Sūkta 10
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Pragātha Kāṇva
- Chandas छन्दस्
- Bṛhatī, Madhyejyotis, Anuṣṭubh, Āstārapaṅkti, Satobṛhatī
Metres by ṛk
1st set of styles virāḍbṛhatī (1, 5); triṣṭup (2); ārcībṛhatī (3); bhurikbṛhatī (4); paṅktiḥ (6)
2nd set of styles bṛhatī (1, 5); madhyejyotis (2); anuṣṭubh (3); āstārapaṅkti (4); satobṛhatī (6)
-
Ṛk 1
यत्स्थो दी॒र्घप्र॑सद्मनि॒ यद्वा॒दो रो॑च॒ने दि॒वः ।
यद्वा॑ समु॒द्रे अध्याकृ॑ते गृ॒हेऽत॒ आ या॑तमश्विना ॥यत् स्थो दीर्घप्रसद्मनि यद् वादो रोचने दिवः |
यद् वा समुद्रे अध्य् आकृते गृहे ऽत आ यातम् अश्विना ||yátsthó dīrgháprasadmani yádvādó rocané diváḥ ǀ
yádvā samudré ádhyā́kṛte gṛhé’ta ā́ yātamaśvinā ǁyat stho dīrghaprasadmani yad vādo rocane divaḥ |
yad vā samudre adhy ākṛte gṛhe 'ta ā yātam aśvinā ||यत् । स्थः । दी॒र्घऽप्र॑सद्मनि । यत् । वा॒ । अ॒दः । रो॒च॒ने । दि॒वः ।
यत् । वा॒ । स॒मु॒द्रे । अधि॑ । आऽकृ॑ते । गृ॒हे । अतः॑ । आ । या॒त॒म् । अ॒श्वि॒ना॒ ॥यत् । स्थः । दीर्घऽप्रसद्मनि । यत् । वा । अदः । रोचने । दिवः ।
यत् । वा । समुद्रे । अधि । आऽकृते । गृहे । अतः । आ । यातम् । अश्विना ॥yát ǀ stháḥ ǀ dīrghá-prasadmani ǀ yát ǀ vā ǀ adáḥ ǀ rocané ǀ diváḥ ǀ
yát ǀ vā ǀ samudré ǀ ádhi ǀ ā́-kṛte ǀ gṛhé ǀ átaḥ ǀ ā́ ǀ yātam ǀ aśvinā ǁyat ǀ sthaḥ ǀ dīrgha-prasadmani ǀ yat ǀ vā ǀ adaḥ ǀ rocane ǀ divaḥ ǀ
yat ǀ vā ǀ samudre ǀ adhi ǀ ā-kṛte ǀ gṛhe ǀ ataḥ ǀ ā ǀ yātam ǀ aśvinā ǁ8.10.1 Aṣṭaka 5.8.34.1Anuvāka 8.2.129
-
Ṛk 2
यद्वा॑ य॒ज्ञं मन॑वे सम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑ बोधतं ।
बृह॒स्पतिं॒ विश्वां॑दे॒वाँ अ॒हं हु॑व॒ इंद्रा॒विष्णू॑ अ॒श्विना॑वाशु॒हेष॑सा ॥यद् वा यज्ञम् मनवे सम्मिमिक्षथुर् एवेत् काण्वस्य बोधतम् |
बृहस्पतिं विश्वान् देवां अहं हुव इन्द्राविष्णू अश्विनाव् आशुहेषसा ||yádvā yajñám mánave sammimikṣáthurevétkāṇvásya bodhatam ǀ
bṛ́haspátim víśvāndevā́m̐ ahám huva índrāvíṣṇū aśvínāvāśuhéṣasā ǁyad vā yajñam manave sammimikṣathur evet kāṇvasya bodhatam |
bṛhaspatiṃ viśvān devāṃ ahaṃ huva indrāviṣṇū aśvināv āśuheṣasā ||यत् । वा॒ । य॒ज्ञम् । मन॑वे । स॒म्ऽमि॒मि॒क्षथुः॑ । ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ।
बृह॒स्पति॑म् । विश्वा॑न् । दे॒वान् । अ॒हम् । हु॒वे॒ । इन्द्रा॒विष्णू॒ इति॑ । अ॒श्विनौ॑ । आ॒शु॒ऽहेष॑सा ॥यत् । वा । यज्ञम् । मनवे । सम्ऽमिमिक्षथुः । एव । इत् । काण्वस्य । बोधतम् ।
बृहस्पतिम् । विश्वान् । देवान् । अहम् । हुवे । इन्द्राविष्णू इति । अश्विनौ । आशुऽहेषसा ॥yát ǀ vā ǀ yajñám ǀ mánave ǀ sam-mimikṣáthuḥ ǀ evá ǀ ít ǀ kāṇvásya ǀ bodhatam ǀ
bṛ́haspátim ǀ víśvān ǀ devā́n ǀ ahám ǀ huve ǀ índrāvíṣṇū íti ǀ aśvínau ǀ āśu-héṣasā ǁyat ǀ vā ǀ yajñam ǀ manave ǀ sam-mimikṣathuḥ ǀ eva ǀ it ǀ kāṇvasya ǀ bodhatam ǀ
bṛhaspatim ǀ viśvān ǀ devān ǀ aham ǀ huve ǀ indrāviṣṇū iti ǀ aśvinau ǀ āśu-heṣasā ǁ8.10.2 Aṣṭaka 5.8.34.2Anuvāka 8.2.130
-
Ṛk 3
त्या न्व१॒॑श्विना॑ हुवे सु॒दंस॑सा गृ॒भे कृ॒ता ।
ययो॒रस्ति॒ प्र णः॑ स॒ख्यं दे॒वेष्वध्याप्यं॑ ॥त्या न्व् अश्विना हुवे सुदंससा गृभे कृता |
ययोर् अस्ति प्र णः सख्यं देवेष्व् अध्य् आप्यम् ||tyā́ nváśvínā huve sudáṃsasā gṛbhé kṛtā́ ǀ
yáyorásti prá ṇaḥ sakhyám devéṣvádhyā́pyam ǁtyā nv aśvinā huve sudaṃsasā gṛbhe kṛtā |
yayor asti pra ṇaḥ sakhyaṃ deveṣv adhy āpyam ||त्या । नु । अ॒श्विना॑ । हु॒वे॒ । सु॒ऽदंस॑सा । गृ॒भे । कृ॒ता ।
ययोः॑ । अस्ति॑ । प्र । नः॒ । स॒ख्यम् । दे॒वेषु॑ । अधि॑ । आप्य॑म् ॥त्या । नु । अश्विना । हुवे । सुऽदंससा । गृभे । कृता ।
ययोः । अस्ति । प्र । नः । सख्यम् । देवेषु । अधि । आप्यम् ॥tyā́ ǀ nú ǀ aśvínā ǀ huve ǀ su-dáṃsasā ǀ gṛbhé ǀ kṛtā́ ǀ
yáyoḥ ǀ ásti ǀ prá ǀ naḥ ǀ sakhyám ǀ devéṣu ǀ ádhi ǀ ā́pyam ǁtyā ǀ nu ǀ aśvinā ǀ huve ǀ su-daṃsasā ǀ gṛbhe ǀ kṛtā ǀ
yayoḥ ǀ asti ǀ pra ǀ naḥ ǀ sakhyam ǀ deveṣu ǀ adhi ǀ āpyam ǁ8.10.3 Aṣṭaka 5.8.34.3Anuvāka 8.2.131
-
Ṛk 4
ययो॒रधि॒ प्र य॒ज्ञा अ॑सू॒रे संति॑ सू॒रयः॑ ।
ता य॒ज्ञस्या॑ध्व॒रस्य॒ प्रचे॑तसा स्व॒धाभि॒र्या पिब॑तः सो॒म्यं मधु॑ ॥ययोर् अधि प्र यज्ञा असूरे सन्ति सूरयः |
ता यज्ञस्याध्वरस्य प्रचेतसा स्वधाभिर् या पिबतः सोम्यम् मधु ||yáyorádhi prá yajñā́ asūré sánti sūráyaḥ ǀ
tā́ yajñásyādhvarásya prácetasā svadhā́bhiryā́ píbataḥ somyám mádhu ǁyayor adhi pra yajñā asūre santi sūrayaḥ |
tā yajñasyādhvarasya pracetasā svadhābhir yā pibataḥ somyam madhu ||ययोः॑ । अधि॑ । प्र । य॒ज्ञाः । अ॒सू॒रे । सन्ति॑ । सू॒रयः॑ ।
ता । य॒ज्ञस्य॑ । अ॒ध्व॒रस्य॑ । प्रऽचे॑तसा । स्व॒धाभिः॑ । या । पिब॑तः । सो॒म्यम् । मधु॑ ॥ययोः । अधि । प्र । यज्ञाः । असूरे । सन्ति । सूरयः ।
ता । यज्ञस्य । अध्वरस्य । प्रऽचेतसा । स्वधाभिः । या । पिबतः । सोम्यम् । मधु ॥yáyoḥ ǀ ádhi ǀ prá ǀ yajñā́ḥ ǀ asūré ǀ sánti ǀ sūráyaḥ ǀ
tā́ ǀ yajñásya ǀ adhvarásya ǀ prá-cetasā ǀ svadhā́bhiḥ ǀ yā́ ǀ píbataḥ ǀ somyám ǀ mádhu ǁyayoḥ ǀ adhi ǀ pra ǀ yajñāḥ ǀ asūre ǀ santi ǀ sūrayaḥ ǀ
tā ǀ yajñasya ǀ adhvarasya ǀ pra-cetasā ǀ svadhābhiḥ ǀ yā ǀ pibataḥ ǀ somyam ǀ madhu ǁ8.10.4 Aṣṭaka 5.8.34.4Anuvāka 8.2.132
-
Ṛk 5
यद॒द्याश्वि॑ना॒वपा॒ग्यत्प्राक्स्थो वा॑जिनीवसू ।
यद्द्रु॒ह्यव्यन॑वि तु॒र्वशे॒ यदौ॑ हु॒वे वा॒मथ॒ मा ग॑तं ॥यद् अद्याश्विनाव् अपाग् यत् प्राक् स्थो वाजिनीवसू |
यद् द्रुह्यव्य् अनवि तुर्वशे यदौ हुवे वाम् अथ मा गतम् ||yádadyā́śvināvápāgyátprā́ksthó vājinīvasū ǀ
yáddruhyávyánavi turváśe yádau huvé vāmátha mā́ gatam ǁyad adyāśvināv apāg yat prāk stho vājinīvasū |
yad druhyavy anavi turvaśe yadau huve vām atha mā gatam ||यत् । अ॒द्य । अ॒श्वि॒नौ॒ । अपा॑क् । यत् । प्राक् । स्थः । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।
यत् । द्रु॒ह्यवि॑ । अन॑वि । तु॒र्वशे॑ । यदौ॑ । हु॒वे । वा॒म् । अथ॑ । मा॒ । आ । ग॒त॒म् ॥यत् । अद्य । अश्विनौ । अपाक् । यत् । प्राक् । स्थः । वाजिनीवसू इति वाजिनीऽवसू ।
यत् । द्रुह्यवि । अनवि । तुर्वशे । यदौ । हुवे । वाम् । अथ । मा । आ । गतम् ॥yát ǀ adyá ǀ aśvinau ǀ ápāk ǀ yát ǀ prā́k ǀ stháḥ ǀ vājinīvasū íti vājinī-vasū ǀ
yát ǀ druhyávi ǀ ánavi ǀ turváśe ǀ yádau ǀ huvé ǀ vām ǀ átha ǀ mā ǀ ā́ ǀ gatam ǁyat ǀ adya ǀ aśvinau ǀ apāk ǀ yat ǀ prāk ǀ sthaḥ ǀ vājinīvasū iti vājinī-vasū ǀ
yat ǀ druhyavi ǀ anavi ǀ turvaśe ǀ yadau ǀ huve ǀ vām ǀ atha ǀ mā ǀ ā ǀ gatam ǁ8.10.5 Aṣṭaka 5.8.34.5Anuvāka 8.2.133
-
Ṛk 6
यदं॒तरि॑क्षे॒ पत॑थः पुरुभुजा॒ यद्वे॒मे रोद॑सी॒ अनु॑ ।
यद्वा॑ स्व॒धाभि॑रधि॒तिष्ठ॑थो॒ रथ॒मत॒ आ या॑तमश्विना ॥यद् अन्तरिक्षे पतथः पुरुभुजा यद् वेमे रोदसी अनु |
यद् वा स्वधाभिर् अधितिष्ठथो रथम् अत आ यातम् अश्विना ||yádantárikṣe pátathaḥ purubhujā yádvemé ródasī ánu ǀ
yádvā svadhā́bhiradhitíṣṭhatho ráthamáta ā́ yātamaśvinā ǁyad antarikṣe patathaḥ purubhujā yad veme rodasī anu |
yad vā svadhābhir adhitiṣṭhatho ratham ata ā yātam aśvinā ||यत् । अ॒न्तरि॑क्षे । पत॑थः । पु॒रु॒ऽभु॒जा॒ । यत् । वा॒ । इ॒मे इति॑ । रोद॑सी॒ इति॑ । अनु॑ ।
यत् । वा॒ । स्व॒धाभिः॑ । अ॒धि॒ऽतिष्ठ॑थः । रथ॑म् । अतः॑ । आ । या॒त॒म् । अ॒श्वि॒ना॒ ॥यत् । अन्तरिक्षे । पतथः । पुरुऽभुजा । यत् । वा । इमे इति । रोदसी इति । अनु ।
यत् । वा । स्वधाभिः । अधिऽतिष्ठथः । रथम् । अतः । आ । यातम् । अश्विना ॥yát ǀ antárikṣe ǀ pátathaḥ ǀ puru-bhujā ǀ yát ǀ vā ǀ imé íti ǀ ródasī íti ǀ ánu ǀ
yát ǀ vā ǀ svadhā́bhiḥ ǀ adhi-tíṣṭhathaḥ ǀ rátham ǀ átaḥ ǀ ā́ ǀ yātam ǀ aśvinā ǁyat ǀ antarikṣe ǀ patathaḥ ǀ puru-bhujā ǀ yat ǀ vā ǀ ime iti ǀ rodasī iti ǀ anu ǀ
yat ǀ vā ǀ svadhābhiḥ ǀ adhi-tiṣṭhathaḥ ǀ ratham ǀ ataḥ ǀ ā ǀ yātam ǀ aśvinā ǁ8.10.6 Aṣṭaka 5.8.34.6Anuvāka 8.2.134
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.