Ṛgveda · Maṇḍala 8 · Sūkta 69

Ṛk 8.69.10

Indra · Viśve Devās (A) · Varuṇa (B) · Varuṇa · Priyamedha Āṅgirasa

The whole sūkta Link

Saṃhitā

आ यत्पतं॑त्ये॒न्यः॑ सु॒दुघा॒ अन॑पस्फुरः ।
अ॒प॒स्फुरं॑ गृभायत॒ सोम॒मिंद्रा॑य॒ पात॑वे ॥

आ यत् पतन्त्य् एन्यः सुदुघा अनपस्फुरः |
अपस्फुरं गृभायत सोमम् इन्द्राय पातवे ||

ā́ yátpátantyenyáḥ sudúghā ánapasphuraḥ ǀ
apasphúram gṛbhāyata sómamíndrāya pā́tave ǁ

ā yat patanty enyaḥ sudughā anapasphuraḥ |
apasphuraṃ gṛbhāyata somam indrāya pātave ||

Padapāṭha

आ । यत् । पत॑न्ति । ए॒न्यः॑ । सु॒ऽदुघाः॑ । अन॑पऽस्फुरः ।
अ॒प॒ऽस्फुर॑म् । गृ॒भा॒य॒त॒ । सोम॑म् । इन्द्रा॑य । पात॑वे ॥

आ । यत् । पतन्ति । एन्यः । सुऽदुघाः । अनपऽस्फुरः ।
अपऽस्फुरम् । गृभायत । सोमम् । इन्द्राय । पातवे ॥

ā́ ǀ yát ǀ pátanti ǀ enyáḥ ǀ su-dúghāḥ ǀ ánapa-sphuraḥ ǀ
apa-sphúram ǀ gṛbhāyata ǀ sómam ǀ índrāya ǀ pā́tave ǁ

ā ǀ yat ǀ patanti ǀ enyaḥ ǀ su-dughāḥ ǀ anapa-sphuraḥ ǀ
apa-sphuram ǀ gṛbhāyata ǀ somam ǀ indrāya ǀ pātave ǁ

References

Maṇḍala · Sūkta · Ṛk
08.069.10
Aṣṭaka · Adhyāya · Varga · Ṛk
6.5.06.05
Maṇḍala · Anuvāka · Ṛk
08.07.151
Devatā देवता
1-10, 13-18: Indra; 11: Viśve Devās (A); Varuṇa (B); 12: Varuṇa
Ṛṣi ऋषि
Priyamedha Āṅgirasa
Chandas छन्दस्
Anuṣṭubh, Gāyatrī, Paṅkti, Bṛhatī, Uṣṇih
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.69.10

Interpretations

Sāyaṇa

यद्यदा एन्यः एतवर्णाः शुभ्रवर्णानद्यः आपतन्ति आगच्छन्ति सर्वतः प्रवहन्ति । कीदृश्यः सुदुघाः सुदोहा अनपस्फुरः अपस्फुरो अपस्फुरा अपवृद्धाः अतादृश्यः अनपस्फुरः अत्यन्तंप्रवृद्धाइत्यर्थः । यद्वा सुदुघाः प्रवृद्धा एतवर्णागावो यदा पयआद्यर्थायापतन्ति तदा अपस्फुरं अत्रापशब्दो धात्वर्थानुवादी अत्यन्तं प्रवृद्धं सोममिन्द्राय पातवे पातुं गृभायत ग्रहणंकुरुत । अथवा अनपस्फुरइत्यत्रापशब्दोनुवादी धात्वर्थस्य । तथासत्ययमर्थः-यदाएन्योनद्यः अनपस्फुरः अप्रवृद्धोदका आपतन्ति वृष्टिरल्पा यदाभवति तदा सोममिन्द्रार्थं संपादयतेति ॥ १० ॥