Ṛgveda · Maṇḍala 8

Sūkta 7

Maruts · Punarvatsa Kāṇva · 36 ṛks

Link
Devatā देवता
Maruts
Ṛṣi ऋषि
Punarvatsa Kāṇva
Chandas छन्दस्
Gāyatrī
Metres by ṛk

1st set of styles gāyatrī (1, 3-5, 7-13, 17-19, 21, 28, 30-32, 34); nicṛdgāyatrī (2, 6, 14, 16, 20, 22-27, 35, 36); virāḍārṣīgāyatrī (29, 33); gāyatrī (pādanicṛdgāyatrī) (15)

2nd set of styles gāyatrī

  1. Ṛk 1

    प्र यद्व॑स्त्रि॒ष्टुभ॒मिषं॒ मरु॑तो॒ विप्रो॒ अक्ष॑रत् ।
    वि पर्व॑तेषु राजथ ॥

    प्र यद् वस् त्रिष्टुभम् इषम् मरुतो विप्रो अक्षरत् |
    वि पर्वतेषु राजथ ||

    prá yádvastriṣṭúbhamíṣam máruto vípro ákṣarat ǀ
    ví párvateṣu rājatha ǁ

    pra yad vas triṣṭubham iṣam maruto vipro akṣarat |
    vi parvateṣu rājatha ||

    प्र । यत् । वः॒ । त्रि॒ऽस्तुभ॑म् । इष॑म् । मरु॑तः । विप्रः॑ । अक्ष॑रत् ।
    वि । पर्व॑तेषु । रा॒ज॒थ॒ ॥

    प्र । यत् । वः । त्रिऽस्तुभम् । इषम् । मरुतः । विप्रः । अक्षरत् ।
    वि । पर्वतेषु । राजथ ॥

    prá ǀ yát ǀ vaḥ ǀ tri-stúbham ǀ íṣam ǀ márutaḥ ǀ vípraḥ ǀ ákṣarat ǀ
    ví ǀ párvateṣu ǀ rājatha ǁ

    pra ǀ yat ǀ vaḥ ǀ tri-stubham ǀ iṣam ǀ marutaḥ ǀ vipraḥ ǀ akṣarat ǀ
    vi ǀ parvateṣu ǀ rājatha ǁ

    8.7.1 Aṣṭaka 5.8.18.1Anuvāka 8.2.49

  2. Ṛk 2

    यदं॒ग त॑विषीयवो॒ यामं॑ शुभ्रा॒ अचि॑ध्वं ।
    नि पर्व॑ता अहासत ॥

    यद् अङ्ग तविषीयवो यामं शुभ्रा अचिध्वम् |
    नि पर्वता अहासत ||

    yádaṅgá taviṣīyavo yā́mam śubhrā ácidhvam ǀ
    ní párvatā ahāsata ǁ

    yad aṅga taviṣīyavo yāmaṃ śubhrā acidhvam |
    ni parvatā ahāsata ||

    यत् । अ॒ङ्ग । त॒वि॒षी॒ऽय॒वः॒ । याम॑म् । शु॒भ्राः॒ । अचि॑ध्वम् ।
    नि । पर्व॑ताः । अ॒हा॒स॒त॒ ॥

    यत् । अङ्ग । तविषीऽयवः । यामम् । शुभ्राः । अचिध्वम् ।
    नि । पर्वताः । अहासत ॥

    yát ǀ aṅgá ǀ taviṣī-yavaḥ ǀ yā́mam ǀ śubhrāḥ ǀ ácidhvam ǀ
    ní ǀ párvatāḥ ǀ ahāsata ǁ

    yat ǀ aṅga ǀ taviṣī-yavaḥ ǀ yāmam ǀ śubhrāḥ ǀ acidhvam ǀ
    ni ǀ parvatāḥ ǀ ahāsata ǁ

    8.7.2 Aṣṭaka 5.8.18.2Anuvāka 8.2.50

  3. Ṛk 3

    उदी॑रयंत वा॒युभि॑र्वा॒श्रासः॒ पृश्नि॑मातरः ।
    धु॒क्षंत॑ पि॒प्युषी॒मिषं॑ ॥

    उद् ईरयन्त वायुभिर् वाश्रासः पृश्निमातरः |
    धुक्षन्त पिप्युषीम् इषम् ||

    údīrayanta vāyúbhirvāśrā́saḥ pṛ́śnimātaraḥ ǀ
    dhukṣánta pipyúṣīmíṣam ǁ

    ud īrayanta vāyubhir vāśrāsaḥ pṛśnimātaraḥ |
    dhukṣanta pipyuṣīm iṣam ||

    उत् । ई॒र॒य॒न्त॒ । वा॒युऽभिः॑ । वा॒श्रासः॑ । पृश्नि॑ऽमातरः ।
    धु॒क्षन्त॑ । पि॒प्युषी॑म् । इष॑म् ॥

    उत् । ईरयन्त । वायुऽभिः । वाश्रासः । पृश्निऽमातरः ।
    धुक्षन्त । पिप्युषीम् । इषम् ॥

    út ǀ īrayanta ǀ vāyú-bhiḥ ǀ vāśrā́saḥ ǀ pṛ́śni-mātaraḥ ǀ
    dhukṣánta ǀ pipyúṣīm ǀ íṣam ǁ

    ut ǀ īrayanta ǀ vāyu-bhiḥ ǀ vāśrāsaḥ ǀ pṛśni-mātaraḥ ǀ
    dhukṣanta ǀ pipyuṣīm ǀ iṣam ǁ

    8.7.3 Aṣṭaka 5.8.18.3Anuvāka 8.2.51

  4. Ṛk 4

    वपं॑ति म॒रुतो॒ मिहं॒ प्र वे॑पयंति॒ पर्व॑तान् ।
    यद्यामं॒ यांति॑ वा॒युभिः॑ ॥

    वपन्ति मरुतो मिहम् प्र वेपयन्ति पर्वतान् |
    यद् यामं यान्ति वायुभिः ||

    vápanti marúto míham prá vepayanti párvatān ǀ
    yádyā́mam yā́nti vāyúbhiḥ ǁ

    vapanti maruto miham pra vepayanti parvatān |
    yad yāmaṃ yānti vāyubhiḥ ||

    वप॑न्ति । म॒रुतः॑ । मिह॑म् । प्र । वे॒प॒य॒न्ति॒ । पर्व॑तान् ।
    यत् । याम॑म् । यान्ति॑ । वा॒युऽभिः॑ ॥

    वपन्ति । मरुतः । मिहम् । प्र । वेपयन्ति । पर्वतान् ।
    यत् । यामम् । यान्ति । वायुऽभिः ॥

    vápanti ǀ marútaḥ ǀ míham ǀ prá ǀ vepayanti ǀ párvatān ǀ
    yát ǀ yā́mam ǀ yā́nti ǀ vāyú-bhiḥ ǁ

    vapanti ǀ marutaḥ ǀ miham ǀ pra ǀ vepayanti ǀ parvatān ǀ
    yat ǀ yāmam ǀ yānti ǀ vāyu-bhiḥ ǁ

    8.7.4 Aṣṭaka 5.8.18.4Anuvāka 8.2.52

  5. Ṛk 5

    नि यद्यामा॑य वो गि॒रिर्नि सिंध॑वो॒ विध॑र्मणे ।
    म॒हे शुष्मा॑य येमि॒रे ॥

    नि यद् यामाय वो गिरिर् नि सिन्धवो विधर्मणे |
    महे शुष्माय येमिरे ||

    ní yádyā́māya vo girírní síndhavo vídharmaṇe ǀ
    mahé śúṣmāya yemiré ǁ

    ni yad yāmāya vo girir ni sindhavo vidharmaṇe |
    mahe śuṣmāya yemire ||

    नि । यत् । यामा॑य । वः॒ । गि॒रिः । नि । सिन्ध॑वः । विऽध॑र्मणे ।
    म॒हे । शुष्मा॑य । ये॒मि॒रे ॥

    नि । यत् । यामाय । वः । गिरिः । नि । सिन्धवः । विऽधर्मणे ।
    महे । शुष्माय । येमिरे ॥

    ní ǀ yát ǀ yā́māya ǀ vaḥ ǀ giríḥ ǀ ní ǀ síndhavaḥ ǀ ví-dharmaṇe ǀ
    mahé ǀ śúṣmāya ǀ yemiré ǁ

    ni ǀ yat ǀ yāmāya ǀ vaḥ ǀ giriḥ ǀ ni ǀ sindhavaḥ ǀ vi-dharmaṇe ǀ
    mahe ǀ śuṣmāya ǀ yemire ǁ

    8.7.5 Aṣṭaka 5.8.18.5Anuvāka 8.2.53

  6. Ṛk 6

    यु॒ष्माँ उ॒ नक्त॑मू॒तये॑ यु॒ष्मांदिवा॑ हवामहे ।
    यु॒ष्मान्प्र॑य॒त्य॑ध्व॒रे ॥

    युष्मां उ नक्तम् ऊतये युष्मान् दिवा हवामहे |
    युष्मान् प्रयत्य् अध्वरे ||

    yuṣmā́m̐ u náktamūtáye yuṣmā́ndívā havāmahe ǀ
    yuṣmā́nprayatyádhvaré ǁ

    yuṣmāṃ u naktam ūtaye yuṣmān divā havāmahe |
    yuṣmān prayaty adhvare ||

    यु॒ष्मान् । ऊं॒ इति॑ । नक्त॑म् । ऊ॒तये॑ । यु॒ष्मान् । दिवा॑ । ह॒वा॒म॒हे॒ ।
    यु॒ष्मान् । प्र॒ऽय॒ति । अ॒ध्व॒रे ॥

    युष्मान् । ऊं इति । नक्तम् । ऊतये । युष्मान् । दिवा । हवामहे ।
    युष्मान् । प्रऽयति । अध्वरे ॥

    yuṣmā́n ǀ ūṃ íti ǀ náktam ǀ ūtáye ǀ yuṣmā́n ǀ dívā ǀ havāmahe ǀ
    yuṣmā́n ǀ pra-yatí ǀ adhvaré ǁ

    yuṣmān ǀ ūṃ iti ǀ naktam ǀ ūtaye ǀ yuṣmān ǀ divā ǀ havāmahe ǀ
    yuṣmān ǀ pra-yati ǀ adhvare ǁ

    8.7.6 Aṣṭaka 5.8.19.1Anuvāka 8.2.54

  7. Ṛk 7

    उदु॒ त्ये अ॑रु॒णप्स॑वश्चि॒त्रा यामे॑भिरीरते ।
    वा॒श्रा अधि॒ ष्णुना॑ दि॒वः ॥

    उद् उ त्ये अरुणप्सवश् चित्रा यामेभिर् ईरते |
    वाश्रा अधि ष्णुना दिवः ||

    údu tyé aruṇápsavaścitrā́ yā́mebhirīrate ǀ
    vāśrā́ ádhi ṣṇúnā diváḥ ǁ

    ud u tye aruṇapsavaś citrā yāmebhir īrate |
    vāśrā adhi ṣṇunā divaḥ ||

    उत् । ऊं॒ इति॑ । त्ये । अ॒रु॒णऽप्स॑वः । चि॒त्राः । यामे॑भिः । ई॒र॒ते॒ ।
    वा॒श्राः । अधि॑ । स्नुना॑ । दि॒वः ॥

    उत् । ऊं इति । त्ये । अरुणऽप्सवः । चित्राः । यामेभिः । ईरते ।
    वाश्राः । अधि । स्नुना । दिवः ॥

    út ǀ ūṃ íti ǀ tyé ǀ aruṇá-psavaḥ ǀ citrā́ḥ ǀ yā́mebhiḥ ǀ īrate ǀ
    vāśrā́ḥ ǀ ádhi ǀ snúnā ǀ diváḥ ǁ

    ut ǀ ūṃ iti ǀ tye ǀ aruṇa-psavaḥ ǀ citrāḥ ǀ yāmebhiḥ ǀ īrate ǀ
    vāśrāḥ ǀ adhi ǀ snunā ǀ divaḥ ǁ

    8.7.7 Aṣṭaka 5.8.19.2Anuvāka 8.2.55

  8. Ṛk 8

    सृ॒जंति॑ र॒श्मिमोज॑सा॒ पंथां॒ सूर्या॑य॒ यात॑वे ।
    ते भा॒नुभि॒र्वि त॑स्थिरे ॥

    सृजन्ति रश्मिम् ओजसा पन्थां सूर्याय यातवे |
    ते भानुभिर् वि तस्थिरे ||

    sṛjánti raśmímójasā pánthām sū́ryāya yā́tave ǀ
    té bhānúbhirví tasthire ǁ

    sṛjanti raśmim ojasā panthāṃ sūryāya yātave |
    te bhānubhir vi tasthire ||

    सृ॒जन्ति॑ । र॒श्मिम् । ओज॑सा । पन्था॑म् । सूर्या॑य । यात॑वे ।
    ते । भा॒नुऽभिः॑ । वि । त॒स्थि॒रे॒ ॥

    सृजन्ति । रश्मिम् । ओजसा । पन्थाम् । सूर्याय । यातवे ।
    ते । भानुऽभिः । वि । तस्थिरे ॥

    sṛjánti ǀ raśmím ǀ ójasā ǀ pánthām ǀ sū́ryāya ǀ yā́tave ǀ
    té ǀ bhānú-bhiḥ ǀ ví ǀ tasthire ǁ

    sṛjanti ǀ raśmim ǀ ojasā ǀ panthām ǀ sūryāya ǀ yātave ǀ
    te ǀ bhānu-bhiḥ ǀ vi ǀ tasthire ǁ

    8.7.8 Aṣṭaka 5.8.19.3Anuvāka 8.2.56

  9. Ṛk 9

    इ॒मां मे॑ मरुतो॒ गिर॑मि॒मं स्तोम॑मृभुक्षणः ।
    इ॒मं मे॑ वनता॒ हवं॑ ॥

    इमाम् मे मरुतो गिरम् इमं स्तोमम् ऋभुक्षणः |
    इमम् मे वनता हवम् ||

    imā́m me maruto gíramimám stómamṛbhukṣaṇaḥ ǀ
    imám me vanatā hávam ǁ

    imām me maruto giram imaṃ stomam ṛbhukṣaṇaḥ |
    imam me vanatā havam ||

    इ॒माम् । मे॒ । म॒रु॒तः॒ । गिर॑म् । इ॒मम् । स्तोम॑म् । ऋ॒भु॒क्ष॒णः॒ ।
    इ॒मम् । मे॒ । व॒न॒त॒ । हव॑म् ॥

    इमाम् । मे । मरुतः । गिरम् । इमम् । स्तोमम् । ऋभुक्षणः ।
    इमम् । मे । वनत । हवम् ॥

    imā́m ǀ me ǀ marutaḥ ǀ gíram ǀ imám ǀ stómam ǀ ṛbhukṣaṇaḥ ǀ
    imám ǀ me ǀ vanata ǀ hávam ǁ

    imām ǀ me ǀ marutaḥ ǀ giram ǀ imam ǀ stomam ǀ ṛbhukṣaṇaḥ ǀ
    imam ǀ me ǀ vanata ǀ havam ǁ

    8.7.9 Aṣṭaka 5.8.19.4Anuvāka 8.2.57

  10. Ṛk 10

    त्रीणि॒ सरां॑सि॒ पृश्न॑यो दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ ।
    उत्सं॒ कवं॑धमु॒द्रिणं॑ ॥

    त्रीणि सरांसि पृश्नयो दुदुह्रे वज्रिणे मधु |
    उत्सं कवन्धम् उद्रिणम् ||

    trī́ṇi sárāṃsi pṛ́śnayo duduhré vajríṇe mádhu ǀ
    útsam kávandhamudríṇam ǁ

    trīṇi sarāṃsi pṛśnayo duduhre vajriṇe madhu |
    utsaṃ kavandham udriṇam ||

    त्रीणि॑ । सरां॑सि । पृश्न॑यः । दु॒दु॒ह्रे । व॒ज्रिणे॑ । मधु॑ ।
    उत्स॑म् । कव॑न्धम् । उ॒द्रिण॑म् ॥

    त्रीणि । सरांसि । पृश्नयः । दुदुह्रे । वज्रिणे । मधु ।
    उत्सम् । कवन्धम् । उद्रिणम् ॥

    trī́ṇi ǀ sárāṃsi ǀ pṛ́śnayaḥ ǀ duduhré ǀ vajríṇe ǀ mádhu ǀ
    útsam ǀ kávandham ǀ udríṇam ǁ

    trīṇi ǀ sarāṃsi ǀ pṛśnayaḥ ǀ duduhre ǀ vajriṇe ǀ madhu ǀ
    utsam ǀ kavandham ǀ udriṇam ǁ

    8.7.10 Aṣṭaka 5.8.19.5Anuvāka 8.2.58

  11. Ṛk 11

    मरु॑तो॒ यद्ध॑ वो दि॒वः सु॑म्ना॒यंतो॒ हवा॑महे ।
    आ तू न॒ उप॑ गंतन ॥

    मरुतो यद् ध वो दिवः सुम्नायन्तो हवामहे |
    आ तू न उप गन्तन ||

    máruto yáddha vo diváḥ sumnāyánto hávāmahe ǀ
    ā́ tū́ na úpa gantana ǁ

    maruto yad dha vo divaḥ sumnāyanto havāmahe |
    ā tū na upa gantana ||

    मरु॑तः । यत् । ह॒ । वः॒ । दि॒वः । सु॒म्न॒ऽयन्तः॑ । हवा॑महे ।
    आ । तु । नः॒ । उप॑ । ग॒न्त॒न॒ ॥

    मरुतः । यत् । ह । वः । दिवः । सुम्नऽयन्तः । हवामहे ।
    आ । तु । नः । उप । गन्तन ॥

    márutaḥ ǀ yát ǀ ha ǀ vaḥ ǀ diváḥ ǀ sumna-yántaḥ ǀ hávāmahe ǀ
    ā́ ǀ tú ǀ naḥ ǀ úpa ǀ gantana ǁ

    marutaḥ ǀ yat ǀ ha ǀ vaḥ ǀ divaḥ ǀ sumna-yantaḥ ǀ havāmahe ǀ
    ā ǀ tu ǀ naḥ ǀ upa ǀ gantana ǁ

    8.7.11 Aṣṭaka 5.8.20.1Anuvāka 8.2.59

  12. Ṛk 12

    यू॒यं हि ष्ठा सु॑दानवो॒ रुद्रा॑ ऋभुक्षणो॒ दमे॑ ।
    उ॒त प्रचे॑तसो॒ मदे॑ ॥

    यूयं हि ष्ठा सुदानवो रुद्रा ऋभुक्षणो दमे |
    उत प्रचेतसो मदे ||

    yūyám hí ṣṭhā́ sudānavo rúdrā ṛbhukṣaṇo dáme ǀ
    utá prácetaso máde ǁ

    yūyaṃ hi ṣṭhā sudānavo rudrā ṛbhukṣaṇo dame |
    uta pracetaso made ||

    यू॒यम् । हि । स्थ । सु॒ऽदा॒न॒वः॒ । रुद्राः॑ । ऋ॒भु॒क्ष॒णः॒ । दमे॑ ।
    उ॒त । प्रऽचे॑तसः । मदे॑ ॥

    यूयम् । हि । स्थ । सुऽदानवः । रुद्राः । ऋभुक्षणः । दमे ।
    उत । प्रऽचेतसः । मदे ॥

    yūyám ǀ hí ǀ sthá ǀ su-dānavaḥ ǀ rúdrāḥ ǀ ṛbhukṣaṇaḥ ǀ dáme ǀ
    utá ǀ prá-cetasaḥ ǀ máde ǁ

    yūyam ǀ hi ǀ stha ǀ su-dānavaḥ ǀ rudrāḥ ǀ ṛbhukṣaṇaḥ ǀ dame ǀ
    uta ǀ pra-cetasaḥ ǀ made ǁ

    8.7.12 Aṣṭaka 5.8.20.2Anuvāka 8.2.60

  13. Ṛk 13

    आ नो॑ र॒यिं म॑द॒च्युतं॑ पुरु॒क्षुं वि॒श्वधा॑यसं ।
    इय॑र्ता मरुतो दि॒वः ॥

    आ नो रयिम् मदच्युतम् पुरुक्षुं विश्वधायसम् |
    इयर्ता मरुतो दिवः ||

    ā́ no rayím madacyútam purukṣúm viśvádhāyasam ǀ
    íyartā maruto diváḥ ǁ

    ā no rayim madacyutam purukṣuṃ viśvadhāyasam |
    iyartā maruto divaḥ ||

    आ । नः॒ । र॒यिम् । म॒द॒ऽच्युत॑म् । पु॒रु॒ऽक्षुम् । वि॒श्वऽधा॑यसम् ।
    इय॑र्त । म॒रु॒तः॒ । दि॒वः ॥

    आ । नः । रयिम् । मदऽच्युतम् । पुरुऽक्षुम् । विश्वऽधायसम् ।
    इयर्त । मरुतः । दिवः ॥

    ā́ ǀ naḥ ǀ rayím ǀ mada-cyútam ǀ puru-kṣúm ǀ viśvá-dhāyasam ǀ
    íyarta ǀ marutaḥ ǀ diváḥ ǁ

    ā ǀ naḥ ǀ rayim ǀ mada-cyutam ǀ puru-kṣum ǀ viśva-dhāyasam ǀ
    iyarta ǀ marutaḥ ǀ divaḥ ǁ

    8.7.13 Aṣṭaka 5.8.20.3Anuvāka 8.2.61

  14. Ṛk 14

    अधी॑व॒ यद्गि॑री॒णां यामं॑ शुभ्रा॒ अचि॑ध्वं ।
    सु॒वा॒नैर्मं॑दध्व॒ इंदु॑भिः ॥

    अधीव यद् गिरीणां यामं शुभ्रा अचिध्वम् |
    सुवानैर् मन्दध्व इन्दुभिः ||

    ádhīva yádgirīṇā́m yā́mam śubhrā ácidhvam ǀ
    suvānáirmandadhva índubhiḥ ǁ

    adhīva yad girīṇāṃ yāmaṃ śubhrā acidhvam |
    suvānair mandadhva indubhiḥ ||

    अधि॑ऽइव । यत् । गि॒री॒णाम् । याम॑म् । शु॒भ्राः॒ । अचि॑ध्वम् ।
    सु॒वा॒नैः । म॒न्द॒ध्वे॒ । इन्दु॑ऽभिः ॥

    अधिऽइव । यत् । गिरीणाम् । यामम् । शुभ्राः । अचिध्वम् ।
    सुवानैः । मन्दध्वे । इन्दुऽभिः ॥

    ádhi-iva ǀ yát ǀ girīṇā́m ǀ yā́mam ǀ śubhrāḥ ǀ ácidhvam ǀ
    suvānáiḥ ǀ mandadhve ǀ índu-bhiḥ ǁ

    adhi-iva ǀ yat ǀ girīṇām ǀ yāmam ǀ śubhrāḥ ǀ acidhvam ǀ
    suvānaiḥ ǀ mandadhve ǀ indu-bhiḥ ǁ

    8.7.14 Aṣṭaka 5.8.20.4Anuvāka 8.2.62

  15. Ṛk 15

    ए॒ताव॑तश्चिदेषां सु॒म्नं भि॑क्षेत॒ मर्त्यः॑ ।
    अदा॑भ्यस्य॒ मन्म॑भिः ॥

    एतावतश् चिद् एषां सुम्नम् भिक्षेत मर्त्यः |
    अदाभ्यस्य मन्मभिः ||

    etā́vataścideṣām sumnám bhikṣeta mártyaḥ ǀ
    ádābhyasya mánmabhiḥ ǁ

    etāvataś cid eṣāṃ sumnam bhikṣeta martyaḥ |
    adābhyasya manmabhiḥ ||

    ए॒ताव॑तः । चि॒त् । ए॒षा॒म् । सु॒म्नम् । भि॒क्षे॒त॒ । मर्त्यः॑ ।
    अदा॑भ्यस्य । मन्म॑ऽभिः ॥

    एतावतः । चित् । एषाम् । सुम्नम् । भिक्षेत । मर्त्यः ।
    अदाभ्यस्य । मन्मऽभिः ॥

    etā́vataḥ ǀ cit ǀ eṣām ǀ sumnám ǀ bhikṣeta ǀ mártyaḥ ǀ
    ádābhyasya ǀ mánma-bhiḥ ǁ

    etāvataḥ ǀ cit ǀ eṣām ǀ sumnam ǀ bhikṣeta ǀ martyaḥ ǀ
    adābhyasya ǀ manma-bhiḥ ǁ

    8.7.15 Aṣṭaka 5.8.20.5Anuvāka 8.2.63

  16. Ṛk 16

    ये द्र॒प्सा इ॑व॒ रोद॑सी॒ धमं॒त्यनु॑ वृ॒ष्टिभिः॑ ।
    उत्सं॑ दु॒हंतो॒ अक्षि॑तं ॥

    ये द्रप्सा इव रोदसी धमन्त्य् अनु वृष्टिभिः |
    उत्सं दुहन्तो अक्षितम् ||

    yé drapsā́ iva ródasī dhámantyánu vṛṣṭíbhiḥ ǀ
    útsam duhánto ákṣitam ǁ

    ye drapsā iva rodasī dhamanty anu vṛṣṭibhiḥ |
    utsaṃ duhanto akṣitam ||

    ये । द्र॒प्साःऽइ॑व । रोद॑सी॒ इति॑ । धम॑न्ति । अनु॑ । वृ॒ष्टिऽभिः॑ ।
    उत्स॑म् । दु॒हन्तः॑ । अक्षि॑तम् ॥

    ये । द्रप्साःऽइव । रोदसी इति । धमन्ति । अनु । वृष्टिऽभिः ।
    उत्सम् । दुहन्तः । अक्षितम् ॥

    yé ǀ drapsā́ḥ-iva ǀ ródasī íti ǀ dhámanti ǀ ánu ǀ vṛṣṭí-bhiḥ ǀ
    útsam ǀ duhántaḥ ǀ ákṣitam ǁ

    ye ǀ drapsāḥ-iva ǀ rodasī iti ǀ dhamanti ǀ anu ǀ vṛṣṭi-bhiḥ ǀ
    utsam ǀ duhantaḥ ǀ akṣitam ǁ

    8.7.16 Aṣṭaka 5.8.21.1Anuvāka 8.2.64

  17. Ṛk 17

    उदु॑ स्वा॒नेभि॑रीरत॒ उद्रथै॒रुदु॑ वा॒युभिः॑ ।
    उत्स्तोमैः॒ पृश्नि॑मातरः ॥

    उद् उ स्वानेभिर् ईरत उद् रथैर् उद् उ वायुभिः |
    उत् स्तोमैः पृश्निमातरः ||

    údu svānébhirīrata údráthairúdu vāyúbhiḥ ǀ
    útstómaiḥ pṛ́śnimātaraḥ ǁ

    ud u svānebhir īrata ud rathair ud u vāyubhiḥ |
    ut stomaiḥ pṛśnimātaraḥ ||

    उत् । ऊं॒ इति॑ । स्वा॒नेभिः॑ । ई॒र॒ते॒ । उत् । रथैः॑ । उत् । ऊं॒ इति॑ । वा॒युऽभिः॑ ।
    उत् । स्तोमैः॑ । पृश्नि॑ऽमातरः ॥

    उत् । ऊं इति । स्वानेभिः । ईरते । उत् । रथैः । उत् । ऊं इति । वायुऽभिः ।
    उत् । स्तोमैः । पृश्निऽमातरः ॥

    út ǀ ūṃ íti ǀ svānébhiḥ ǀ īrate ǀ út ǀ ráthaiḥ ǀ út ǀ ūṃ íti ǀ vāyú-bhiḥ ǀ
    út ǀ stómaiḥ ǀ pṛ́śni-mātaraḥ ǁ

    ut ǀ ūṃ iti ǀ svānebhiḥ ǀ īrate ǀ ut ǀ rathaiḥ ǀ ut ǀ ūṃ iti ǀ vāyu-bhiḥ ǀ
    ut ǀ stomaiḥ ǀ pṛśni-mātaraḥ ǁ

    8.7.17 Aṣṭaka 5.8.21.2Anuvāka 8.2.65

  18. Ṛk 18

    येना॒व तु॒र्वशं॒ यदुं॒ येन॒ कण्वं॑ धन॒स्पृतं॑ ।
    रा॒ये सु तस्य॑ धीमहि ॥

    येनाव तुर्वशं यदुं येन कण्वं धनस्पृतम् |
    राये सु तस्य धीमहि ||

    yénāvá turváśam yádum yéna káṇvam dhanaspṛ́tam ǀ
    rāyé sú tásya dhīmahi ǁ

    yenāva turvaśaṃ yaduṃ yena kaṇvaṃ dhanaspṛtam |
    rāye su tasya dhīmahi ||

    येन॑ । आ॒व । तु॒र्वश॑म् । यदु॑म् । येन॑ । कण्व॑म् । ध॒न॒ऽस्पृत॑म् ।
    रा॒ये । सु । तस्य॑ । धी॒म॒हि॒ ॥

    येन । आव । तुर्वशम् । यदुम् । येन । कण्वम् । धनऽस्पृतम् ।
    राये । सु । तस्य । धीमहि ॥

    yéna ǀ āvá ǀ turváśam ǀ yádum ǀ yéna ǀ káṇvam ǀ dhana-spṛ́tam ǀ
    rāyé ǀ sú ǀ tásya ǀ dhīmahi ǁ

    yena ǀ āva ǀ turvaśam ǀ yadum ǀ yena ǀ kaṇvam ǀ dhana-spṛtam ǀ
    rāye ǀ su ǀ tasya ǀ dhīmahi ǁ

    8.7.18 Aṣṭaka 5.8.21.3Anuvāka 8.2.66

  19. Ṛk 19

    इ॒मा उ॑ वः सुदानवो घृ॒तं न पि॒प्युषी॒रिषः॑ ।
    वर्धा॑न्का॒ण्वस्य॒ मन्म॑भिः ॥

    इमा उ वः सुदानवो घृतं न पिप्युषीर् इषः |
    वर्धान् काण्वस्य मन्मभिः ||

    imā́ u vaḥ sudānavo ghṛtám ná pipyúṣīríṣaḥ ǀ
    várdhānkāṇvásya mánmabhiḥ ǁ

    imā u vaḥ sudānavo ghṛtaṃ na pipyuṣīr iṣaḥ |
    vardhān kāṇvasya manmabhiḥ ||

    इ॒माः । ऊं॒ इति॑ । वः॒ । सु॒ऽदा॒न॒वः॒ । घृ॒तम् । न । पि॒प्युषीः॑ । इषः॑ ।
    वर्धा॑न् । का॒ण्वस्य॑ । मन्म॑ऽभिः ॥

    इमाः । ऊं इति । वः । सुऽदानवः । घृतम् । न । पिप्युषीः । इषः ।
    वर्धान् । काण्वस्य । मन्मऽभिः ॥

    imā́ḥ ǀ ūṃ íti ǀ vaḥ ǀ su-dānavaḥ ǀ ghṛtám ǀ ná ǀ pipyúṣīḥ ǀ íṣaḥ ǀ
    várdhān ǀ kāṇvásya ǀ mánma-bhiḥ ǁ

    imāḥ ǀ ūṃ iti ǀ vaḥ ǀ su-dānavaḥ ǀ ghṛtam ǀ na ǀ pipyuṣīḥ ǀ iṣaḥ ǀ
    vardhān ǀ kāṇvasya ǀ manma-bhiḥ ǁ

    8.7.19 Aṣṭaka 5.8.21.4Anuvāka 8.2.67

  20. Ṛk 20

    क्व॑ नू॒नं सु॑दानवो॒ मद॑था वृक्तबर्हिषः ।
    ब्र॒ह्मा को वः॑ सपर्यति ॥

    क्व नूनं सुदानवो मदथा वृक्तबर्हिषः |
    ब्रह्मा को वः सपर्यति ||

    kvá nūnám sudānavo mádathā vṛktabarhiṣaḥ ǀ
    brahmā́ kó vaḥ saparyati ǁ

    kva nūnaṃ sudānavo madathā vṛktabarhiṣaḥ |
    brahmā ko vaḥ saparyati ||

    क्व॑ । नू॒नम् । सु॒ऽदा॒न॒वः॒ । मद॑थ । वृ॒क्त॒ऽब॒र्हि॒षः॒ ।
    ब्र॒ह्मा । कः । वः॒ । स॒प॒र्य॒ति॒ ॥

    क्व । नूनम् । सुऽदानवः । मदथ । वृक्तऽबर्हिषः ।
    ब्रह्मा । कः । वः । सपर्यति ॥

    kvá ǀ nūnám ǀ su-dānavaḥ ǀ mádatha ǀ vṛkta-barhiṣaḥ ǀ
    brahmā́ ǀ káḥ ǀ vaḥ ǀ saparyati ǁ

    kva ǀ nūnam ǀ su-dānavaḥ ǀ madatha ǀ vṛkta-barhiṣaḥ ǀ
    brahmā ǀ kaḥ ǀ vaḥ ǀ saparyati ǁ

    8.7.20 Aṣṭaka 5.8.21.5Anuvāka 8.2.68

  21. Ṛk 21

    न॒हि ष्म॒ यद्ध॑ वः पु॒रा स्तोमे॑भिर्वृक्तबर्हिषः ।
    शर्धाँ॑ ऋ॒तस्य॒ जिन्व॑थ ॥

    नहि ष्म यद् ध वः पुरा स्तोमेभिर् वृक्तबर्हिषः |
    शर्धां ऋतस्य जिन्वथ ||

    nahí ṣma yáddha vaḥ purā́ stómebhirvṛktabarhiṣaḥ ǀ
    śárdhām̐ ṛtásya jínvatha ǁ

    nahi ṣma yad dha vaḥ purā stomebhir vṛktabarhiṣaḥ |
    śardhāṃ ṛtasya jinvatha ||

    न॒हि । स्म॒ । यत् । ह॒ । वः॒ । पु॒रा । स्तोमे॑भिः । वृ॒क्त॒ऽब॒र्हि॒षः॒ ।
    शर्धा॑न् । ऋ॒तस्य॑ । जिन्व॑थ ॥

    नहि । स्म । यत् । ह । वः । पुरा । स्तोमेभिः । वृक्तऽबर्हिषः ।
    शर्धान् । ऋतस्य । जिन्वथ ॥

    nahí ǀ sma ǀ yát ǀ ha ǀ vaḥ ǀ purā́ ǀ stómebhiḥ ǀ vṛkta-barhiṣaḥ ǀ
    śárdhān ǀ ṛtásya ǀ jínvatha ǁ

    nahi ǀ sma ǀ yat ǀ ha ǀ vaḥ ǀ purā ǀ stomebhiḥ ǀ vṛkta-barhiṣaḥ ǀ
    śardhān ǀ ṛtasya ǀ jinvatha ǁ

    8.7.21 Aṣṭaka 5.8.22.1Anuvāka 8.2.69

  22. Ṛk 22

    समु॒ त्ये म॑ह॒तीर॒पः सं क्षो॒णी समु॒ सूर्यं॑ ।
    सं वज्रं॑ पर्व॒शो द॑धुः ॥

    सम् उ त्ये महतीर् अपः सं क्षोणी सम् उ सूर्यम् |
    सं वज्रम् पर्वशो दधुः ||

    sámu tyé mahatī́rapáḥ sám kṣoṇī́ sámu sū́ryam ǀ
    sám vájram parvaśó dadhuḥ ǁ

    sam u tye mahatīr apaḥ saṃ kṣoṇī sam u sūryam |
    saṃ vajram parvaśo dadhuḥ ||

    सम् । ऊं॒ इति॑ । त्ये । म॒ह॒तीः । अ॒पः । सम् । क्षो॒णी इति॑ । सम् । ऊं॒ इति॑ । सूर्य॑म् ।
    सम् । वज्र॑म् । प॒र्व॒ऽशः । द॒धुः॒ ॥

    सम् । ऊं इति । त्ये । महतीः । अपः । सम् । क्षोणी इति । सम् । ऊं इति । सूर्यम् ।
    सम् । वज्रम् । पर्वऽशः । दधुः ॥

    sám ǀ ūṃ íti ǀ tyé ǀ mahatī́ḥ ǀ apáḥ ǀ sám ǀ kṣoṇī́ íti ǀ sám ǀ ūṃ íti ǀ sū́ryam ǀ
    sám ǀ vájram ǀ parva-śáḥ ǀ dadhuḥ ǁ

    sam ǀ ūṃ iti ǀ tye ǀ mahatīḥ ǀ apaḥ ǀ sam ǀ kṣoṇī iti ǀ sam ǀ ūṃ iti ǀ sūryam ǀ
    sam ǀ vajram ǀ parva-śaḥ ǀ dadhuḥ ǁ

    8.7.22 Aṣṭaka 5.8.22.2Anuvāka 8.2.70

  23. Ṛk 23

    वि वृ॒त्रं प॑र्व॒शो य॑यु॒र्वि पर्व॑ताँ अरा॒जिनः॑ ।
    च॒क्रा॒णा वृष्णि॒ पौंस्यं॑ ॥

    वि वृत्रम् पर्वशो ययुर् वि पर्वतां अराजिनः |
    चक्राणा वृष्णि पौंस्यम् ||

    ví vṛtrám parvaśó yayurví párvatām̐ arājínaḥ ǀ
    cakrāṇā́ vṛ́ṣṇi páuṃsyam ǁ

    vi vṛtram parvaśo yayur vi parvatāṃ arājinaḥ |
    cakrāṇā vṛṣṇi pauṃsyam ||

    वि । वृ॒त्रम् । प॒र्व॒ऽशः । य॒युः॒ । वि । पर्व॑तान् । अ॒रा॒जिनः॑ ।
    च॒क्रा॒णाः । वृष्णि॑ । पौंस्य॑म् ॥

    वि । वृत्रम् । पर्वऽशः । ययुः । वि । पर्वतान् । अराजिनः ।
    चक्राणाः । वृष्णि । पौंस्यम् ॥

    ví ǀ vṛtrám ǀ parva-śáḥ ǀ yayuḥ ǀ ví ǀ párvatān ǀ arājínaḥ ǀ
    cakrāṇā́ḥ ǀ vṛ́ṣṇi ǀ páuṃsyam ǁ

    vi ǀ vṛtram ǀ parva-śaḥ ǀ yayuḥ ǀ vi ǀ parvatān ǀ arājinaḥ ǀ
    cakrāṇāḥ ǀ vṛṣṇi ǀ pauṃsyam ǁ

    8.7.23 Aṣṭaka 5.8.22.3Anuvāka 8.2.71

  24. Ṛk 24

    अनु॑ त्रि॒तस्य॒ युध्य॑तः॒ शुष्म॑मावन्नु॒त क्रतुं॑ ।
    अन्विंद्रं॑ वृत्र॒तूर्ये॑ ॥

    अनु त्रितस्य युध्यतः शुष्मम् आवन्न् उत क्रतुम् |
    अन्व् इन्द्रं वृत्रतूर्ये ||

    ánu tritásya yúdhyataḥ śúṣmamāvannutá krátum ǀ
    ánvíndram vṛtratū́rye ǁ

    anu tritasya yudhyataḥ śuṣmam āvann uta kratum |
    anv indraṃ vṛtratūrye ||

    अनु॑ । त्रि॒तस्य॑ । युध्य॑तः । शुष्म॑म् । आ॒व॒न् । उ॒त । क्रतु॑म् ।
    अनु॑ । इन्द्र॑म् । वृ॒त्र॒ऽतूर्ये॑ ॥

    अनु । त्रितस्य । युध्यतः । शुष्मम् । आवन् । उत । क्रतुम् ।
    अनु । इन्द्रम् । वृत्रऽतूर्ये ॥

    ánu ǀ tritásya ǀ yúdhyataḥ ǀ śúṣmam ǀ āvan ǀ utá ǀ krátum ǀ
    ánu ǀ índram ǀ vṛtra-tū́rye ǁ

    anu ǀ tritasya ǀ yudhyataḥ ǀ śuṣmam ǀ āvan ǀ uta ǀ kratum ǀ
    anu ǀ indram ǀ vṛtra-tūrye ǁ

    8.7.24 Aṣṭaka 5.8.22.4Anuvāka 8.2.72

  25. Ṛk 25

    वि॒द्युद्ध॑स्ता अ॒भिद्य॑वः॒ शिप्राः॑ शी॒र्षन्हि॑र॒ण्ययीः॑ ।
    शु॒भ्रा व्यं॑जत श्रि॒ये ॥

    विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन् हिरण्ययीः |
    शुभ्रा व्य् अञ्जत श्रिये ||

    vidyúddhastā abhídyavaḥ śíprāḥ śīrṣánhiraṇyáyīḥ ǀ
    śubhrā́ vyáñjata śriyé ǁ

    vidyuddhastā abhidyavaḥ śiprāḥ śīrṣan hiraṇyayīḥ |
    śubhrā vy añjata śriye ||

    वि॒द्युत्ऽह॑स्ताः । अ॒भिऽद्य॑वः । शिप्राः॑ । शी॒र्षन् । हि॒र॒ण्ययीः॑ ।
    शु॒भ्राः । वि । अ॒ञ्ज॒त॒ । श्रि॒ये ॥

    विद्युत्ऽहस्ताः । अभिऽद्यवः । शिप्राः । शीर्षन् । हिरण्ययीः ।
    शुभ्राः । वि । अञ्जत । श्रिये ॥

    vidyút-hastāḥ ǀ abhí-dyavaḥ ǀ śíprāḥ ǀ śīrṣán ǀ hiraṇyáyīḥ ǀ
    śubhrā́ḥ ǀ ví ǀ añjata ǀ śriyé ǁ

    vidyut-hastāḥ ǀ abhi-dyavaḥ ǀ śiprāḥ ǀ śīrṣan ǀ hiraṇyayīḥ ǀ
    śubhrāḥ ǀ vi ǀ añjata ǀ śriye ǁ

    8.7.25 Aṣṭaka 5.8.22.5Anuvāka 8.2.73

  26. Ṛk 26

    उ॒शना॒ यत्प॑रा॒वत॑ उ॒क्ष्णो रंध्र॒मया॑तन ।
    द्यौर्न च॑क्रदद्भि॒या ॥

    उशना यत् परावत उक्ष्णो रन्ध्रम् अयातन |
    द्यौर् न चक्रदद् भिया ||

    uśánā yátparāváta ukṣṇó rándhramáyātana ǀ
    dyáurná cakradadbhiyā́ ǁ

    uśanā yat parāvata ukṣṇo randhram ayātana |
    dyaur na cakradad bhiyā ||

    उ॒शना॑ । यत् । प॒रा॒ऽवतः॑ । उ॒क्ष्णः । रन्ध्र॑म् । अया॑तन ।
    द्यौः । न । च॒क्र॒द॒त् । भि॒या ॥

    उशना । यत् । पराऽवतः । उक्ष्णः । रन्ध्रम् । अयातन ।
    द्यौः । न । चक्रदत् । भिया ॥

    uśánā ǀ yát ǀ parā-vátaḥ ǀ ukṣṇáḥ ǀ rándhram ǀ áyātana ǀ
    dyáuḥ ǀ ná ǀ cakradat ǀ bhiyā́ ǁ

    uśanā ǀ yat ǀ parā-vataḥ ǀ ukṣṇaḥ ǀ randhram ǀ ayātana ǀ
    dyauḥ ǀ na ǀ cakradat ǀ bhiyā ǁ

    8.7.26 Aṣṭaka 5.8.23.1Anuvāka 8.2.74

  27. Ṛk 27

    आ नो॑ म॒खस्य॑ दा॒वनेऽश्वै॒र्हिर॑ण्यपाणिभिः ।
    देवा॑स॒ उप॑ गंतन ॥

    आ नो मखस्य दावने ऽश्वैर् हिरण्यपाणिभिः |
    देवास उप गन्तन ||

    ā́ no makhásya dāváné’śvairhíraṇyapāṇibhiḥ ǀ
    dévāsa úpa gantana ǁ

    ā no makhasya dāvane 'śvair hiraṇyapāṇibhiḥ |
    devāsa upa gantana ||

    आ । नः॒ । म॒खस्य॑ । दा॒वने॑ । अश्वैः॑ । हिर॑ण्यपाणिऽभिः ।
    देवा॑सः । उप॑ । ग॒न्त॒न॒ ॥

    आ । नः । मखस्य । दावने । अश्वैः । हिरण्यपाणिऽभिः ।
    देवासः । उप । गन्तन ॥

    ā́ ǀ naḥ ǀ makhásya ǀ dāváne ǀ áśvaiḥ ǀ híraṇyapāṇi-bhiḥ ǀ
    dévāsaḥ ǀ úpa ǀ gantana ǁ

    ā ǀ naḥ ǀ makhasya ǀ dāvane ǀ aśvaiḥ ǀ hiraṇyapāṇi-bhiḥ ǀ
    devāsaḥ ǀ upa ǀ gantana ǁ

    8.7.27 Aṣṭaka 5.8.23.2Anuvāka 8.2.75

  28. Ṛk 28

    यदे॑षां॒ पृष॑ती॒ रथे॒ प्रष्टि॒र्वह॑ति॒ रोहि॑तः ।
    यांति॑ शु॒भ्रा रि॒णन्न॒पः ॥

    यद् एषाम् पृषती रथे प्रष्टिर् वहति रोहितः |
    यान्ति शुभ्रा रिणन्न् अपः ||

    yádeṣām pṛ́ṣatī ráthe práṣṭirváhati róhitaḥ ǀ
    yā́nti śubhrā́ riṇánnapáḥ ǁ

    yad eṣām pṛṣatī rathe praṣṭir vahati rohitaḥ |
    yānti śubhrā riṇann apaḥ ||

    यत् । ए॒षा॒म् । पृष॑तीः । रथे॑ । प्रष्टिः॑ । वह॑ति । रोहि॑तः ।
    यान्ति॑ । शु॒भ्राः । रि॒णन् । अ॒पः ॥

    यत् । एषाम् । पृषतीः । रथे । प्रष्टिः । वहति । रोहितः ।
    यान्ति । शुभ्राः । रिणन् । अपः ॥

    yát ǀ eṣām ǀ pṛ́ṣatīḥ ǀ ráthe ǀ práṣṭiḥ ǀ váhati ǀ róhitaḥ ǀ
    yā́nti ǀ śubhrā́ḥ ǀ riṇán ǀ apáḥ ǁ

    yat ǀ eṣām ǀ pṛṣatīḥ ǀ rathe ǀ praṣṭiḥ ǀ vahati ǀ rohitaḥ ǀ
    yānti ǀ śubhrāḥ ǀ riṇan ǀ apaḥ ǁ

    8.7.28 Aṣṭaka 5.8.23.3Anuvāka 8.2.76

  29. Ṛk 29

    सु॒षोमे॑ शर्य॒णाव॑त्यार्जी॒के प॒स्त्या॑वति ।
    य॒युर्निच॑क्रया॒ नरः॑ ॥

    सुषोमे शर्यणावत्य् आर्जीके पस्त्यावति |
    ययुर् निचक्रया नरः ||

    suṣóme śaryaṇā́vatyārjīké pastyā́vati ǀ
    yayúrnícakrayā náraḥ ǁ

    suṣome śaryaṇāvaty ārjīke pastyāvati |
    yayur nicakrayā naraḥ ||

    सु॒ऽसोमे॑ । श॒र्य॒णाऽव॑ति । आ॒र्जी॒के । प॒स्त्य॑ऽवति ।
    य॒युः । निऽच॑क्रया । नरः॑ ॥

    सुऽसोमे । शर्यणाऽवति । आर्जीके । पस्त्यऽवति ।
    ययुः । निऽचक्रया । नरः ॥

    su-sóme ǀ śaryaṇā́-vati ǀ ārjīké ǀ pastyá-vati ǀ
    yayúḥ ǀ ní-cakrayā ǀ náraḥ ǁ

    su-some ǀ śaryaṇā-vati ǀ ārjīke ǀ pastya-vati ǀ
    yayuḥ ǀ ni-cakrayā ǀ naraḥ ǁ

    8.7.29 Aṣṭaka 5.8.23.4Anuvāka 8.2.77

  30. Ṛk 30

    क॒दा ग॑च्छाथ मरुत इ॒त्था विप्रं॒ हव॑मानं ।
    मा॒र्डी॒केभि॒र्नाध॑मानं ॥

    कदा गच्छाथ मरुत इत्था विप्रं हवमानम् |
    मार्डीकेभिर् नाधमानम् ||

    kadā́ gacchātha maruta itthā́ vípram hávamānam ǀ
    mārḍīkébhirnā́dhamānam ǁ

    kadā gacchātha maruta itthā vipraṃ havamānam |
    mārḍīkebhir nādhamānam ||

    क॒दा । ग॒च्छा॒थ॒ । म॒रु॒तः॒ । इ॒त्था । विप्र॑म् । हव॑मानम् ।
    मा॒र्डी॒केभिः॑ । नाध॑मानम् ॥

    कदा । गच्छाथ । मरुतः । इत्था । विप्रम् । हवमानम् ।
    मार्डीकेभिः । नाधमानम् ॥

    kadā́ ǀ gacchātha ǀ marutaḥ ǀ itthā́ ǀ vípram ǀ hávamānam ǀ
    mārḍīkébhiḥ ǀ nā́dhamānam ǁ

    kadā ǀ gacchātha ǀ marutaḥ ǀ itthā ǀ vipram ǀ havamānam ǀ
    mārḍīkebhiḥ ǀ nādhamānam ǁ

    8.7.30 Aṣṭaka 5.8.23.5Anuvāka 8.2.78

  31. Ṛk 31

    कद्ध॑ नू॒नं क॑धप्रियो॒ यदिंद्र॒मज॑हातन ।
    को वः॑ सखि॒त्व ओ॑हते ॥

    कद् ध नूनं कधप्रियो यद् इन्द्रम् अजहातन |
    को वः सखित्व ओहते ||

    káddha nūnám kadhapriyo yádíndramájahātana ǀ
    kó vaḥ sakhitvá ohate ǁ

    kad dha nūnaṃ kadhapriyo yad indram ajahātana |
    ko vaḥ sakhitva ohate ||

    कत् । ह॒ । नू॒नम् । क॒ध॒ऽप्रि॒यः॒ । यत् । इन्द्र॑म् । अज॑हातन ।
    कः । वः॒ । स॒खि॒ऽत्वे । ओ॒ह॒ते॒ ॥

    कत् । ह । नूनम् । कधऽप्रियः । यत् । इन्द्रम् । अजहातन ।
    कः । वः । सखिऽत्वे । ओहते ॥

    kát ǀ ha ǀ nūnám ǀ kadha-priyaḥ ǀ yát ǀ índram ǀ ájahātana ǀ
    káḥ ǀ vaḥ ǀ sakhi-tvé ǀ ohate ǁ

    kat ǀ ha ǀ nūnam ǀ kadha-priyaḥ ǀ yat ǀ indram ǀ ajahātana ǀ
    kaḥ ǀ vaḥ ǀ sakhi-tve ǀ ohate ǁ

    8.7.31 Aṣṭaka 5.8.24.1Anuvāka 8.2.79

  32. Ṛk 32

    स॒हो षु णो॒ वज्र॑हस्तैः॒ कण्वा॑सो अ॒ग्निं म॒रुद्भिः॑ ।
    स्तु॒षे हिर॑ण्यवाशीभिः ॥

    सहो षु णो वज्रहस्तैः कण्वासो अग्निम् मरुद्भिः |
    स्तुषे हिरण्यवाशीभिः ||

    sahó ṣú ṇo vájrahastaiḥ káṇvāso agním marúdbhiḥ ǀ
    stuṣé híraṇyavāśībhiḥ ǁ

    saho ṣu ṇo vajrahastaiḥ kaṇvāso agnim marudbhiḥ |
    stuṣe hiraṇyavāśībhiḥ ||

    स॒हो इति॑ । सु । नः॒ । वज्र॑ऽहस्तैः । कण्वा॑सः । अ॒ग्निम् । म॒रुत्ऽभिः॑ ।
    स्तु॒षे । हिर॑ण्यऽवाशीभिः ॥

    सहो इति । सु । नः । वज्रऽहस्तैः । कण्वासः । अग्निम् । मरुत्ऽभिः ।
    स्तुषे । हिरण्यऽवाशीभिः ॥

    sahó íti ǀ sú ǀ naḥ ǀ vájra-hastaiḥ ǀ káṇvāsaḥ ǀ agním ǀ marút-bhiḥ ǀ
    stuṣé ǀ híraṇya-vāśībhiḥ ǁ

    saho iti ǀ su ǀ naḥ ǀ vajra-hastaiḥ ǀ kaṇvāsaḥ ǀ agnim ǀ marut-bhiḥ ǀ
    stuṣe ǀ hiraṇya-vāśībhiḥ ǁ

    8.7.32 Aṣṭaka 5.8.24.2Anuvāka 8.2.80

  33. Ṛk 33

    ओ षु वृष्णः॒ प्रय॑ज्यू॒ना नव्य॑से सुवि॒ताय॑ ।
    व॒वृ॒त्यां चि॒त्रवा॑जान् ॥

    ओ षु वृष्णः प्रयज्यून् आ नव्यसे सुविताय |
    ववृत्यां चित्रवाजान् ||

    ó ṣú vṛ́ṣṇaḥ práyajyūnā́ návyase suvitā́ya ǀ
    vavṛtyā́m citrávājān ǁ

    o ṣu vṛṣṇaḥ prayajyūn ā navyase suvitāya |
    vavṛtyāṃ citravājān ||

    ओ इति॑ । सु । वृष्णः॑ । प्रऽय॑ज्यून् । आ । नव्य॑से । सु॒वि॒ताय॑ ।
    व॒वृ॒त्याम् । चि॒त्रऽवा॑जान् ॥

    ओ इति । सु । वृष्णः । प्रऽयज्यून् । आ । नव्यसे । सुविताय ।
    ववृत्याम् । चित्रऽवाजान् ॥

    ó íti ǀ sú ǀ vṛ́ṣṇaḥ ǀ prá-yajyūn ǀ ā́ ǀ návyase ǀ suvitā́ya ǀ
    vavṛtyā́m ǀ citrá-vājān ǁ

    o iti ǀ su ǀ vṛṣṇaḥ ǀ pra-yajyūn ǀ ā ǀ navyase ǀ suvitāya ǀ
    vavṛtyām ǀ citra-vājān ǁ

    8.7.33 Aṣṭaka 5.8.24.3Anuvāka 8.2.81

  34. Ṛk 34

    गि॒रय॑श्चि॒न्नि जि॑हते॒ पर्शा॑नासो॒ मन्य॑मानाः ।
    पर्व॑ताश्चि॒न्नि ये॑मिरे ॥

    गिरयश् चिन् नि जिहते पर्शानासो मन्यमानाः |
    पर्वताश् चिन् नि येमिरे ||

    giráyaścinní jihate párśānāso mányamānāḥ ǀ
    párvatāścinní yemire ǁ

    girayaś cin ni jihate parśānāso manyamānāḥ |
    parvatāś cin ni yemire ||

    गि॒रयः॑ । चि॒त् । नि । जि॒ह॒ते॒ । पर्शा॑नासः । मन्य॑मानाः ।
    पर्व॑ताः । चि॒त् । नि । ये॒मि॒रे॒ ॥

    गिरयः । चित् । नि । जिहते । पर्शानासः । मन्यमानाः ।
    पर्वताः । चित् । नि । येमिरे ॥

    giráyaḥ ǀ cit ǀ ní ǀ jihate ǀ párśānāsaḥ ǀ mányamānāḥ ǀ
    párvatāḥ ǀ cit ǀ ní ǀ yemire ǁ

    girayaḥ ǀ cit ǀ ni ǀ jihate ǀ parśānāsaḥ ǀ manyamānāḥ ǀ
    parvatāḥ ǀ cit ǀ ni ǀ yemire ǁ

    8.7.34 Aṣṭaka 5.8.24.4Anuvāka 8.2.82

  35. Ṛk 35

    आक्ष्ण॒यावा॑नो वहंत्यं॒तरि॑क्षेण॒ पत॑तः ।
    धाता॑रः स्तुव॒ते वयः॑ ॥

    आक्ष्णयावानो वहन्त्य् अन्तरिक्षेण पततः |
    धातार स्तुवते वयः ||

    ā́kṣṇayā́vāno vahantyantárikṣeṇa pátataḥ ǀ
    dhā́tāraḥ stuvaté váyaḥ ǁ

    ākṣṇayāvāno vahanty antarikṣeṇa patataḥ |
    dhātāra stuvate vayaḥ ||

    आ । अ॒क्ष्ण॒ऽयावा॑नः । व॒ह॒न्ति॒ । अ॒न्तरि॑क्षेण । पत॑तः ।
    धाता॑रः । स्तु॒व॒ते । वयः॑ ॥

    आ । अक्ष्णऽयावानः । वहन्ति । अन्तरिक्षेण । पततः ।
    धातारः । स्तुवते । वयः ॥

    ā́ ǀ akṣṇa-yā́vānaḥ ǀ vahanti ǀ antárikṣeṇa ǀ pátataḥ ǀ
    dhā́tāraḥ ǀ stuvaté ǀ váyaḥ ǁ

    ā ǀ akṣṇa-yāvānaḥ ǀ vahanti ǀ antarikṣeṇa ǀ patataḥ ǀ
    dhātāraḥ ǀ stuvate ǀ vayaḥ ǁ

    8.7.35 Aṣṭaka 5.8.24.5Anuvāka 8.2.83

  36. Ṛk 36

    अ॒ग्निर्हि जानि॑ पू॒र्व्यश्छंदो॒ न सूरो॑ अ॒र्चिषा॑ ।
    ते भा॒नुभि॒र्वि त॑स्थिरे ॥

    अग्निर् हि जानि पूर्व्यश् छन्दो न सूरो अर्चिषा |
    ते भानुभिर् वि तस्थिरे ||

    agnírhí jā́ni pūrvyáśchándo ná sū́ro arcíṣā ǀ
    té bhānúbhirví tasthire ǁ

    agnir hi jāni pūrvyaś chando na sūro arciṣā |
    te bhānubhir vi tasthire ||

    अ॒ग्निः । हि । जनि॑ । पू॒र्व्यः । छन्दः॑ । न । सूरः॑ । अ॒र्चिषा॑ ।
    ते॒ । भा॒नुऽभिः॑ । वि । त॒स्थि॒रे॒ ॥

    अग्निः । हि । जनि । पूर्व्यः । छन्दः । न । सूरः । अर्चिषा ।
    ते । भानुऽभिः । वि । तस्थिरे ॥

    agníḥ ǀ hí ǀ jáni ǀ pūrvyáḥ ǀ chándaḥ ǀ ná ǀ sū́raḥ ǀ arcíṣā ǀ
    te ǀ bhānú-bhiḥ ǀ ví ǀ tasthire ǁ

    agniḥ ǀ hi ǀ jani ǀ pūrvyaḥ ǀ chandaḥ ǀ na ǀ sūraḥ ǀ arciṣā ǀ
    te ǀ bhānu-bhiḥ ǀ vi ǀ tasthire ǁ

    8.7.36 Aṣṭaka 5.8.24.6Anuvāka 8.2.84

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.7 · Maruts

Interpretations

Ralph T. H. Griffith

Ṛk 1

O MARUTS, when the sage hath poured the Tṛṣṭup forth as food for you, Ye shine amid the mountain-clouds.

Ṛk 2

When, Bright Ones, fain to show your might ye have determined on your course, The mountain-clouds have bent them down.

Ṛk 3

Loud roaring with the winds the Sons of Pṛśni have upraised themselves: They have poured out the streaming food.

Ṛk 4

The Maruts spread the mist abroad and make mountains rock and reel, When with the winds they go their way

Ṛk 5

What time the rivers and the hills before your coming bowed them down, So to sustain your mighty force.

Ṛk 6

We call on you for aid by night, on you for succour in the day, On you while sacrifice proceeds.

Ṛk 7

These, verily, wondrous, red of hue, speed on their courses with a roar Over the ridges of the sky.

Ṛk 8

With might they drop the loosened rein so that the Sun may run his course, And spread themselves with beams of light.

Ṛk 9

Accept, ye Maruts, this my song, accept ye this mine hymn of praise, Accept, Ṛbhukṣans, this my call.

Ṛk 10

The dappled Cows have poured three lakes, meath for the Thunder-wielding God, From the great cask, the watery cloud.

Ṛk 11

O Maruts, quickly come to us when, longing for felicity, We call you hither from the sky.

Ṛk 12

For, Rudras and Ṛbhukṣans, ye, Most Bountiful, are in the house, Wise when the gladdening draught is drunk.

Ṛk 13

O Maruts, send us down from heaven riches distilling rapturous joy, With plenteous food, sustaining all.

Ṛk 14

When, Bright Ones, hither from the hills ye have resolved to take your way, Ye revel in the drops effused.

Ṛk 15

Man should solicit with his lauds happiness which belongs to them, So great a band invincible.

Ṛk 16

They who like fiery sparks with showers of rain blow through the heaven and earth, Milking the spring that never fails.

Ṛk 17

With chariots and tumultuous roar, with tempests and with hymns of praise The Sons of Pṛśni hurry forth.

Ṛk 18

For wealth, we think of that whereby ye aided Yadu, Turvaśa, And KanVa who obtained the spoil.

Ṛk 19

May these our viands Bounteous Ones I that flow in streams like holy oil, With Kaṇva's hymns, increase your might.

Ṛk 20

Where, Bounteous Lords for whom the grass is trimmed, are ye rejoicing now? What Brahman is adoring you?

Ṛk 21

Is it not there where ye of old, supplied with sacred grass, for lauds Inspired the strong in sacrifice?

Ṛk 22

They brought together both the worlds, the mighty waters, and the Sun, And, joint by joint, the thunderbolt.

Ṛk 23

They sundered Vṛtra limb from limb and split the gloomy mountain-clouds, Performing a heroic deed.

Ṛk 24

They reinforced the power and strength of Trita as he fought, and helped Indra in battle with the foe.

Ṛk 25

They deck themselves for glory, bright, celestial, lightning in their hands, And helms of gold upon their heads.

Ṛk 26

When eagerly ye from far away came to the cavern of the Bull, He bellowed in his fear like Heaven.

Ṛk 27

Borne by your golden-footed steeds, O Gods, come hither to receive The sacrifice we offer you.

Ṛk 28

When the red leader draws along their spotted deer yoked to the car. The Bright Ones come, and shed the rain.

Ṛk 29

Susoma, Saryakiavan, and Arjika full of homes, have they. These Heroes, sought with downward car.

Ṛk 30

When, Maruts, ye come to him, the singer who invokes you thus, With favours to your suppliant?

Ṛk 31

What now? where have ye still a friend since ye left Indra all alone? Who counteth on your friendship now?

Ṛk 32

The Kaṇvas sing forth Agni's praise together with our Maruts’ who Wield thunder and wear swords of gold.

Ṛk 33

Hither for new felicity may I attract the Impetuous Ones, The Heroes with their wondrous strength

Ṛk 34

Before them sink the very hills deerning themseives abysses: yea, Even the mountains bend them down.

Ṛk 35

Steeds flying on their tortuous path through mid-air carry them, and give The man who lauds them strength and life.