Ṛk 8.31.2
Saṃhitā
पु॒रो॒ळाशं॒ यो अ॑स्मै॒ सोमं॒ रर॑त आ॒शिरं॑ ।
पादित्तं श॒क्रो अंह॑सः ॥
पुरोऌआशं यो अस्मै सोमं ररत आशिरम् |
पाद् इत् तं शक्रो अंहसः ||
puroḷā́śam yó asmai sómam rárata āśíram ǀ
pā́díttám śakró áṃhasaḥ ǁ
puroḷāśaṃ yo asmai somaṃ rarata āśiram |
pād it taṃ śakro aṃhasaḥ ||
Padapāṭha
पु॒रो॒ळाश॑म् । यः । अ॒स्मै॒ । सोम॑म् । रर॑ते । आ॒ऽशिर॑म् ।
पात् । इत् । तम् । श॒क्रः । अंह॑सः ॥
पुरोळाशम् । यः । अस्मै । सोमम् । ररते । आऽशिरम् ।
पात् । इत् । तम् । शक्रः । अंहसः ॥
puroḷā́śam ǀ yáḥ ǀ asmai ǀ sómam ǀ rárate ǀ ā-śíram ǀ
pā́t ǀ ít ǀ tám ǀ śakráḥ ǀ áṃhasaḥ ǁ
puroḷāśam ǀ yaḥ ǀ asmai ǀ somam ǀ rarate ǀ ā-śiram ǀ
pāt ǀ it ǀ tam ǀ śakraḥ ǀ aṃhasaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.031.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.2.38.02
- Maṇḍala · Anuvāka · Ṛk
- 08.05.002
- Devatā देवता
- 1-9: Dāśvas; 10: Parvata, Nadī, Viṣṇu; 11: Pūṣan, Bhaga; 12: Ādityas; 13: Mitra, Aryaman, Varuṇa; 14: Agni, Mitra; 15-18: Yajamāna
- Ṛṣi ऋषि
- Manu Vaivasvata
- Chandas छन्दस्
- Gāyatrī, Paṅkti, Anuṣṭubh, Pādanicṛt
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.