Ṛk 8.57.4
Saṃhitā
अ॒यं वां॑ भा॒गो निहि॑तो यजत्रे॒मा गिरो॑ नास॒त्योप॑ यातं ।
पिब॑तं॒ सोमं॒ मधु॑मंतम॒स्मे प्र दा॒श्वांस॑मवतं॒ शची॑भिः ॥
अयं वाम् भागो निहितो यजत्रेमा गिरो नासत्योप यातम् |
पिबतं सोमम् मधुमन्तम् अस्मे प्र दाश्वांसम् अवतं शचीभिः ||
ayám vām bhāgó níhito yajatremā́ gíro nāsatyópa yātam ǀ
píbatam sómam mádhumantamasmé prá dāśvā́ṃsamavatam śácībhiḥ ǁ
ayaṃ vām bhāgo nihito yajatremā giro nāsatyopa yātam |
pibataṃ somam madhumantam asme pra dāśvāṃsam avataṃ śacībhiḥ ||
Padapāṭha
अ॒यम् । वा॒म् । भा॒गः । निऽहि॑तः । य॒ज॒त्रा॒ । इ॒माः । गिरः॑ । ना॒स॒त्या॒ । उप॑ । या॒त॒म् ।
पिब॑तम् । सोम॑म् । मधु॑ऽमन्तम् । अ॒स्मे इति॑ । प्र । दा॒श्वांस॑म् । अ॒व॒त॒म् । शची॑भिः ॥
अयम् । वाम् । भागः । निऽहितः । यजत्रा । इमाः । गिरः । नासत्या । उप । यातम् ।
पिबतम् । सोमम् । मधुऽमन्तम् । अस्मे इति । प्र । दाश्वांसम् । अवतम् । शचीभिः ॥
ayám ǀ vām ǀ bhāgáḥ ǀ ní-hitaḥ ǀ yajatrā ǀ imā́ḥ ǀ gíraḥ ǀ nāsatyā ǀ úpa ǀ yātam ǀ
píbatam ǀ sómam ǀ mádhu-mantam ǀ asmé íti ǀ prá ǀ dāśvā́ṃsam ǀ avatam ǀ śácībhiḥ ǁ
ayam ǀ vām ǀ bhāgaḥ ǀ ni-hitaḥ ǀ yajatrā ǀ imāḥ ǀ giraḥ ǀ nāsatyā ǀ upa ǀ yātam ǀ
pibatam ǀ somam ǀ madhu-mantam ǀ asme iti ǀ pra ǀ dāśvāṃsam ǀ avatam ǀ śacībhiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.057.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.28.04
- Maṇḍala · Anuvāka · Ṛk
- 08.06.241
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Medhya Kāṇva
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.