Sūkta 95
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Tiraścī Āṅgirasa
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles virāḍanuṣṭup (1-4, 6, 7); anuṣṭup (5, 9); nicṛdanuṣṭup (8)
2nd set of styles anuṣṭubh
-
Ṛk 1
आ त्वा॒ गिरो॑ र॒थीरि॒वास्थुः॑ सु॒तेषु॑ गिर्वणः ।
अ॒भि त्वा॒ सम॑नूष॒तेंद्र॑ व॒त्सं न मा॒तरः॑ ॥आ त्वा गिरो रथीर् इवास्थुः सुतेषु गिर्वणः |
अभि त्वा सम् अनूषतेन्द्र वत्सं न मातरः ||ā́ tvā gíro rathī́rivā́sthuḥ sutéṣu girvaṇaḥ ǀ
abhí tvā sámanūṣaténdra vatsám ná mātáraḥ ǁā tvā giro rathīr ivāsthuḥ suteṣu girvaṇaḥ |
abhi tvā sam anūṣatendra vatsaṃ na mātaraḥ ||आ । त्वा॒ । गिरः॑ । र॒थीःऽइ॑व । अस्थुः॑ । सु॒तेषु॑ । गि॒र्व॒णः॒ ।
अ॒भि । त्वा॒ । सम् । अ॒नू॒ष॒त॒ । इन्द्र॑ । व॒त्सम् । न । मा॒तरः॑ ॥आ । त्वा । गिरः । रथीःऽइव । अस्थुः । सुतेषु । गिर्वणः ।
अभि । त्वा । सम् । अनूषत । इन्द्र । वत्सम् । न । मातरः ॥ā́ ǀ tvā ǀ gíraḥ ǀ rathī́ḥ-iva ǀ ásthuḥ ǀ sutéṣu ǀ girvaṇaḥ ǀ
abhí ǀ tvā ǀ sám ǀ anūṣata ǀ índra ǀ vatsám ǀ ná ǀ mātáraḥ ǁā ǀ tvā ǀ giraḥ ǀ rathīḥ-iva ǀ asthuḥ ǀ suteṣu ǀ girvaṇaḥ ǀ
abhi ǀ tvā ǀ sam ǀ anūṣata ǀ indra ǀ vatsam ǀ na ǀ mātaraḥ ǁ8.95.1 Aṣṭaka 6.6.30.1Anuvāka 8.10.13
-
Ṛk 2
आ त्वा॑ शु॒क्रा अ॑चुच्यवुः सु॒तास॑ इंद्र गिर्वणः ।
पिबा॒ त्व१॒॑स्यांध॑स॒ इंद्र॒ विश्वा॑सु ते हि॒तं ॥आ त्वा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः |
पिबा त्व् अस्यान्धस इन्द्र विश्वासु ते हितम् ||ā́ tvā śukrā́ acucyavuḥ sutā́sa indra girvaṇaḥ ǀ
píbā tvásyā́ndhasa índra víśvāsu te hitám ǁā tvā śukrā acucyavuḥ sutāsa indra girvaṇaḥ |
pibā tv asyāndhasa indra viśvāsu te hitam ||आ । त्वा॒ । शु॒क्राः । अ॒चु॒च्य॒वुः॒ । सु॒तासः॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।
पिब॑ । तु । अ॒स्य । अन्ध॑सः । इन्द्र॑ । विश्वा॑सु । ते॒ । हि॒तम् ॥आ । त्वा । शुक्राः । अचुच्यवुः । सुतासः । इन्द्र । गिर्वणः ।
पिब । तु । अस्य । अन्धसः । इन्द्र । विश्वासु । ते । हितम् ॥ā́ ǀ tvā ǀ śukrā́ḥ ǀ acucyavuḥ ǀ sutā́saḥ ǀ indra ǀ girvaṇaḥ ǀ
píba ǀ tú ǀ asyá ǀ ándhasaḥ ǀ índra ǀ víśvāsu ǀ te ǀ hitám ǁā ǀ tvā ǀ śukrāḥ ǀ acucyavuḥ ǀ sutāsaḥ ǀ indra ǀ girvaṇaḥ ǀ
piba ǀ tu ǀ asya ǀ andhasaḥ ǀ indra ǀ viśvāsu ǀ te ǀ hitam ǁ8.95.2 Aṣṭaka 6.6.30.2Anuvāka 8.10.14
-
Ṛk 3
पिबा॒ सोमं॒ मदा॑य॒ कमिंद्र॑ श्ये॒नाभृ॑तं सु॒तं ।
त्वं हि शश्व॑तीनां॒ पती॒ राजा॑ वि॒शामसि॑ ॥पिबा सोमम् मदाय कम् इन्द्र श्येनाभृतं सुतम् |
त्वं हि शश्वतीनाम् पती राजा विशाम् असि ||píbā sómam mádāya kámíndra śyenā́bhṛtam sutám ǀ
tvám hí śáśvatīnām pátī rā́jā viśā́mási ǁpibā somam madāya kam indra śyenābhṛtaṃ sutam |
tvaṃ hi śaśvatīnām patī rājā viśām asi ||पिब॑ । सोम॑म् । मदा॑य । कम् । इन्द्र॑ । श्ये॒नऽआ॑भृतम् । सु॒तम् ।
त्वम् । हि । शश्व॑तीनाम् । पतिः॑ । राजा॑ । वि॒शाम् । असि॑ ॥पिब । सोमम् । मदाय । कम् । इन्द्र । श्येनऽआभृतम् । सुतम् ।
त्वम् । हि । शश्वतीनाम् । पतिः । राजा । विशाम् । असि ॥píba ǀ sómam ǀ mádāya ǀ kám ǀ índra ǀ śyená-ābhṛtam ǀ sutám ǀ
tvám ǀ hí ǀ śáśvatīnām ǀ pátiḥ ǀ rā́jā ǀ viśā́m ǀ ási ǁpiba ǀ somam ǀ madāya ǀ kam ǀ indra ǀ śyena-ābhṛtam ǀ sutam ǀ
tvam ǀ hi ǀ śaśvatīnām ǀ patiḥ ǀ rājā ǀ viśām ǀ asi ǁ8.95.3 Aṣṭaka 6.6.30.3Anuvāka 8.10.15
-
Ṛk 4
श्रु॒धी हवं॑ तिर॒श्च्या इंद्र॒ यस्त्वा॑ सप॒र्यति॑ ।
सु॒वीर्य॑स्य॒ गोम॑तो रा॒यस्पू॑र्धि म॒हाँ अ॑सि ॥श्रुधी हवं तिरश्च्या इन्द्र यस् त्वा सपर्यति |
सुवीर्यस्य गोमतो रायस् पूर्धि महां असि ||śrudhī́ hávam tiraścyā́ índra yástvā saparyáti ǀ
suvī́ryasya gómato rāyáspūrdhi mahā́m̐ asi ǁśrudhī havaṃ tiraścyā indra yas tvā saparyati |
suvīryasya gomato rāyas pūrdhi mahāṃ asi ||श्रु॒धि । हव॑म् । ति॒र॒श्च्याः । इन्द्र॑ । यः । त्वा॒ । स॒प॒र्यति॑ ।
सु॒ऽवीर्य॑स्य । गोऽम॑तः । रा॒यः । पू॒र्धि॒ । म॒हान् । अ॒सि॒ ॥श्रुधि । हवम् । तिरश्च्याः । इन्द्र । यः । त्वा । सपर्यति ।
सुऽवीर्यस्य । गोऽमतः । रायः । पूर्धि । महान् । असि ॥śrudhí ǀ hávam ǀ tiraścyā́ḥ ǀ índra ǀ yáḥ ǀ tvā ǀ saparyáti ǀ
su-vī́ryasya ǀ gó-mataḥ ǀ rāyáḥ ǀ pūrdhi ǀ mahā́n ǀ asi ǁśrudhi ǀ havam ǀ tiraścyāḥ ǀ indra ǀ yaḥ ǀ tvā ǀ saparyati ǀ
su-vīryasya ǀ go-mataḥ ǀ rāyaḥ ǀ pūrdhi ǀ mahān ǀ asi ǁ8.95.4 Aṣṭaka 6.6.30.4Anuvāka 8.10.16
-
Ṛk 5
इंद्र॒ यस्ते॒ नवी॑यसीं॒ गिरं॑ मं॒द्रामजी॑जनत् ।
चि॒कि॒त्विन्म॑नसं॒ धियं॑ प्र॒त्नामृ॒तस्य॑ पि॒प्युषीं॑ ॥इन्द्र यस् ते नवीयसीं गिरम् मन्द्राम् अजीजनत् |
चिकित्विन्मनसं धियम् प्रत्नाम् ऋतस्य पिप्युषीम् ||índra yáste návīyasīm gíram mandrā́májījanat ǀ
cikitvínmanasam dhíyam pratnā́mṛtásya pipyúṣīm ǁindra yas te navīyasīṃ giram mandrām ajījanat |
cikitvinmanasaṃ dhiyam pratnām ṛtasya pipyuṣīm ||इन्द्र॑ । यः । ते॒ । नवी॑यसीम् । गिर॑म् । म॒न्द्राम् । अजी॑जनत् ।
चि॒कि॒त्वित्ऽम॑नसम् । धिय॑म् । प्र॒त्नाम् । ऋ॒तस्य॑ । पि॒प्युषी॑म् ॥इन्द्र । यः । ते । नवीयसीम् । गिरम् । मन्द्राम् । अजीजनत् ।
चिकित्वित्ऽमनसम् । धियम् । प्रत्नाम् । ऋतस्य । पिप्युषीम् ॥índra ǀ yáḥ ǀ te ǀ návīyasīm ǀ gíram ǀ mandrā́m ǀ ájījanat ǀ
cikitvít-manasam ǀ dhíyam ǀ pratnā́m ǀ ṛtásya ǀ pipyúṣīm ǁindra ǀ yaḥ ǀ te ǀ navīyasīm ǀ giram ǀ mandrām ǀ ajījanat ǀ
cikitvit-manasam ǀ dhiyam ǀ pratnām ǀ ṛtasya ǀ pipyuṣīm ǁ8.95.5 Aṣṭaka 6.6.30.5Anuvāka 8.10.17
-
Ṛk 6
तमु॑ ष्टवाम॒ यं गिर॒ इंद्र॑मु॒क्थानि॑ वावृ॒धुः ।
पु॒रूण्य॑स्य॒ पौंस्या॒ सिषा॑संतो वनामहे ॥तम् उ ष्टवाम यं गिर इन्द्रम् उक्थानि वावृधुः |
पुरूण्य् अस्य पौंस्या सिषासन्तो वनामहे ||támu ṣṭavāma yám gíra índramukthā́ni vāvṛdhúḥ ǀ
purū́ṇyasya páuṃsyā síṣāsanto vanāmahe ǁtam u ṣṭavāma yaṃ gira indram ukthāni vāvṛdhuḥ |
purūṇy asya pauṃsyā siṣāsanto vanāmahe ||तम् । ऊं॒ इति॑ । स्त॒वा॒म॒ । यम् । गिरः॑ । इन्द्र॑म् । उ॒क्थानि॑ । व॒वृ॒धुः ।
पु॒रूणि॑ । अ॒स्य॒ । पौंस्या॑ । सिसा॑सन्तः । व॒ना॒म॒हे॒ ॥तम् । ऊं इति । स्तवाम । यम् । गिरः । इन्द्रम् । उक्थानि । ववृधुः ।
पुरूणि । अस्य । पौंस्या । सिसासन्तः । वनामहे ॥tám ǀ ūṃ íti ǀ stavāma ǀ yám ǀ gíraḥ ǀ índram ǀ ukthā́ni ǀ vavṛdhúḥ ǀ
purū́ṇi ǀ asya ǀ páuṃsyā ǀ sísāsantaḥ ǀ vanāmahe ǁtam ǀ ūṃ iti ǀ stavāma ǀ yam ǀ giraḥ ǀ indram ǀ ukthāni ǀ vavṛdhuḥ ǀ
purūṇi ǀ asya ǀ pauṃsyā ǀ sisāsantaḥ ǀ vanāmahe ǁ8.95.6 Aṣṭaka 6.6.31.1Anuvāka 8.10.18
-
Ṛk 7
एतो॒ न्विंद्रं॒ स्तवा॑म शु॒द्धं शु॒द्धेन॒ साम्ना॑ ।
शु॒द्धैरु॒क्थैर्वा॑वृ॒ध्वांसं॑ शु॒द्ध आ॒शीर्वा॑न्ममत्तु ॥एतो न्व् इन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना |
शुद्धैर् उक्थैर् वावृध्वांसं शुद्ध आशीर्वान् ममत्तु ||éto nvíndram stávāma śuddhám śuddhéna sā́mnā ǀ
śuddháiruktháirvāvṛdhvā́ṃsam śuddhá āśī́rvānmamattu ǁeto nv indraṃ stavāma śuddhaṃ śuddhena sāmnā |
śuddhair ukthair vāvṛdhvāṃsaṃ śuddha āśīrvān mamattu ||एतो॒ इति॑ । नु । इन्द्र॑म् । स्त॒वा॒म॒ । शु॒द्धम् । शु॒द्धेन॑ । साम्ना॑ ।
शु॒द्धैः । उ॒क्थैः । व॒वृ॒ध्वांस॑म् । शु॒द्धः । आ॒शीःऽवा॑न् । म॒म॒त्तु॒ ॥एतो इति । नु । इन्द्रम् । स्तवाम । शुद्धम् । शुद्धेन । साम्ना ।
शुद्धैः । उक्थैः । ववृध्वांसम् । शुद्धः । आशीःऽवान् । ममत्तु ॥éto íti ǀ nú ǀ índram ǀ stavāma ǀ śuddhám ǀ śuddhéna ǀ sā́mnā ǀ
śuddháiḥ ǀ uktháiḥ ǀ vavṛdhvā́ṃsam ǀ śuddháḥ ǀ āśī́ḥ-vān ǀ mamattu ǁeto iti ǀ nu ǀ indram ǀ stavāma ǀ śuddham ǀ śuddhena ǀ sāmnā ǀ
śuddhaiḥ ǀ ukthaiḥ ǀ vavṛdhvāṃsam ǀ śuddhaḥ ǀ āśīḥ-vān ǀ mamattu ǁ8.95.7 Aṣṭaka 6.6.31.2Anuvāka 8.10.19
-
Ṛk 8
इंद्र॑ शु॒द्धो न॒ आ ग॑हि शु॒द्धः शु॒द्धाभि॑रू॒तिभिः॑ ।
शु॒द्धो र॒यिं नि धा॑रय शु॒द्धो म॑मद्धि सो॒म्यः ॥इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिर् ऊतिभिः |
शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्यः ||índra śuddhó na ā́ gahi śuddháḥ śuddhā́bhirūtíbhiḥ ǀ
śuddhó rayím ní dhāraya śuddhó mamaddhi somyáḥ ǁindra śuddho na ā gahi śuddhaḥ śuddhābhir ūtibhiḥ |
śuddho rayiṃ ni dhāraya śuddho mamaddhi somyaḥ ||इन्द्र॑ । शु॒द्धः । नः॒ । आ । ग॒हि॒ । शु॒द्धः । शु॒द्धाभिः॑ । ऊ॒तिऽभिः॑ ।
शु॒द्धः । र॒यिम् । नि । धा॒र॒य॒ । शु॒द्धः । म॒म॒द्धि॒ । सो॒म्यः ॥इन्द्र । शुद्धः । नः । आ । गहि । शुद्धः । शुद्धाभिः । ऊतिऽभिः ।
शुद्धः । रयिम् । नि । धारय । शुद्धः । ममद्धि । सोम्यः ॥índra ǀ śuddháḥ ǀ naḥ ǀ ā́ ǀ gahi ǀ śuddháḥ ǀ śuddhā́bhiḥ ǀ ūtí-bhiḥ ǀ
śuddháḥ ǀ rayím ǀ ní ǀ dhāraya ǀ śuddháḥ ǀ mamaddhi ǀ somyáḥ ǁindra ǀ śuddhaḥ ǀ naḥ ǀ ā ǀ gahi ǀ śuddhaḥ ǀ śuddhābhiḥ ǀ ūti-bhiḥ ǀ
śuddhaḥ ǀ rayim ǀ ni ǀ dhāraya ǀ śuddhaḥ ǀ mamaddhi ǀ somyaḥ ǁ8.95.8 Aṣṭaka 6.6.31.3Anuvāka 8.10.20
-
Ṛk 9
इंद्र॑ शु॒द्धो हि नो॑ र॒यिं शु॒द्धो रत्ना॑नि दा॒शुषे॑ ।
शु॒द्धो वृ॒त्राणि॑ जिघ्नसे शु॒द्धो वाजं॑ सिषाससि ॥इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे |
शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि ||índra śuddhó hí no rayím śuddhó rátnāni dāśúṣe ǀ
śuddhó vṛtrā́ṇi jighnase śuddhó vā́jam siṣāsasi ǁindra śuddho hi no rayiṃ śuddho ratnāni dāśuṣe |
śuddho vṛtrāṇi jighnase śuddho vājaṃ siṣāsasi ||इन्द्र॑ । शु॒द्धः । हि । नः॒ । र॒यिम् । शु॒द्धः । रत्ना॑नि । दा॒शुषे॑ ।
शु॒द्धः । वृ॒त्राणि॑ । जि॒घ्न॒से॒ । शु॒द्धः । वाज॑म् । सि॒सा॒स॒सि॒ ॥इन्द्र । शुद्धः । हि । नः । रयिम् । शुद्धः । रत्नानि । दाशुषे ।
शुद्धः । वृत्राणि । जिघ्नसे । शुद्धः । वाजम् । सिसाससि ॥índra ǀ śuddháḥ ǀ hí ǀ naḥ ǀ rayím ǀ śuddháḥ ǀ rátnāni ǀ dāśúṣe ǀ
śuddháḥ ǀ vṛtrā́ṇi ǀ jighnase ǀ śuddháḥ ǀ vā́jam ǀ sisāsasi ǁindra ǀ śuddhaḥ ǀ hi ǀ naḥ ǀ rayim ǀ śuddhaḥ ǀ ratnāni ǀ dāśuṣe ǀ
śuddhaḥ ǀ vṛtrāṇi ǀ jighnase ǀ śuddhaḥ ǀ vājam ǀ sisāsasi ǁ8.95.9 Aṣṭaka 6.6.31.4Anuvāka 8.10.21
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.