Sūkta 57
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Medhya Kāṇva
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (2, 3); virāṭtrisṭup (1); pādanicṛttriṣṭup (4)
2nd set of styles triṣṭubh
-
Ṛk 1
यु॒वं दे॑वा॒ क्रतु॑ना पू॒र्व्येण॑ यु॒क्ता रथे॑न तवि॒षं य॑जत्रा ।
आग॑च्छतं नासत्या॒ शची॑भिरि॒दं तृ॒तीयं॒ सव॑नं पिबाथः ॥युवं देवा क्रतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा |
आगच्छतं नासत्या शचीभिर् इदं तृतीयं सवनम् पिबाथः ||yuvám devā krátunā pūrvyéṇa yuktā́ ráthena taviṣám yajatrā ǀ
ā́gacchatam nāsatyā śácībhiridám tṛtī́yam sávanam pibāthaḥ ǁyuvaṃ devā kratunā pūrvyeṇa yuktā rathena taviṣaṃ yajatrā |
āgacchataṃ nāsatyā śacībhir idaṃ tṛtīyaṃ savanam pibāthaḥ ||यु॒वम् । दे॒वा॒ । क्रतु॑ना । पू॒र्व्येण॑ । यु॒क्ता । रथे॑न । त॒वि॒षम् । य॒ज॒त्रा॒ ।
आ । अ॒ग॒च्छ॒त॒म् । ना॒स॒त्या॒ । शची॑भिः । इ॒दम् । तृ॒तीय॑म् । सव॑नम् । पि॒बा॒थः॒ ॥युवम् । देवा । क्रतुना । पूर्व्येण । युक्ता । रथेन । तविषम् । यजत्रा ।
आ । अगच्छतम् । नासत्या । शचीभिः । इदम् । तृतीयम् । सवनम् । पिबाथः ॥yuvám ǀ devā ǀ krátunā ǀ pūrvyéṇa ǀ yuktā́ ǀ ráthena ǀ taviṣám ǀ yajatrā ǀ
ā́ ǀ agacchatam ǀ nāsatyā ǀ śácībhiḥ ǀ idám ǀ tṛtī́yam ǀ sávanam ǀ pibāthaḥ ǁyuvam ǀ devā ǀ kratunā ǀ pūrvyeṇa ǀ yuktā ǀ rathena ǀ taviṣam ǀ yajatrā ǀ
ā ǀ agacchatam ǀ nāsatyā ǀ śacībhiḥ ǀ idam ǀ tṛtīyam ǀ savanam ǀ pibāthaḥ ǁ8.57.1 Aṣṭaka 6.4.28.1Anuvāka 8.6.238
-
Ṛk 2
यु॒वां दे॒वास्त्रय॑ एकाद॒शासः॑ स॒त्याः स॒त्यस्य॑ ददृशे पु॒रस्ता॑त् ।
अ॒स्माकं॑ य॒ज्ञं सव॑नं जुषा॒णा पा॒तं सोम॑मश्विना॒ दीद्य॑ग्नी ॥युवां देवास् त्रय एकादशासः सत्याः सत्यस्य ददृशे पुरस्तात् |
अस्माकं यज्ञं सवनं जुषाणा पातं सोमम् अश्विना दीद्यग्नी ||yuvā́m devā́stráya ekādaśā́saḥ satyā́ḥ satyásya dadṛśe purástāt ǀ
asmā́kam yajñám sávanam juṣāṇā́ pātám sómamaśvinā dī́dyagnī ǁyuvāṃ devās traya ekādaśāsaḥ satyāḥ satyasya dadṛśe purastāt |
asmākaṃ yajñaṃ savanaṃ juṣāṇā pātaṃ somam aśvinā dīdyagnī ||यु॒वाम् । दे॒वाः । त्रयः॑ । ए॒का॒द॒शासः॑ । स॒त्याः । स॒त्यस्य॑ । द॒दृ॒शे॒ । पु॒रस्ता॑त् ।
अ॒स्माक॑म् । य॒ज्ञम् । सव॑नम् । जु॒षा॒णा । पा॒तम् । सोम॑म् । अ॒श्वि॒ना॒ । दीद्य॑ग्नी॒ इति॒ दीदि॑ऽअग्नी ॥युवाम् । देवाः । त्रयः । एकादशासः । सत्याः । सत्यस्य । ददृशे । पुरस्तात् ।
अस्माकम् । यज्ञम् । सवनम् । जुषाणा । पातम् । सोमम् । अश्विना । दीद्यग्नी इति दीदिऽअग्नी ॥yuvā́m ǀ devā́ḥ ǀ tráyaḥ ǀ ekādaśā́saḥ ǀ satyā́ḥ ǀ satyásya ǀ dadṛśe ǀ purástāt ǀ
asmā́kam ǀ yajñám ǀ sávanam ǀ juṣāṇā́ ǀ pātám ǀ sómam ǀ aśvinā ǀ dī́dyagnī íti dī́di-agnī ǁyuvām ǀ devāḥ ǀ trayaḥ ǀ ekādaśāsaḥ ǀ satyāḥ ǀ satyasya ǀ dadṛśe ǀ purastāt ǀ
asmākam ǀ yajñam ǀ savanam ǀ juṣāṇā ǀ pātam ǀ somam ǀ aśvinā ǀ dīdyagnī iti dīdi-agnī ǁ8.57.2 Aṣṭaka 6.4.28.2Anuvāka 8.6.239
-
Ṛk 3
प॒नाय्यं॒ तद॑श्विना कृ॒तं वां॑ वृष॒भो दि॒वो रज॑सः पृथि॒व्याः ।
स॒हस्रं॒ शंसा॑ उ॒त ये गवि॑ष्टौ॒ सर्वाँ॒ इत्ताँ उप॑ याता॒ पिब॑ध्यै ॥पनाय्यं तद् अश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः |
सहस्रं शंसा उत ये गविष्टौ सर्वां इत् तां उप याता पिबध्यै ||panā́yyam tádaśvinā kṛtám vām vṛṣabhó divó rájasaḥ pṛthivyā́ḥ ǀ
sahásram śáṃsā utá yé gáviṣṭau sárvām̐ íttā́m̐ úpa yātā píbadhyai ǁpanāyyaṃ tad aśvinā kṛtaṃ vāṃ vṛṣabho divo rajasaḥ pṛthivyāḥ |
sahasraṃ śaṃsā uta ye gaviṣṭau sarvāṃ it tāṃ upa yātā pibadhyai ||प॒नाय्य॑म् । तत् । अ॒श्वि॒ना॒ । कृ॒तम् । वा॒म् । वृ॒ष॒भः । दि॒वः । रज॑सः । पृ॒थि॒व्याः ।
स॒हस्र॑म् । शंसाः॑ । उ॒त । ये । गोऽइ॑ष्टौ । सर्वा॑न् । इत् । तान् । उप॑ । या॒त॒ । पिब॑ध्यै ॥पनाय्यम् । तत् । अश्विना । कृतम् । वाम् । वृषभः । दिवः । रजसः । पृथिव्याः ।
सहस्रम् । शंसाः । उत । ये । गोऽइष्टौ । सर्वान् । इत् । तान् । उप । यात । पिबध्यै ॥panā́yyam ǀ tát ǀ aśvinā ǀ kṛtám ǀ vām ǀ vṛṣabháḥ ǀ diváḥ ǀ rájasaḥ ǀ pṛthivyā́ḥ ǀ
sahásram ǀ śáṃsāḥ ǀ utá ǀ yé ǀ gó-iṣṭau ǀ sárvān ǀ ít ǀ tā́n ǀ úpa ǀ yāta ǀ píbadhyai ǁpanāyyam ǀ tat ǀ aśvinā ǀ kṛtam ǀ vām ǀ vṛṣabhaḥ ǀ divaḥ ǀ rajasaḥ ǀ pṛthivyāḥ ǀ
sahasram ǀ śaṃsāḥ ǀ uta ǀ ye ǀ go-iṣṭau ǀ sarvān ǀ it ǀ tān ǀ upa ǀ yāta ǀ pibadhyai ǁ8.57.3 Aṣṭaka 6.4.28.3Anuvāka 8.6.240
-
Ṛk 4
अ॒यं वां॑ भा॒गो निहि॑तो यजत्रे॒मा गिरो॑ नास॒त्योप॑ यातं ।
पिब॑तं॒ सोमं॒ मधु॑मंतम॒स्मे प्र दा॒श्वांस॑मवतं॒ शची॑भिः ॥अयं वाम् भागो निहितो यजत्रेमा गिरो नासत्योप यातम् |
पिबतं सोमम् मधुमन्तम् अस्मे प्र दाश्वांसम् अवतं शचीभिः ||ayám vām bhāgó níhito yajatremā́ gíro nāsatyópa yātam ǀ
píbatam sómam mádhumantamasmé prá dāśvā́ṃsamavatam śácībhiḥ ǁayaṃ vām bhāgo nihito yajatremā giro nāsatyopa yātam |
pibataṃ somam madhumantam asme pra dāśvāṃsam avataṃ śacībhiḥ ||अ॒यम् । वा॒म् । भा॒गः । निऽहि॑तः । य॒ज॒त्रा॒ । इ॒माः । गिरः॑ । ना॒स॒त्या॒ । उप॑ । या॒त॒म् ।
पिब॑तम् । सोम॑म् । मधु॑ऽमन्तम् । अ॒स्मे इति॑ । प्र । दा॒श्वांस॑म् । अ॒व॒त॒म् । शची॑भिः ॥अयम् । वाम् । भागः । निऽहितः । यजत्रा । इमाः । गिरः । नासत्या । उप । यातम् ।
पिबतम् । सोमम् । मधुऽमन्तम् । अस्मे इति । प्र । दाश्वांसम् । अवतम् । शचीभिः ॥ayám ǀ vām ǀ bhāgáḥ ǀ ní-hitaḥ ǀ yajatrā ǀ imā́ḥ ǀ gíraḥ ǀ nāsatyā ǀ úpa ǀ yātam ǀ
píbatam ǀ sómam ǀ mádhu-mantam ǀ asmé íti ǀ prá ǀ dāśvā́ṃsam ǀ avatam ǀ śácībhiḥ ǁayam ǀ vām ǀ bhāgaḥ ǀ ni-hitaḥ ǀ yajatrā ǀ imāḥ ǀ giraḥ ǀ nāsatyā ǀ upa ǀ yātam ǀ
pibatam ǀ somam ǀ madhu-mantam ǀ asme iti ǀ pra ǀ dāśvāṃsam ǀ avatam ǀ śacībhiḥ ǁ8.57.4 Aṣṭaka 6.4.28.4Anuvāka 8.6.241
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.