Sūkta 4
- Devatā देवता
- 1-14: Indra; 15: Pūṣan; 16-18: Indra Or Pūṣan; 19-21: Kuruṅga’s Dānastuti
- Ṛṣi ऋषि
- Devātithi Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Pura-Uṣṇih
Metres by ṛk
1st set of styles nicṛtpaṅkti (2, 4, 6, 8, 12, 14, 18); nicṛdbṛhatī (3, 11, 15); bhuriganuṣṭup (1, 13); pathyāvṛhatī (5, 9); virāṭpaṅkti (16, 20); virāḍbṛhatī (17, 19); anuṣṭup (7); sataḥpaṅkti (10); virāḍuṣnik (21)
2nd set of styles bṛhatī (1, 3, 5, 7, 9, 11, 13, 15, 17, 19); satobṛhatī (2, 4, 6, 8, 10, 12, 14, 16, 18, 20); pura-uṣṇih (21)
-
Ṛk 1
यदिं॑द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभिः॑ ।
सिमा॑ पु॒रू नृषू॑तो अ॒स्यान॒वेऽसि॑ प्रशर्ध तु॒र्वशे॑ ॥यद् इन्द्र प्राग् अपाग् उदङ् न्यग् वा हूयसे नृभिः |
सिमा पुरू नृषूतो अस्य् आनवे ऽसि प्रशर्ध तुर्वशे ||yádindra prā́gápāgúdaṅnyágvā hūyáse nṛ́bhiḥ ǀ
símā purū́ nṛ́ṣūto asyā́navé’si praśardha turváśe ǁyad indra prāg apāg udaṅ nyag vā hūyase nṛbhiḥ |
simā purū nṛṣūto asy ānave 'si praśardha turvaśe ||यत् । इ॒न्द्र॒ । प्राक् । अपा॑क् । उद॑क् । न्य॑क् । वा॒ । हू॒यसे॑ । नृऽभिः॑ ।
सिम॑ । पु॒रु । नृऽसू॑तः । अ॒सि॒ । आन॑वे । असि॑ । प्र॒ऽश॒र्ध॒ । तु॒र्वशे॑ ॥यत् । इन्द्र । प्राक् । अपाक् । उदक् । न्यक् । वा । हूयसे । नृऽभिः ।
सिम । पुरु । नृऽसूतः । असि । आनवे । असि । प्रऽशर्ध । तुर्वशे ॥yát ǀ indra ǀ prā́k ǀ ápāk ǀ údak ǀ nyák ǀ vā ǀ hūyáse ǀ nṛ́-bhiḥ ǀ
síma ǀ purú ǀ nṛ́-sūtaḥ ǀ asi ǀ ā́nave ǀ ási ǀ pra-śardha ǀ turváśe ǁyat ǀ indra ǀ prāk ǀ apāk ǀ udak ǀ nyak ǀ vā ǀ hūyase ǀ nṛ-bhiḥ ǀ
sima ǀ puru ǀ nṛ-sūtaḥ ǀ asi ǀ ānave ǀ asi ǀ pra-śardha ǀ turvaśe ǁ8.4.1 Aṣṭaka 5.7.30.1Anuvāka 8.1.101
-
Ṛk 2
यद्वा॒ रुमे॒ रुश॑मे॒ श्याव॑के॒ कृप॒ इंद्र॑ मा॒दय॑से॒ सचा॑ ।
कण्वा॑सस्त्वा॒ ब्रह्म॑भिः॒ स्तोम॑वाहस॒ इंद्रा य॑च्छं॒त्या ग॑हि ॥यद् वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा |
कण्वासस् त्वा ब्रह्मभि स्तोमवाहस इन्द्रा यच्छन्त्य् आ गहि ||yádvā rúme rúśame śyā́vake kṛ́pa índra mādáyase sácā ǀ
káṇvāsastvā bráhmabhiḥ stómavāhasa índrā́ yacchantyā́ gahi ǁyad vā rume ruśame śyāvake kṛpa indra mādayase sacā |
kaṇvāsas tvā brahmabhi stomavāhasa indrā yacchanty ā gahi ||यत् । वा॒ । रुमे॑ । रुश॑मे । श्याव॑के । कृपे॑ । इन्द्र॑ । मा॒दय॑से । सचा॑ ।
कण्वा॑सः । त्वा॒ । ब्रह्म॑ऽभिः । स्तोम॑ऽवाहसः । इन्द्र॑ । आ । य॒च्छ॒न्ति॒ । आ । ग॒हि॒ ॥यत् । वा । रुमे । रुशमे । श्यावके । कृपे । इन्द्र । मादयसे । सचा ।
कण्वासः । त्वा । ब्रह्मऽभिः । स्तोमऽवाहसः । इन्द्र । आ । यच्छन्ति । आ । गहि ॥yát ǀ vā ǀ rúme ǀ rúśame ǀ śyā́vake ǀ kṛ́pe ǀ índra ǀ mādáyase ǀ sácā ǀ
káṇvāsaḥ ǀ tvā ǀ bráhma-bhiḥ ǀ stóma-vāhasaḥ ǀ índra ǀ ā́ ǀ yacchanti ǀ ā́ ǀ gahi ǁyat ǀ vā ǀ rume ǀ ruśame ǀ śyāvake ǀ kṛpe ǀ indra ǀ mādayase ǀ sacā ǀ
kaṇvāsaḥ ǀ tvā ǀ brahma-bhiḥ ǀ stoma-vāhasaḥ ǀ indra ǀ ā ǀ yacchanti ǀ ā ǀ gahi ǁ8.4.2 Aṣṭaka 5.7.30.2Anuvāka 8.1.102
-
Ṛk 3
यथा॑ गौ॒रो अ॒पा कृ॒तं तृष्य॒न्नेत्यवेरि॑णं ।
आ॒पि॒त्वे नः॑ प्रपि॒त्वे तूय॒मा ग॑हि॒ कण्वे॑षु॒ सु सचा॒ पिब॑ ॥यथा गौरो अपा कृतं तृष्यन्न् एत्य् अवेरिणम् |
आपित्वे नः प्रपित्वे तूयम् आ गहि कण्वेषु सु सचा पिब ||yáthā gauró apā́ kṛtám tṛ́ṣyannétyávériṇam ǀ
āpitvé naḥ prapitvé tū́yamā́ gahi káṇveṣu sú sácā píba ǁyathā gauro apā kṛtaṃ tṛṣyann ety averiṇam |
āpitve naḥ prapitve tūyam ā gahi kaṇveṣu su sacā piba ||यथा॑ । गौ॒रः । अ॒पा । कृ॒तम् । तृष्य॑न् । एति॑ । अव॑ । इरि॑णम् ।
आ॒ऽपि॒त्वे । नः॒ । प्र॒ऽपि॒त्वे । तूय॑म् । आ । ग॒हि॒ । कण्वे॑षु । सु । सचा॑ । पिब॑ ॥यथा । गौरः । अपा । कृतम् । तृष्यन् । एति । अव । इरिणम् ।
आऽपित्वे । नः । प्रऽपित्वे । तूयम् । आ । गहि । कण्वेषु । सु । सचा । पिब ॥yáthā ǀ gauráḥ ǀ apā́ ǀ kṛtám ǀ tṛ́ṣyan ǀ éti ǀ áva ǀ íriṇam ǀ
ā-pitvé ǀ naḥ ǀ pra-pitvé ǀ tū́yam ǀ ā́ ǀ gahi ǀ káṇveṣu ǀ sú ǀ sácā ǀ píba ǁyathā ǀ gauraḥ ǀ apā ǀ kṛtam ǀ tṛṣyan ǀ eti ǀ ava ǀ iriṇam ǀ
ā-pitve ǀ naḥ ǀ pra-pitve ǀ tūyam ǀ ā ǀ gahi ǀ kaṇveṣu ǀ su ǀ sacā ǀ piba ǁ8.4.3 Aṣṭaka 5.7.30.3Anuvāka 8.1.103
-
Ṛk 4
मंदं॑तु त्वा मघवन्निं॒द्रेंद॑वो राधो॒देया॑य सुन्व॒ते ।
आ॒मुष्या॒ सोम॑मपिबश्च॒मू सु॒तं ज्येष्ठं॒ तद्द॑धिषे॒ सहः॑ ॥मन्दन्तु त्वा मघवन्न् इन्द्रेन्दवो राधोदेयाय सुन्वते |
आमुष्या सोमम् अपिबश् चमू सुतं ज्येष्ठं तद् दधिषे सहः ||mándantu tvā maghavannindréndavo rādhodéyāya sunvaté ǀ
āmúṣyā sómamapibaścamū́ sutám jyéṣṭham táddadhiṣe sáhaḥ ǁmandantu tvā maghavann indrendavo rādhodeyāya sunvate |
āmuṣyā somam apibaś camū sutaṃ jyeṣṭhaṃ tad dadhiṣe sahaḥ ||मन्द॑न्तु । त्वा॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । इन्द॑वः । रा॒धः॒ऽदेया॑य । सु॒न्व॒ते ।
आ॒ऽमुष्य॑ । सोम॑म् । अ॒पि॒बः॒ । च॒मू इति॑ । सु॒तम् । ज्येष्ठ॑म् । तत् । द॒धि॒षे॒ । सहः॑ ॥मन्दन्तु । त्वा । मघऽवन् । इन्द्र । इन्दवः । राधःऽदेयाय । सुन्वते ।
आऽमुष्य । सोमम् । अपिबः । चमू इति । सुतम् । ज्येष्ठम् । तत् । दधिषे । सहः ॥mándantu ǀ tvā ǀ magha-van ǀ indra ǀ índavaḥ ǀ rādhaḥ-déyāya ǀ sunvaté ǀ
ā-múṣya ǀ sómam ǀ apibaḥ ǀ camū́ íti ǀ sutám ǀ jyéṣṭham ǀ tát ǀ dadhiṣe ǀ sáhaḥ ǁmandantu ǀ tvā ǀ magha-van ǀ indra ǀ indavaḥ ǀ rādhaḥ-deyāya ǀ sunvate ǀ
ā-muṣya ǀ somam ǀ apibaḥ ǀ camū iti ǀ sutam ǀ jyeṣṭham ǀ tat ǀ dadhiṣe ǀ sahaḥ ǁ8.4.4 Aṣṭaka 5.7.30.4Anuvāka 8.1.104
-
Ṛk 5
प्र च॑क्रे॒ सह॑सा॒ सहो॑ ब॒भंज॑ म॒न्युमोज॑सा ।
विश्वे॑ त इंद्र पृतना॒यवो॑ यहो॒ नि वृ॒क्षा इ॑व येमिरे ॥प्र चक्रे सहसा सहो बभञ्ज मन्युम् ओजसा |
विश्वे त इन्द्र पृतनायवो यहो नि वृक्षा इव येमिरे ||prá cakre sáhasā sáho babháñja manyúmójasā ǀ
víśve ta indra pṛtanāyávo yaho ní vṛkṣā́ iva yemire ǁpra cakre sahasā saho babhañja manyum ojasā |
viśve ta indra pṛtanāyavo yaho ni vṛkṣā iva yemire ||प्र । च॒क्रे॒ । सह॑सा । सहः॑ । ब॒भञ्ज॑ । म॒न्युम् । ओज॑सा ।
विश्वे॑ । ते॒ । इ॒न्द्र॒ । पृ॒त॒ना॒ऽयवः॑ । य॒हो॒ इति॑ । नि । वृ॒क्षाःऽइ॑व । ये॒मि॒रे॒ ॥प्र । चक्रे । सहसा । सहः । बभञ्ज । मन्युम् । ओजसा ।
विश्वे । ते । इन्द्र । पृतनाऽयवः । यहो इति । नि । वृक्षाःऽइव । येमिरे ॥prá ǀ cakre ǀ sáhasā ǀ sáhaḥ ǀ babháñja ǀ manyúm ǀ ójasā ǀ
víśve ǀ te ǀ indra ǀ pṛtanā-yávaḥ ǀ yaho íti ǀ ní ǀ vṛkṣā́ḥ-iva ǀ yemire ǁpra ǀ cakre ǀ sahasā ǀ sahaḥ ǀ babhañja ǀ manyum ǀ ojasā ǀ
viśve ǀ te ǀ indra ǀ pṛtanā-yavaḥ ǀ yaho iti ǀ ni ǀ vṛkṣāḥ-iva ǀ yemire ǁ8.4.5 Aṣṭaka 5.7.30.5Anuvāka 8.1.105
-
Ṛk 6
स॒हस्रे॑णेव सचते यवी॒युधा॒ यस्त॒ आन॒ळुप॑स्तुतिं ।
पु॒त्रं प्रा॑व॒र्गं कृ॑णुते सु॒वीर्ये॑ दा॒श्नोति॒ नम॑उक्तिभिः ॥सहस्रेणेव सचते यवीयुधा यस् त आनऌ उपस्तुतिम् |
पुत्रम् प्रावर्गं कृणुते सुवीर्ये दाश्नोति नमौक्तिभिः ||sahásreṇeva sacate yavīyúdhā yásta ā́naḷúpastutim ǀ
putrám prāvargám kṛṇute suvī́rye dāśnóti náma+uktibhiḥ ǁsahasreṇeva sacate yavīyudhā yas ta ānaḷ upastutim |
putram prāvargaṃ kṛṇute suvīrye dāśnoti namauktibhiḥ ||स॒हस्रे॑णऽइव । स॒च॒ते॒ । य॒वि॒ऽयुधा॑ । यः । ते॒ । आन॑ट् । उप॑ऽस्तुतिम् ।
पु॒त्रम् । प्रा॒व॒र्गम् । कृ॒णु॒ते॒ । सु॒ऽवीर्ये॑ । दा॒श्नोति॑ । नम॑उक्तिऽभिः ॥सहस्रेणऽइव । सचते । यविऽयुधा । यः । ते । आनट् । उपऽस्तुतिम् ।
पुत्रम् । प्रावर्गम् । कृणुते । सुऽवीर्ये । दाश्नोति । नमउक्तिऽभिः ॥sahásreṇa-iva ǀ sacate ǀ yavi-yúdhā ǀ yáḥ ǀ te ǀ ā́naṭ ǀ úpa-stutim ǀ
putrám ǀ prāvargám ǀ kṛṇute ǀ su-vī́rye ǀ dāśnóti ǀ náma_ukti-bhiḥ ǁsahasreṇa-iva ǀ sacate ǀ yavi-yudhā ǀ yaḥ ǀ te ǀ ānaṭ ǀ upa-stutim ǀ
putram ǀ prāvargam ǀ kṛṇute ǀ su-vīrye ǀ dāśnoti ǀ nama_ukti-bhiḥ ǁ8.4.6 Aṣṭaka 5.7.31.1Anuvāka 8.1.106
-
Ṛk 7
मा भे॑म॒ मा श्र॑मिष्मो॒ग्रस्य॑ स॒ख्ये तव॑ ।
म॒हत्ते॒ वृष्णो॑ अभि॒चक्ष्यं॑ कृ॒तं पश्ये॑म तु॒र्वशं॒ यदुं॑ ॥मा भेम मा श्रमिष्मोग्रस्य सख्ये तव |
महत् ते वृष्णो अभिचक्ष्यं कृतम् पश्येम तुर्वशं यदुम् ||mā́ bhema mā́ śramiṣmográsya sakhyé táva ǀ
mahátte vṛ́ṣṇo abhicákṣyam kṛtám páśyema turváśam yádum ǁmā bhema mā śramiṣmograsya sakhye tava |
mahat te vṛṣṇo abhicakṣyaṃ kṛtam paśyema turvaśaṃ yadum ||मा । भे॒म॒ । मा । श्र॒मि॒ष्म॒ । उ॒ग्रस्य॑ । स॒ख्ये । तव॑ ।
म॒हत् । ते॒ । वृष्णः॑ । अ॒भि॒ऽचक्ष्य॑म् । कृ॒तम् । पश्ये॑म । तु॒र्वश॑म् । यदु॑म् ॥मा । भेम । मा । श्रमिष्म । उग्रस्य । सख्ये । तव ।
महत् । ते । वृष्णः । अभिऽचक्ष्यम् । कृतम् । पश्येम । तुर्वशम् । यदुम् ॥mā́ ǀ bhema ǀ mā́ ǀ śramiṣma ǀ ugrásya ǀ sakhyé ǀ táva ǀ
mahát ǀ te ǀ vṛ́ṣṇaḥ ǀ abhi-cákṣyam ǀ kṛtám ǀ páśyema ǀ turváśam ǀ yádum ǁmā ǀ bhema ǀ mā ǀ śramiṣma ǀ ugrasya ǀ sakhye ǀ tava ǀ
mahat ǀ te ǀ vṛṣṇaḥ ǀ abhi-cakṣyam ǀ kṛtam ǀ paśyema ǀ turvaśam ǀ yadum ǁ8.4.7 Aṣṭaka 5.7.31.2Anuvāka 8.1.107
-
Ṛk 8
स॒व्यामनु॑ स्फि॒ग्यं॑ वावसे॒ वृषा॒ न दा॒नो अ॑स्य रोषति ।
मध्वा॒ संपृ॑क्ताः सार॒घेण॑ धे॒नव॒स्तूय॒मेहि॒ द्रवा॒ पिब॑ ॥सव्याम् अनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति |
मध्वा सम्पृक्ताः सारघेण धेनवस् तूयम् एहि द्रवा पिब ||savyā́mánu sphigyám vāvase vṛ́ṣā ná dānó asya roṣati ǀ
mádhvā sámpṛktāḥ sāraghéṇa dhenávastū́yaméhi drávā píba ǁsavyām anu sphigyaṃ vāvase vṛṣā na dāno asya roṣati |
madhvā sampṛktāḥ sāragheṇa dhenavas tūyam ehi dravā piba ||स॒व्याम् । अनु॑ । स्फि॒ग्य॑म् । व॒व॒से॒ । वृषा॑ । न । दा॒नः । अ॒स्य॒ । रो॒ष॒ति॒ ।
मध्वा॑ । सम्ऽपृ॑क्ताः । सा॒र॒घेण॑ । धे॒नवः॑ । तूय॑म् । आ । इ॒हि॒ । द्रव॑ । पिब॑ ॥सव्याम् । अनु । स्फिग्यम् । ववसे । वृषा । न । दानः । अस्य । रोषति ।
मध्वा । सम्ऽपृक्ताः । सारघेण । धेनवः । तूयम् । आ । इहि । द्रव । पिब ॥savyā́m ǀ ánu ǀ sphigyám ǀ vavase ǀ vṛ́ṣā ǀ ná ǀ dānáḥ ǀ asya ǀ roṣati ǀ
mádhvā ǀ sám-pṛktāḥ ǀ sāraghéṇa ǀ dhenávaḥ ǀ tū́yam ǀ ā́ ǀ ihi ǀ dráva ǀ píba ǁsavyām ǀ anu ǀ sphigyam ǀ vavase ǀ vṛṣā ǀ na ǀ dānaḥ ǀ asya ǀ roṣati ǀ
madhvā ǀ sam-pṛktāḥ ǀ sāragheṇa ǀ dhenavaḥ ǀ tūyam ǀ ā ǀ ihi ǀ drava ǀ piba ǁ8.4.8 Aṣṭaka 5.7.31.3Anuvāka 8.1.108
-
Ṛk 9
अ॒श्वी र॒थी सु॑रू॒प इद्गोमाँ॒ इदिं॑द्र ते॒ सखा॑ ।
श्वा॒त्र॒भाजा॒ वय॑सा सचते॒ सदा॑ चं॒द्रो या॑ति स॒भामुप॑ ॥अश्वी रथी सुरूप इद् गोमां इद् इन्द्र ते सखा |
श्वात्रभाजा वयसा सचते सदा चन्द्रो याति सभाम् उप ||aśvī́ rathī́ surūpá ídgómām̐ ídindra te sákhā ǀ
śvātrabhā́jā váyasā sacate sádā candró yāti sabhā́múpa ǁaśvī rathī surūpa id gomāṃ id indra te sakhā |
śvātrabhājā vayasā sacate sadā candro yāti sabhām upa ||अ॒श्वी । र॒थी । सु॒ऽरू॒पः । इत् । गोऽमा॑न् । इत् । इ॒न्द्र॒ । ते॒ । सखा॑ ।
श्वा॒त्र॒ऽभाजा॑ । वय॑सा । स॒च॒ते॒ । सदा॑ । च॒न्द्रः । या॒ति॒ । स॒भाम् । उप॑ ॥अश्वी । रथी । सुऽरूपः । इत् । गोऽमान् । इत् । इन्द्र । ते । सखा ।
श्वात्रऽभाजा । वयसा । सचते । सदा । चन्द्रः । याति । सभाम् । उप ॥aśvī́ ǀ rathī́ ǀ su-rūpáḥ ǀ ít ǀ gó-mān ǀ ít ǀ indra ǀ te ǀ sákhā ǀ
śvātra-bhā́jā ǀ váyasā ǀ sacate ǀ sádā ǀ candráḥ ǀ yāti ǀ sabhā́m ǀ úpa ǁaśvī ǀ rathī ǀ su-rūpaḥ ǀ it ǀ go-mān ǀ it ǀ indra ǀ te ǀ sakhā ǀ
śvātra-bhājā ǀ vayasā ǀ sacate ǀ sadā ǀ candraḥ ǀ yāti ǀ sabhām ǀ upa ǁ8.4.9 Aṣṭaka 5.7.31.4Anuvāka 8.1.109
-
Ṛk 10
ऋश्यो॒ न तृष्य॑न्नव॒पान॒मा ग॑हि॒ पिबा॒ सोमं॒ वशाँ॒ अनु॑ ।
नि॒मेघ॑मानो मघवंदि॒वेदि॑व॒ ओजि॑ष्ठं दधिषे॒ सहः॑ ॥ऋश्यो न तृष्यन्न् अवपानम् आ गहि पिबा सोमं वशां अनु |
निमेघमानो मघवन् दिवे-दिव ओजिष्ठं दधिषे सहः ||ṛ́śyo ná tṛ́ṣyannavapā́namā́ gahi píbā sómam váśām̐ ánu ǀ
niméghamāno maghavandivédiva ójiṣṭham dadhiṣe sáhaḥ ǁṛśyo na tṛṣyann avapānam ā gahi pibā somaṃ vaśāṃ anu |
nimeghamāno maghavan dive-diva ojiṣṭhaṃ dadhiṣe sahaḥ ||ऋश्यः॑ । न । तृष्य॑न् । अ॒व॒ऽपान॑म् । आ । ग॒हि॒ । पिब॑ । सोम॑म् । वशा॑न् । अनु॑ ।
नि॒ऽमेघ॑मानः । म॒घ॒ऽव॒न् । दि॒वेऽदि॑वे । ओजि॑ष्ठम् । द॒धि॒षे॒ । सहः॑ ॥ऋश्यः । न । तृष्यन् । अवऽपानम् । आ । गहि । पिब । सोमम् । वशान् । अनु ।
निऽमेघमानः । मघऽवन् । दिवेऽदिवे । ओजिष्ठम् । दधिषे । सहः ॥ṛ́śyaḥ ǀ ná ǀ tṛ́ṣyan ǀ ava-pā́nam ǀ ā́ ǀ gahi ǀ píba ǀ sómam ǀ váśān ǀ ánu ǀ
ni-méghamānaḥ ǀ magha-van ǀ divé-dive ǀ ójiṣṭham ǀ dadhiṣe ǀ sáhaḥ ǁṛśyaḥ ǀ na ǀ tṛṣyan ǀ ava-pānam ǀ ā ǀ gahi ǀ piba ǀ somam ǀ vaśān ǀ anu ǀ
ni-meghamānaḥ ǀ magha-van ǀ dive-dive ǀ ojiṣṭham ǀ dadhiṣe ǀ sahaḥ ǁ8.4.10 Aṣṭaka 5.7.31.5Anuvāka 8.1.110
-
Ṛk 11
अध्व॑र्यो द्रा॒वया॒ त्वं सोम॒मिंद्रः॑ पिपासति ।
उप॑ नू॒नं यु॑युजे॒ वृष॑णा॒ हरी॒ आ च॑ जगाम वृत्र॒हा ॥अध्वर्यो द्रावया त्वं सोमम् इन्द्रः पिपासति |
उप नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा ||ádhvaryo drāváyā tvám sómamíndraḥ pipāsati ǀ
úpa nūnám yuyuje vṛ́ṣaṇā hárī ā́ ca jagāma vṛtrahā́ ǁadhvaryo drāvayā tvaṃ somam indraḥ pipāsati |
upa nūnaṃ yuyuje vṛṣaṇā harī ā ca jagāma vṛtrahā ||अध्व॑र्यो॒ इति॑ । द्र॒वय॑ । त्वम् । सोम॑म् । इन्द्रः॑ । पि॒पा॒स॒ति॒ ।
उप॑ । नू॒नम् । यु॒यु॒जे॒ । वृष॑णा । हरी॒ इति॑ । आ । च॒ । ज॒गा॒म॒ । वृ॒त्र॒ऽहा ॥अध्वर्यो इति । द्रवय । त्वम् । सोमम् । इन्द्रः । पिपासति ।
उप । नूनम् । युयुजे । वृषणा । हरी इति । आ । च । जगाम । वृत्रऽहा ॥ádhvaryo íti ǀ draváya ǀ tvám ǀ sómam ǀ índraḥ ǀ pipāsati ǀ
úpa ǀ nūnám ǀ yuyuje ǀ vṛ́ṣaṇā ǀ hárī íti ǀ ā́ ǀ ca ǀ jagāma ǀ vṛtra-hā́ ǁadhvaryo iti ǀ dravaya ǀ tvam ǀ somam ǀ indraḥ ǀ pipāsati ǀ
upa ǀ nūnam ǀ yuyuje ǀ vṛṣaṇā ǀ harī iti ǀ ā ǀ ca ǀ jagāma ǀ vṛtra-hā ǁ8.4.11 Aṣṭaka 5.7.32.1Anuvāka 8.1.111
-
Ṛk 12
स्व॒यं चि॒त्स म॑न्यते॒ दाशु॑रि॒र्जनो॒ यत्रा॒ सोम॑स्य तृं॒पसि॑ ।
इ॒दं ते॒ अन्नं॒ युज्यं॒ समु॑क्षितं॒ तस्येहि॒ प्र द्र॑वा॒ पिब॑ ॥स्वयं चित् स मन्यते दाशुरिर् जनो यत्रा सोमस्य तृम्पसि |
इदं ते अन्नं युज्यं समुक्षितं तस्येहि प्र द्रवा पिब ||svayám citsá manyate dā́śurirjáno yátrā sómasya tṛmpási ǀ
idám te ánnam yújyam sámukṣitam tásyéhi prá dravā píba ǁsvayaṃ cit sa manyate dāśurir jano yatrā somasya tṛmpasi |
idaṃ te annaṃ yujyaṃ samukṣitaṃ tasyehi pra dravā piba ||स्व॒यम् । चि॒त् । सः । म॒न्य॒ते॒ । दाशु॑रिः । जनः॑ । यत्र॑ । सोम॑स्य । तृ॒म्पसि॑ ।
इ॒दम् । ते॒ । अन्न॑म् । युज्य॑म् । सम्ऽउ॑क्षितम् । तस्य॑ । आ । इ॒हि॒ । प्र । द्र॒व॒ । पिब॑ ॥स्वयम् । चित् । सः । मन्यते । दाशुरिः । जनः । यत्र । सोमस्य । तृम्पसि ।
इदम् । ते । अन्नम् । युज्यम् । सम्ऽउक्षितम् । तस्य । आ । इहि । प्र । द्रव । पिब ॥svayám ǀ cit ǀ sáḥ ǀ manyate ǀ dā́śuriḥ ǀ jánaḥ ǀ yátra ǀ sómasya ǀ tṛmpási ǀ
idám ǀ te ǀ ánnam ǀ yújyam ǀ sám-ukṣitam ǀ tásya ǀ ā́ ǀ ihi ǀ prá ǀ drava ǀ píba ǁsvayam ǀ cit ǀ saḥ ǀ manyate ǀ dāśuriḥ ǀ janaḥ ǀ yatra ǀ somasya ǀ tṛmpasi ǀ
idam ǀ te ǀ annam ǀ yujyam ǀ sam-ukṣitam ǀ tasya ǀ ā ǀ ihi ǀ pra ǀ drava ǀ piba ǁ8.4.12 Aṣṭaka 5.7.32.2Anuvāka 8.1.112
-
Ṛk 13
र॒थे॒ष्ठाया॑ध्वर्यवः॒ सोम॒मिंद्रा॑य सोतन ।
अधि॑ ब्र॒ध्नस्याद्र॑यो॒ वि च॑क्षते सु॒न्वंतो॑ दा॒श्व॑ध्वरं ॥रथेष्ठायाध्वर्यवः सोमम् इन्द्राय सोतन |
अधि ब्रध्नस्याद्रयो वि चक्षते सुन्वन्तो दाश्वध्वरम् ||ratheṣṭhā́yādhvaryavaḥ sómamíndrāya sotana ǀ
ádhi bradhnásyā́drayo ví cakṣate sunvánto dāśvádhvaram ǁratheṣṭhāyādhvaryavaḥ somam indrāya sotana |
adhi bradhnasyādrayo vi cakṣate sunvanto dāśvadhvaram ||र॒थे॒ऽस्थाय॑ । अ॒ध्व॒र्य॒वः॒ । सोम॑म् । इन्द्रा॑य । सो॒त॒न॒ ।
अधि॑ । ब्र॒ध्नस्य॑ । अद्र॑यः । वि । च॒क्ष॒ते॒ । सु॒न्वन्तः॑ । दा॒शुऽअ॑ध्वरम् ॥रथेऽसथाय । अध्वर्यवः । सोमम् । इन्द्राय । सोतन ।
अधि । ब्रध्नस्य । अद्रयः । वि । चक्षते । सुन्वन्तः । दाशुऽअध्वरम् ॥rathe-sthā́ya ǀ adhvaryavaḥ ǀ sómam ǀ índrāya ǀ sotana ǀ
ádhi ǀ bradhnásya ǀ ádrayaḥ ǀ ví ǀ cakṣate ǀ sunvántaḥ ǀ dāśú-adhvaram ǁrathe-sthāya ǀ adhvaryavaḥ ǀ somam ǀ indrāya ǀ sotana ǀ
adhi ǀ bradhnasya ǀ adrayaḥ ǀ vi ǀ cakṣate ǀ sunvantaḥ ǀ dāśu-adhvaram ǁ8.4.13 Aṣṭaka 5.7.32.3Anuvāka 8.1.113
-
Ṛk 14
उप॑ ब्र॒ध्नं वा॒वाता॒ वृष॑णा॒ हरी॒ इंद्र॑म॒पसु॑ वक्षतः ।
अ॒र्वांचं॑ त्वा॒ सप्त॑योऽध्वर॒श्रियो॒ वहं॑तु॒ सव॒नेदुप॑ ॥उप ब्रध्नं वावाता वृषणा हरी इन्द्रम् अपसु वक्षतः |
अर्वाञ्चं त्वा सप्तयो ऽध्वरश्रियो वहन्तु सवनेद् उप ||úpa bradhnám vāvā́tā vṛ́ṣaṇā hárī índramapásu vakṣataḥ ǀ
arvā́ñcam tvā sáptayo’dhvaraśríyo váhantu sávanédúpa ǁupa bradhnaṃ vāvātā vṛṣaṇā harī indram apasu vakṣataḥ |
arvāñcaṃ tvā saptayo 'dhvaraśriyo vahantu savaned upa ||उप॑ । ब्र॒ध्नम् । व॒वाता॑ । वृष॑णा । हरी॒ इति॑ । इन्द्र॑म् । अ॒पऽसु॑ । व॒क्ष॒तः॒ ।
अ॒र्वाञ्च॑म् । त्वा॒ । सप्त॑यः । अ॒ध्व॒र॒ऽश्रियः॑ । वह॑न्तु । सव॑ना । इत् । उप॑ ॥उप । ब्रध्नम् । ववाता । वृषणा । हरी इति । इन्द्रम् । अपऽसु । वक्षतः ।
अर्वाञ्चम् । त्वा । सप्तयः । अध्वरऽश्रियः । वहन्तु । सवना । इत् । उप ॥úpa ǀ bradhnám ǀ vavā́tā ǀ vṛ́ṣaṇā ǀ hárī íti ǀ índram ǀ apá-su ǀ vakṣataḥ ǀ
arvā́ñcam ǀ tvā ǀ sáptayaḥ ǀ adhvara-śríyaḥ ǀ váhantu ǀ sávanā ǀ ít ǀ úpa ǁupa ǀ bradhnam ǀ vavātā ǀ vṛṣaṇā ǀ harī iti ǀ indram ǀ apa-su ǀ vakṣataḥ ǀ
arvāñcam ǀ tvā ǀ saptayaḥ ǀ adhvara-śriyaḥ ǀ vahantu ǀ savanā ǀ it ǀ upa ǁ8.4.14 Aṣṭaka 5.7.32.4Anuvāka 8.1.114
-
Ṛk 15
प्र पू॒षणं॑ वृणीमहे॒ युज्या॑य पुरू॒वसुं॑ ।
स श॑क्र शिक्ष पुरुहूत नो धि॒या तुजे॑ रा॒ये वि॑मोचन ॥प्र पूषणं वृणीमहे युज्याय पुरूवसुम् |
स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन ||prá pūṣáṇam vṛṇīmahe yújyāya purūvásum ǀ
sá śakra śikṣa puruhūta no dhiyā́ túje rāyé vimocana ǁpra pūṣaṇaṃ vṛṇīmahe yujyāya purūvasum |
sa śakra śikṣa puruhūta no dhiyā tuje rāye vimocana ||प्र । पू॒षण॑म् । वृ॒णी॒म॒हे॒ । युज्या॑य । पु॒रु॒ऽवसु॑म् ।
सः । श॒क्र॒ । शि॒क्ष॒ । पु॒रु॒ऽहू॒त॒ । नः॒ । धि॒या । तुजे॑ । रा॒ये । वि॒ऽमो॒च॒न॒ ॥प्र । पूषणम् । वृणीमहे । युज्याय । पुरुऽवसुम् ।
सः । शक्र । शिक्ष । पुरुऽहूत । नः । धिया । तुजे । राये । विऽमोचन ॥prá ǀ pūṣáṇam ǀ vṛṇīmahe ǀ yújyāya ǀ puru-vásum ǀ
sáḥ ǀ śakra ǀ śikṣa ǀ puru-hūta ǀ naḥ ǀ dhiyā́ ǀ túje ǀ rāyé ǀ vi-mocana ǁpra ǀ pūṣaṇam ǀ vṛṇīmahe ǀ yujyāya ǀ puru-vasum ǀ
saḥ ǀ śakra ǀ śikṣa ǀ puru-hūta ǀ naḥ ǀ dhiyā ǀ tuje ǀ rāye ǀ vi-mocana ǁ8.4.15 Aṣṭaka 5.7.32.5Anuvāka 8.1.115
-
Ṛk 16
सं नः॑ शिशीहि भु॒रिजो॑रिव क्षु॒रं रास्व॑ रा॒यो वि॑मोचन ।
त्वे तन्नः॑ सु॒वेद॑मु॒स्रियं॒ वसु॒ यं त्वं हि॒नोषि॒ मर्त्यं॑ ॥सं नः शिशीहि भुरिजोर् इव क्षुरं रास्व रायो विमोचन |
त्वे तन् नः सुवेदम् उस्रियं वसु यं त्वं हिनोषि मर्त्यम् ||sám naḥ śiśīhi bhuríjoriva kṣurám rā́sva rāyó vimocana ǀ
tvé tánnaḥ suvédamusríyam vásu yám tvám hinóṣi mártyam ǁsaṃ naḥ śiśīhi bhurijor iva kṣuraṃ rāsva rāyo vimocana |
tve tan naḥ suvedam usriyaṃ vasu yaṃ tvaṃ hinoṣi martyam ||सम् । नः॒ । शि॒शी॒हि॒ । भु॒रिजोः॑ऽइव । क्षु॒रम् । रास्व॑ । रा॒यः । वि॒ऽमो॒च॒न॒ ।
त्वे इति॑ । तत् । नः॒ । सु॒ऽवेद॑म् । उ॒स्रिय॑म् । वसु॑ । यम् । त्वम् । हि॒नोषि॑ । मर्त्य॑म् ॥सम् । नः । शिशीहि । भुरिजोःऽइव । क्षुरम् । रास्व । रायः । विऽमोचन ।
त्वे इति । तत् । नः । सुऽवेदम् । उस्रियम् । वसु । यम् । त्वम् । हिनोषि । मर्त्यम् ॥sám ǀ naḥ ǀ śiśīhi ǀ bhuríjoḥ-iva ǀ kṣurám ǀ rā́sva ǀ rāyáḥ ǀ vi-mocana ǀ
tvé íti ǀ tát ǀ naḥ ǀ su-védam ǀ usríyam ǀ vásu ǀ yám ǀ tvám ǀ hinóṣi ǀ mártyam ǁsam ǀ naḥ ǀ śiśīhi ǀ bhurijoḥ-iva ǀ kṣuram ǀ rāsva ǀ rāyaḥ ǀ vi-mocana ǀ
tve iti ǀ tat ǀ naḥ ǀ su-vedam ǀ usriyam ǀ vasu ǀ yam ǀ tvam ǀ hinoṣi ǀ martyam ǁ8.4.16 Aṣṭaka 5.7.33.1Anuvāka 8.1.116
-
Ṛk 17
वेमि॑ त्वा पूषन्नृं॒जसे॒ वेमि॒ स्तोत॑व आघृणे ।
न तस्य॑ वे॒म्यर॑णं॒ हि तद्व॑सो स्तु॒षे प॒ज्राय॒ साम्ने॑ ॥वेमि त्वा पूषन्न् ऋञ्जसे वेमि स्तोतव आघृणे |
न तस्य वेम्य् अरणं हि तद् वसो स्तुषे पज्राय साम्ने ||vémi tvā pūṣannṛñjáse vémi stótava āghṛṇe ǀ
ná tásya vemyáraṇam hí tádvaso stuṣé pajrā́ya sā́mne ǁvemi tvā pūṣann ṛñjase vemi stotava āghṛṇe |
na tasya vemy araṇaṃ hi tad vaso stuṣe pajrāya sāmne ||वेमि॑ । त्वा॒ । पू॒ष॒न् । ऋ॒ञ्जसे॑ । वेमि॑ । स्तोत॑वे । आ॒घृ॒णे॒ ।
न । तस्य॑ । वे॒मि॒ । अर॑णम् । हि । तत् । व॒सो॒ इति॑ । स्तु॒षे । प॒ज्राय॑ । साम्ने॑ ॥वेमि । त्वा । पूषन् । ऋञ्जसे । वेमि । स्तोतवे । आघृणे ।
न । तस्य । वेमि । अरणम् । हि । तत् । वसो इति । स्तुषे । पज्राय । साम्ने ॥vémi ǀ tvā ǀ pūṣan ǀ ṛñjáse ǀ vémi ǀ stótave ǀ āghṛṇe ǀ
ná ǀ tásya ǀ vemi ǀ áraṇam ǀ hí ǀ tát ǀ vaso íti ǀ stuṣé ǀ pajrā́ya ǀ sā́mne ǁvemi ǀ tvā ǀ pūṣan ǀ ṛñjase ǀ vemi ǀ stotave ǀ āghṛṇe ǀ
na ǀ tasya ǀ vemi ǀ araṇam ǀ hi ǀ tat ǀ vaso iti ǀ stuṣe ǀ pajrāya ǀ sāmne ǁ8.4.17 Aṣṭaka 5.7.33.2Anuvāka 8.1.117
-
Ṛk 18
परा॒ गावो॒ यव॑सं॒ कच्चि॑दाघृणे॒ नित्यं॒ रेक्णो॑ अमर्त्य ।
अ॒स्माकं॑ पूषन्नवि॒ता शि॒वो भ॑व॒ मंहि॑ष्ठो॒ वाज॑सातये ॥परा गावो यवसं कच् चिद् आघृणे नित्यं रेक्णो अमर्त्य |
अस्माकम् पूषन्न् अविता शिवो भव मंहिष्ठो वाजसातये ||párā gā́vo yávasam káccidāghṛṇe nítyam rékṇo amartya ǀ
asmā́kam pūṣannavitā́ śivó bhava máṃhiṣṭho vā́jasātaye ǁparā gāvo yavasaṃ kac cid āghṛṇe nityaṃ rekṇo amartya |
asmākam pūṣann avitā śivo bhava maṃhiṣṭho vājasātaye ||परा॑ । गावः॑ । यव॑सम् । कत् । चि॒त् । आ॒घृ॒णे॒ । नित्य॑म् । रेक्णः॑ । अ॒म॒र्त्य॒ ।
अ॒स्माक॑म् । पू॒ष॒न् । अ॒वि॒ता । शि॒वः । भ॒व॒ । मंहि॑ष्ठः । वाज॑ऽसातये ॥परा । गावः । यवसम् । कत् । चित् । आघृणे । नित्यम् । रेक्णः । अमर्त्य ।
अस्माकम् । पूषन् । अविता । शिवः । भव । मंहिष्ठः । वाजऽसातये ॥párā ǀ gā́vaḥ ǀ yávasam ǀ kát ǀ cit ǀ āghṛṇe ǀ nítyam ǀ rékṇaḥ ǀ amartya ǀ
asmā́kam ǀ pūṣan ǀ avitā́ ǀ śiváḥ ǀ bhava ǀ máṃhiṣṭhaḥ ǀ vā́ja-sātaye ǁparā ǀ gāvaḥ ǀ yavasam ǀ kat ǀ cit ǀ āghṛṇe ǀ nityam ǀ rekṇaḥ ǀ amartya ǀ
asmākam ǀ pūṣan ǀ avitā ǀ śivaḥ ǀ bhava ǀ maṃhiṣṭhaḥ ǀ vāja-sātaye ǁ8.4.18 Aṣṭaka 5.7.33.3Anuvāka 8.1.118
-
Ṛk 19
स्थू॒रं राधः॑ श॒ताश्वं॑ कुरुं॒गस्य॒ दिवि॑ष्टिषु ।
राज्ञ॑स्त्वे॒षस्य॑ सु॒भग॑स्य रा॒तिषु॑ तु॒र्वशे॑ष्वमन्महि ॥स्थूरं राधः शताश्वं कुरुङ्गस्य दिविष्टिषु |
राज्ञस् त्वेषस्य सुभगस्य रातिषु तुर्वशेष्व् अमन्महि ||sthūrám rā́dhaḥ śatā́śvam kuruṅgásya díviṣṭiṣu ǀ
rā́jñastveṣásya subhágasya rātíṣu turváśeṣvamanmahi ǁsthūraṃ rādhaḥ śatāśvaṃ kuruṅgasya diviṣṭiṣu |
rājñas tveṣasya subhagasya rātiṣu turvaśeṣv amanmahi ||स्थू॒रम् । राधः॑ । श॒तऽअ॑श्वम् । कु॒रु॒ङ्गस्य॑ । दिवि॑ष्टिषु ।
राज्ञः॑ । त्वे॒षस्य॑ । सु॒ऽभग॑स्य । रा॒तिषु॑ । तु॒र्वशे॑षु । अ॒म॒न्म॒हि॒ ॥स्थूरम् । राधः । शतऽअश्वम् । कुरुङ्गस्य । दिविष्टिषु ।
राज्ञः । त्वेषस्य । सुऽभगस्य । रातिषु । तुर्वशेषु । अमन्महि ॥sthūrám ǀ rā́dhaḥ ǀ śatá-aśvam ǀ kuruṅgásya ǀ díviṣṭiṣu ǀ
rā́jñaḥ ǀ tveṣásya ǀ su-bhágasya ǀ rātíṣu ǀ turváśeṣu ǀ amanmahi ǁsthūram ǀ rādhaḥ ǀ śata-aśvam ǀ kuruṅgasya ǀ diviṣṭiṣu ǀ
rājñaḥ ǀ tveṣasya ǀ su-bhagasya ǀ rātiṣu ǀ turvaśeṣu ǀ amanmahi ǁ8.4.19 Aṣṭaka 5.7.33.4Anuvāka 8.1.119
-
Ṛk 20
धी॒भिः सा॒तानि॑ का॒ण्वस्य॑ वा॒जिनः॑ प्रि॒यमे॑धैर॒भिद्यु॑भिः ।
ष॒ष्टिं स॒हस्रानु॒ निर्म॑जामजे॒ निर्यू॒थानि॒ गवा॒मृषिः॑ ॥धीभिः सातानि काण्वस्य वाजिनः प्रियमेधैर् अभिद्युभिः |
षष्टिं सहस्रानु निर्मजाम् अजे निर् यूथानि गवाम् ऋषिः ||dhībhíḥ sātā́ni kāṇvásya vājínaḥ priyámedhairabhídyubhiḥ ǀ
ṣaṣṭím sahásrā́nu nírmajāmaje níryūthā́ni gávāmṛ́ṣiḥ ǁdhībhiḥ sātāni kāṇvasya vājinaḥ priyamedhair abhidyubhiḥ |
ṣaṣṭiṃ sahasrānu nirmajām aje nir yūthāni gavām ṛṣiḥ ||धी॒भिः । सा॒तानि॑ । का॒ण्वस्य॑ । वा॒जिनः॑ । प्रि॒यऽमे॑धैः । अ॒भिद्यु॑ऽभिः ।
ष॒ष्टिम् । स॒हस्रा॑ । अनु॑ । निःऽम॑जाम् । अ॒जे॒ । निः । यू॒थानि॑ । गवा॑म् । ऋषिः॑ ॥धीभिः । सातानि । काण्वस्य । वाजिनः । प्रियऽमेधैः । अभिद्युऽभिः ।
षष्टिम् । सहस्रा । अनु । निःऽमजाम् । अजे । निः । यूथानि । गवाम् । ऋषिः ॥dhībhíḥ ǀ sātā́ni ǀ kāṇvásya ǀ vājínaḥ ǀ priyá-medhaiḥ ǀ abhídyu-bhiḥ ǀ
ṣaṣṭím ǀ sahásrā ǀ ánu ǀ níḥ-majām ǀ aje ǀ níḥ ǀ yūthā́ni ǀ gávām ǀ ṛ́ṣiḥ ǁdhībhiḥ ǀ sātāni ǀ kāṇvasya ǀ vājinaḥ ǀ priya-medhaiḥ ǀ abhidyu-bhiḥ ǀ
ṣaṣṭim ǀ sahasrā ǀ anu ǀ niḥ-majām ǀ aje ǀ niḥ ǀ yūthāni ǀ gavām ǀ ṛṣiḥ ǁ8.4.20 Aṣṭaka 5.7.33.5Anuvāka 8.1.120
-
Ṛk 21
वृ॒क्षाश्चि॑न्मे अभिपि॒त्वे अ॑रारणुः ।
गां भ॑जंत मे॒हनाश्वं॑ भजंत मे॒हना॑ ॥वृक्षाश् चिन् मे अभिपित्वे अरारणुः |
गाम् भजन्त मेहनाश्वम् भजन्त मेहना ||vṛkṣā́ścinme abhipitvé arāraṇuḥ ǀ
gā́m bhajanta mehánā́śvam bhajanta mehánā ǁvṛkṣāś cin me abhipitve arāraṇuḥ |
gām bhajanta mehanāśvam bhajanta mehanā ||वृ॒क्षाः । चि॒त् । मे॒ । अ॒भि॒ऽपि॒त्वे । अ॒र॒र॒णुः॒ ।
गाम् । भ॒ज॒न्त॒ । मे॒हना॑ । अश्व॑म् । भ॒ज॒न्त॒ । मे॒हना॑ ॥वृक्षाः । चित् । मे । अभिऽपित्वे । अररणुः ।
गाम् । भजन्त । मेहना । अश्वम् । भजन्त । मेहना ॥vṛkṣā́ḥ ǀ cit ǀ me ǀ abhi-pitvé ǀ araraṇuḥ ǀ
gā́m ǀ bhajanta ǀ mehánā ǀ áśvam ǀ bhajanta ǀ mehánā ǁvṛkṣāḥ ǀ cit ǀ me ǀ abhi-pitve ǀ araraṇuḥ ǀ
gām ǀ bhajanta ǀ mehanā ǀ aśvam ǀ bhajanta ǀ mehanā ǁ8.4.21 Aṣṭaka 5.7.33.6Anuvāka 8.1.121
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.