Sūkta 99
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nṛmedha Āṅgirasa
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
Metres by ṛk
1st set of styles paṅktiḥ (4, 6, 8); nicṛdbṛhatī (3, 7); svaraḍārcībṛhatī (1); bṛhatī (2); pādnicṛdbṛhatī (5)
2nd set of styles bṛhatī (1, 3, 5, 7); satobṛhatī (2, 4, 6, 8)
-
Ṛk 1
त्वामि॒दा ह्यो नरोऽपी॑प्यन्वज्रि॒न्भूर्ण॑यः ।
स इं॑द्र॒ स्तोम॑वाहसामि॒ह श्रु॒ध्युप॒ स्वस॑र॒मा ग॑हि ॥त्वाम् इदा ह्यो नरो ऽपीप्यन् वज्रिन् भूर्णयः |
स इन्द्र स्तोमवाहसाम् इह श्रुध्य् उप स्वसरम् आ गहि ||tvā́midā́ hyó náró’pīpyanvajrinbhū́rṇayaḥ ǀ
sá indra stómavāhasāmihá śrudhyúpa svásaramā́ gahi ǁtvām idā hyo naro 'pīpyan vajrin bhūrṇayaḥ |
sa indra stomavāhasām iha śrudhy upa svasaram ā gahi ||त्वाम् । इ॒दा । ह्यः । नरः॑ । अपी॑प्यन् । व॒ज्रि॒न् । भूर्ण॑यः ।
सः । इ॒न्द्र॒ । स्तोम॑ऽवाहसाम् । इ॒ह । श्रु॒धि॒ । उप॑ । स्वस॑रम् । आ । ग॒हि॒ ॥त्वाम् । इदा । ह्यः । नरः । अपीप्यन् । वज्रिन् । भूर्णयः ।
सः । इन्द्र । स्तोमऽवाहसाम् । इह । श्रुधि । उप । स्वसरम् । आ । गहि ॥tvā́m ǀ idā́ ǀ hyáḥ ǀ náraḥ ǀ ápīpyan ǀ vajrin ǀ bhū́rṇayaḥ ǀ
sáḥ ǀ indra ǀ stóma-vāhasām ǀ ihá ǀ śrudhi ǀ úpa ǀ svásaram ǀ ā́ ǀ gahi ǁtvām ǀ idā ǀ hyaḥ ǀ naraḥ ǀ apīpyan ǀ vajrin ǀ bhūrṇayaḥ ǀ
saḥ ǀ indra ǀ stoma-vāhasām ǀ iha ǀ śrudhi ǀ upa ǀ svasaram ǀ ā ǀ gahi ǁ8.99.1 Aṣṭaka 6.7.3.0
-
Ṛk 2
मत्स्वा॑ सुशिप्र हरिव॒स्तदी॑महे॒ त्वे आ भू॑षंति वे॒धसः॑ ।
तव॒ श्रवां॑स्युप॒मान्यु॒क्थ्या॑ सु॒तेष्विं॑द्र गिर्वणः ॥मत्स्वा सुशिप्र हरिवस् तद् ईमहे त्वे आ भूषन्ति वेधसः |
तव श्रवांस्य् उपमान्य् उक्थ्या सुतेष्व् इन्द्र गिर्वणः ||mátsvā suśipra harivastádīmahe tvé ā́ bhūṣanti vedhásaḥ ǀ
táva śrávāṃsyupamā́nyukthyā́ sutéṣvindra girvaṇaḥ ǁmatsvā suśipra harivas tad īmahe tve ā bhūṣanti vedhasaḥ |
tava śravāṃsy upamāny ukthyā suteṣv indra girvaṇaḥ ||मत्स्व॑ । सु॒ऽशि॒प्र॒ । ह॒रि॒ऽवः॒ । तत् । ई॒म॒हे॒ । त्वे इति॑ । आ । भू॒ष॒न्ति॒ । वे॒धसः॑ ।
तव॑ । श्रवां॑सि । उ॒प॒ऽमानि॑ । उ॒क्थ्या॑ । सु॒तेषु॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥मत्स्व । सुऽशिप्र । हरिऽवः । तत् । ईमहे । त्वे इति । आ । भूषन्ति । वेधसः ।
तव । श्रवांसि । उपऽमानि । उक्थ्या । सुतेषु । इन्द्र । गिर्वणः ॥mátsva ǀ su-śipra ǀ hari-vaḥ ǀ tát ǀ īmahe ǀ tvé íti ǀ ā́ ǀ bhūṣanti ǀ vedhásaḥ ǀ
táva ǀ śrávāṃsi ǀ upa-mā́ni ǀ ukthyā́ ǀ sutéṣu ǀ indra ǀ girvaṇaḥ ǁmatsva ǀ su-śipra ǀ hari-vaḥ ǀ tat ǀ īmahe ǀ tve iti ǀ ā ǀ bhūṣanti ǀ vedhasaḥ ǀ
tava ǀ śravāṃsi ǀ upa-māni ǀ ukthyā ǀ suteṣu ǀ indra ǀ girvaṇaḥ ǁ8.99.2 Aṣṭaka 6.7.3.0
-
Ṛk 3
श्रायं॑त इव॒ सूर्यं॒ विश्वेदिंद्र॑स्य भक्षत ।
वसू॑नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम ॥श्रायन्त इव सूर्यं विश्वेद् इन्द्रस्य भक्षत |
वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ||śrā́yanta iva sū́ryam víśvédíndrasya bhakṣata ǀ
vásūni jāté jánamāna ójasā práti bhāgám ná dīdhima ǁśrāyanta iva sūryaṃ viśved indrasya bhakṣata |
vasūni jāte janamāna ojasā prati bhāgaṃ na dīdhima ||श्राय॑न्तःऽइव । सूर्य॑म् । विश्वा॑ । इत् । इन्द्र॑स्य । भ॒क्ष॒त॒ ।
वसू॑नि । जा॒ते । जन॑माने । ओज॑सा । प्रति॑ । भा॒गम् । न । दी॒धि॒म॒ ॥श्रायन्तःऽइव । सूर्यम् । विश्वा । इत् । इन्द्रस्य । भक्षत ।
वसूनि । जाते । जनमाने । ओजसा । प्रति । भागम् । न । दीधिम ॥śrā́yantaḥ-iva ǀ sū́ryam ǀ víśvā ǀ ít ǀ índrasya ǀ bhakṣata ǀ
vásūni ǀ jāté ǀ jánamāne ǀ ójasā ǀ práti ǀ bhāgám ǀ ná ǀ dīdhima ǁśrāyantaḥ-iva ǀ sūryam ǀ viśvā ǀ it ǀ indrasya ǀ bhakṣata ǀ
vasūni ǀ jāte ǀ janamāne ǀ ojasā ǀ prati ǀ bhāgam ǀ na ǀ dīdhima ǁ8.99.3 Aṣṭaka 6.7.3.0
-
Ṛk 4
अन॑र्शरातिं वसु॒दामुप॑ स्तुहि भ॒द्रा इंद्र॑स्य रा॒तयः॑ ।
सो अ॑स्य॒ कामं॑ विध॒तो न रो॑षति॒ मनो॑ दा॒नाय॑ चो॒दय॑न् ॥अनर्शरातिं वसुदाम् उप स्तुहि भद्रा इन्द्रस्य रातयः |
सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ||ánarśarātim vasudā́múpa stuhi bhadrā́ índrasya rātáyaḥ ǀ
só asya kā́mam vidható ná roṣati máno dānā́ya codáyan ǁanarśarātiṃ vasudām upa stuhi bhadrā indrasya rātayaḥ |
so asya kāmaṃ vidhato na roṣati mano dānāya codayan ||अन॑र्शऽरातिम् । व॒सु॒ऽदाम् । उप॑ । स्तु॒हि॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ।
सः । अ॒स्य॒ । काम॑म् । वि॒ध॒तः । न । रो॒ष॒ति॒ । मनः॑ । दा॒नाय॑ । चो॒दय॑न् ॥अनर्शऽरातिम् । वसुऽदाम् । उप । स्तुहि । भद्राः । इन्द्रस्य । रातयः ।
सः । अस्य । कामम् । विधतः । न । रोषति । मनः । दानाय । चोदयन् ॥ánarśa-rātim ǀ vasu-dā́m ǀ úpa ǀ stuhi ǀ bhadrā́ḥ ǀ índrasya ǀ rātáyaḥ ǀ
sáḥ ǀ asya ǀ kā́mam ǀ vidhatáḥ ǀ ná ǀ roṣati ǀ mánaḥ ǀ dānā́ya ǀ codáyan ǁanarśa-rātim ǀ vasu-dām ǀ upa ǀ stuhi ǀ bhadrāḥ ǀ indrasya ǀ rātayaḥ ǀ
saḥ ǀ asya ǀ kāmam ǀ vidhataḥ ǀ na ǀ roṣati ǀ manaḥ ǀ dānāya ǀ codayan ǁ8.99.4 Aṣṭaka 6.7.3.0
-
Ṛk 5
त्वमिं॑द्र॒ प्रतू॑र्तिष्व॒भि विश्वा॑ असि॒ स्पृधः॑ ।
अ॒श॒स्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू॑र्य तरुष्य॒तः ॥त्वम् इन्द्र प्रतूर्तिष्व् अभि विश्वा असि स्पृधः |
अशस्तिहा जनिता विश्वतूर् असि त्वं तूर्य तरुष्यतः ||tvámindra prátūrtiṣvabhí víśvā asi spṛ́dhaḥ ǀ
aśastihā́ janitā́ viśvatū́rasi tvám tūrya taruṣyatáḥ ǁtvam indra pratūrtiṣv abhi viśvā asi spṛdhaḥ |
aśastihā janitā viśvatūr asi tvaṃ tūrya taruṣyataḥ ||त्वम् । इ॒न्द्र॒ । प्रऽतू॑र्तिषु । अ॒भि । विश्वाः॑ । अ॒सि॒ । स्पृधः॑ ।
अ॒श॒स्ति॒ऽहा । ज॒नि॒ता । वि॒श्व॒ऽतूः । अ॒सि॒ । त्वम् । तू॒र्य॒ । त॒रु॒ष्य॒तः ॥त्वम् । इन्द्र । प्रऽतूर्तिषु । अभि । विश्वाः । असि । स्पृधः ।
अशस्तिऽहा । जनिता । विश्वऽतूः । असि । त्वम् । तूर्य । तरुष्यतः ॥tvám ǀ indra ǀ prá-tūrtiṣu ǀ abhí ǀ víśvāḥ ǀ asi ǀ spṛ́dhaḥ ǀ
aśasti-hā́ ǀ janitā́ ǀ viśva-tū́ḥ ǀ asi ǀ tvám ǀ tūrya ǀ taruṣyatáḥ ǁtvam ǀ indra ǀ pra-tūrtiṣu ǀ abhi ǀ viśvāḥ ǀ asi ǀ spṛdhaḥ ǀ
aśasti-hā ǀ janitā ǀ viśva-tūḥ ǀ asi ǀ tvam ǀ tūrya ǀ taruṣyataḥ ǁ8.99.5 Aṣṭaka 6.7.3.0
-
Ṛk 6
अनु॑ ते॒ शुष्मं॑ तु॒रयं॑तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा॑ ।
विश्वा॑स्ते॒ स्पृधः॑ श्नथयंत म॒न्यवे॑ वृ॒त्रं यदिं॑द्र॒ तूर्व॑सि ॥अनु ते शुष्मं तुरयन्तम् ईयतुः क्षोणी शिशुं न मातरा |
विश्वास् ते स्पृधः श्नथयन्त मन्यवे वृत्रं यद् इन्द्र तूर्वसि ||ánu te śúṣmam turáyantamīyatuḥ kṣoṇī́ śíśum ná mātárā ǀ
víśvāste spṛ́dhaḥ śnathayanta manyáve vṛtrám yádindra tū́rvasi ǁanu te śuṣmaṃ turayantam īyatuḥ kṣoṇī śiśuṃ na mātarā |
viśvās te spṛdhaḥ śnathayanta manyave vṛtraṃ yad indra tūrvasi ||अनु॑ । ते॒ । शुष्म॑म् । तु॒रय॑न्तम् । ई॒य॒तुः॒ । क्षो॒णी इति॑ । शिशु॑म् । न । मा॒तरा॑ ।
विश्वाः॑ । ते॒ । स्पृधः॑ । श्न॒थ॒य॒न्त॒ । म॒न्यवे॑ । वृ॒त्रम् । यत् । इ॒न्द्र॒ । तूर्व॑सि ॥अनु । ते । शुष्मम् । तुरयन्तम् । ईयतुः । क्षोणी इति । शिशुम् । न । मातरा ।
विश्वाः । ते । स्पृधः । श्नथयन्त । मन्यवे । वृत्रम् । यत् । इन्द्र । तूर्वसि ॥ánu ǀ te ǀ śúṣmam ǀ turáyantam ǀ īyatuḥ ǀ kṣoṇī́ íti ǀ śíśum ǀ ná ǀ mātárā ǀ
víśvāḥ ǀ te ǀ spṛ́dhaḥ ǀ śnathayanta ǀ manyáve ǀ vṛtrám ǀ yát ǀ indra ǀ tū́rvasi ǁanu ǀ te ǀ śuṣmam ǀ turayantam ǀ īyatuḥ ǀ kṣoṇī iti ǀ śiśum ǀ na ǀ mātarā ǀ
viśvāḥ ǀ te ǀ spṛdhaḥ ǀ śnathayanta ǀ manyave ǀ vṛtram ǀ yat ǀ indra ǀ tūrvasi ǁ8.99.6 Aṣṭaka 6.7.3.0
-
Ṛk 7
इ॒त ऊ॒ती वो॑ अ॒जरं॑ प्रहे॒तार॒मप्र॑हितं ।
आ॒शुं जेता॑रं॒ हेता॑रं र॒थीत॑म॒मतू॑र्तं तुग्र्या॒वृधं॑ ॥इत ऊती वो अजरम् प्रहेतारम् अप्रहितम् |
आशुं जेतारं हेतारं रथीतमम् अतूर्तं तुग्र्यावृधम् ||itá ūtī́ vo ajáram prahetā́ramáprahitam ǀ
āśúm jétāram hétāram rathī́tamamátūrtam tugryāvṛ́dham ǁita ūtī vo ajaram prahetāram aprahitam |
āśuṃ jetāraṃ hetāraṃ rathītamam atūrtaṃ tugryāvṛdham ||इ॒तः । ऊ॒ती । वः॒ । अ॒जर॑म् । प्र॒ऽहे॒तार॑म् । अप्र॑ऽहितम् ।
आ॒शुम् । जेता॑रम् । हेता॑रम् । र॒थिऽत॑मम् । अतू॑र्तम् । तु॒ग्र्य॒ऽवृध॑म् ॥इतः । ऊती । वः । अजरम् । प्रऽहेतारम् । अप्रऽहितम् ।
आशुम् । जेतारम् । हेतारम् । रथिऽतमम् । अतूर्तम् । तुग्र्यऽवृधम् ॥itáḥ ǀ ūtī́ ǀ vaḥ ǀ ajáram ǀ pra-hetā́ram ǀ ápra-hitam ǀ
āśúm ǀ jétāram ǀ hétāram ǀ rathí-tamam ǀ átūrtam ǀ tugrya-vṛ́dham ǁitaḥ ǀ ūtī ǀ vaḥ ǀ ajaram ǀ pra-hetāram ǀ apra-hitam ǀ
āśum ǀ jetāram ǀ hetāram ǀ rathi-tamam ǀ atūrtam ǀ tugrya-vṛdham ǁ8.99.7 Aṣṭaka 6.7.3.0
-
Ṛk 8
इ॒ष्क॒र्तार॒मनि॑ष्कृतं॒ सह॑स्कृतं श॒तमू॑तिं श॒तक्र॑तुं ।
स॒मा॒नमिंद्र॒मव॑से हवामहे॒ वस॑वानं वसू॒जुवं॑ ॥इष्कर्तारम् अनिष्कृतं सहस्कृतं शतमूतिं शतक्रतुम् |
समानम् इन्द्रम् अवसे हवामहे वसवानं वसूजुवम् ||iṣkartā́ramániṣkṛtam sáhaskṛtam śatámūtim śatákratum ǀ
samānámíndramávase havāmahe vásavānam vasūjúvam ǁiṣkartāram aniṣkṛtaṃ sahaskṛtaṃ śatamūtiṃ śatakratum |
samānam indram avase havāmahe vasavānaṃ vasūjuvam ||इ॒ष्क॒र्तार॑म् । अनिः॑ऽकृतम् । सहः॑ऽकृतम् । श॒तम्ऽऊ॑तिम् । श॒तऽक्र॑तुम् ।
स॒मा॒नम् । इन्द्र॑म् । अव॑से । ह॒वा॒म॒हे॒ । वस॑वानम् । व॒सु॒ऽजुव॑म् ॥इष्कर्तारम् । अनिःऽकृतम् । सहःऽकृतम् । शतम्ऽऊतिम् । शतऽक्रतुम् ।
समानम् । इन्द्रम् । अवसे । हवामहे । वसवानम् । वसुऽजुवम् ॥iṣkartā́ram ǀ ániḥ-kṛtam ǀ sáhaḥ-kṛtam ǀ śatám-ūtim ǀ śatá-kratum ǀ
samānám ǀ índram ǀ ávase ǀ havāmahe ǀ vásavānam ǀ vasu-júvam ǁiṣkartāram ǀ aniḥ-kṛtam ǀ sahaḥ-kṛtam ǀ śatam-ūtim ǀ śata-kratum ǀ
samānam ǀ indram ǀ avase ǀ havāmahe ǀ vasavānam ǀ vasu-juvam ǁ8.99.8 Aṣṭaka 6.7.3.0
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.