Ṛgveda · Maṇḍala 8 · Sūkta 69

Ṛk 8.69.18

Indra · Viśve Devās (A) · Varuṇa (B) · Varuṇa · Priyamedha Āṅgirasa

The whole sūkta Link

Saṃhitā

अनु॑ प्र॒त्नस्यौक॑सः प्रि॒यमे॑धास एषां ।
पूर्वा॒मनु॒ प्रय॑तिं वृ॒क्तब॑र्हिषो हि॒तप्र॑यस आशत ॥

अनु प्रत्नस्यौकसः प्रियमेधास एषाम् |
पूर्वाम् अनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ||

ánu pratnásyáukasaḥ priyámedhāsa eṣām ǀ
pū́rvāmánu práyatim vṛktábarhiṣo hitáprayasa āśata ǁ

anu pratnasyaukasaḥ priyamedhāsa eṣām |
pūrvām anu prayatiṃ vṛktabarhiṣo hitaprayasa āśata ||

Padapāṭha

अनु॑ । प्र॒त्नस्य॑ । ओक॑सः । प्रि॒यऽमे॑धासः । ए॒षा॒म् ।
पूर्वा॑म् । अनु॑ । प्रऽय॑तिम् । वृ॒क्तऽब॑र्हिषः । हि॒तऽप्र॑यसः । आ॒श॒त॒ ॥

अनु । प्रत्नस्य । ओकसः । प्रियऽमेधासः । एषाम् ।
पूर्वाम् । अनु । प्रऽयतिम् । वृक्तऽबर्हिषः । हितऽप्रयसः । आशत ॥

ánu ǀ pratnásya ǀ ókasaḥ ǀ priyá-medhāsaḥ ǀ eṣām ǀ
pū́rvām ǀ ánu ǀ prá-yatim ǀ vṛktá-barhiṣaḥ ǀ hitá-prayasaḥ ǀ āśata ǁ

anu ǀ pratnasya ǀ okasaḥ ǀ priya-medhāsaḥ ǀ eṣām ǀ
pūrvām ǀ anu ǀ pra-yatim ǀ vṛkta-barhiṣaḥ ǀ hita-prayasaḥ ǀ āśata ǁ

References

Maṇḍala · Sūkta · Ṛk
08.069.18
Aṣṭaka · Adhyāya · Varga · Ṛk
6.5.07.08
Maṇḍala · Anuvāka · Ṛk
08.07.159
Devatā देवता
1-10, 13-18: Indra; 11: Viśve Devās (A); Varuṇa (B); 12: Varuṇa
Ṛṣi ऋषि
Priyamedha Āṅgirasa
Chandas छन्दस्
Anuṣṭubh, Gāyatrī, Paṅkti, Bṛhatī, Uṣṇih
Svara स्वरः
मध्यमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.69.18

Interpretations

Sāyaṇa

अष्टमेनुवाके एकादशसूक्तानि तत्र योराजेति पञ्चदशर्चं प्रथमं सूक्तं । अत्रानुक्रमणिका-योराजापञ्चोना पुरुहन्मा बार्हतं त्रिप्रगाथाद्युष्णिगनु- ष्टुप्पुरउष्प्पिगन्तमिति । पुरुहन्मऋषिः सच क्वचित्कथंचिदविशेषितमिति परिभाषयांगिरसः आद्यातृतीयापञ्चम्योबृहत्यः द्वितीयाचतुर्थीष- ष्ठ्यः सतोबृहत्यः सप्तम्याद्याः षट्बृहत्यः त्रयोदशीपुरउष्णिक् आद्यद्वादशकाद्यष्टका आद्यश्चेत्पुरउष्णिगितिहि तल्लक्षणं । इन्द्रोदेवता । महाव्रते निष्केवल्ये बार्हततृचाशीतावादित एकादशर्चः तथाचपञ्चमारण्यकेसूत्रितं-योराजाचर्षणीनामित्येकादशेति ।