Sūkta 71
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Purumīḷha Āṅgirasa; Sudīti Āṅgirasa
- Chandas छन्दस्
- Gāyatrī, Bṛhatī, Satobṛhatī
Metres by ṛk
1st set of styles nicṛdgāyatrī (2, 6, 8, 9); virāḍgāyatrī (1, 4, 7); gāyatrī (3, 5); nicṛdbṛhatī (10, 13); bṛhatī (11, 15); pādnicṛdbṛhatī (12); virāḍbṛhatī (14)
2nd set of styles gāyatrī (1-9); bṛhatī (10, 12, 14); satobṛhatī (11, 13, 15)
-
Ṛk 1
त्वं नो॑ अग्ने॒ महो॑भिः पा॒हि विश्व॑स्या॒ अरा॑तेः ।
उ॒त द्वि॒षो मर्त्य॑स्य ॥त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः |
उत द्विषो मर्त्यस्य ||tvám no agne máhobhiḥ pāhí víśvasyā árāteḥ ǀ
utá dviṣó mártyasya ǁtvaṃ no agne mahobhiḥ pāhi viśvasyā arāteḥ |
uta dviṣo martyasya ||त्वम् । नः॒ । अ॒ग्ने॒ । महः॑ऽभिः । पा॒हि । विश्व॑स्याः । अरा॑तेः ।
उ॒त । द्वि॒षः । मर्त्य॑स्य ॥त्वम् । नः । अग्ने । महःऽभिः । पाहि । विश्वस्याः । अरातेः ।
उत । द्विषः । मर्त्यस्य ॥tvám ǀ naḥ ǀ agne ǀ máhaḥ-bhiḥ ǀ pāhí ǀ víśvasyāḥ ǀ árāteḥ ǀ
utá ǀ dviṣáḥ ǀ mártyasya ǁtvam ǀ naḥ ǀ agne ǀ mahaḥ-bhiḥ ǀ pāhi ǀ viśvasyāḥ ǀ arāteḥ ǀ
uta ǀ dviṣaḥ ǀ martyasya ǁ8.71.1 Aṣṭaka 6.5.11.1Anuvāka 8.8.16
-
Ṛk 2
न॒हि म॒न्युः पौरु॑षेय॒ ईशे॒ हि वः॑ प्रियजात ।
त्वमिद॑सि॒ क्षपा॑वान् ॥नहि मन्युः पौरुषेय ईशे हि वः प्रियजात |
त्वम् इद् असि क्षपावान् ||nahí manyúḥ páuruṣeya ī́śe hí vaḥ priyajāta ǀ
tvámídasi kṣápāvān ǁnahi manyuḥ pauruṣeya īśe hi vaḥ priyajāta |
tvam id asi kṣapāvān ||न॒हि । म॒न्युः । पौरु॑षेयः । ईशे॑ । हि । वः॒ । प्रि॒य॒ऽजा॒त॒ ।
त्वम् । इत् । अ॒सि॒ । क्षपा॑ऽवान् ॥नहि । मन्युः । पौरुषेयः । ईशे । हि । वः । प्रियऽजात ।
त्वम् । इत् । असि । क्षपाऽवान् ॥nahí ǀ manyúḥ ǀ páuruṣeyaḥ ǀ ī́śe ǀ hí ǀ vaḥ ǀ priya-jāta ǀ
tvám ǀ ít ǀ asi ǀ kṣápā-vān ǁnahi ǀ manyuḥ ǀ pauruṣeyaḥ ǀ īśe ǀ hi ǀ vaḥ ǀ priya-jāta ǀ
tvam ǀ it ǀ asi ǀ kṣapā-vān ǁ8.71.2 Aṣṭaka 6.5.11.2Anuvāka 8.8.17
-
Ṛk 3
स नो॒ विश्वे॑भिर्दे॒वेभि॒रूर्जो॑ नपा॒द्भद्र॑शोचे ।
र॒यिं दे॑हि वि॒श्ववा॑रं ॥स नो विश्वेभिर् देवेभिर् ऊर्जो नपाद् भद्रशोचे |
रयिं देहि विश्ववारम् ||sá no víśvebhirdevébhirū́rjo napādbhádraśoce ǀ
rayím dehi viśvávāram ǁsa no viśvebhir devebhir ūrjo napād bhadraśoce |
rayiṃ dehi viśvavāram ||सः । नः॒ । विश्वे॑भिः । दे॒वेभिः॑ । ऊर्जः॑ । न॒पा॒त् । भद्र॑ऽशोचे ।
र॒यिम् । दे॒हि॒ । वि॒श्वऽवा॑रम् ॥सः । नः । विश्वेभिः । देवेभिः । ऊर्जः । नपात् । भद्रऽशोचे ।
रयिम् । देहि । विश्वऽवारम् ॥sáḥ ǀ naḥ ǀ víśvebhiḥ ǀ devébhiḥ ǀ ū́rjaḥ ǀ napāt ǀ bhádra-śoce ǀ
rayím ǀ dehi ǀ viśvá-vāram ǁsaḥ ǀ naḥ ǀ viśvebhiḥ ǀ devebhiḥ ǀ ūrjaḥ ǀ napāt ǀ bhadra-śoce ǀ
rayim ǀ dehi ǀ viśva-vāram ǁ8.71.3 Aṣṭaka 6.5.11.3Anuvāka 8.8.18
-
Ṛk 4
न तम॑ग्ने॒ अरा॑तयो॒ मर्तं॑ युवंत रा॒यः ।
यं त्राय॑से दा॒श्वांसं॑ ॥न तम् अग्ने अरातयो मर्तं युवन्त रायः |
यं त्रायसे दाश्वांसम् ||ná támagne árātayo mártam yuvanta rāyáḥ ǀ
yám trā́yase dāśvā́ṃsam ǁna tam agne arātayo martaṃ yuvanta rāyaḥ |
yaṃ trāyase dāśvāṃsam ||न । तम् । अ॒ग्ने॒ । अरा॑तयः । मर्त॑म् । यु॒व॒न्त॒ । रा॒यः ।
यम् । त्राय॑से । दा॒श्वांस॑म् ॥न । तम् । अग्ने । अरातयः । मर्तम् । युवन्त । रायः ।
यम् । त्रायसे । दाश्वांसम् ॥ná ǀ tám ǀ agne ǀ árātayaḥ ǀ mártam ǀ yuvanta ǀ rāyáḥ ǀ
yám ǀ trā́yase ǀ dāśvā́ṃsam ǁna ǀ tam ǀ agne ǀ arātayaḥ ǀ martam ǀ yuvanta ǀ rāyaḥ ǀ
yam ǀ trāyase ǀ dāśvāṃsam ǁ8.71.4 Aṣṭaka 6.5.11.4Anuvāka 8.8.19
-
Ṛk 5
यं त्वं वि॑प्र मे॒धसा॑ता॒वग्ने॑ हि॒नोषि॒ धना॑य ।
स तवो॒ती गोषु॒ गंता॑ ॥यं त्वं विप्र मेधसाताव् अग्ने हिनोषि धनाय |
स तवोती गोषु गन्ता ||yám tvám vipra medhásātāvágne hinóṣi dhánāya ǀ
sá távotī́ góṣu gántā ǁyaṃ tvaṃ vipra medhasātāv agne hinoṣi dhanāya |
sa tavotī goṣu gantā ||यम् । त्वम् । वि॒प्र॒ । मे॒धऽसा॑तौ । अग्ने॑ । हि॒नोषि॑ । धना॑य ।
सः । तव॑ । ऊ॒ती । गोषु॑ । गन्ता॑ ॥यम् । त्वम् । विप्र । मेधऽसातौ । अग्ने । हिनोषि । धनाय ।
सः । तव । ऊती । गोषु । गन्ता ॥yám ǀ tvám ǀ vipra ǀ medhá-sātau ǀ ágne ǀ hinóṣi ǀ dhánāya ǀ
sáḥ ǀ táva ǀ ūtī́ ǀ góṣu ǀ gántā ǁyam ǀ tvam ǀ vipra ǀ medha-sātau ǀ agne ǀ hinoṣi ǀ dhanāya ǀ
saḥ ǀ tava ǀ ūtī ǀ goṣu ǀ gantā ǁ8.71.5 Aṣṭaka 6.5.11.5Anuvāka 8.8.20
-
Ṛk 6
त्वं र॒यिं पु॑रु॒वीर॒मग्ने॑ दा॒शुषे॒ मर्ता॑य ।
प्र णो॑ नय॒ वस्यो॒ अच्छ॑ ॥त्वं रयिम् पुरुवीरम् अग्ने दाशुषे मर्ताय |
प्र णो नय वस्यो अच्छ ||tvám rayím puruvī́ramágne dāśúṣe mártāya ǀ
prá ṇo naya vásyo áccha ǁtvaṃ rayim puruvīram agne dāśuṣe martāya |
pra ṇo naya vasyo accha ||त्वम् । र॒यिम् । पु॒रु॒ऽवीर॑म् । अग्ने॑ । दा॒शुषे॑ । मर्ता॑य ।
प्र । नः॒ । न॒य॒ । वस्यः॑ । अच्छ॑ ॥त्वम् । रयिम् । पुरुऽवीरम् । अग्ने । दाशुषे । मर्ताय ।
प्र । नः । नय । वस्यः । अच्छ ॥tvám ǀ rayím ǀ puru-vī́ram ǀ ágne ǀ dāśúṣe ǀ mártāya ǀ
prá ǀ naḥ ǀ naya ǀ vásyaḥ ǀ áccha ǁtvam ǀ rayim ǀ puru-vīram ǀ agne ǀ dāśuṣe ǀ martāya ǀ
pra ǀ naḥ ǀ naya ǀ vasyaḥ ǀ accha ǁ8.71.6 Aṣṭaka 6.5.12.1Anuvāka 8.8.21
-
Ṛk 7
उ॒रु॒ष्या णो॒ मा परा॑ दा अघाय॒ते जा॑तवेदः ।
दु॒रा॒ध्ये॒३॒॑ मर्ता॑य ॥उरुष्या णो मा परा दा अघायते जातवेदः |
दुराध्ये मर्ताय ||uruṣyā́ ṇo mā́ párā dā aghāyaté jātavedaḥ ǀ
durādhyé mártāya ǁuruṣyā ṇo mā parā dā aghāyate jātavedaḥ |
durādhye martāya ||उ॒रु॒ष्य । नः॒ । मा । परा॑ । दाः॒ । अ॒घ॒ऽय॒ते । जा॒त॒ऽवे॒दः॒ ।
दुः॒ऽआ॒ध्ये॑ । मर्ता॑य ॥उरुष्य । नः । मा । परा । दाः । अघऽयते । जातऽवेदः ।
दुःऽआध्ये । मर्ताय ॥uruṣyá ǀ naḥ ǀ mā́ ǀ párā ǀ dāḥ ǀ agha-yaté ǀ jāta-vedaḥ ǀ
duḥ-ādhyé ǀ mártāya ǁuruṣya ǀ naḥ ǀ mā ǀ parā ǀ dāḥ ǀ agha-yate ǀ jāta-vedaḥ ǀ
duḥ-ādhye ǀ martāya ǁ8.71.7 Aṣṭaka 6.5.12.2Anuvāka 8.8.22
-
Ṛk 8
अग्ने॒ माकि॑ष्टे दे॒वस्य॑ रा॒तिमदे॑वो युयोत ।
त्वमी॑शिषे॒ वसू॑नां ॥अग्ने माकिष् टे देवस्य रातिम् अदेवो युयोत |
त्वम् ईशिषे वसूनाम् ||ágne mā́kiṣṭe devásya rātímádevo yuyota ǀ
tvámīśiṣe vásūnām ǁagne mākiṣ ṭe devasya rātim adevo yuyota |
tvam īśiṣe vasūnām ||अग्ने॑ । माकिः॑ । ते॒ । दे॒वस्य॑ । रा॒तिम् । अदे॑वः । यु॒यो॒त॒ ।
त्वम् । ई॒शि॒षे॒ । वसू॑नाम् ॥अग्ने । माकिः । ते । देवस्य । रातिम् । अदेवः । युयोत ।
त्वम् । ईशिषे । वसूनाम् ॥ágne ǀ mā́kiḥ ǀ te ǀ devásya ǀ rātím ǀ ádevaḥ ǀ yuyota ǀ
tvám ǀ īśiṣe ǀ vásūnām ǁagne ǀ mākiḥ ǀ te ǀ devasya ǀ rātim ǀ adevaḥ ǀ yuyota ǀ
tvam ǀ īśiṣe ǀ vasūnām ǁ8.71.8 Aṣṭaka 6.5.12.3Anuvāka 8.8.23
-
Ṛk 9
स नो॒ वस्व॒ उप॑ मा॒स्यूर्जो॑ नपा॒न्माहि॑नस्य ।
सखे॑ वसो जरि॒तृभ्यः॑ ॥स नो वस्व उप मास्य् ऊर्जो नपान् माहिनस्य |
सखे वसो जरितृभ्यः ||sá no vásva úpa māsyū́rjo napānmā́hinasya ǀ
sákhe vaso jaritṛ́bhyaḥ ǁsa no vasva upa māsy ūrjo napān māhinasya |
sakhe vaso jaritṛbhyaḥ ||सः । नः॒ । वस्वः॑ । उप॑ । मा॒सि॒ । ऊर्जः॑ । न॒पा॒त् । माहि॑नस्य ।
सखे॑ । व॒सो॒ इति॑ । ज॒रि॒तृऽभ्यः॑ ॥सः । नः । वस्वः । उप । मासि । ऊर्जः । नपात् । माहिनस्य ।
सखे । वसो इति । जरितृऽभ्यः ॥sáḥ ǀ naḥ ǀ vásvaḥ ǀ úpa ǀ māsi ǀ ū́rjaḥ ǀ napāt ǀ mā́hinasya ǀ
sákhe ǀ vaso íti ǀ jaritṛ́-bhyaḥ ǁsaḥ ǀ naḥ ǀ vasvaḥ ǀ upa ǀ māsi ǀ ūrjaḥ ǀ napāt ǀ māhinasya ǀ
sakhe ǀ vaso iti ǀ jaritṛ-bhyaḥ ǁ8.71.9 Aṣṭaka 6.5.12.4Anuvāka 8.8.24
-
Ṛk 10
अच्छा॑ नः शी॒रशो॑चिषं॒ गिरो॑ यंतु दर्श॒तं ।
अच्छा॑ य॒ज्ञासो॒ नम॑सा पुरू॒वसुं॑ पुरुप्रश॒स्तमू॒तये॑ ॥अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् |
अच्छा यज्ञासो नमसा पुरूवसुम् पुरुप्रशस्तम् ऊतये ||ácchā naḥ śīráśociṣam gíro yantu darśatám ǀ
ácchā yajñā́so námasā purūvásum purupraśastámūtáye ǁacchā naḥ śīraśociṣaṃ giro yantu darśatam |
acchā yajñāso namasā purūvasum purupraśastam ūtaye ||अच्छ॑ । नः॒ । शी॒रऽशो॑चिषम् । गिरः॑ । य॒न्तु॒ । द॒र्श॒तम् ।
अच्छ॑ । य॒ज्ञासः॑ । नम॑सा । पु॒रु॒ऽवसु॑म् । पु॒रु॒ऽप्र॒श॒स्तम् । ऊ॒तये॑ ॥अच्छ । नः । शीरऽशोचिषम् । गिरः । यन्तु । दर्शतम् ।
अच्छ । यज्ञासः । नमसा । पुरुऽवसुम् । पुरुऽप्रशस्तम् । ऊतये ॥áccha ǀ naḥ ǀ śīrá-śociṣam ǀ gíraḥ ǀ yantu ǀ darśatám ǀ
áccha ǀ yajñā́saḥ ǀ námasā ǀ puru-vásum ǀ puru-praśastám ǀ ūtáye ǁaccha ǀ naḥ ǀ śīra-śociṣam ǀ giraḥ ǀ yantu ǀ darśatam ǀ
accha ǀ yajñāsaḥ ǀ namasā ǀ puru-vasum ǀ puru-praśastam ǀ ūtaye ǁ8.71.10 Aṣṭaka 6.5.12.5Anuvāka 8.8.25
-
Ṛk 11
अ॒ग्निं सू॒नुं सह॑सो जा॒तवे॑दसं दा॒नाय॒ वार्या॑णां ।
द्वि॒ता यो भूद॒मृतो॒ मर्त्ये॒ष्वा होता॑ मं॒द्रत॑मो वि॒शि ॥अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् |
द्विता यो भूद् अमृतो मर्त्येष्व् आ होता मन्द्रतमो विशि ||agním sūnúm sáhaso jātávedasam dānā́ya vā́ryāṇām ǀ
dvitā́ yó bhū́damṛ́to mártyeṣvā́ hótā mandrátamo viśí ǁagniṃ sūnuṃ sahaso jātavedasaṃ dānāya vāryāṇām |
dvitā yo bhūd amṛto martyeṣv ā hotā mandratamo viśi ||अ॒ग्निम् । सू॒नुम् । सह॑सः । जा॒तऽवे॑दसम् । दा॒नाय॑ । वार्या॑णाम् ।
द्वि॒ता । यः । भूत् । अ॒मृतः॑ । मर्त्ये॑षु । आ । होता॑ । म॒न्द्रऽत॑मः । वि॒शि ॥अग्निम् । सूनुम् । सहसः । जातऽवेदसम् । दानाय । वार्याणाम् ।
द्विता । यः । भूत् । अमृतः । मर्त्येषु । आ । होता । मन्द्रऽतमः । विशि ॥agním ǀ sūnúm ǀ sáhasaḥ ǀ jātá-vedasam ǀ dānā́ya ǀ vā́ryāṇām ǀ
dvitā́ ǀ yáḥ ǀ bhū́t ǀ amṛ́taḥ ǀ mártyeṣu ǀ ā́ ǀ hótā ǀ mandrá-tamaḥ ǀ viśí ǁagnim ǀ sūnum ǀ sahasaḥ ǀ jāta-vedasam ǀ dānāya ǀ vāryāṇām ǀ
dvitā ǀ yaḥ ǀ bhūt ǀ amṛtaḥ ǀ martyeṣu ǀ ā ǀ hotā ǀ mandra-tamaḥ ǀ viśi ǁ8.71.11 Aṣṭaka 6.5.13.1Anuvāka 8.8.26
-
Ṛk 12
अ॒ग्निं वो॑ देवय॒ज्यया॒ग्निं प्र॑य॒त्य॑ध्व॒रे ।
अ॒ग्निं धी॒षु प्र॑थ॒मम॒ग्निमर्व॑त्य॒ग्निं क्षैत्रा॑य॒ साध॑से ॥अग्निं वो देवयज्ययाग्निम् प्रयत्य् अध्वरे |
अग्निं धीषु प्रथमम् अग्निम् अर्वत्य् अग्निं क्षैत्राय साधसे ||agním vo devayajyáyāgním prayatyádhvaré ǀ
agním dhīṣú prathamámagnímárvatyagním kṣáitrāya sā́dhase ǁagniṃ vo devayajyayāgnim prayaty adhvare |
agniṃ dhīṣu prathamam agnim arvaty agniṃ kṣaitrāya sādhase ||अ॒ग्निम् । वः॒ । दे॒व॒ऽय॒ज्यया॑ । अ॒ग्निम् । प्र॒ऽय॒ति । अ॒ध्व॒रे ।
अ॒ग्निम् । धी॒षु । प्र॒थ॒मम् । अ॒ग्निम् । अर्व॑ति । अ॒ग्निम् । क्षैत्रा॑य । साध॑से ॥अग्निम् । वः । देवऽयज्यया । अग्निम् । प्रऽयति । अध्वरे ।
अग्निम् । धीषु । प्रथमम् । अग्निम् । अर्वति । अग्निम् । क्षैत्राय । साधसे ॥agním ǀ vaḥ ǀ deva-yajyáyā ǀ agním ǀ pra-yatí ǀ adhvaré ǀ
agním ǀ dhīṣú ǀ prathamám ǀ agním ǀ árvati ǀ agním ǀ kṣáitrāya ǀ sā́dhase ǁagnim ǀ vaḥ ǀ deva-yajyayā ǀ agnim ǀ pra-yati ǀ adhvare ǀ
agnim ǀ dhīṣu ǀ prathamam ǀ agnim ǀ arvati ǀ agnim ǀ kṣaitrāya ǀ sādhase ǁ8.71.12 Aṣṭaka 6.5.13.2Anuvāka 8.8.27
-
Ṛk 13
अ॒ग्निरि॒षां स॒ख्ये द॑दातु न॒ ईशे॒ यो वार्या॑णां ।
अ॒ग्निं तो॒के तन॑ये॒ शश्व॑दीमहे॒ वसुं॒ संतं॑ तनू॒पां ॥अग्निर् इषां सख्ये ददातु न ईशे यो वार्याणाम् |
अग्निं तोके तनये शश्वद् ईमहे वसुं सन्तं तनूपाम् ||agníriṣā́m sakhyé dadātu na ī́śe yó vā́ryāṇām ǀ
agním toké tánaye śáśvadīmahe vásum sántam tanūpā́m ǁagnir iṣāṃ sakhye dadātu na īśe yo vāryāṇām |
agniṃ toke tanaye śaśvad īmahe vasuṃ santaṃ tanūpām ||अ॒ग्निः । इ॒षाम् । स॒ख्ये । द॒दा॒तु॒ । नः॒ । ईशे॑ । यः । वार्या॑णाम् ।
अ॒ग्निम् । तो॒के । तन॑ये । शश्व॑त् । ई॒म॒हे॒ । वसु॑म् । सन्त॑म् । त॒नू॒ऽपाम् ॥अग्निः । इषाम् । सख्ये । ददातु । नः । ईशे । यः । वार्याणाम् ।
अग्निम् । तोके । तनये । शश्वत् । ईमहे । वसुम् । सन्तम् । तनूऽपाम् ॥agníḥ ǀ iṣā́m ǀ sakhyé ǀ dadātu ǀ naḥ ǀ ī́śe ǀ yáḥ ǀ vā́ryāṇām ǀ
agním ǀ toké ǀ tánaye ǀ śáśvat ǀ īmahe ǀ vásum ǀ sántam ǀ tanū-pā́m ǁagniḥ ǀ iṣām ǀ sakhye ǀ dadātu ǀ naḥ ǀ īśe ǀ yaḥ ǀ vāryāṇām ǀ
agnim ǀ toke ǀ tanaye ǀ śaśvat ǀ īmahe ǀ vasum ǀ santam ǀ tanū-pām ǁ8.71.13 Aṣṭaka 6.5.13.3Anuvāka 8.8.28
-
Ṛk 14
अ॒ग्निमी॑ळि॒ष्वाव॑से॒ गाथा॑भिः शी॒रशो॑चिषं ।
अ॒ग्निं रा॒ये पु॑रुमीळ्ह श्रु॒तं नरो॒ऽग्निं सु॑दी॒तये॑ छ॒र्दिः ॥अग्निम् ईऌइष्वावसे गाथाभिः शीरशोचिषम् |
अग्निं राये पुरुमीऌह श्रुतं नरो ऽग्निं सुदीतये छर्दिः ||agnímīḷiṣvā́vase gā́thābhiḥ śīráśociṣam ǀ
agním rāyé purumīḷha śrutám náro’gním sudītáye chardíḥ ǁagnim īḷiṣvāvase gāthābhiḥ śīraśociṣam |
agniṃ rāye purumīḷha śrutaṃ naro 'gniṃ sudītaye chardiḥ ||अ॒ग्निम् । ई॒ळि॒ष्व॒ । अव॑से । गाथा॑भिः । शी॒रऽशो॑चिषम् ।
अ॒ग्निम् । रा॒ये । पु॒रु॒ऽमी॒ळ्ह॒ । श्रु॒तम् । नरः॑ । अ॒ग्निम् । सु॒ऽदी॒तये॑ । छ॒र्दिः ॥अग्निम् । ईळिष्व । अवसे । गाथाभिः । शीरऽशोचिषम् ।
अग्निम् । राये । पुरुऽमीळ्ह । श्रुतम् । नरः । अग्निम् । सुऽदीतये । छर्दिः ॥agním ǀ īḷiṣva ǀ ávase ǀ gā́thābhiḥ ǀ śīrá-śociṣam ǀ
agním ǀ rāyé ǀ puru-mīḷha ǀ śrutám ǀ náraḥ ǀ agním ǀ su-dītáye ǀ chardíḥ ǁagnim ǀ īḷiṣva ǀ avase ǀ gāthābhiḥ ǀ śīra-śociṣam ǀ
agnim ǀ rāye ǀ puru-mīḷha ǀ śrutam ǀ naraḥ ǀ agnim ǀ su-dītaye ǀ chardiḥ ǁ8.71.14 Aṣṭaka 6.5.13.4Anuvāka 8.8.29
-
Ṛk 15
अ॒ग्निं द्वेषो॒ योत॒वै नो॑ गृणीमस्य॒ग्निं शं योश्च॒ दात॑वे ।
विश्वा॑सु वि॒क्ष्व॑वि॒तेव॒ हव्यो॒ भुव॒द्वस्तु॑र्ऋषू॒णां ॥अग्निं द्वेषो योतवै नो गृणीमस्य् अग्निं शं योश् च दातवे |
विश्वासु विक्ष्व् अवितेव हव्यो भुवद् वस्तुर् ऋषूणाम् ||agním dvéṣo yótavái no gṛṇīmasyagním śám yóśca dā́tave ǀ
víśvāsu vikṣvávitéva hávyo bhúvadvásturṛṣūṇā́m ǁagniṃ dveṣo yotavai no gṛṇīmasy agniṃ śaṃ yoś ca dātave |
viśvāsu vikṣv aviteva havyo bhuvad vastur ṛṣūṇām ||अ॒ग्निम् । द्वेषः॑ । योत॒वै । नः॒ । गृ॒णी॒म॒सि॒ । अ॒ग्निम् । शम् । योः । च॒ । दात॑वे ।
विश्वा॑सु । वि॒क्षु । अ॒वि॒ताऽइ॑व । हव्यः॑ । भुव॑त् । वस्तुः॑ । ऋ॒षू॒णाम् ॥अग्निम् । द्वेषः । योतवै । नः । गृणीमसि । अग्निम् । शम् । योः । च । दातवे ।
विश्वासु । विक्षु । अविताऽइव । हव्यः । भुवत् । वस्तुः । ऋषूणाम् ॥agním ǀ dvéṣaḥ ǀ yótavái ǀ naḥ ǀ gṛṇīmasi ǀ agním ǀ śám ǀ yóḥ ǀ ca ǀ dā́tave ǀ
víśvāsu ǀ vikṣú ǀ avitā́-iva ǀ hávyaḥ ǀ bhúvat ǀ vástuḥ ǀ ṛṣūṇā́m ǁagnim ǀ dveṣaḥ ǀ yotavai ǀ naḥ ǀ gṛṇīmasi ǀ agnim ǀ śam ǀ yoḥ ǀ ca ǀ dātave ǀ
viśvāsu ǀ vikṣu ǀ avitā-iva ǀ havyaḥ ǀ bhuvat ǀ vastuḥ ǀ ṛṣūṇām ǁ8.71.15 Aṣṭaka 6.5.13.5Anuvāka 8.8.30
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.