Ṛk 8.70.5
Saṃhitā
यद्द्याव॑ इंद्र ते श॒तं श॒तं भूमी॑रु॒त स्युः ।
न त्वा॑ वज्रिन्त्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥
यद् द्याव इन्द्र ते शतं शतम् भूमीर् उत स्युः |
न त्वा वज्रिन् सहस्रं सूर्या अनु न जातम् अष्ट रोदसी ||
yáddyā́va indra te śatám śatám bhū́mīrutá syúḥ ǀ
ná tvā vajrintsahásram sū́ryā ánu ná jātámaṣṭa ródasī ǁ
yad dyāva indra te śataṃ śatam bhūmīr uta syuḥ |
na tvā vajrin sahasraṃ sūryā anu na jātam aṣṭa rodasī ||
Padapāṭha
यत् । द्यावः॑ । इ॒न्द्र॒ । ते॒ । श॒तम् । श॒तम् । भूमीः॑ । उ॒त । स्युरिति॒ स्युः ।
न । त्वा॒ । व॒ज्रि॒न् । स॒हस्र॑म् । सूर्याः॑ । अनु॑ । न । जा॒तम् । अ॒ष्ट॒ । रोद॑सी॒ इति॑ ॥
यत् । द्यावः । इन्द्र । ते । शतम् । शतम् । भूमीः । उत । स्युरिति स्युः ।
न । त्वा । वज्रिन् । सहस्रम् । सूर्याः । अनु । न । जातम् । अष्ट । रोदसी इति ॥
yát ǀ dyā́vaḥ ǀ indra ǀ te ǀ śatám ǀ śatám ǀ bhū́mīḥ ǀ utá ǀ syúríti syúḥ ǀ
ná ǀ tvā ǀ vajrin ǀ sahásram ǀ sū́ryāḥ ǀ ánu ǀ ná ǀ jātám ǀ aṣṭa ǀ ródasī íti ǁ
yat ǀ dyāvaḥ ǀ indra ǀ te ǀ śatam ǀ śatam ǀ bhūmīḥ ǀ uta ǀ syuriti syuḥ ǀ
na ǀ tvā ǀ vajrin ǀ sahasram ǀ sūryāḥ ǀ anu ǀ na ǀ jātam ǀ aṣṭa ǀ rodasī iti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.070.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.5.08.05
- Maṇḍala · Anuvāka · Ṛk
- 08.08.005
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Puruhanman Āṅgirasa
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Uṣṇih, Anuṣṭubh, Pura-Uṣṇih
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.