Sūkta 14
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Aśvasūktin Kāṇvāyana; Goṣūktin Kāṇvāyana
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (3, 6, 8-10, 12-14); nicṛdgāyatrī (2, 4, 5, 7, 15); virāḍgāyatrī (1, 11)
2nd set of styles gāyatrī
-
Ṛk 1
यदिं॑द्रा॒हं यथा॒ त्वमीशी॑य॒ वस्व॒ एक॒ इत् ।
स्तो॒ता मे॒ गोष॑खा स्यात् ॥यद् इन्द्राहं यथा त्वम् ईशीय वस्व एक इत् |
स्तोता मे गोषखा स्यात् ||yádindrāhám yáthā tvámī́śīya vásva éka ít ǀ
stotā́ me góṣakhā syāt ǁyad indrāhaṃ yathā tvam īśīya vasva eka it |
stotā me goṣakhā syāt ||यत् । इ॒न्द्र॒ । अ॒हम् । यथा॑ । त्वम् । ईशी॑य । वस्वः॑ । एकः॑ । इत् ।
स्तो॒ता । मे॒ । गोऽस॑खा । स्या॒त् ॥यत् । इन्द्र । अहम् । यथा । त्वम् । ईशीय । वस्वः । एकः । इत् ।
स्तोता । मे । गोऽसखा । स्यात् ॥yát ǀ indra ǀ ahám ǀ yáthā ǀ tvám ǀ ī́śīya ǀ vásvaḥ ǀ ékaḥ ǀ ít ǀ
stotā́ ǀ me ǀ gó-sakhā ǀ syāt ǁyat ǀ indra ǀ aham ǀ yathā ǀ tvam ǀ īśīya ǀ vasvaḥ ǀ ekaḥ ǀ it ǀ
stotā ǀ me ǀ go-sakhā ǀ syāt ǁ8.14.1 Aṣṭaka 6.1.14.1Anuvāka 8.3.34
-
Ṛk 2
शिक्षे॑यमस्मै॒ दित्से॑यं॒ शची॑पते मनी॒षिणे॑ ।
यद॒हं गोप॑तिः॒ स्यां ॥शिक्षेयम् अस्मै दित्सेयं शचीपते मनीषिणे |
यद् अहं गोपतिः स्याम् ||śíkṣeyamasmai dítseyam śácīpate manīṣíṇe ǀ
yádahám gópatiḥ syā́m ǁśikṣeyam asmai ditseyaṃ śacīpate manīṣiṇe |
yad ahaṃ gopatiḥ syām ||शिक्षे॑यम् । अ॒स्मै॒ । दित्से॑यम् । शची॑ऽपते । म॒नी॒षिणे॑ ।
यत् । अ॒हम् । गोऽप॑तिः । स्याम् ॥शिक्षेयम् । अस्मै । दित्सेयम् । शचीऽपते । मनीषिणे ।
यत् । अहम् । गोऽपतिः । स्याम् ॥śíkṣeyam ǀ asmai ǀ dítseyam ǀ śácī-pate ǀ manīṣíṇe ǀ
yát ǀ ahám ǀ gó-patiḥ ǀ syā́m ǁśikṣeyam ǀ asmai ǀ ditseyam ǀ śacī-pate ǀ manīṣiṇe ǀ
yat ǀ aham ǀ go-patiḥ ǀ syām ǁ8.14.2 Aṣṭaka 6.1.14.2Anuvāka 8.3.35
-
Ṛk 3
धे॒नुष्ट॑ इंद्र सू॒नृता॒ यज॑मानाय सुन्व॒ते ।
गामश्वं॑ पि॒प्युषी॑ दुहे ॥धेनुष् ट इन्द्र सूनृता यजमानाय सुन्वते |
गाम् अश्वम् पिप्युषी दुहे ||dhenúṣṭa indra sūnṛ́tā yájamānāya sunvaté ǀ
gā́máśvam pipyúṣī duhe ǁdhenuṣ ṭa indra sūnṛtā yajamānāya sunvate |
gām aśvam pipyuṣī duhe ||धे॒नुः । ते॒ । इ॒न्द्र॒ । सू॒नृता॑ । यज॑मानाय । सु॒न्व॒ते ।
गाम् । अश्व॑म् । पि॒प्युषी॑ । दु॒हे॒ ॥धेनुः । ते । इन्द्र । सूनृता । यजमानाय । सुन्वते ।
गाम् । अश्वम् । पिप्युषी । दुहे ॥dhenúḥ ǀ te ǀ indra ǀ sūnṛ́tā ǀ yájamānāya ǀ sunvaté ǀ
gā́m ǀ áśvam ǀ pipyúṣī ǀ duhe ǁdhenuḥ ǀ te ǀ indra ǀ sūnṛtā ǀ yajamānāya ǀ sunvate ǀ
gām ǀ aśvam ǀ pipyuṣī ǀ duhe ǁ8.14.3 Aṣṭaka 6.1.14.3Anuvāka 8.3.36
-
Ṛk 4
न ते॑ व॒र्तास्ति॒ राध॑स॒ इंद्र॑ दे॒वो न मर्त्यः॑ ।
यद्दित्स॑सि स्तु॒तो म॒घं ॥न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः |
यद् दित्ससि स्तुतो मघम् ||ná te vartā́sti rā́dhasa índra devó ná mártyaḥ ǀ
yáddítsasi stutó maghám ǁna te vartāsti rādhasa indra devo na martyaḥ |
yad ditsasi stuto magham ||न । ते॒ । व॒र्ता । अ॒स्ति॒ । राध॑सः । इन्द्र॑ । दे॒वः । न । मर्त्यः॑ ।
यत् । दित्स॑सि । स्तु॒तः । म॒घम् ॥न । ते । वर्ता । अस्ति । राधसः । इन्द्र । देवः । न । मर्त्यः ।
यत् । दित्ससि । स्तुतः । मघम् ॥ná ǀ te ǀ vartā́ ǀ asti ǀ rā́dhasaḥ ǀ índra ǀ deváḥ ǀ ná ǀ mártyaḥ ǀ
yát ǀ dítsasi ǀ stutáḥ ǀ maghám ǁna ǀ te ǀ vartā ǀ asti ǀ rādhasaḥ ǀ indra ǀ devaḥ ǀ na ǀ martyaḥ ǀ
yat ǀ ditsasi ǀ stutaḥ ǀ magham ǁ8.14.4 Aṣṭaka 6.1.14.4Anuvāka 8.3.37
-
Ṛk 5
य॒ज्ञ इंद्र॑मवर्धय॒द्यद्भूमिं॒ व्यव॑र्तयत् ।
च॒क्रा॒ण ओ॑प॒शं दि॒वि ॥यज्ञ इन्द्रम् अवर्धयद् यद् भूमिं व्य् अवर्तयत् |
चक्राण ओपशं दिवि ||yajñá índramavardhayadyádbhū́mim vyávartayat ǀ
cakrāṇá opaśám diví ǁyajña indram avardhayad yad bhūmiṃ vy avartayat |
cakrāṇa opaśaṃ divi ||य॒ज्ञः । इन्द्र॑म् । अ॒व॒र्ध॒य॒त् । यत् । भूमि॑म् । वि । अव॑र्तयत् ।
च॒क्रा॒णः । ओ॒प॒शम् । दि॒वि ॥यज्ञः । इन्द्रम् । अवर्धयत् । यत् । भूमिम् । वि । अवर्तयत् ।
चक्राणः । ओपशम् । दिवि ॥yajñáḥ ǀ índram ǀ avardhayat ǀ yát ǀ bhū́mim ǀ ví ǀ ávartayat ǀ
cakrāṇáḥ ǀ opaśám ǀ diví ǁyajñaḥ ǀ indram ǀ avardhayat ǀ yat ǀ bhūmim ǀ vi ǀ avartayat ǀ
cakrāṇaḥ ǀ opaśam ǀ divi ǁ8.14.5 Aṣṭaka 6.1.14.5Anuvāka 8.3.38
-
Ṛk 6
वा॒वृ॒धा॒नस्य॑ ते व॒यं विश्वा॒ धना॑नि जि॒ग्युषः॑ ।
ऊ॒तिमिं॒द्रा वृ॑णीमहे ॥वावृधानस्य ते वयं विश्वा धनानि जिग्युषः |
ऊतिम् इन्द्रा वृणीमहे ||vāvṛdhānásya te vayám víśvā dhánāni jigyúṣaḥ ǀ
ūtímindrā́ vṛṇīmahe ǁvāvṛdhānasya te vayaṃ viśvā dhanāni jigyuṣaḥ |
ūtim indrā vṛṇīmahe ||व॒वृ॒धा॒नस्य॑ । ते॒ । व॒यम् । विश्वा॑ । धना॑नि । जि॒ग्युषः॑ ।
ऊ॒तिम् । इ॒न्द्र॒ । आ । वृ॒णी॒म॒हे॒ ॥ववृधानस्य । ते । वयम् । विश्वा । धनानि । जिग्युषः ।
ऊतिम् । इन्द्र । आ । वृणीमहे ॥vavṛdhānásya ǀ te ǀ vayám ǀ víśvā ǀ dhánāni ǀ jigyúṣaḥ ǀ
ūtím ǀ indra ǀ ā́ ǀ vṛṇīmahe ǁvavṛdhānasya ǀ te ǀ vayam ǀ viśvā ǀ dhanāni ǀ jigyuṣaḥ ǀ
ūtim ǀ indra ǀ ā ǀ vṛṇīmahe ǁ8.14.6 Aṣṭaka 6.1.15.1Anuvāka 8.3.39
-
Ṛk 7
व्यं१॒॑तरि॑क्षमतिर॒न्मदे॒ सोम॑स्य रोच॒ना ।
इंद्रो॒ यदभि॑नद्व॒लं ॥व्य् अन्तरिक्षम् अतिरन् मदे सोमस्य रोचना |
इन्द्रो यद् अभिनद् वलम् ||vyántárikṣamatiranmáde sómasya rocanā́ ǀ
índro yádábhinadvalám ǁvy antarikṣam atiran made somasya rocanā |
indro yad abhinad valam ||वि । अ॒न्तरि॑क्षम् । अ॒ति॒र॒त् । मदे॑ । सोम॑स्य । रो॒च॒ना ।
इन्द्रः॑ । यत् । अभि॑नत् । व॒लम् ॥वि । अन्तरिक्षम् । अतिरत् । मदे । सोमस्य । रोचना ।
इन्द्रः । यत् । अभिनत् । वलम् ॥ví ǀ antárikṣam ǀ atirat ǀ máde ǀ sómasya ǀ rocanā́ ǀ
índraḥ ǀ yát ǀ ábhinat ǀ valám ǁvi ǀ antarikṣam ǀ atirat ǀ made ǀ somasya ǀ rocanā ǀ
indraḥ ǀ yat ǀ abhinat ǀ valam ǁ8.14.7 Aṣṭaka 6.1.15.2Anuvāka 8.3.40
-
Ṛk 8
उद्गा आ॑ज॒दंगि॑रोभ्य आ॒विष्कृ॒ण्वन्गुहा॑ स॒तीः ।
अ॒र्वांचं॑ नुनुदे व॒लं ॥उद् गा आजद् अङ्गिरोभ्य आविष् कृण्वन् गुहा सतीः |
अर्वाञ्चं नुनुदे वलम् ||údgā́ ājadáṅgirobhya āvíṣkṛṇvángúhā satī́ḥ ǀ
arvā́ñcam nunude valám ǁud gā ājad aṅgirobhya āviṣ kṛṇvan guhā satīḥ |
arvāñcaṃ nunude valam ||उत् । गाः । आ॒ज॒त् । अङ्गि॑रःऽभ्यः । आ॒विः । कृ॒ण्वन् । गुहा॑ । स॒तीः ।
अ॒र्वाञ्च॑म् । नु॒नु॒दे॒ । व॒लम् ॥उत् । गाः । आजत् । अङ्गिरःऽभ्यः । आविः । कृण्वन् । गुहा । सतीः ।
अर्वाञ्चम् । नुनुदे । वलम् ॥út ǀ gā́ḥ ǀ ājat ǀ áṅgiraḥ-bhyaḥ ǀ āvíḥ ǀ kṛṇván ǀ gúhā ǀ satī́ḥ ǀ
arvā́ñcam ǀ nunude ǀ valám ǁut ǀ gāḥ ǀ ājat ǀ aṅgiraḥ-bhyaḥ ǀ āviḥ ǀ kṛṇvan ǀ guhā ǀ satīḥ ǀ
arvāñcam ǀ nunude ǀ valam ǁ8.14.8 Aṣṭaka 6.1.15.3Anuvāka 8.3.41
-
Ṛk 9
इंद्रे॑ण रोच॒ना दि॒वो दृ॒ळ्हानि॑ दृंहि॒तानि॑ च ।
स्थि॒राणि॒ न प॑रा॒णुदे॑ ॥इन्द्रेण रोचना दिवो दृऌहानि दृंहितानि च |
स्थिराणि न पराणुदे ||índreṇa rocanā́ divó dṛḷhā́ni dṛṃhitā́ni ca ǀ
sthirā́ṇi ná parāṇúde ǁindreṇa rocanā divo dṛḷhāni dṛṃhitāni ca |
sthirāṇi na parāṇude ||इन्द्रे॑ण । रो॒च॒ना । दि॒वः । दृ॒ळ्हानि॑ । दृं॒हि॒तानि॑ । च॒ ।
स्थि॒राणि॑ । न । प॒रा॒ऽनुदे॑ ॥इन्द्रेण । रोचना । दिवः । दृळ्हानि । दृंहितानि । च ।
स्थिराणि । न । पराऽनुदे ॥índreṇa ǀ rocanā́ ǀ diváḥ ǀ dṛḷhā́ni ǀ dṛṃhitā́ni ǀ ca ǀ
sthirā́ṇi ǀ ná ǀ parā-núde ǁindreṇa ǀ rocanā ǀ divaḥ ǀ dṛḷhāni ǀ dṛṃhitāni ǀ ca ǀ
sthirāṇi ǀ na ǀ parā-nude ǁ8.14.9 Aṣṭaka 6.1.15.4Anuvāka 8.3.42
-
Ṛk 10
अ॒पामू॒र्मिर्मद॑न्निव॒ स्तोम॑ इंद्राजिरायते ।
वि ते॒ मदा॑ अराजिषुः ॥अपाम् ऊर्मिर् मदन्न् इव स्तोम इन्द्राजिरायते |
वि ते मदा अराजिषुः ||apā́mūrmírmádanniva stóma indrājirāyate ǀ
ví te mádā arājiṣuḥ ǁapām ūrmir madann iva stoma indrājirāyate |
vi te madā arājiṣuḥ ||अ॒पाम् । ऊ॒र्मिः । मद॑न्ऽइव । स्तोमः॑ । इ॒न्द्र॒ । अ॒जि॒र॒ऽय॒ते॒ ।
वि । ते॒ । मदाः॑ । अ॒रा॒जि॒षुः॒ ॥अपाम् । ऊर्मिः । मदन्ऽइव । स्तोमः । इन्द्र । अजिरऽयते ।
वि । ते । मदाः । अराजिषुः ॥apā́m ǀ ūrmíḥ ǀ mádan-iva ǀ stómaḥ ǀ indra ǀ ajira-yate ǀ
ví ǀ te ǀ mádāḥ ǀ arājiṣuḥ ǁapām ǀ ūrmiḥ ǀ madan-iva ǀ stomaḥ ǀ indra ǀ ajira-yate ǀ
vi ǀ te ǀ madāḥ ǀ arājiṣuḥ ǁ8.14.10 Aṣṭaka 6.1.15.5Anuvāka 8.3.43
-
Ṛk 11
त्वं हि स्तो॑म॒वर्ध॑न॒ इंद्रास्यु॑क्थ॒वर्ध॑नः ।
स्तो॒तॄ॒णामु॒त भ॑द्र॒कृत् ॥त्वं हि स्तोमवर्धन इन्द्रास्य् उक्थवर्धनः |
स्तोतॄणाम् उत भद्रकृत् ||tvám hí stomavárdhana índrā́syukthavárdhanaḥ ǀ
stotṝṇā́mutá bhadrakṛ́t ǁtvaṃ hi stomavardhana indrāsy ukthavardhanaḥ |
stotṝṇām uta bhadrakṛt ||त्वम् । हि । स्तो॒म॒ऽवर्ध॑नः । इन्द्र॑ । असि॑ । उ॒क्थ॒ऽवर्ध॑नः ।
स्तो॒तॄ॒णाम् । उ॒त । भ॒द्र॒ऽकृत् ॥त्वम् । हि । स्तोमऽवर्धनः । इन्द्र । असि । उक्थऽवर्धनः ।
स्तोतॄणाम् । उत । भद्रऽकृत् ॥tvám ǀ hí ǀ stoma-várdhanaḥ ǀ índra ǀ ási ǀ uktha-várdhanaḥ ǀ
stotṝṇā́m ǀ utá ǀ bhadra-kṛ́t ǁtvam ǀ hi ǀ stoma-vardhanaḥ ǀ indra ǀ asi ǀ uktha-vardhanaḥ ǀ
stotṝṇām ǀ uta ǀ bhadra-kṛt ǁ8.14.11 Aṣṭaka 6.1.16.1Anuvāka 8.3.44
-
Ṛk 12
इंद्र॒मित्के॒शिना॒ हरी॑ सोम॒पेया॑य वक्षतः ।
उप॑ य॒ज्ञं सु॒राध॑सं ॥इन्द्रम् इत् केशिना हरी सोमपेयाय वक्षतः |
उप यज्ञं सुराधसम् ||índramítkeśínā hárī somapéyāya vakṣataḥ ǀ
úpa yajñám surā́dhasam ǁindram it keśinā harī somapeyāya vakṣataḥ |
upa yajñaṃ surādhasam ||इन्द्र॑म् । इत् । के॒शिना॑ । हरी॒ इति॑ । सो॒म॒ऽपेया॑य । व॒क्ष॒तः॒ ।
उप॑ । य॒ज्ञम् । सु॒ऽराध॑सम् ॥इन्द्रम् । इत् । केशिना । हरी इति । सोमऽपेयाय । वक्षतः ।
उप । यज्ञम् । सुऽराधसम् ॥índram ǀ ít ǀ keśínā ǀ hárī íti ǀ soma-péyāya ǀ vakṣataḥ ǀ
úpa ǀ yajñám ǀ su-rā́dhasam ǁindram ǀ it ǀ keśinā ǀ harī iti ǀ soma-peyāya ǀ vakṣataḥ ǀ
upa ǀ yajñam ǀ su-rādhasam ǁ8.14.12 Aṣṭaka 6.1.16.2Anuvāka 8.3.45
-
Ṛk 13
अ॒पां फेने॑न॒ नमु॑चेः॒ शिर॑ इं॒द्रोद॑वर्तयः ।
विश्वा॒ यदज॑यः॒ स्पृधः॑ ॥अपाम् फेनेन नमुचेः शिर इन्द्रोद् अवर्तयः |
विश्वा यद् अजय स्पृधः ||apā́m phénena námuceḥ śíra indródavartayaḥ ǀ
víśvā yádájayaḥ spṛ́dhaḥ ǁapām phenena namuceḥ śira indrod avartayaḥ |
viśvā yad ajaya spṛdhaḥ ||अ॒पाम् । फेने॑न । नमु॑चेः । शिरः॑ । इ॒न्द्र॒ । उत् । अ॒व॒र्त॒यः॒ ।
विश्वाः॑ । यत् । अज॑यः । स्पृधः॑ ॥अपाम् । फेनेन । नमुचेः । शिरः । इन्द्र । उत् । अवर्तयः ।
विश्वाः । यत् । अजयः । स्पृधः ॥apā́m ǀ phénena ǀ námuceḥ ǀ śíraḥ ǀ indra ǀ út ǀ avartayaḥ ǀ
víśvāḥ ǀ yát ǀ ájayaḥ ǀ spṛ́dhaḥ ǁapām ǀ phenena ǀ namuceḥ ǀ śiraḥ ǀ indra ǀ ut ǀ avartayaḥ ǀ
viśvāḥ ǀ yat ǀ ajayaḥ ǀ spṛdhaḥ ǁ8.14.13 Aṣṭaka 6.1.16.3Anuvāka 8.3.46
-
Ṛk 14
मा॒याभि॑रु॒त्सिसृ॑प्सत॒ इंद्र॒ द्यामा॒रुरु॑क्षतः ।
अव॒ दस्यूँ॑रधूनुथाः ॥मायाभिर् उत्सिसृप्सत इन्द्र द्याम् आरुरुक्षतः |
अव दस्यूंर् अधूनुथाः ||māyā́bhirutsísṛpsata índra dyā́mārúrukṣataḥ ǀ
áva dásyūm̐radhūnuthāḥ ǁmāyābhir utsisṛpsata indra dyām ārurukṣataḥ |
ava dasyūṃr adhūnuthāḥ ||मा॒याभिः॑ । उ॒त्ऽसिसृ॑प्सतः । इन्द्र॑ । द्याम् । आ॒ऽरुरु॑क्षतः ।
अव॑ । दस्यू॑न् । अ॒धू॒नु॒थाः॒ ॥मायाभिः । उत्ऽसिसृप्सतः । इन्द्र । द्याम् । आऽरुरुक्षतः ।
अव । दस्यून् । अधूनुथाः ॥māyā́bhiḥ ǀ ut-sísṛpsataḥ ǀ índra ǀ dyā́m ǀ ā-rúrukṣataḥ ǀ
áva ǀ dásyūn ǀ adhūnuthāḥ ǁmāyābhiḥ ǀ ut-sisṛpsataḥ ǀ indra ǀ dyām ǀ ā-rurukṣataḥ ǀ
ava ǀ dasyūn ǀ adhūnuthāḥ ǁ8.14.14 Aṣṭaka 6.1.16.4Anuvāka 8.3.47
-
Ṛk 15
अ॒सु॒न्वामिं॑द्र सं॒सदं॒ विषू॑चीं॒ व्य॑नाशयः ।
सो॒म॒पा उत्त॑रो॒ भव॑न् ॥असुन्वाम् इन्द्र संसदं विषूचीं व्य् अनाशयः |
सोमपा उत्तरो भवन् ||asunvā́mindra saṃsádam víṣūcīm vyánāśayaḥ ǀ
somapā́ úttaro bhávan ǁasunvām indra saṃsadaṃ viṣūcīṃ vy anāśayaḥ |
somapā uttaro bhavan ||अ॒सु॒न्वाम् । इ॒न्द्र॒ । स॒म्ऽसद॑म् । विषू॑चीम् । वि । अ॒ना॒श॒यः॒ ।
सो॒म॒ऽपाः । उत्ऽत॑रः । भव॑न् ॥असुन्वाम् । इन्द्र । सम्ऽसदम् । विषूचीम् । वि । अनाशयः ।
सोमऽपाः । उत्ऽतरः । भवन् ॥asunvā́m ǀ indra ǀ sam-sádam ǀ víṣūcīm ǀ ví ǀ anāśayaḥ ǀ
soma-pā́ḥ ǀ út-taraḥ ǀ bhávan ǁasunvām ǀ indra ǀ sam-sadam ǀ viṣūcīm ǀ vi ǀ anāśayaḥ ǀ
soma-pāḥ ǀ ut-taraḥ ǀ bhavan ǁ8.14.15 Aṣṭaka 6.1.16.5Anuvāka 8.3.48
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.