Sūkta 98
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Nṛmedha Āṅgirasa
- Chandas छन्दस्
- Uṣṇih, Kakubh, Pura-Uṣṇih
Metres by ṛk
1st set of styles virāḍuṣnik (3, 7, 8, 10-12); uṣṇik (1, 5); kakummatyuṣṇik (2, 6); pādanicṛduṣṇik (4); nicṛduṣṇik (9)
2nd set of styles uṣṇih (1-6, 8); kakubh (7, 10, 11); pura-uṣṇih (9, 12)
-
Ṛk 1
इंद्रा॑य॒ साम॑ गायत॒ विप्रा॑य बृह॒ते बृ॒हत् ।
ध॒र्म॒कृते॑ विप॒श्चिते॑ पन॒स्यवे॑ ॥इन्द्राय साम गायत विप्राय बृहते बृहत् |
धर्मकृते विपश्चिते पनस्यवे ||índrāya sā́ma gāyata víprāya bṛhaté bṛhát ǀ
dharmakṛ́te vipaścíte panasyáve ǁindrāya sāma gāyata viprāya bṛhate bṛhat |
dharmakṛte vipaścite panasyave ||इन्द्रा॑य । साम॑ । गा॒य॒त॒ । विप्रा॑य । बृ॒ह॒ते । बृ॒हत् ।
ध॒र्म॒ऽकृते॑ । वि॒पः॒ऽचिते॑ । प॒न॒स्यवे॑ ॥इन्द्राय । साम । गायत । विप्राय । बृहते । बृहत् ।
धर्मऽकृते । विपःऽचिते । पनस्यवे ॥índrāya ǀ sā́ma ǀ gāyata ǀ víprāya ǀ bṛhaté ǀ bṛhát ǀ
dharma-kṛ́te ǀ vipaḥ-cíte ǀ panasyáve ǁindrāya ǀ sāma ǀ gāyata ǀ viprāya ǀ bṛhate ǀ bṛhat ǀ
dharma-kṛte ǀ vipaḥ-cite ǀ panasyave ǁ8.98.1 Aṣṭaka 6.7.1.0
-
Ṛk 2
त्वमिं॑द्राभि॒भूर॑सि॒ त्वं सूर्य॑मरोचयः ।
वि॒श्वक॑र्मा वि॒श्वदे॑वो म॒हाँ अ॑सि ॥त्वम् इन्द्राभिभूर् असि त्वं सूर्यम् अरोचयः |
विश्वकर्मा विश्वदेवो महां असि ||tvámindrābhibhū́rasi tvám sū́ryamarocayaḥ ǀ
viśvákarmā viśvádevo mahā́m̐ asi ǁtvam indrābhibhūr asi tvaṃ sūryam arocayaḥ |
viśvakarmā viśvadevo mahāṃ asi ||त्वम् । इ॒न्द्र॒ । अ॒भि॒ऽभूः । अ॒सि॒ । त्वम् । सूर्य॑म् । अ॒रो॒च॒यः॒ ।
वि॒श्वऽक॑र्मा । वि॒श्वऽदे॑वः । म॒हान् । अ॒सि॒ ॥त्वम् । इन्द्र । अभिऽभूः । असि । त्वम् । सूर्यम् । अरोचयः ।
विश्वऽकर्मा । विश्वऽदेवः । महान् । असि ॥tvám ǀ indra ǀ abhi-bhū́ḥ ǀ asi ǀ tvám ǀ sū́ryam ǀ arocayaḥ ǀ
viśvá-karmā ǀ viśvá-devaḥ ǀ mahā́n ǀ asi ǁtvam ǀ indra ǀ abhi-bhūḥ ǀ asi ǀ tvam ǀ sūryam ǀ arocayaḥ ǀ
viśva-karmā ǀ viśva-devaḥ ǀ mahān ǀ asi ǁ8.98.2 Aṣṭaka 6.7.1.0
-
Ṛk 3
वि॒भ्राजं॒ज्योति॑षा॒ स्व१॒॑रग॑च्छो रोच॒नं दि॒वः ।
दे॒वास्त॑ इंद्र स॒ख्याय॑ येमिरे ॥विभ्राजञ् ज्योतिषा स्वर् अगच्छो रोचनं दिवः |
देवास् त इन्द्र सख्याय येमिरे ||vibhrā́jañjyótiṣā svárágaccho rocanám diváḥ ǀ
devā́sta indra sakhyā́ya yemire ǁvibhrājañ jyotiṣā svar agaccho rocanaṃ divaḥ |
devās ta indra sakhyāya yemire ||वि॒ऽभ्राज॑न् । ज्योति॑षा । स्वः॑ । अग॑च्छः । रो॒च॒नम् । दि॒वः ।
दे॒वाः । ते॒ । इ॒न्द्र॒ । स॒ख्याय॑ । ये॒मि॒रे॒ ॥विऽभ्राजन् । ज्योतिषा । स्वः । अगच्छः । रोचनम् । दिवः ।
देवाः । ते । इन्द्र । सख्याय । येमिरे ॥vi-bhrā́jan ǀ jyótiṣā ǀ sváḥ ǀ ágacchaḥ ǀ rocanám ǀ diváḥ ǀ
devā́ḥ ǀ te ǀ indra ǀ sakhyā́ya ǀ yemire ǁvi-bhrājan ǀ jyotiṣā ǀ svaḥ ǀ agacchaḥ ǀ rocanam ǀ divaḥ ǀ
devāḥ ǀ te ǀ indra ǀ sakhyāya ǀ yemire ǁ8.98.3 Aṣṭaka 6.7.1.0
-
Ṛk 4
एंद्र॑ नो गधि प्रि॒यः स॑त्रा॒जिदगो॑ह्यः ।
गि॒रिर्न वि॒श्वत॑स्पृ॒थुः पति॑र्दि॒वः ॥एन्द्र नो गधि प्रियः सत्राजिद् अगोह्यः |
गिरिर् न विश्वतस् पृथुः पतिर् दिवः ||éndra no gadhi priyáḥ satrājídágohyaḥ ǀ
girírná viśvátaspṛthúḥ pátirdiváḥ ǁendra no gadhi priyaḥ satrājid agohyaḥ |
girir na viśvatas pṛthuḥ patir divaḥ ||आ । इ॒न्द्र॒ । नः॒ । ग॒धि॒ । प्रि॒यः । स॒त्रा॒ऽजित् । अगो॑ह्यः ।
गि॒रिः । न । वि॒श्वतः॑ । पृ॒थुः । पतिः॑ । दि॒वः ॥आ । इन्द्र । नः । गधि । प्रियः । सत्राऽजित् । अगोह्यः ।
गिरिः । न । विश्वतः । पृथुः । पतिः । दिवः ॥ā́ ǀ indra ǀ naḥ ǀ gadhi ǀ priyáḥ ǀ satrā-jít ǀ ágohyaḥ ǀ
giríḥ ǀ ná ǀ viśvátaḥ ǀ pṛthúḥ ǀ pátiḥ ǀ diváḥ ǁā ǀ indra ǀ naḥ ǀ gadhi ǀ priyaḥ ǀ satrā-jit ǀ agohyaḥ ǀ
giriḥ ǀ na ǀ viśvataḥ ǀ pṛthuḥ ǀ patiḥ ǀ divaḥ ǁ8.98.4 Aṣṭaka 6.7.1.0
-
Ṛk 5
अ॒भि हि स॑त्य सोमपा उ॒भे ब॒भूथ॒ रोद॑सी ।
इंद्रासि॑ सुन्व॒तो वृ॒धः पति॑र्दि॒वः ॥अभि हि सत्य सोमपा उभे बभूथ रोदसी |
इन्द्रासि सुन्वतो वृधः पतिर् दिवः ||abhí hí satya somapā ubhé babhū́tha ródasī ǀ
índrā́si sunvató vṛdháḥ pátirdiváḥ ǁabhi hi satya somapā ubhe babhūtha rodasī |
indrāsi sunvato vṛdhaḥ patir divaḥ ||अ॒भि । हि । स॒त्य॒ । सो॒म॒ऽपाः॒ । उ॒भे इति॑ । ब॒भूथ॑ । रोद॑सी॒ इति॑ ।
इन्द्र॑ । असि॑ । सु॒न्व॒तः । वृ॒धः । पतिः॑ । दि॒वः ॥अभि । हि । सत्य । सोमऽपाः । उभे इति । बभूथ । रोदसी इति ।
इन्द्र । असि । सुन्वतः । वृधः । पतिः । दिवः ॥abhí ǀ hí ǀ satya ǀ soma-pāḥ ǀ ubhé íti ǀ babhū́tha ǀ ródasī íti ǀ
índra ǀ ási ǀ sunvatáḥ ǀ vṛdháḥ ǀ pátiḥ ǀ diváḥ ǁabhi ǀ hi ǀ satya ǀ soma-pāḥ ǀ ubhe iti ǀ babhūtha ǀ rodasī iti ǀ
indra ǀ asi ǀ sunvataḥ ǀ vṛdhaḥ ǀ patiḥ ǀ divaḥ ǁ8.98.5 Aṣṭaka 6.7.1.0
-
Ṛk 6
त्वं हि शश्व॑तीना॒मिंद्र॑ द॒र्ता पु॒रामसि॑ ।
हं॒ता दस्यो॒र्मनो॑र्वृ॒धः पति॑र्दि॒वः ॥त्वं हि शश्वतीनाम् इन्द्र दर्ता पुराम् असि |
हन्ता दस्योर् मनोर् वृधः पतिर् दिवः ||tvám hí śáśvatīnāmíndra dartā́ purā́mási ǀ
hantā́ dásyormánorvṛdháḥ pátirdiváḥ ǁtvaṃ hi śaśvatīnām indra dartā purām asi |
hantā dasyor manor vṛdhaḥ patir divaḥ ||त्वम् । हि । शश्व॑तीनाम् । इन्द्र॑ । द॒र्ता । पु॒राम् । असि॑ ।
ह॒न्ता । दस्योः॑ । मनोः॑ । वृ॒धः । पतिः॑ । दि॒वः ॥त्वम् । हि । शश्वतीनाम् । इन्द्र । दर्ता । पुराम् । असि ।
हन्ता । दस्योः । मनोः । वृधः । पतिः । दिवः ॥tvám ǀ hí ǀ śáśvatīnām ǀ índra ǀ dartā́ ǀ purā́m ǀ ási ǀ
hantā́ ǀ dásyoḥ ǀ mánoḥ ǀ vṛdháḥ ǀ pátiḥ ǀ diváḥ ǁtvam ǀ hi ǀ śaśvatīnām ǀ indra ǀ dartā ǀ purām ǀ asi ǀ
hantā ǀ dasyoḥ ǀ manoḥ ǀ vṛdhaḥ ǀ patiḥ ǀ divaḥ ǁ8.98.6 Aṣṭaka 6.7.1.0
-
Ṛk 7
अधा॒ हीं॑द्र गिर्वण॒ उप॑ त्वा॒ कामा॑न्म॒हः स॑सृ॒ज्महे॑ ।
उ॒देव॒ यंत॑ उ॒दभिः॑ ॥अधा हीन्द्र गिर्वण उप त्वा कामान् महः ससृज्महे |
उदेव यन्त उदभिः ||ádhā hī́ndra girvaṇa úpa tvā kā́mānmaháḥ sasṛjmáhe ǀ
udéva yánta udábhiḥ ǁadhā hīndra girvaṇa upa tvā kāmān mahaḥ sasṛjmahe |
udeva yanta udabhiḥ ||अध॑ । हि । इ॒न्द्र॒ । गि॒र्व॒णः॒ । उप॑ । त्वा॒ । कामा॑न् । म॒हः । स॒सृ॒ज्महे॑ ।
उ॒दाऽइ॑व । यन्तः॑ । उ॒दऽभिः॑ ॥अध । हि । इन्द्र । गिर्वणः । उप । त्वा । कामान् । महः । ससृज्महे ।
उदाऽइव । यन्तः । उदऽभिः ॥ádha ǀ hí ǀ indra ǀ girvaṇaḥ ǀ úpa ǀ tvā ǀ kā́mān ǀ maháḥ ǀ sasṛjmáhe ǀ
udā́-iva ǀ yántaḥ ǀ udá-bhiḥ ǁadha ǀ hi ǀ indra ǀ girvaṇaḥ ǀ upa ǀ tvā ǀ kāmān ǀ mahaḥ ǀ sasṛjmahe ǀ
udā-iva ǀ yantaḥ ǀ uda-bhiḥ ǁ8.98.7 Aṣṭaka 6.7.2.0
-
Ṛk 8
वार्ण त्वा॑ य॒व्याभि॒र्वर्धं॑ति शूर॒ ब्रह्मा॑णि ।
वा॒वृ॒ध्वांसं॑ चिदद्रिवो दि॒वेदि॑वे ॥वार् ण त्वा यव्याभिर् वर्धन्ति शूर ब्रह्माणि |
वावृध्वांसं चिद् अद्रिवो दिवे-दिवे ||vā́rṇá tvā yavyā́bhirvárdhanti śūra bráhmāṇi ǀ
vāvṛdhvā́ṃsam cidadrivo divédive ǁvār ṇa tvā yavyābhir vardhanti śūra brahmāṇi |
vāvṛdhvāṃsaṃ cid adrivo dive-dive ||वाः । न । त्वा॒ । य॒व्याभिः॑ । वर्ध॑न्ति । शू॒र॒ । ब्रह्मा॑णि ।
व॒वृ॒ध्वांस॑म् । चि॒त् । अ॒द्रि॒ऽवः॒ । दि॒वेऽदि॑वे ॥वाः । न । त्वा । यव्याभिः । वर्धन्ति । शूर । ब्रह्माणि ।
ववृध्वांसम् । चित् । अद्रिऽवः । दिवेऽदिवे ॥vā́ḥ ǀ ná ǀ tvā ǀ yavyā́bhiḥ ǀ várdhanti ǀ śūra ǀ bráhmāṇi ǀ
vavṛdhvā́ṃsam ǀ cit ǀ adri-vaḥ ǀ divé-dive ǁvāḥ ǀ na ǀ tvā ǀ yavyābhiḥ ǀ vardhanti ǀ śūra ǀ brahmāṇi ǀ
vavṛdhvāṃsam ǀ cit ǀ adri-vaḥ ǀ dive-dive ǁ8.98.8 Aṣṭaka 6.7.2.0
-
Ṛk 9
युं॒जंति॒ हरी॑ इषि॒रस्य॒ गाथ॑यो॒रौ रथ॑ उ॒रुयु॑गे ।
इं॒द्र॒वाहा॑ वचो॒युजा॑ ॥युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे |
इन्द्रवाहा वचोयुजा ||yuñjánti hárī iṣirásya gā́thayoráu rátha urúyuge ǀ
indravā́hā vacoyújā ǁyuñjanti harī iṣirasya gāthayorau ratha uruyuge |
indravāhā vacoyujā ||यु॒ञ्जन्ति॑ । हरी॒ इति॑ । इ॒षि॒रस्य॑ । गाथ॑या । उ॒रौ । रथे॑ । उ॒रुऽयु॑गे ।
इ॒न्द्र॒ऽवाहा॑ । व॒चः॒ऽयुजा॑ ॥युञ्जन्ति । हरी इति । इषिरस्य । गाथया । उरौ । रथे । उरुऽयुगे ।
इन्द्रऽवाहा । वचःऽयुजा ॥yuñjánti ǀ hárī íti ǀ iṣirásya ǀ gā́thayā ǀ uráu ǀ ráthe ǀ urú-yuge ǀ
indra-vā́hā ǀ vacaḥ-yújā ǁyuñjanti ǀ harī iti ǀ iṣirasya ǀ gāthayā ǀ urau ǀ rathe ǀ uru-yuge ǀ
indra-vāhā ǀ vacaḥ-yujā ǁ8.98.9 Aṣṭaka 6.7.2.0
-
Ṛk 10
त्वं न॑ इं॒द्रा भ॑रँ॒ ओजो॑ नृ॒म्णं श॑तक्रतो विचर्षणे ।
आ वी॒रं पृ॑तना॒षहं॑ ॥त्वं न इन्द्रा भरं ओजो नृम्णं शतक्रतो विचर्षणे |
आ वीरम् पृतनाषहम् ||tvám na indrā́ bharam̐ ójo nṛmṇám śatakrato vicarṣaṇe ǀ
ā́ vīrám pṛtanāṣáham ǁtvaṃ na indrā bharaṃ ojo nṛmṇaṃ śatakrato vicarṣaṇe |
ā vīram pṛtanāṣaham ||त्वम् । नः॒ । इ॒न्द्र॒ । आ । भ॒र॒ । ओजः॑ । नृ॒म्णम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । वि॒ऽच॒र्ष॒णे॒ ।
आ । वी॒रम् । पृ॒त॒ना॒ऽसह॑म् ॥त्वम् । नः । इन्द्र । आ । भर । ओजः । नृम्णम् । शतक्रतो इति शतऽक्रतो । विऽचर्षणे ।
आ । वीरम् । पृतनाऽसहम् ॥tvám ǀ naḥ ǀ indra ǀ ā́ ǀ bhara ǀ ójaḥ ǀ nṛmṇám ǀ śatakrato íti śata-krato ǀ vi-carṣaṇe ǀ
ā́ ǀ vīrám ǀ pṛtanā-sáham ǁtvam ǀ naḥ ǀ indra ǀ ā ǀ bhara ǀ ojaḥ ǀ nṛmṇam ǀ śatakrato iti śata-krato ǀ vi-carṣaṇe ǀ
ā ǀ vīram ǀ pṛtanā-saham ǁ8.98.10 Aṣṭaka 6.7.2.0
-
Ṛk 11
त्वं हि नः॑ पि॒ता व॑सो॒ त्वं मा॒ता श॑तक्रतो ब॒भूवि॑थ ।
अधा॑ ते सु॒म्नमी॑महे ॥त्वं हि नः पिता वसो त्वम् माता शतक्रतो बभूविथ |
अधा ते सुम्नम् ईमहे ||tvám hí naḥ pitā́ vaso tvám mātā́ śatakrato babhū́vitha ǀ
ádhā te sumnámīmahe ǁtvaṃ hi naḥ pitā vaso tvam mātā śatakrato babhūvitha |
adhā te sumnam īmahe ||त्वम् । हि । नः॒ । पि॒ता । व॒सो॒ इति॑ । त्वम् । मा॒ता । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । ब॒भूवि॑थ ।
अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥त्वम् । हि । नः । पिता । वसो इति । त्वम् । माता । शतक्रतो इति शतऽक्रतो । बभूविथ ।
अध । ते । सुम्नम् । ईमहे ॥tvám ǀ hí ǀ naḥ ǀ pitā́ ǀ vaso íti ǀ tvám ǀ mātā́ ǀ śatakrato íti śata-krato ǀ babhū́vitha ǀ
ádha ǀ te ǀ sumnám ǀ īmahe ǁtvam ǀ hi ǀ naḥ ǀ pitā ǀ vaso iti ǀ tvam ǀ mātā ǀ śatakrato iti śata-krato ǀ babhūvitha ǀ
adha ǀ te ǀ sumnam ǀ īmahe ǁ8.98.11 Aṣṭaka 6.7.2.0
-
Ṛk 12
त्वां शु॑ष्मिन्पुरुहूत वाज॒यंत॒मुप॑ ब्रुवे शतक्रतो ।
स नो॑ रास्व सु॒वीर्यं॑ ॥त्वां शुष्मिन् पुरुहूत वाजयन्तम् उप ब्रुवे शतक्रतो |
स नो रास्व सुवीर्यम् ||tvā́m śuṣminpuruhūta vājayántamúpa bruve śatakrato ǀ
sá no rāsva suvī́ryam ǁtvāṃ śuṣmin puruhūta vājayantam upa bruve śatakrato |
sa no rāsva suvīryam ||त्वाम् । शु॒ष्मि॒न् । पु॒रु॒ऽहू॒त॒ । वा॒ज॒ऽयन्त॑म् । उप॑ । ब्रु॒वे॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
सः । नः॒ । रा॒स्व॒ । सु॒ऽवीर्य॑म् ॥त्वाम् । शुष्मिन् । पुरुऽहूत । वाजऽयन्तम् । उप । ब्रुवे । शतक्रतो इति शतऽक्रतो ।
सः । नः । रास्व । सुऽवीर्यम् ॥tvā́m ǀ śuṣmin ǀ puru-hūta ǀ vāja-yántam ǀ úpa ǀ bruve ǀ śatakrato íti śata-krato ǀ
sáḥ ǀ naḥ ǀ rāsva ǀ su-vī́ryam ǁtvām ǀ śuṣmin ǀ puru-hūta ǀ vāja-yantam ǀ upa ǀ bruve ǀ śatakrato iti śata-krato ǀ
saḥ ǀ naḥ ǀ rāsva ǀ su-vīryam ǁ8.98.12 Aṣṭaka 6.7.2.0
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.