Ṛk 8.70.12
Saṃhitā
त्वं न॑ इंद्रासां॒ हस्ते॑ शविष्ठ दा॒वने॑ ।
धा॒नानां॒ न सं गृ॑भायास्म॒युर्द्विः सं गृ॑भायास्म॒युः ॥
त्वं न इन्द्रासां हस्ते शविष्ठ दावने |
धानानां न सं गृभायास्मयुर् द्विः सं गृभायास्मयुः ||
tvám na indrāsām háste śaviṣṭha dāváne ǀ
dhānā́nām ná sám gṛbhāyāsmayúrdvíḥ sám gṛbhāyāsmayúḥ ǁ
tvaṃ na indrāsāṃ haste śaviṣṭha dāvane |
dhānānāṃ na saṃ gṛbhāyāsmayur dviḥ saṃ gṛbhāyāsmayuḥ ||
Padapāṭha
त्वम् । नः॒ । इ॒न्द्र॒ । आ॒सा॒म् । हस्ते॑ । श॒वि॒ष्ठ॒ । दा॒वने॑ ।
धा॒नाना॑म् । न । सम् । गृ॒भा॒य॒ । अ॒स्म॒ऽयुः । द्विः । सम् । गृ॒भा॒य॒ । अ॒स्म॒ऽयुः ॥
त्वम् । नः । इन्द्र । आसाम् । हस्ते । शविष्ठ । दावने ।
धानानाम् । न । सम् । गृभाय । अस्मऽयुः । द्विः । सम् । गृभाय । अस्मऽयुः ॥
tvám ǀ naḥ ǀ indra ǀ āsām ǀ háste ǀ śaviṣṭha ǀ dāváne ǀ
dhānā́nām ǀ ná ǀ sám ǀ gṛbhāya ǀ asma-yúḥ ǀ dvíḥ ǀ sám ǀ gṛbhāya ǀ asma-yúḥ ǁ
tvam ǀ naḥ ǀ indra ǀ āsām ǀ haste ǀ śaviṣṭha ǀ dāvane ǀ
dhānānām ǀ na ǀ sam ǀ gṛbhāya ǀ asma-yuḥ ǀ dviḥ ǀ sam ǀ gṛbhāya ǀ asma-yuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.070.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.5.10.02
- Maṇḍala · Anuvāka · Ṛk
- 08.08.012
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Puruhanman Āṅgirasa
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Uṣṇih, Anuṣṭubh, Pura-Uṣṇih
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.