इति॑ देवऽयो ।
    दे॒वाना॑म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भि । इत् । अय॑ज्वनः । भु॒व॒त् ॥

    न । यजमान । रिष्यसि । न । सुन्वान । न । देवयो इति देवऽयो ।
    देवानाम् । यः । इत् । मनः । यजमानः । इयक्षति । अभि । इत् । अयज्वनः । भुवत् ॥

    ná ǀ yajamāna ǀ riṣyasi ǀ ná ǀ sunvāna ǀ ná ǀ devayo íti deva-yo ǀ
    devā́nām ǀ yáḥ ǀ ít ǀ mánaḥ ǀ yájamānaḥ ǀ íyakṣati ǀ abhí ǀ ít ǀ áyajvanaḥ ǀ bhuvat ǁ

    na ǀ yajamāna ǀ riṣyasi ǀ na ǀ sunvāna ǀ na ǀ devayo iti deva-yo ǀ
    devānām ǀ yaḥ ǀ it ǀ manaḥ ǀ yajamānaḥ ǀ iyakṣati ǀ abhi ǀ it ǀ ayajvanaḥ ǀ bhuvat ǁ

    8.31.16 Aṣṭaka 6.2.40.6Anuvāka 8.5.16

  17. Ṛk 17

    नकि॒ष्टं कर्म॑णा नश॒न्न प्र यो॑ष॒न्न यो॑षति ।
    दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥

    नकिष् टं कर्मणा नशन् न प्र योषन् न योषति |
    देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ||

    nákiṣṭám kármaṇā naśanná prá yoṣanná yoṣati ǀ
    devā́nām yá ínmáno yájamāna íyakṣatyabhī́dáyajvano bhuvat ǁ

    nakiṣ ṭaṃ karmaṇā naśan na pra yoṣan na yoṣati |
    devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat ||

    नकिः॑ । तम् । कर्म॑णा । न॒श॒त् । न । प्र । यो॒ष॒त् । न । यो॒ष॒ति॒ ।
    दे॒वाना॑म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भि । इत् । अय॑ज्वनः । भु॒व॒त् ॥

    नकिः । तम् । कर्मणा । नशत् । न । प्र । योषत् । न । योषति ।
    देवानाम् । यः । इत् । मनः । यजमानः । इयक्षति । अभि । इत् । अयज्वनः । भुवत् ॥

    nákiḥ ǀ tám ǀ kármaṇā ǀ naśat ǀ ná ǀ prá ǀ yoṣat ǀ ná ǀ yoṣati ǀ
    devā́nām ǀ yáḥ ǀ ít ǀ mánaḥ ǀ yájamānaḥ ǀ íyakṣati ǀ abhí ǀ ít ǀ áyajvanaḥ ǀ bhuvat ǁ

    nakiḥ ǀ tam ǀ karmaṇā ǀ naśat ǀ na ǀ pra ǀ yoṣat ǀ na ǀ yoṣati ǀ
    devānām ǀ yaḥ ǀ it ǀ manaḥ ǀ yajamānaḥ ǀ iyakṣati ǀ abhi ǀ it ǀ ayajvanaḥ ǀ bhuvat ǁ

    8.31.17 Aṣṭaka 6.2.40.7Anuvāka 8.5.17

  18. Ṛk 18

    अस॒दत्र॑ सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्यं॑ ।
    दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥

    असद् अत्र सुवीर्यम् उत त्यद् आश्वश्व्यम् |
    देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ||

    ásadátra suvī́ryamutá tyádāśváśvyam ǀ
    devā́nām yá ínmáno yájamāna íyakṣatyabhī́dáyajvano bhuvat ǁ

    asad atra suvīryam uta tyad āśvaśvyam |
    devānāṃ ya in mano yajamāna iyakṣaty abhīd ayajvano bhuvat ||

    अस॑त् । अत्र॑ । सु॒ऽवीर्य॑म् । उ॒त । त्यत् । आ॒शु॒ऽअश्व्य॑म् ।
    दे॒वाना॑म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भि । इत् । अय॑ज्वनः । भु॒व॒त् ॥

    असत् । अत्र । सुऽवीर्यम् । उत । त्यत् । आशुऽअश्व्यम् ।
    देवानाम् । यः । इत् । मनः । यजमानः । इयक्षति । अभि । इत् । अयज्वनः । भुवत् ॥

    ásat ǀ átra ǀ su-vī́ryam ǀ utá ǀ tyát ǀ āśu-áśvyam ǀ
    devā́nām ǀ yáḥ ǀ ít ǀ mánaḥ ǀ yájamānaḥ ǀ íyakṣati ǀ abhí ǀ ít ǀ áyajvanaḥ ǀ bhuvat ǁ

    asat ǀ atra ǀ su-vīryam ǀ uta ǀ tyat ǀ āśu-aśvyam ǀ
    devānām ǀ yaḥ ǀ it ǀ manaḥ ǀ yajamānaḥ ǀ iyakṣati ǀ abhi ǀ it ǀ ayajvanaḥ ǀ bhuvat ǁ

    8.31.18 Aṣṭaka 6.2.40.8Anuvāka 8.5.18

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.31 · Dāśvas · Parvata, Nadī, Viṣṇu · Pūṣan, Bhaga · Ādityas · Mitra, Aryaman, Varuṇa · Agni, Mitra · Yajamāna

Interpretations

Ralph T. H. Griffith

Ṛk 1

THAT Brahman pleases Indra well, who worships, sacrifices, pours Libation, and prepares the meal.

Ṛk 2

Śakra protects from woe the man who gives him sacrificial cake. And offers Soma blent with milk.

Ṛk 3

His chariot shall be glorious, sped by Gods, and mighty shall he be, Subduing all hostilities.

Ṛk 4

Each day that passes, in his house flows his libation, rich in milk, Exhaustless, bringing progeny.

Ṛk 5

O Gods, with constant draught of milk, husband and wife with one accord Press out and wash the Soma juice.

Ṛk 6

They gain sufficient food: they come united to the sacred grass, And never do they fail in strength.

Ṛk 7

Never do they deny or seek to hide the favour of the Gods: They win high glory for themselves.

Ṛk 8

With sons and daughters by their side they reach their full extent of life, Both decked with ornaments of gold.

Ṛk 9

Serving the Immortal One with gifts of sacrificial meal and wealth, They satisfy the claims of love and pay due honour to the Gods.

Ṛk 10

We claim protection from the Hills, we claim protection of the Floods, Of him who stands by Viṣṇu's side.

Ṛk 11

May Pūṣan come, and Bhaga, Lord of wealth, All-bounteous, for our weal Broad be the path that leads to bliss:

Ṛk 12

Aramati, and, free from foes, Visva with spirit of a God, And the Ādityas’ peerless might.

Ṛk 13

Seeing that Mitra, Aryaman, and Varuṇa are guarding us, The paths of Law are fair to tread.

Ṛk 14

I glorify with song, for wealth, Agni the God, the first of you. We honour as a well-loved Friend the God who prospereth our fields.

Ṛk 15

As in all frays the hero, so swift moves his car whom Gods attend. The man who, sacrificing, strives to win the heart of Deities will conquer those who worship not.

Ṛk 16

Ne’er are ye injured, worshipper, presser of juice, or pious man. The man who, sacrificing, strives to win the heart of Deities will conquer those who worship not.

Ṛk 17

None in his action equals him, none holds him far or keeps him off. The man who, sacrificing, strives to win the heart of Deities will conquer those who worship not.