Ṛgveda · Maṇḍala 8 · Sūkta 69

Ṛk 8.69.17

Indra · Viśve Devās (A) · Varuṇa (B) · Varuṇa · Priyamedha Āṅgirasa

The whole sūkta Link

Saṃhitā

तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते ।
अर्थं॑ चिदस्य॒ सुधि॑तं॒ यदेत॑व आव॒र्तयं॑ति दा॒वने॑ ॥

तं घेम् इत्था नमस्विन उप स्वराजम् आसते |
अर्थं चिद् अस्य सुधितं यद् एतव आवर्तयन्ति दावने ||

tám ghemitthā́ namasvína úpa svarā́jamāsate ǀ
ártham cidasya súdhitam yádétava āvartáyanti dāváne ǁ

taṃ ghem itthā namasvina upa svarājam āsate |
arthaṃ cid asya sudhitaṃ yad etava āvartayanti dāvane ||

Padapāṭha

तम् । घ॒ । ई॒म् । इ॒त्था । न॒म॒स्विनः॑ । उप॑ । स्व॒ऽराज॑म् । आ॒स॒ते॒ ।
अर्थ॑म् । चि॒त् । अ॒स्य॒ । सुऽधि॑तम् । यत् । एत॑वे । आ॒ऽव॒र्तय॑न्ति । दा॒वने॑ ॥

तम् । घ । ईम् । इत्था । नमस्विनः । उप । स्वऽराजम् । आसते ।
अर्थम् । चित् । अस्य । सुऽधितम् । यत् । एतवे । आऽवर्तयन्ति । दावने ॥

tám ǀ gha ǀ īm ǀ itthā́ ǀ namasvínaḥ ǀ úpa ǀ sva-rā́jam ǀ āsate ǀ
ártham ǀ cit ǀ asya ǀ sú-dhitam ǀ yát ǀ étave ǀ ā-vartáyanti ǀ dāváne ǁ

tam ǀ gha ǀ īm ǀ itthā ǀ namasvinaḥ ǀ upa ǀ sva-rājam ǀ āsate ǀ
artham ǀ cit ǀ asya ǀ su-dhitam ǀ yat ǀ etave ǀ ā-vartayanti ǀ dāvane ǁ

References

Maṇḍala · Sūkta · Ṛk
08.069.17
Aṣṭaka · Adhyāya · Varga · Ṛk
6.5.07.07
Maṇḍala · Anuvāka · Ṛk
08.07.158
Devatā देवता
1-10, 13-18: Indra; 11: Viśve Devās (A); Varuṇa (B); 12: Varuṇa
Ṛṣi ऋषि
Priyamedha Āṅgirasa
Chandas छन्दस्
Anuṣṭubh, Gāyatrī, Paṅkti, Bṛhatī, Uṣṇih
Svara स्वरः
मध्यमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.69.17

Interpretations

Sāyaṇa

तं घ तं खल्वीमेनमिन्द्रं इत्था इत्थमनेन प्रकारेण नमस्विनोन्नवन्तः स्तुतिमन्तोवाध्वर्य्वादयः स्वराजं स्वयं राजमानं वा उपासते सेवन्ते । तथा कृत्वाअर्थंचित् अरणीयं धनं सुधितं सुष्ठु स्थापितं अस्येन्द्रस्य संबन्धिनं प्राप्नुवन्तीतिशेषः । कदेत्याह-यद्यदा एतवे अस्येन्द्रस्य गमनाय स्वयं प्राप्तुंवा दावने हविर्दानायावर्तयन्ति स्तुतयः तदेत्यर्थः । अथवा अश्वावा आवर्तयन्ति तदेत्यर्थः ॥ १७ ॥