Ṛk 8.58.1
Saṃhitā
यमृ॒त्विजो॑ बहु॒धा क॒ल्पयं॑तः॒ सचे॑तसो य॒ज्ञमि॒मं वहं॑ति ।
यो अ॑नूचा॒नो ब्रा॑ह्म॒णो यु॒क्त आ॑सी॒त्का स्वि॒त्तत्र॒ यज॑मानस्य सं॒वित् ॥
यम् ऋत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञम् इमं वहन्ति |
यो अनूचानो ब्राह्मणो युक्त आसीत् का स्वित् तत्र यजमानस्य संवित् ||
yámṛtvíjo bahudhā́ kalpáyantaḥ sácetaso yajñámimám váhanti ǀ
yó anūcānó brāhmaṇó yuktá āsītkā́ svittátra yájamānasya saṃvít ǁ
yam ṛtvijo bahudhā kalpayantaḥ sacetaso yajñam imaṃ vahanti |
yo anūcāno brāhmaṇo yukta āsīt kā svit tatra yajamānasya saṃvit ||
Padapāṭha
यम् । ऋ॒त्विजः॑ । ब॒हु॒धा । क॒ल्पय॑न्तः । सऽचे॑तसः । य॒ज्ञम् । इ॒मम् । वह॑न्ति ।
यः । अ॒नू॒चा॒नः । ब्रा॒ह्म॒णः । यु॒क्तः । आ॒सी॒त् । का । स्वि॒त् । तत्र॑ । यज॑मानस्य । स॒म्ऽवित् ॥
यम् । ऋत्विजः । बहुधा । कल्पयन्तः । सऽचेतसः । यज्ञम् । इमम् । वहन्ति ।
यः । अनूचानः । ब्राह्मणः । युक्तः । आसीत् । का । स्वित् । तत्र । यजमानस्य । सम्ऽवित् ॥
yám ǀ ṛtvíjaḥ ǀ bahudhā́ ǀ kalpáyantaḥ ǀ sá-cetasaḥ ǀ yajñám ǀ imám ǀ váhanti ǀ
yáḥ ǀ anūcānáḥ ǀ brāhmaṇáḥ ǀ yuktáḥ ǀ āsīt ǀ kā́ ǀ svit ǀ tátra ǀ yájamānasya ǀ sam-vít ǁ
yam ǀ ṛtvijaḥ ǀ bahudhā ǀ kalpayantaḥ ǀ sa-cetasaḥ ǀ yajñam ǀ imam ǀ vahanti ǀ
yaḥ ǀ anūcānaḥ ǀ brāhmaṇaḥ ǀ yuktaḥ ǀ āsīt ǀ kā ǀ svit ǀ tatra ǀ yajamānasya ǀ sam-vit ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.058.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.29.01
- Maṇḍala · Anuvāka · Ṛk
- 08.06.242
- Devatā देवता
- 1: Ṛtvij; 2: Agni, Uṣas, Sūrya; 3: Aśvins, Uṣas
- Ṛṣi ऋषि
- Medhya Kāṇva (Not Mentioned In The Sarvānukramaṇī)
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.