Ṛgveda · Maṇḍala 8 · Sūkta 70

Ṛk 8.70.13

Indra · Puruhanman Āṅgirasa

The whole sūkta Link

Saṃhitā

सखा॑यः॒ क्रतु॑मिच्छत क॒था रा॑धाम श॒रस्य॑ ।
उप॑स्तुतिं भो॒जः सू॒रिर्यो अह्र॑यः ॥

सखायः क्रतुम् इच्छत कथा राधाम शरस्य |
उपस्तुतिम् भोजः सूरिर् यो अह्रयः ||

sákhāyaḥ krátumicchata kathā́ rādhāma śarásya ǀ
úpastutim bhojáḥ sūríryó áhrayaḥ ǁ

sakhāyaḥ kratum icchata kathā rādhāma śarasya |
upastutim bhojaḥ sūrir yo ahrayaḥ ||

Padapāṭha

सखा॑यः । क्रतु॑म् । इ॒च्छ॒त॒ । क॒था । रा॒धा॒म॒ । श॒रस्य॑ ।
उप॑ऽस्तुतिम् । भो॒जः । सू॒रिः । यः । अह्र॑यः ॥

सखायः । क्रतुम् । इच्छत । कथा । राधाम । शरस्य ।
उपऽस्तुतिम् । भोजः । सूरिः । यः । अह्रयः ॥

sákhāyaḥ ǀ krátum ǀ icchata ǀ kathā́ ǀ rādhāma ǀ śarásya ǀ
úpa-stutim ǀ bhojáḥ ǀ sūríḥ ǀ yáḥ ǀ áhrayaḥ ǁ

sakhāyaḥ ǀ kratum ǀ icchata ǀ kathā ǀ rādhāma ǀ śarasya ǀ
upa-stutim ǀ bhojaḥ ǀ sūriḥ ǀ yaḥ ǀ ahrayaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
08.070.13
Aṣṭaka · Adhyāya · Varga · Ṛk
6.5.10.03
Maṇḍala · Anuvāka · Ṛk
08.08.013
Devatā देवता
Indra
Ṛṣi ऋषि
Puruhanman Āṅgirasa
Chandas छन्दस्
Bṛhatī, Satobṛhatī, Uṣṇih, Anuṣṭubh, Pura-Uṣṇih
Svara स्वरः
ऋषभः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.70.13

Interpretations

Sāyaṇa

हे सखायः ऋत्विजोध्वर्य्वादयः क्रतुं कर्मेन्द्रसंबंधिनमिच्छत कर्तुं । हे सखायः शरस्य शॄहिंसायां हिंसकस्येन्द्रस्य कथा कथं राधाम साधयाम । किं उपस्तुतिं स्तोत्रं यइन्द्रोभोजः शत्रूणं भोजयिता सूरिः प्रेरकः अह्रयोऽनवनवतः शत्रूणामिति ॥ १३ ॥