Ṛk 8.99.6
Saṃhitā
अनु॑ ते॒ शुष्मं॑ तु॒रयं॑तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा॑ ।
विश्वा॑स्ते॒ स्पृधः॑ श्नथयंत म॒न्यवे॑ वृ॒त्रं यदिं॑द्र॒ तूर्व॑सि ॥
अनु ते शुष्मं तुरयन्तम् ईयतुः क्षोणी शिशुं न मातरा |
विश्वास् ते स्पृधः श्नथयन्त मन्यवे वृत्रं यद् इन्द्र तूर्वसि ||
ánu te śúṣmam turáyantamīyatuḥ kṣoṇī́ śíśum ná mātárā ǀ
víśvāste spṛ́dhaḥ śnathayanta manyáve vṛtrám yádindra tū́rvasi ǁ
anu te śuṣmaṃ turayantam īyatuḥ kṣoṇī śiśuṃ na mātarā |
viśvās te spṛdhaḥ śnathayanta manyave vṛtraṃ yad indra tūrvasi ||
Padapāṭha
अनु॑ । ते॒ । शुष्म॑म् । तु॒रय॑न्तम् । ई॒य॒तुः॒ । क्षो॒णी इति॑ । शिशु॑म् । न । मा॒तरा॑ ।
विश्वाः॑ । ते॒ । स्पृधः॑ । श्न॒थ॒य॒न्त॒ । म॒न्यवे॑ । वृ॒त्रम् । यत् । इ॒न्द्र॒ । तूर्व॑सि ॥
अनु । ते । शुष्मम् । तुरयन्तम् । ईयतुः । क्षोणी इति । शिशुम् । न । मातरा ।
विश्वाः । ते । स्पृधः । श्नथयन्त । मन्यवे । वृत्रम् । यत् । इन्द्र । तूर्वसि ॥
ánu ǀ te ǀ śúṣmam ǀ turáyantam ǀ īyatuḥ ǀ kṣoṇī́ íti ǀ śíśum ǀ ná ǀ mātárā ǀ
víśvāḥ ǀ te ǀ spṛ́dhaḥ ǀ śnathayanta ǀ manyáve ǀ vṛtrám ǀ yát ǀ indra ǀ tū́rvasi ǁ
anu ǀ te ǀ śuṣmam ǀ turayantam ǀ īyatuḥ ǀ kṣoṇī iti ǀ śiśum ǀ na ǀ mātarā ǀ
viśvāḥ ǀ te ǀ spṛdhaḥ ǀ śnathayanta ǀ manyave ǀ vṛtram ǀ yat ǀ indra ǀ tūrvasi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.099.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.7.03.00
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nṛmedha Āṅgirasa
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.