Ṛk 8.70.1
Saṃhitā
यो राजा॑ चर्षणी॒नां याता॒ रथे॑भि॒रध्रि॑गुः ।
विश्वा॑सां तरु॒ता पृत॑नानां॒ ज्येष्ठो॒ यो वृ॑त्र॒हा गृ॒णे ॥
यो राजा चर्षणीनां याता रथेभिर् अध्रिगुः |
विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ||
yó rā́jā carṣaṇīnā́m yā́tā ráthebhirádhriguḥ ǀ
víśvāsām tarutā́ pṛ́tanānām jyéṣṭho yó vṛtrahā́ gṛṇé ǁ
yo rājā carṣaṇīnāṃ yātā rathebhir adhriguḥ |
viśvāsāṃ tarutā pṛtanānāṃ jyeṣṭho yo vṛtrahā gṛṇe ||
Padapāṭha
यः । राजा॑ । च॒र्ष॒णी॒नाम् । याता॑ । रथे॑भिः । अध्रि॑ऽगुः ।
विश्वा॑साम् । त॒रु॒ता । पृत॑नानाम् । ज्येष्ठः॑ । यः । वृ॒त्र॒ऽहा । गृ॒णे ॥
यः । राजा । चर्षणीनाम् । याता । रथेभिः । अध्रिऽगुः ।
विश्वासाम् । तरुता । पृतनानाम् । ज्येष्ठः । यः । वृत्रऽहा । गृणे ॥
yáḥ ǀ rā́jā ǀ carṣaṇīnā́m ǀ yā́tā ǀ ráthebhiḥ ǀ ádhri-guḥ ǀ
víśvāsām ǀ tarutā́ ǀ pṛ́tanānām ǀ jyéṣṭhaḥ ǀ yáḥ ǀ vṛtra-hā́ ǀ gṛṇé ǁ
yaḥ ǀ rājā ǀ carṣaṇīnām ǀ yātā ǀ rathebhiḥ ǀ adhri-guḥ ǀ
viśvāsām ǀ tarutā ǀ pṛtanānām ǀ jyeṣṭhaḥ ǀ yaḥ ǀ vṛtra-hā ǀ gṛṇe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.070.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.5.08.01
- Maṇḍala · Anuvāka · Ṛk
- 08.08.001
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Puruhanman Āṅgirasa
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī, Uṣṇih, Anuṣṭubh, Pura-Uṣṇih
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.