Ṛk 8.10.2
Saṃhitā
यद्वा॑ य॒ज्ञं मन॑वे सम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑ बोधतं ।
बृह॒स्पतिं॒ विश्वां॑दे॒वाँ अ॒हं हु॑व॒ इंद्रा॒विष्णू॑ अ॒श्विना॑वाशु॒हेष॑सा ॥
यद् वा यज्ञम् मनवे सम्मिमिक्षथुर् एवेत् काण्वस्य बोधतम् |
बृहस्पतिं विश्वान् देवां अहं हुव इन्द्राविष्णू अश्विनाव् आशुहेषसा ||
yádvā yajñám mánave sammimikṣáthurevétkāṇvásya bodhatam ǀ
bṛ́haspátim víśvāndevā́m̐ ahám huva índrāvíṣṇū aśvínāvāśuhéṣasā ǁ
yad vā yajñam manave sammimikṣathur evet kāṇvasya bodhatam |
bṛhaspatiṃ viśvān devāṃ ahaṃ huva indrāviṣṇū aśvināv āśuheṣasā ||
Padapāṭha
यत् । वा॒ । य॒ज्ञम् । मन॑वे । स॒म्ऽमि॒मि॒क्षथुः॑ । ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् ।
बृह॒स्पति॑म् । विश्वा॑न् । दे॒वान् । अ॒हम् । हु॒वे॒ । इन्द्रा॒विष्णू॒ इति॑ । अ॒श्विनौ॑ । आ॒शु॒ऽहेष॑सा ॥
यत् । वा । यज्ञम् । मनवे । सम्ऽमिमिक्षथुः । एव । इत् । काण्वस्य । बोधतम् ।
बृहस्पतिम् । विश्वान् । देवान् । अहम् । हुवे । इन्द्राविष्णू इति । अश्विनौ । आशुऽहेषसा ॥
yát ǀ vā ǀ yajñám ǀ mánave ǀ sam-mimikṣáthuḥ ǀ evá ǀ ít ǀ kāṇvásya ǀ bodhatam ǀ
bṛ́haspátim ǀ víśvān ǀ devā́n ǀ ahám ǀ huve ǀ índrāvíṣṇū íti ǀ aśvínau ǀ āśu-héṣasā ǁ
yat ǀ vā ǀ yajñam ǀ manave ǀ sam-mimikṣathuḥ ǀ eva ǀ it ǀ kāṇvasya ǀ bodhatam ǀ
bṛhaspatim ǀ viśvān ǀ devān ǀ aham ǀ huve ǀ indrāviṣṇū iti ǀ aśvinau ǀ āśu-heṣasā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.010.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.8.34.02
- Maṇḍala · Anuvāka · Ṛk
- 08.02.130
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Pragātha Kāṇva
- Chandas छन्दस्
- Bṛhatī, Madhyejyotis, Anuṣṭubh, Āstārapaṅkti, Satobṛhatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.