Sūkta 70
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Puruhanman Āṅgirasa
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Uṣṇih, Anuṣṭubh, Pura-Uṣṇih
Metres by ṛk
1st set of styles nicṛtpaṅkti (2, 6); virāḍbṛhatī (5, 7); ārcīsvarāḍbṛhatī (8, 10); bṛhatī (9, 11); pādnicṛdbṛhatī (1); nicṛdbṛhatī (3); paṅktiḥ (4); ārcībṛhatī (12); uṣṇik (13); bhuriganuṣṭup (14); nicṛduṣṇik (15)
2nd set of styles bṛhatī (1, 3, 5, 7-12); satobṛhatī (2, 4, 6); uṣṇih (13); anuṣṭubh (14); pura-uṣṇih (15)
-
Ṛk 1
यो राजा॑ चर्षणी॒नां याता॒ रथे॑भि॒रध्रि॑गुः ।
विश्वा॑सां तरु॒ता पृत॑नानां॒ ज्येष्ठो॒ यो वृ॑त्र॒हा गृ॒णे ॥यो राजा चर्षणीनां याता रथेभिर् अध्रिगुः |
विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ||yó rā́jā carṣaṇīnā́m yā́tā ráthebhirádhriguḥ ǀ
víśvāsām tarutā́ pṛ́tanānām jyéṣṭho yó vṛtrahā́ gṛṇé ǁyo rājā carṣaṇīnāṃ yātā rathebhir adhriguḥ |
viśvāsāṃ tarutā pṛtanānāṃ jyeṣṭho yo vṛtrahā gṛṇe ||यः । राजा॑ । च॒र्ष॒णी॒नाम् । याता॑ । रथे॑भिः । अध्रि॑ऽगुः ।
विश्वा॑साम् । त॒रु॒ता । पृत॑नानाम् । ज्येष्ठः॑ । यः । वृ॒त्र॒ऽहा । गृ॒णे ॥यः । राजा । चर्षणीनाम् । याता । रथेभिः । अध्रिऽगुः ।
विश्वासाम् । तरुता । पृतनानाम् । ज्येष्ठः । यः । वृत्रऽहा । गृणे ॥yáḥ ǀ rā́jā ǀ carṣaṇīnā́m ǀ yā́tā ǀ ráthebhiḥ ǀ ádhri-guḥ ǀ
víśvāsām ǀ tarutā́ ǀ pṛ́tanānām ǀ jyéṣṭhaḥ ǀ yáḥ ǀ vṛtra-hā́ ǀ gṛṇé ǁyaḥ ǀ rājā ǀ carṣaṇīnām ǀ yātā ǀ rathebhiḥ ǀ adhri-guḥ ǀ
viśvāsām ǀ tarutā ǀ pṛtanānām ǀ jyeṣṭhaḥ ǀ yaḥ ǀ vṛtra-hā ǀ gṛṇe ǁ8.70.1 Aṣṭaka 6.5.8.1Anuvāka 8.8.1
-
Ṛk 2
इंद्रं॒ तं शुं॑भ पुरुहन्म॒न्नव॑से॒ यस्य॑ द्वि॒ता वि॑ध॒र्तरि॑ ।
हस्ता॑य॒ वज्रः॒ प्रति॑ धायि दर्श॒तो म॒हो दि॒वे न सूर्यः॑ ॥इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि |
हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ||índram tám śumbha puruhanmannávase yásya dvitā́ vidhartári ǀ
hástāya vájraḥ práti dhāyi darśató mahó divé ná sū́ryaḥ ǁindraṃ taṃ śumbha puruhanmann avase yasya dvitā vidhartari |
hastāya vajraḥ prati dhāyi darśato maho dive na sūryaḥ ||इन्द्र॑म् । तम् । शु॒म्भ॒ । पु॒रु॒ऽह॒न्म॒न् । अव॑से । यस्य॑ । द्वि॒ता । वि॒ऽध॒र्तरि॑ ।
हस्ता॑य । वज्रः॑ । प्रति॑ । धा॒यि॒ । द॒र्श॒तः । म॒हः । दि॒वे । न । सूर्यः॑ ॥इन्द्रम् । तम् । शुम्भ । पुरुऽहन्मन् । अवसे । यस्य । द्विता । विऽधर्तरि ।
हस्ताय । वज्रः । प्रति । धायि । दर्शतः । महः । दिवे । न । सूर्यः ॥índram ǀ tám ǀ śumbha ǀ puru-hanman ǀ ávase ǀ yásya ǀ dvitā́ ǀ vi-dhartári ǀ
hástāya ǀ vájraḥ ǀ práti ǀ dhāyi ǀ darśatáḥ ǀ maháḥ ǀ divé ǀ ná ǀ sū́ryaḥ ǁindram ǀ tam ǀ śumbha ǀ puru-hanman ǀ avase ǀ yasya ǀ dvitā ǀ vi-dhartari ǀ
hastāya ǀ vajraḥ ǀ prati ǀ dhāyi ǀ darśataḥ ǀ mahaḥ ǀ dive ǀ na ǀ sūryaḥ ǁ8.70.2 Aṣṭaka 6.5.8.2Anuvāka 8.8.2
-
Ṛk 3
नकि॒ष्टं कर्म॑णा नश॒द्यश्च॒कार॑ स॒दावृ॑धं ।
इंद्रं॒ न य॒ज्ञैर्वि॒श्वगू॑र्त॒मृभ्व॑स॒मधृ॑ष्टं धृ॒ष्ण्वो॑जसं ॥नकिष् टं कर्मणा नशद् यश् चकार सदावृधम् |
इन्द्रं न यज्ञैर् विश्वगूर्तम् ऋभ्वसम् अधृष्टं धृष्ण्वोजसम् ||nákiṣṭám kármaṇā naśadyáścakā́ra sadā́vṛdham ǀ
índram ná yajñáirviśvágūrtamṛ́bhvasamádhṛṣṭam dhṛṣṇvójasam ǁnakiṣ ṭaṃ karmaṇā naśad yaś cakāra sadāvṛdham |
indraṃ na yajñair viśvagūrtam ṛbhvasam adhṛṣṭaṃ dhṛṣṇvojasam ||नकिः॑ । तम् । कर्म॑णा । न॒श॒त् । यः । च॒कार॑ । स॒दाऽवृ॑धम् ।
इन्द्र॑म् । न । य॒ज्ञैः । वि॒श्वऽगू॑र्तम् । ऋभ्व॑सम् । अधृ॑ष्टम् । धृ॒ष्णुऽओ॑जसम् ॥नकिः । तम् । कर्मणा । नशत् । यः । चकार । सदाऽवृधम् ।
इन्द्रम् । न । यज्ञैः । विश्वऽगूर्तम् । ऋभ्वसम् । अधृष्टम् । धृष्णुऽओजसम् ॥nákiḥ ǀ tám ǀ kármaṇā ǀ naśat ǀ yáḥ ǀ cakā́ra ǀ sadā́-vṛdham ǀ
índram ǀ ná ǀ yajñáiḥ ǀ viśvá-gūrtam ǀ ṛ́bhvasam ǀ ádhṛṣṭam ǀ dhṛṣṇú-ojasam ǁnakiḥ ǀ tam ǀ karmaṇā ǀ naśat ǀ yaḥ ǀ cakāra ǀ sadā-vṛdham ǀ
indram ǀ na ǀ yajñaiḥ ǀ viśva-gūrtam ǀ ṛbhvasam ǀ adhṛṣṭam ǀ dhṛṣṇu-ojasam ǁ8.70.3 Aṣṭaka 6.5.8.3Anuvāka 8.8.3
-
Ṛk 4
अषा॑ळ्हमु॒ग्रं पृत॑नासु सास॒हिं यस्मि॑न्म॒हीरु॑रु॒ज्रयः॑ ।
सं धे॒नवो॒ जाय॑माने अनोनवु॒र्द्यावः॒ क्षामो॑ अनोनवुः ॥अषाऌहम् उग्रम् पृतनासु सासहिं यस्मिन् महीर् उरुज्रयः |
सं धेनवो जायमाने अनोनवुर् द्यावः क्षामो अनोनवुः ||áṣāḷhamugrám pṛ́tanāsu sāsahím yásminmahī́rurujráyaḥ ǀ
sám dhenávo jā́yamāne anonavurdyā́vaḥ kṣā́mo anonavuḥ ǁaṣāḷham ugram pṛtanāsu sāsahiṃ yasmin mahīr urujrayaḥ |
saṃ dhenavo jāyamāne anonavur dyāvaḥ kṣāmo anonavuḥ ||अषा॑ळ्हम् । उ॒ग्रम् । पृत॑नासु । स॒स॒हिम् । यस्मि॑न् । म॒हीः । उ॒रु॒ऽज्रयः॑ ।
सम् । धे॒नवः॑ । जाय॑माने । अ॒नो॒न॒वुः॒ । द्यावः॑ । क्षामः॑ । अ॒नो॒न॒वुः॒ ॥अषाळ्हम् । उग्रम् । पृतनासु । ससहिम् । यस्मिन् । महीः । उरुऽज्रयः ।
सम् । धेनवः । जायमाने । अनोनवुः । द्यावः । क्षामः । अनोनवुः ॥áṣāḷham ǀ ugrám ǀ pṛ́tanāsu ǀ sasahím ǀ yásmin ǀ mahī́ḥ ǀ uru-jráyaḥ ǀ
sám ǀ dhenávaḥ ǀ jā́yamāne ǀ anonavuḥ ǀ dyā́vaḥ ǀ kṣā́maḥ ǀ anonavuḥ ǁaṣāḷham ǀ ugram ǀ pṛtanāsu ǀ sasahim ǀ yasmin ǀ mahīḥ ǀ uru-jrayaḥ ǀ
sam ǀ dhenavaḥ ǀ jāyamāne ǀ anonavuḥ ǀ dyāvaḥ ǀ kṣāmaḥ ǀ anonavuḥ ǁ8.70.4 Aṣṭaka 6.5.8.4Anuvāka 8.8.4
-
Ṛk 5
यद्द्याव॑ इंद्र ते श॒तं श॒तं भूमी॑रु॒त स्युः ।
न त्वा॑ वज्रिन्त्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥यद् द्याव इन्द्र ते शतं शतम् भूमीर् उत स्युः |
न त्वा वज्रिन् सहस्रं सूर्या अनु न जातम् अष्ट रोदसी ||yáddyā́va indra te śatám śatám bhū́mīrutá syúḥ ǀ
ná tvā vajrintsahásram sū́ryā ánu ná jātámaṣṭa ródasī ǁyad dyāva indra te śataṃ śatam bhūmīr uta syuḥ |
na tvā vajrin sahasraṃ sūryā anu na jātam aṣṭa rodasī ||यत् । द्यावः॑ । इ॒न्द्र॒ । ते॒ । श॒तम् । श॒तम् । भूमीः॑ । उ॒त । स्युरिति॒ स्युः ।
न । त्वा॒ । व॒ज्रि॒न् । स॒हस्र॑म् । सूर्याः॑ । अनु॑ । न । जा॒तम् । अ॒ष्ट॒ । रोद॑सी॒ इति॑ ॥यत् । द्यावः । इन्द्र । ते । शतम् । शतम् । भूमीः । उत । स्युरिति स्युः ।
न । त्वा । वज्रिन् । सहस्रम् । सूर्याः । अनु । न । जातम् । अष्ट । रोदसी इति ॥yát ǀ dyā́vaḥ ǀ indra ǀ te ǀ śatám ǀ śatám ǀ bhū́mīḥ ǀ utá ǀ syúríti syúḥ ǀ
ná ǀ tvā ǀ vajrin ǀ sahásram ǀ sū́ryāḥ ǀ ánu ǀ ná ǀ jātám ǀ aṣṭa ǀ ródasī íti ǁyat ǀ dyāvaḥ ǀ indra ǀ te ǀ śatam ǀ śatam ǀ bhūmīḥ ǀ uta ǀ syuriti syuḥ ǀ
na ǀ tvā ǀ vajrin ǀ sahasram ǀ sūryāḥ ǀ anu ǀ na ǀ jātam ǀ aṣṭa ǀ rodasī iti ǁ8.70.5 Aṣṭaka 6.5.8.5Anuvāka 8.8.5
-
Ṛk 6
आ प॑प्राथ महि॒ना वृष्ण्या॑ वृष॒न्विश्वा॑ शविष्ठ॒ शव॑सा ।
अ॒स्माँ अ॑व मघव॒न्गोम॑ति व्र॒जे वज्रिं॑चि॒त्राभि॑रू॒तिभिः॑ ॥आ पप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसा |
अस्मां अव मघवन् गोमति व्रजे वज्रिञ् चित्राभिर् ऊतिभिः ||ā́ paprātha mahinā́ vṛ́ṣṇyā vṛṣanvíśvā śaviṣṭha śávasā ǀ
asmā́m̐ ava maghavangómati vrajé vájriñcitrā́bhirūtíbhiḥ ǁā paprātha mahinā vṛṣṇyā vṛṣan viśvā śaviṣṭha śavasā |
asmāṃ ava maghavan gomati vraje vajriñ citrābhir ūtibhiḥ ||आ । प॒प्रा॒थ॒ । म॒हि॒ना । वृष्ण्या॑ । वृ॒ष॒न् । विश्वा॑ । श॒वि॒ष्ठ॒ । शव॑सा ।
अ॒स्मान् । अ॒व॒ । म॒घ॒ऽव॒न् । गोऽम॑ति । व्र॒जे । वज्रि॑न् । चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ ॥आ । पप्राथ । महिना । वृष्ण्या । वृषन् । विश्वा । शविष्ठ । शवसा ।
अस्मान् । अव । मघऽवन् । गोऽमति । व्रजे । वज्रिन् । चित्राभिः । ऊतिऽभिः ॥ā́ ǀ paprātha ǀ mahinā́ ǀ vṛ́ṣṇyā ǀ vṛṣan ǀ víśvā ǀ śaviṣṭha ǀ śávasā ǀ
asmā́n ǀ ava ǀ magha-van ǀ gó-mati ǀ vrajé ǀ vájrin ǀ citrā́bhiḥ ǀ ūtí-bhiḥ ǁā ǀ paprātha ǀ mahinā ǀ vṛṣṇyā ǀ vṛṣan ǀ viśvā ǀ śaviṣṭha ǀ śavasā ǀ
asmān ǀ ava ǀ magha-van ǀ go-mati ǀ vraje ǀ vajrin ǀ citrābhiḥ ǀ ūti-bhiḥ ǁ8.70.6 Aṣṭaka 6.5.9.1Anuvāka 8.8.6
-
Ṛk 7
न सी॒मदे॑व आप॒दिषं॑ दीर्घायो॒ मर्त्यः॑ ।
एत॑ग्वा चि॒द्य एत॑शा यु॒योज॑ते॒ हरी॒ इंद्रो॑ यु॒योज॑ते ॥न सीम् अदेव आपद् इषं दीर्घायो मर्त्यः |
एतग्वा चिद् य एतशा युयोजते हरी इन्द्रो युयोजते ||ná sīmádeva āpadíṣam dīrghāyo mártyaḥ ǀ
étagvā cidyá étaśā yuyójate hárī índro yuyójate ǁna sīm adeva āpad iṣaṃ dīrghāyo martyaḥ |
etagvā cid ya etaśā yuyojate harī indro yuyojate ||न । सी॒म् । अदे॑वः । आ॒प॒त् । इष॑म् । दी॒र्घा॒यो॒ इति॑ दीर्घऽआयो । मर्त्यः॑ ।
एत॑ऽग्वा । चि॒त् । यः । एत॑शा । यु॒योज॑ते । हरी॒ इति॑ । इन्द्रः॑ । यु॒योज॑ते ॥न । सीम् । अदेवः । आपत् । इषम् । दीर्घायो इति दीर्घऽआयो । मर्त्यः ।
एतऽग्वा । चित् । यः । एतशा । युयोजते । हरी इति । इन्द्रः । युयोजते ॥ná ǀ sīm ǀ ádevaḥ ǀ āpat ǀ íṣam ǀ dīrghāyo íti dīrgha-āyo ǀ mártyaḥ ǀ
éta-gvā ǀ cit ǀ yáḥ ǀ étaśā ǀ yuyójate ǀ hárī íti ǀ índraḥ ǀ yuyójate ǁna ǀ sīm ǀ adevaḥ ǀ āpat ǀ iṣam ǀ dīrghāyo iti dīrgha-āyo ǀ martyaḥ ǀ
eta-gvā ǀ cit ǀ yaḥ ǀ etaśā ǀ yuyojate ǀ harī iti ǀ indraḥ ǀ yuyojate ǁ8.70.7 Aṣṭaka 6.5.9.2Anuvāka 8.8.7
-
Ṛk 8
तं वो॑ म॒हो म॒हाय्य॒मिंद्रं॑ दा॒नाय॑ स॒क्षणिं॑ ।
यो गा॒धेषु॒ य आर॑णेषु॒ हव्यो॒ वाजे॒ष्वस्ति॒ हव्यः॑ ॥तं वो महो महाय्यम् इन्द्रं दानाय सक्षणिम् |
यो गाधेषु य आरणेषु हव्यो वाजेष्व् अस्ति हव्यः ||tám vo mahó mahā́yyamíndram dānā́ya sakṣáṇim ǀ
yó gādhéṣu yá ā́raṇeṣu hávyo vā́jeṣvásti hávyaḥ ǁtaṃ vo maho mahāyyam indraṃ dānāya sakṣaṇim |
yo gādheṣu ya āraṇeṣu havyo vājeṣv asti havyaḥ ||तम् । वः॒ । म॒हः । म॒हाय्य॑म् । इन्द्र॑म् । दा॒नाय॑ । स॒क्षणि॑म् ।
यः । गा॒धेषु॑ । यः । आ॒ऽअर॑णेषु । हव्यः॑ । वाजे॑षु । अस्ति॑ । हव्यः॑ ॥तम् । वः । महः । महाय्यम् । इन्द्रम् । दानाय । सक्षणिम् ।
यः । गाधेषु । यः । आऽअरणेषु । हव्यः । वाजेषु । अस्ति । हव्यः ॥tám ǀ vaḥ ǀ maháḥ ǀ mahā́yyam ǀ índram ǀ dānā́ya ǀ sakṣáṇim ǀ
yáḥ ǀ gādhéṣu ǀ yáḥ ǀ ā-áraṇeṣu ǀ hávyaḥ ǀ vā́jeṣu ǀ ásti ǀ hávyaḥ ǁtam ǀ vaḥ ǀ mahaḥ ǀ mahāyyam ǀ indram ǀ dānāya ǀ sakṣaṇim ǀ
yaḥ ǀ gādheṣu ǀ yaḥ ǀ ā-araṇeṣu ǀ havyaḥ ǀ vājeṣu ǀ asti ǀ havyaḥ ǁ8.70.8 Aṣṭaka 6.5.9.3Anuvāka 8.8.8
-
Ṛk 9
उदू॒ षु णो॑ वसो म॒हे मृ॒शस्व॑ शूर॒ राध॑से ।
उदू॒ षु म॒ह्यै म॑घवन्म॒घत्त॑य॒ उदिं॑द्र॒ श्रव॑से म॒हे ॥उद् ऊ षु णो वसो महे मृशस्व शूर राधसे |
उद् ऊ षु मह्यै मघवन् मघत्तय उद् इन्द्र श्रवसे महे ||údū ṣú ṇo vaso mahé mṛśásva śūra rā́dhase ǀ
údū ṣú mahyái maghavanmagháttaya údindra śrávase mahé ǁud ū ṣu ṇo vaso mahe mṛśasva śūra rādhase |
ud ū ṣu mahyai maghavan maghattaya ud indra śravase mahe ||उत् । ऊं॒ इति॑ । सु । नः॒ । व॒सो॒ इति॑ । म॒हे । मृ॒शस्व॑ । शू॒र॒ । राध॑से ।
उत् । ऊं॒ इति॑ । सु । म॒ह्यै । म॒घ॒ऽव॒न् । म॒घत्त॑ये । उत् । इ॒न्द्र॒ । श्रव॑से । म॒हे ॥उत् । ऊं इति । सु । नः । वसो इति । महे । मृशस्व । शूर । राधसे ।
उत् । ऊं इति । सु । मह्यै । मघऽवन् । मघत्तये । उत् । इन्द्र । श्रवसे । महे ॥út ǀ ūṃ íti ǀ sú ǀ naḥ ǀ vaso íti ǀ mahé ǀ mṛśásva ǀ śūra ǀ rā́dhase ǀ
út ǀ ūṃ íti ǀ sú ǀ mahyái ǀ magha-van ǀ magháttaye ǀ út ǀ indra ǀ śrávase ǀ mahé ǁut ǀ ūṃ iti ǀ su ǀ naḥ ǀ vaso iti ǀ mahe ǀ mṛśasva ǀ śūra ǀ rādhase ǀ
ut ǀ ūṃ iti ǀ su ǀ mahyai ǀ magha-van ǀ maghattaye ǀ ut ǀ indra ǀ śravase ǀ mahe ǁ8.70.9 Aṣṭaka 6.5.9.4Anuvāka 8.8.9
-
Ṛk 10
त्वं न॑ इंद्र ऋत॒युस्त्वा॒निदो॒ नि तृं॑पसि ।
मध्ये॑ वसिष्व तुविनृम्णो॒र्वोर्नि दा॒सं शि॑श्नथो॒ हथैः॑ ॥त्वं न इन्द्र ऋतयुस् त्वानिदो नि तृम्पसि |
मध्ये वसिष्व तुविनृम्णोर्वोर् नि दासं शिश्नथो हथैः ||tvám na indra ṛtayústvānído ní tṛmpasi ǀ
mádhye vasiṣva tuvinṛmṇorvórní dāsám śiśnatho háthaiḥ ǁtvaṃ na indra ṛtayus tvānido ni tṛmpasi |
madhye vasiṣva tuvinṛmṇorvor ni dāsaṃ śiśnatho hathaiḥ ||त्वम् । नः॒ । इ॒न्द्र॒ । ऋ॒त॒ऽयुः । त्वा॒ऽनिदः॑ । नि । तृ॒म्प॒सि॒ ।
मध्ये॑ । व॒सि॒ष्व॒ । तु॒वि॒ऽनृ॒म्ण॒ । ऊ॒र्वोः । नि । दा॒सम् । शि॒श्न॒थः॒ । हथैः॑ ॥त्वम् । नः । इन्द्र । ऋतऽयुः । त्वाऽनिदः । नि । तृम्पसि ।
मध्ये । वसिष्व । तुविऽनृम्ण । ऊर्वोः । नि । दासम् । शिश्नथः । हथैः ॥tvám ǀ naḥ ǀ indra ǀ ṛta-yúḥ ǀ tvā-nídaḥ ǀ ní ǀ tṛmpasi ǀ
mádhye ǀ vasiṣva ǀ tuvi-nṛmṇa ǀ ūrvóḥ ǀ ní ǀ dāsám ǀ śiśnathaḥ ǀ háthaiḥ ǁtvam ǀ naḥ ǀ indra ǀ ṛta-yuḥ ǀ tvā-nidaḥ ǀ ni ǀ tṛmpasi ǀ
madhye ǀ vasiṣva ǀ tuvi-nṛmṇa ǀ ūrvoḥ ǀ ni ǀ dāsam ǀ śiśnathaḥ ǀ hathaiḥ ǁ8.70.10 Aṣṭaka 6.5.9.5Anuvāka 8.8.10
-
Ṛk 11
अ॒न्यव्र॑त॒ममा॑नुष॒मय॑ज्वान॒मदे॑वयुं ।
अव॒ स्वः सखा॑ दुधुवीत॒ पर्व॑तः सु॒घ्नाय॒ दस्युं॒ पर्व॑तः ॥अन्यव्रतम् अमानुषम् अयज्वानम् अदेवयुम् |
अव स्वः सखा दुधुवीत पर्वतः सुघ्नाय दस्युम् पर्वतः ||anyávratamámānuṣamáyajvānamádevayum ǀ
áva sváḥ sákhā dudhuvīta párvataḥ sughnā́ya dásyum párvataḥ ǁanyavratam amānuṣam ayajvānam adevayum |
ava svaḥ sakhā dudhuvīta parvataḥ sughnāya dasyum parvataḥ ||अ॒न्यऽव्र॑तम् । अमा॑नुषम् । अय॑ज्वानम् । अदे॑वऽयुम् ।
अव॑ । स्वः । सखा॑ । दु॒धु॒वी॒त॒ । पर्व॑तः । सु॒ऽघ्नाय॑ । दस्यु॑म् । पर्व॑तः ॥अन्यऽव्रतम् । अमानुषम् । अयज्वानम् । अदेवऽयुम् ।
अव । स्वः । सखा । दुधुवीत । पर्वतः । सुऽघ्नाय । दस्युम् । पर्वतः ॥anyá-vratam ǀ ámānuṣam ǀ áyajvānam ǀ ádeva-yum ǀ
áva ǀ sváḥ ǀ sákhā ǀ dudhuvīta ǀ párvataḥ ǀ su-ghnā́ya ǀ dásyum ǀ párvataḥ ǁanya-vratam ǀ amānuṣam ǀ ayajvānam ǀ adeva-yum ǀ
ava ǀ svaḥ ǀ sakhā ǀ dudhuvīta ǀ parvataḥ ǀ su-ghnāya ǀ dasyum ǀ parvataḥ ǁ8.70.11 Aṣṭaka 6.5.10.1Anuvāka 8.8.11
-
Ṛk 12
त्वं न॑ इंद्रासां॒ हस्ते॑ शविष्ठ दा॒वने॑ ।
धा॒नानां॒ न सं गृ॑भायास्म॒युर्द्विः सं गृ॑भायास्म॒युः ॥त्वं न इन्द्रासां हस्ते शविष्ठ दावने |
धानानां न सं गृभायास्मयुर् द्विः सं गृभायास्मयुः ||tvám na indrāsām háste śaviṣṭha dāváne ǀ
dhānā́nām ná sám gṛbhāyāsmayúrdvíḥ sám gṛbhāyāsmayúḥ ǁtvaṃ na indrāsāṃ haste śaviṣṭha dāvane |
dhānānāṃ na saṃ gṛbhāyāsmayur dviḥ saṃ gṛbhāyāsmayuḥ ||त्वम् । नः॒ । इ॒न्द्र॒ । आ॒सा॒म् । हस्ते॑ । श॒वि॒ष्ठ॒ । दा॒वने॑ ।
धा॒नाना॑म् । न । सम् । गृ॒भा॒य॒ । अ॒स्म॒ऽयुः । द्विः । सम् । गृ॒भा॒य॒ । अ॒स्म॒ऽयुः ॥त्वम् । नः । इन्द्र । आसाम् । हस्ते । शविष्ठ । दावने ।
धानानाम् । न । सम् । गृभाय । अस्मऽयुः । द्विः । सम् । गृभाय । अस्मऽयुः ॥tvám ǀ naḥ ǀ indra ǀ āsām ǀ háste ǀ śaviṣṭha ǀ dāváne ǀ
dhānā́nām ǀ ná ǀ sám ǀ gṛbhāya ǀ asma-yúḥ ǀ dvíḥ ǀ sám ǀ gṛbhāya ǀ asma-yúḥ ǁtvam ǀ naḥ ǀ indra ǀ āsām ǀ haste ǀ śaviṣṭha ǀ dāvane ǀ
dhānānām ǀ na ǀ sam ǀ gṛbhāya ǀ asma-yuḥ ǀ dviḥ ǀ sam ǀ gṛbhāya ǀ asma-yuḥ ǁ8.70.12 Aṣṭaka 6.5.10.2Anuvāka 8.8.12
-
Ṛk 13
सखा॑यः॒ क्रतु॑मिच्छत क॒था रा॑धाम श॒रस्य॑ ।
उप॑स्तुतिं भो॒जः सू॒रिर्यो अह्र॑यः ॥सखायः क्रतुम् इच्छत कथा राधाम शरस्य |
उपस्तुतिम् भोजः सूरिर् यो अह्रयः ||sákhāyaḥ krátumicchata kathā́ rādhāma śarásya ǀ
úpastutim bhojáḥ sūríryó áhrayaḥ ǁsakhāyaḥ kratum icchata kathā rādhāma śarasya |
upastutim bhojaḥ sūrir yo ahrayaḥ ||सखा॑यः । क्रतु॑म् । इ॒च्छ॒त॒ । क॒था । रा॒धा॒म॒ । श॒रस्य॑ ।
उप॑ऽस्तुतिम् । भो॒जः । सू॒रिः । यः । अह्र॑यः ॥सखायः । क्रतुम् । इच्छत । कथा । राधाम । शरस्य ।
उपऽस्तुतिम् । भोजः । सूरिः । यः । अह्रयः ॥sákhāyaḥ ǀ krátum ǀ icchata ǀ kathā́ ǀ rādhāma ǀ śarásya ǀ
úpa-stutim ǀ bhojáḥ ǀ sūríḥ ǀ yáḥ ǀ áhrayaḥ ǁsakhāyaḥ ǀ kratum ǀ icchata ǀ kathā ǀ rādhāma ǀ śarasya ǀ
upa-stutim ǀ bhojaḥ ǀ sūriḥ ǀ yaḥ ǀ ahrayaḥ ǁ8.70.13 Aṣṭaka 6.5.10.3Anuvāka 8.8.13
-
Ṛk 14
भूरि॑भिः समह॒ ऋषि॑भिर्ब॒र्हिष्म॑द्भिः स्तविष्यसे ।
यदि॒त्थमेक॑मेक॒मिच्छर॑ व॒त्सान्प॑रा॒ददः॑ ॥भूरिभिः समह ऋषिभिर् बर्हिष्मद्भि स्तविष्यसे |
यद् इत्थम् एकम्-एकम् इच् छर वत्सान् पराददः ||bhū́ribhiḥ samaha ṛ́ṣibhirbarhíṣmadbhiḥ staviṣyase ǀ
yáditthámékamekamícchára vatsā́nparādádaḥ ǁbhūribhiḥ samaha ṛṣibhir barhiṣmadbhi staviṣyase |
yad ittham ekam-ekam ic chara vatsān parādadaḥ ||भूरि॑ऽभिः । स॒म॒ह॒ । ऋषि॑ऽभिः । ब॒र्हिष्म॑त्ऽभिः । स्त॒वि॒ष्य॒से॒ ।
यत् । इ॒त्थम् । एक॑म्ऽएकम् । इत् । शर॑ । व॒त्सान् । प॒रा॒ऽददः॑ ॥भूरिऽभिः । समह । ऋषिऽभिः । बर्हिष्मत्ऽभिः । स्तविष्यसे ।
यत् । इत्थम् । एकम्ऽएकम् । इत् । शर । वत्सान् । पराऽददः ॥bhū́ri-bhiḥ ǀ samaha ǀ ṛ́ṣi-bhiḥ ǀ barhíṣmat-bhiḥ ǀ staviṣyase ǀ
yát ǀ itthám ǀ ékam-ekam ǀ ít ǀ śára ǀ vatsā́n ǀ parā-dádaḥ ǁbhūri-bhiḥ ǀ samaha ǀ ṛṣi-bhiḥ ǀ barhiṣmat-bhiḥ ǀ staviṣyase ǀ
yat ǀ ittham ǀ ekam-ekam ǀ it ǀ śara ǀ vatsān ǀ parā-dadaḥ ǁ8.70.14 Aṣṭaka 6.5.10.4Anuvāka 8.8.14
-
Ṛk 15
क॒र्ण॒गृह्या॑ म॒घवा॑ शौरदे॒व्यो व॒त्सं न॑स्त्रि॒भ्य आन॑यत् ।
अ॒जां सू॒रिर्न धात॑वे ॥कर्णगृह्या मघवा शौरदेव्यो वत्सं नस् त्रिभ्य आनयत् |
अजां सूरिर् न धातवे ||karṇagṛ́hyā maghávā śauradevyó vatsám nastribhyá ā́nayat ǀ
ajā́m sūrírná dhā́tave ǁkarṇagṛhyā maghavā śauradevyo vatsaṃ nas tribhya ānayat |
ajāṃ sūrir na dhātave ||क॒र्ण॒ऽगृह्य॑ । म॒घऽवा॑ । शौ॒र॒ऽदे॒व्यः । व॒त्सम् । नः॒ । त्रि॒ऽभ्यः । आ । अ॒न॒य॒त् ।
अ॒जाम् । सू॒रिः । न । धात॑वे ॥कर्णऽगृह्य । मघऽवा । शौरऽदेव्यः । वत्सम् । नः । त्रिऽभ्यः । आ । अनयत् ।
अजाम् । सूरिः । न । धातवे ॥karṇa-gṛ́hya ǀ maghá-vā ǀ śaura-devyáḥ ǀ vatsám ǀ naḥ ǀ tri-bhyáḥ ǀ ā́ ǀ anayat ǀ
ajā́m ǀ sūríḥ ǀ ná ǀ dhā́tave ǁkarṇa-gṛhya ǀ magha-vā ǀ śaura-devyaḥ ǀ vatsam ǀ naḥ ǀ tri-bhyaḥ ǀ ā ǀ anayat ǀ
ajām ǀ sūriḥ ǀ na ǀ dhātave ǁ8.70.15 Aṣṭaka 6.5.10.5Anuvāka 8.8.15
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.