Sūkta 65
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Pragātha Kāṇva
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles nicṛdgāyatrī (1, 2, 5, 6, 9, 11, 12); virāḍgāyatrī (7, 8, 10); gāyatrī (3, 4)
2nd set of styles gāyatrī
-
Ṛk 1
यदिं॑द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभिः॑ ।
आ या॑हि॒ तूय॑मा॒शुभिः॑ ॥यद् इन्द्र प्राग् अपाग् उदङ् न्यग् वा हूयसे नृभिः |
आ याहि तूयम् आशुभिः ||yádindra prā́gápāgúdaṅnyágvā hūyáse nṛ́bhiḥ ǀ
ā́ yāhi tū́yamāśúbhiḥ ǁyad indra prāg apāg udaṅ nyag vā hūyase nṛbhiḥ |
ā yāhi tūyam āśubhiḥ ||यत् । इ॒न्द्र॒ । प्राक् । अपा॑क् । उद॑क् । न्य॑क् । वा॒ । हू॒यसे॑ । नृऽभिः॑ ।
आ । या॒हि॒ । तूय॑म् । आ॒शुऽभिः॑ ॥यत् । इन्द्र । प्राक् । अपाक् । उदक् । न्यक् । वा । हूयसे । नृऽभिः ।
आ । याहि । तूयम् । आशुऽभिः ॥yát ǀ indra ǀ prā́k ǀ ápāk ǀ údak ǀ nyák ǀ vā ǀ hūyáse ǀ nṛ́-bhiḥ ǀ
ā́ ǀ yāhi ǀ tū́yam ǀ āśú-bhiḥ ǁyat ǀ indra ǀ prāk ǀ apāk ǀ udak ǀ nyak ǀ vā ǀ hūyase ǀ nṛ-bhiḥ ǀ
ā ǀ yāhi ǀ tūyam ǀ āśu-bhiḥ ǁ8.65.1 Aṣṭaka 6.4.46.1Anuvāka 8.7.75
-
Ṛk 2
यद्वा॑ प्र॒स्रव॑णे दि॒वो मा॒दया॑से॒ स्व॑र्णरे ।
यद्वा॑ समु॒द्रे अंध॑सः ॥यद् वा प्रस्रवणे दिवो मादयासे स्वर्णरे |
यद् वा समुद्रे अन्धसः ||yádvā prasrávaṇe divó mādáyāse svárṇare ǀ
yádvā samudré ándhasaḥ ǁyad vā prasravaṇe divo mādayāse svarṇare |
yad vā samudre andhasaḥ ||यत् । वा॒ । प्र॒ऽस्रव॑णे । दि॒वः । मा॒दया॑से । स्वः॑ऽनरे ।
यत् । वा॒ । स॒मु॒द्रे । अन्ध॑सः ॥यत् । वा । प्रऽस्रवणे । दिवः । मादयासे । स्वःऽनरे ।
यत् । वा । समुद्रे । अन्धसः ॥yát ǀ vā ǀ pra-srávaṇe ǀ diváḥ ǀ mādáyāse ǀ sváḥ-nare ǀ
yát ǀ vā ǀ samudré ǀ ándhasaḥ ǁyat ǀ vā ǀ pra-sravaṇe ǀ divaḥ ǀ mādayāse ǀ svaḥ-nare ǀ
yat ǀ vā ǀ samudre ǀ andhasaḥ ǁ8.65.2 Aṣṭaka 6.4.46.2Anuvāka 8.7.76
-
Ṛk 3
आ त्वा॑ गी॒र्भिर्म॒हामु॒रुं हु॒वे गामि॑व॒ भोज॑से ।
इंद्र॒ सोम॑स्य पी॒तये॑ ॥आ त्वा गीर्भिर् महाम् उरुं हुवे गाम् इव भोजसे |
इन्द्र सोमस्य पीतये ||ā́ tvā gīrbhírmahā́murúm huvé gā́miva bhójase ǀ
índra sómasya pītáye ǁā tvā gīrbhir mahām uruṃ huve gām iva bhojase |
indra somasya pītaye ||आ । त्वा॒ । गीः॒ऽभिः । म॒हाम् । उ॒रुम् । हु॒वे । गाम्ऽइ॑व । भोज॑से ।
इन्द्र॑ । सोम॑स्य । पी॒तये॑ ॥आ । त्वा । गीःऽभिः । महाम् । उरुम् । हुवे । गाम्ऽइव । भोजसे ।
इन्द्र । सोमस्य । पीतये ॥ā́ ǀ tvā ǀ gīḥ-bhíḥ ǀ mahā́m ǀ urúm ǀ huvé ǀ gā́m-iva ǀ bhójase ǀ
índra ǀ sómasya ǀ pītáye ǁā ǀ tvā ǀ gīḥ-bhiḥ ǀ mahām ǀ urum ǀ huve ǀ gām-iva ǀ bhojase ǀ
indra ǀ somasya ǀ pītaye ǁ8.65.3 Aṣṭaka 6.4.46.3Anuvāka 8.7.77
-
Ṛk 4
आ त॑ इंद्र महि॒मानं॒ हर॑यो देव ते॒ महः॑ ।
रथे॑ वहंतु॒ बिभ्र॑तः ॥आ त इन्द्र महिमानं हरयो देव ते महः |
रथे वहन्तु बिभ्रतः ||ā́ ta indra mahimā́nam hárayo deva te máhaḥ ǀ
ráthe vahantu bíbhrataḥ ǁā ta indra mahimānaṃ harayo deva te mahaḥ |
rathe vahantu bibhrataḥ ||आ । ते॒ । इ॒न्द्र॒ । म॒हि॒मान॑म् । हर॑यः । दे॒व॒ । ते॒ । महः॑ ।
रथे॑ । व॒ह॒न्तु॒ । बिभ्र॑तः ॥आ । ते । इन्द्र । महिमानम् । हरयः । देव । ते । महः ।
रथे । वहन्तु । बिभ्रतः ॥ā́ ǀ te ǀ indra ǀ mahimā́nam ǀ hárayaḥ ǀ deva ǀ te ǀ máhaḥ ǀ
ráthe ǀ vahantu ǀ bíbhrataḥ ǁā ǀ te ǀ indra ǀ mahimānam ǀ harayaḥ ǀ deva ǀ te ǀ mahaḥ ǀ
rathe ǀ vahantu ǀ bibhrataḥ ǁ8.65.4 Aṣṭaka 6.4.46.4Anuvāka 8.7.78
-
Ṛk 5
इंद्र॑ गृणी॒ष उ॑ स्तु॒षे म॒हाँ उ॒ग्र ई॑शान॒कृत् ।
एहि॑ नः सु॒तं पिब॑ ॥इन्द्र गृणीष उ स्तुषे महां उग्र ईशानकृत् |
एहि नः सुतम् पिब ||índra gṛṇīṣá u stuṣé mahā́m̐ ugrá īśānakṛ́t ǀ
éhi naḥ sutám píba ǁindra gṛṇīṣa u stuṣe mahāṃ ugra īśānakṛt |
ehi naḥ sutam piba ||इन्द्र॑ । गृ॒णी॒षे । ऊं॒ इति॑ । स्तु॒षे । म॒हान् । उ॒ग्रः । ई॒शा॒न॒ऽकृत् ।
आ । इ॒हि॒ । नः॒ । सु॒तम् । पिब॑ ॥इन्द्र । गृणीषे । ऊं इति । स्तुषे । महान् । उग्रः । ईशानऽकृत् ।
आ । इहि । नः । सुतम् । पिब ॥índra ǀ gṛṇīṣé ǀ ūṃ íti ǀ stuṣé ǀ mahā́n ǀ ugráḥ ǀ īśāna-kṛ́t ǀ
ā́ ǀ ihi ǀ naḥ ǀ sutám ǀ píba ǁindra ǀ gṛṇīṣe ǀ ūṃ iti ǀ stuṣe ǀ mahān ǀ ugraḥ ǀ īśāna-kṛt ǀ
ā ǀ ihi ǀ naḥ ǀ sutam ǀ piba ǁ8.65.5 Aṣṭaka 6.4.46.5Anuvāka 8.7.79
-
Ṛk 6
सु॒तावं॑तस्त्वा व॒यं प्रय॑स्वंतो हवामहे ।
इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥सुतावन्तस् त्वा वयम् प्रयस्वन्तो हवामहे |
इदं नो बर्हिर् आसदे ||sutā́vantastvā vayám práyasvanto havāmahe ǀ
idám no barhírāsáde ǁsutāvantas tvā vayam prayasvanto havāmahe |
idaṃ no barhir āsade ||सु॒तऽव॑न्तः । त्वा॒ । व॒यम् । प्रय॑स्वन्तः । ह॒वा॒म॒हे॒ ।
इ॒दम् । नः॒ । ब॒र्हिः । आ॒ऽसदे॑ ॥सुतऽवन्तः । त्वा । वयम् । प्रयस्वन्तः । हवामहे ।
इदम् । नः । बर्हिः । आऽसदे ॥sutá-vantaḥ ǀ tvā ǀ vayám ǀ práyasvantaḥ ǀ havāmahe ǀ
idám ǀ naḥ ǀ barhíḥ ǀ ā-sáde ǁsuta-vantaḥ ǀ tvā ǀ vayam ǀ prayasvantaḥ ǀ havāmahe ǀ
idam ǀ naḥ ǀ barhiḥ ǀ ā-sade ǁ8.65.6 Aṣṭaka 6.4.46.6Anuvāka 8.7.80
-
Ṛk 7
यच्चि॒द्धि शश्व॑ता॒मसींद्र॒ साधा॑रण॒स्त्वं ।
तं त्वा॑ व॒यं ह॑वामहे ॥यच् चिद् धि शश्वताम् असीन्द्र साधारणस् त्वम् |
तं त्वा वयं हवामहे ||yácciddhí śáśvatāmásī́ndra sā́dhāraṇastvám ǀ
tám tvā vayám havāmahe ǁyac cid dhi śaśvatām asīndra sādhāraṇas tvam |
taṃ tvā vayaṃ havāmahe ||यत् । चि॒त् । हि । शश्व॑ताम् । असि॑ । इन्द्र॑ । साधा॑रणः । त्वम् ।
तम् । त्वा॒ । व॒यम् । ह॒वा॒म॒हे॒ ॥यत् । चित् । हि । शश्वताम् । असि । इन्द्र । साधारणः । त्वम् ।
तम् । त्वा । वयम् । हवामहे ॥yát ǀ cit ǀ hí ǀ śáśvatām ǀ ási ǀ índra ǀ sā́dhāraṇaḥ ǀ tvám ǀ
tám ǀ tvā ǀ vayám ǀ havāmahe ǁyat ǀ cit ǀ hi ǀ śaśvatām ǀ asi ǀ indra ǀ sādhāraṇaḥ ǀ tvam ǀ
tam ǀ tvā ǀ vayam ǀ havāmahe ǁ8.65.7 Aṣṭaka 6.4.47.1Anuvāka 8.7.81
-
Ṛk 8
इ॒दं ते॑ सो॒म्यं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ ।
जु॒षा॒ण इं॑द्र॒ तत्पि॑ब ॥इदं ते सोम्यम् मध्व् अधुक्षन्न् अद्रिभिर् नरः |
जुषाण इन्द्र तत् पिब ||idám te somyám mádhvádhukṣannádribhirnáraḥ ǀ
juṣāṇá indra tátpiba ǁidaṃ te somyam madhv adhukṣann adribhir naraḥ |
juṣāṇa indra tat piba ||इ॒दम् । ते॒ । सो॒म्यम् । मधु॑ । अधु॑क्षन् । अद्रि॑ऽभिः । नरः॑ ।
जु॒षा॒णः । इ॒न्द्र॒ । तत् । पि॒ब॒ ॥इदम् । ते । सोम्यम् । मधु । अधुक्षन् । अद्रिऽभिः । नरः ।
जुषाणः । इन्द्र । तत् । पिब ॥idám ǀ te ǀ somyám ǀ mádhu ǀ ádhukṣan ǀ ádri-bhiḥ ǀ náraḥ ǀ
juṣāṇáḥ ǀ indra ǀ tát ǀ piba ǁidam ǀ te ǀ somyam ǀ madhu ǀ adhukṣan ǀ adri-bhiḥ ǀ naraḥ ǀ
juṣāṇaḥ ǀ indra ǀ tat ǀ piba ǁ8.65.8 Aṣṭaka 6.4.47.2Anuvāka 8.7.82
-
Ṛk 9
विश्वाँ॑ अ॒र्यो वि॑प॒श्चितोऽति॑ ख्य॒स्तूय॒मा ग॑हि ।
अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हत् ॥विश्वां अर्यो विपश्चितो ऽति ख्यस् तूयम् आ गहि |
अस्मे धेहि श्रवो बृहत् ||víśvām̐ aryó vipaścító’ti khyastū́yamā́ gahi ǀ
asmé dhehi śrávo bṛhát ǁviśvāṃ aryo vipaścito 'ti khyas tūyam ā gahi |
asme dhehi śravo bṛhat ||विश्वा॑न् । अ॒र्यः । वि॒पः॒ऽचितः॑ । अति॑ । ख्यः॒ । तूय॑म् । आ । ग॒हि॒ ।
अ॒स्मे इति॑ । धे॒हि॒ । श्रवः॑ । बृ॒हत् ॥विश्वान् । अर्यः । विपःऽचितः । अति । ख्यः । तूयम् । आ । गहि ।
अस्मे इति । धेहि । श्रवः । बृहत् ॥víśvān ǀ aryáḥ ǀ vipaḥ-cítaḥ ǀ áti ǀ khyaḥ ǀ tū́yam ǀ ā́ ǀ gahi ǀ
asmé íti ǀ dhehi ǀ śrávaḥ ǀ bṛhát ǁviśvān ǀ aryaḥ ǀ vipaḥ-citaḥ ǀ ati ǀ khyaḥ ǀ tūyam ǀ ā ǀ gahi ǀ
asme iti ǀ dhehi ǀ śravaḥ ǀ bṛhat ǁ8.65.9 Aṣṭaka 6.4.47.3Anuvāka 8.7.83
-
Ṛk 10
दा॒ता मे॒ पृष॑तीनां॒ राजा॑ हिरण्य॒वीनां॑ ।
मा दे॑वा म॒घवा॑ रिषत् ॥दाता मे पृषतीनां राजा हिरण्यवीनाम् |
मा देवा मघवा रिषत् ||dātā́ me pṛ́ṣatīnām rā́jā hiraṇyavī́nām ǀ
mā́ devā maghávā riṣat ǁdātā me pṛṣatīnāṃ rājā hiraṇyavīnām |
mā devā maghavā riṣat ||दा॒ता । मे॒ । पृष॑तीनाम् । राजा॑ । हि॒र॒ण्य॒ऽवीना॑म् ।
मा । दे॒वाः॒ । म॒घऽवा॑ । रि॒ष॒त् ॥दाता । मे । पृषतीनाम् । राजा । हिरण्यऽवीनाम् ।
मा । देवाः । मघऽवा । रिषत् ॥dātā́ ǀ me ǀ pṛ́ṣatīnām ǀ rā́jā ǀ hiraṇya-vī́nām ǀ
mā́ ǀ devāḥ ǀ maghá-vā ǀ riṣat ǁdātā ǀ me ǀ pṛṣatīnām ǀ rājā ǀ hiraṇya-vīnām ǀ
mā ǀ devāḥ ǀ magha-vā ǀ riṣat ǁ8.65.10 Aṣṭaka 6.4.47.4Anuvāka 8.7.84
-
Ṛk 11
स॒हस्रे॒ पृष॑तीना॒मधि॑ श्चं॒द्रं बृ॒हत्पृ॒थु ।
शु॒क्रं हिर॑ण्य॒मा द॑दे ॥सहस्रे पृषतीनाम् अधि श्चन्द्रम् बृहत् पृथु |
शुक्रं हिरण्यम् आ ददे ||sahásre pṛ́ṣatīnāmádhi ścandrám bṛhátpṛthú ǀ
śukrám híraṇyamā́ dade ǁsahasre pṛṣatīnām adhi ścandram bṛhat pṛthu |
śukraṃ hiraṇyam ā dade ||स॒हस्रे॑ । पृष॑तीनाम् । अधि॑ । च॒न्द्रम् । बृ॒हत् । पृ॒थु ।
शु॒क्रम् । हिर॑ण्यम् । आ । द॒दे॒ ॥सहस्रे । पृषतीनाम् । अधि । चन्द्रम् । बृहत् । पृथु ।
शुक्रम् । हिरण्यम् । आ । ददे ॥sahásre ǀ pṛ́ṣatīnām ǀ ádhi ǀ candrám ǀ bṛhát ǀ pṛthú ǀ
śukrám ǀ híraṇyam ǀ ā́ ǀ dade ǁsahasre ǀ pṛṣatīnām ǀ adhi ǀ candram ǀ bṛhat ǀ pṛthu ǀ
śukram ǀ hiraṇyam ǀ ā ǀ dade ǁ8.65.11 Aṣṭaka 6.4.47.5Anuvāka 8.7.85
-
Ṛk 12
नपा॑तो दु॒र्गह॑स्य मे स॒हस्रे॑ण सु॒राध॑सः ।
श्रवो॑ दे॒वेष्व॑क्रत ॥नपातो दुर्गहस्य मे सहस्रेण सुराधसः |
श्रवो देवेष्व् अक्रत ||nápāto durgáhasya me sahásreṇa surā́dhasaḥ ǀ
śrávo devéṣvakrata ǁnapāto durgahasya me sahasreṇa surādhasaḥ |
śravo deveṣv akrata ||नपा॑तः । दुः॒ऽगह॑स्य । मे॒ । स॒हस्रे॑ण । सु॒ऽराध॑सः ।
श्रवः॑ । दे॒वेषु॑ । अ॒क्र॒त॒ ॥नपातः । दुःऽगहस्य । मे । सहस्रेण । सुऽराधसः ।
श्रवः । देवेषु । अक्रत ॥nápātaḥ ǀ duḥ-gáhasya ǀ me ǀ sahásreṇa ǀ su-rā́dhasaḥ ǀ
śrávaḥ ǀ devéṣu ǀ akrata ǁnapātaḥ ǀ duḥ-gahasya ǀ me ǀ sahasreṇa ǀ su-rādhasaḥ ǀ
śravaḥ ǀ deveṣu ǀ akrata ǁ8.65.12 Aṣṭaka 6.4.47.6Anuvāka 8.7.86
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.