Sūkta 96
- Devatā देवता
- 1-13, 16-20: Indra; 14: Indra (C); Maruts (D);; 15: Indra, Bṛhaspati; 21: Indra, Soma
- Ṛṣi ऋषि
- Tiraścī Āṅgirasa Or Dyutāna Māruti
- Chandas छन्दस्
- Triṣṭubh, Virāj
Metres by ṛk
1st set of styles virāṭtrisṭup (3, 6, 7, 10, 11, 16); nicṛttriṣṭup (1, 2, 5, 13, 14); triṣṭup (8, 9, 12); pādanicṛttriṣṭup (15, 18, 19); paṅktiḥ (4, 17); nicṛtpaṅkti (20); virāṭpaṅkti (21)
2nd set of styles triṣṭubh (1-3, 5-21); virāj (4)
-
Ṛk 1
अ॒स्मा उ॒षास॒ आति॑रंत॒ याम॒मिंद्रा॑य॒ नक्त॒मूर्म्याः॑ सु॒वाचः॑ ।
अ॒स्मा आपो॑ मा॒तरः॑ स॒प्त त॑स्थु॒र्नृभ्य॒स्तरा॑य॒ सिंध॑वः सुपा॒राः ॥अस्मा उषास आतिरन्त यामम् इन्द्राय नक्तम् ऊर्म्याः सुवाचः |
अस्मा आपो मातरः सप्त तस्थुर् नृभ्यस् तराय सिन्धवः सुपाराः ||asmā́ uṣā́sa ā́tiranta yā́mamíndrāya náktamū́rmyāḥ suvā́caḥ ǀ
asmā́ ā́po mātáraḥ saptá tasthurnṛ́bhyastárāya síndhavaḥ supārā́ḥ ǁasmā uṣāsa ātiranta yāmam indrāya naktam ūrmyāḥ suvācaḥ |
asmā āpo mātaraḥ sapta tasthur nṛbhyas tarāya sindhavaḥ supārāḥ ||अ॒स्मै । उ॒षसः॑ । आ । अ॒ति॒र॒न्त॒ । याम॑म् । इन्द्रा॑य । नक्त॑म् । ऊर्म्याः॑ । सु॒ऽवाचः॑ ।
अ॒स्मै । आपः॑ । मा॒तरः॑ । स॒प्त । त॒स्थुः॒ । नृऽभ्यः॑ । तरा॑य । सिन्ध॑वः । सु॒ऽपा॒राः ॥अस्मै । उषसः । आ । अतिरन्त । यामम् । इन्द्राय । नक्तम् । ऊर्म्याः । सुऽवाचः ।
अस्मै । आपः । मातरः । सप्त । तस्थुः । नृऽभ्यः । तराय । सिन्धवः । सुऽपाराः ॥asmái ǀ uṣásaḥ ǀ ā́ ǀ atiranta ǀ yā́mam ǀ índrāya ǀ náktam ǀ ū́rmyāḥ ǀ su-vā́caḥ ǀ
asmái ǀ ā́paḥ ǀ mātáraḥ ǀ saptá ǀ tasthuḥ ǀ nṛ́-bhyaḥ ǀ tárāya ǀ síndhavaḥ ǀ su-pārā́ḥ ǁasmai ǀ uṣasaḥ ǀ ā ǀ atiranta ǀ yāmam ǀ indrāya ǀ naktam ǀ ūrmyāḥ ǀ su-vācaḥ ǀ
asmai ǀ āpaḥ ǀ mātaraḥ ǀ sapta ǀ tasthuḥ ǀ nṛ-bhyaḥ ǀ tarāya ǀ sindhavaḥ ǀ su-pārāḥ ǁ8.96.1 Aṣṭaka 6.6.32.1Anuvāka 8.10.22
-
Ṛk 2
अति॑विद्धा विथु॒रेणा॑ चि॒दस्त्रा॒ त्रिः स॒प्त सानु॒ संहि॑ता गिरी॒णां ।
न तद्दे॒वो न मर्त्य॑स्तुतुर्या॒द्यानि॒ प्रवृ॑द्धो वृष॒भश्च॒कार॑ ॥अतिविद्धा विथुरेणा चिद् अस्त्रा त्रिः सप्त सानु संहिता गिरीणाम् |
न तद् देवो न मर्त्यस् तुतुर्याद् यानि प्रवृद्धो वृषभश् चकार ||átividdhā vithuréṇā cidástrā tríḥ saptá sā́nu sáṃhitā girīṇā́m ǀ
ná táddevó ná mártyastuturyādyā́ni právṛddho vṛṣabháścakā́ra ǁatividdhā vithureṇā cid astrā triḥ sapta sānu saṃhitā girīṇām |
na tad devo na martyas tuturyād yāni pravṛddho vṛṣabhaś cakāra ||अति॑ऽविद्धा । वि॒थु॒रेण॑ । चि॒त् । अस्त्रा॑ । त्रिः । स॒प्त । सानु॑ । सम्ऽहि॑ता । गि॒री॒णाम् ।
न । तत् । दे॒वः । न । मर्त्यः॑ । तु॒तु॒र्या॒त् । यानि॑ । प्रऽवृ॑द्धः । वृ॒ष॒भः । च॒कार॑ ॥अतिऽविद्धा । विथुरेण । चित् । अस्त्रा । त्रिः । सप्त । सानु । सम्ऽहिता । गिरीणाम् ।
न । तत् । देवः । न । मर्त्यः । तुतुर्यात् । यानि । प्रऽवृद्धः । वृषभः । चकार ॥áti-viddhā ǀ vithuréṇa ǀ cit ǀ ástrā ǀ tríḥ ǀ saptá ǀ sā́nu ǀ sám-hitā ǀ girīṇā́m ǀ
ná ǀ tát ǀ deváḥ ǀ ná ǀ mártyaḥ ǀ tuturyāt ǀ yā́ni ǀ prá-vṛddhaḥ ǀ vṛṣabháḥ ǀ cakā́ra ǁati-viddhā ǀ vithureṇa ǀ cit ǀ astrā ǀ triḥ ǀ sapta ǀ sānu ǀ sam-hitā ǀ girīṇām ǀ
na ǀ tat ǀ devaḥ ǀ na ǀ martyaḥ ǀ tuturyāt ǀ yāni ǀ pra-vṛddhaḥ ǀ vṛṣabhaḥ ǀ cakāra ǁ8.96.2 Aṣṭaka 6.6.32.2Anuvāka 8.10.23
-
Ṛk 3
इंद्र॑स्य॒ वज्र॑ आय॒सो निमि॑श्ल॒ इंद्र॑स्य बा॒ह्वोर्भूयि॑ष्ठ॒मोजः॑ ।
शी॒र्षन्निंद्र॑स्य॒ क्रत॑वो निरे॒क आ॒सन्नेषं॑त॒ श्रुत्या॑ उपा॒के ॥इन्द्रस्य वज्र आयसो निमिश्ल इन्द्रस्य बाह्वोर् भूयिष्ठम् ओजः |
शीर्षन्न् इन्द्रस्य क्रतवो निरेक आसन्न् एषन्त श्रुत्या उपाके ||índrasya vájra āyasó nímiśla índrasya bāhvórbhū́yiṣṭhamójaḥ ǀ
śīrṣánníndrasya krátavo nireká āsánnéṣanta śrútyā upāké ǁindrasya vajra āyaso nimiśla indrasya bāhvor bhūyiṣṭham ojaḥ |
śīrṣann indrasya kratavo nireka āsann eṣanta śrutyā upāke ||इन्द्र॑स्य । वज्रः॑ । आ॒य॒सः । निऽमि॑श्लः । इन्द्र॑स्य । बा॒ह्वोः । भूयि॑ष्ठम् । ओजः॑ ।
शी॒र्षन् । इन्द्र॑स्य । क्रत॑वः । नि॒रे॒के । आ॒सन् । आ । ई॒ष॒न्त॒ । श्रुत्यै॑ । उ॒पा॒के ॥इन्द्रस्य । वज्रः । आयसः । निऽमिश्लः । इन्द्रस्य । बाह्वोः । भूयिष्ठम् । ओजः ।
शीर्षन् । इन्द्रस्य । क्रतवः । निरेके । आसन् । आ । ईषन्त । श्रुत्यै । उपाके ॥índrasya ǀ vájraḥ ǀ āyasáḥ ǀ ní-miślaḥ ǀ índrasya ǀ bāhvóḥ ǀ bhū́yiṣṭham ǀ ójaḥ ǀ
śīrṣán ǀ índrasya ǀ krátavaḥ ǀ nireké ǀ āsán ǀ ā́ ǀ īṣanta ǀ śrútyai ǀ upāké ǁindrasya ǀ vajraḥ ǀ āyasaḥ ǀ ni-miślaḥ ǀ indrasya ǀ bāhvoḥ ǀ bhūyiṣṭham ǀ ojaḥ ǀ
śīrṣan ǀ indrasya ǀ kratavaḥ ǀ nireke ǀ āsan ǀ ā ǀ īṣanta ǀ śrutyai ǀ upāke ǁ8.96.3 Aṣṭaka 6.6.32.3Anuvāka 8.10.24
-
Ṛk 4
मन्ये॑ त्वा य॒ज्ञियं॑ य॒ज्ञिया॑नां॒ मन्ये॑ त्वा॒ च्यव॑न॒मच्यु॑तानां ।
मन्ये॑ त्वा॒ सत्व॑नामिंद्र के॒तुं मन्ये॑ त्वा वृष॒भं च॑र्षणी॒नां ॥मन्ये त्वा यज्ञियं यज्ञियानाम् मन्ये त्वा च्यवनम् अच्युतानाम् |
मन्ये त्वा सत्वनाम् इन्द्र केतुम् मन्ये त्वा वृषभं चर्षणीनाम् ||mánye tvā yajñíyam yajñíyānām mánye tvā cyávanamácyutānām ǀ
mánye tvā sátvanāmindra ketúm mánye tvā vṛṣabhám carṣaṇīnā́m ǁmanye tvā yajñiyaṃ yajñiyānām manye tvā cyavanam acyutānām |
manye tvā satvanām indra ketum manye tvā vṛṣabhaṃ carṣaṇīnām ||मन्ये॑ । त्वा॒ । य॒ज्ञिय॑म् । य॒ज्ञिया॑नाम् । मन्ये॑ । त्वा॒ । च्यव॑नम् । अच्यु॑तानाम् ।
मन्ये॑ । त्वा॒ । सत्व॑नाम् । इ॒न्द्र॒ । के॒तुम् । मन्ये॑ । त्वा॒ । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् ॥मन्ये । त्वा । यज्ञियम् । यज्ञियानाम् । मन्ये । त्वा । च्यवनम् । अच्युतानाम् ।
मन्ये । त्वा । सत्वनाम् । इन्द्र । केतुम् । मन्ये । त्वा । वृषभम् । चर्षणीनाम् ॥mánye ǀ tvā ǀ yajñíyam ǀ yajñíyānām ǀ mánye ǀ tvā ǀ cyávanam ǀ ácyutānām ǀ
mánye ǀ tvā ǀ sátvanām ǀ indra ǀ ketúm ǀ mánye ǀ tvā ǀ vṛṣabhám ǀ carṣaṇīnā́m ǁmanye ǀ tvā ǀ yajñiyam ǀ yajñiyānām ǀ manye ǀ tvā ǀ cyavanam ǀ acyutānām ǀ
manye ǀ tvā ǀ satvanām ǀ indra ǀ ketum ǀ manye ǀ tvā ǀ vṛṣabham ǀ carṣaṇīnām ǁ8.96.4 Aṣṭaka 6.6.32.4Anuvāka 8.10.25
-
Ṛk 5
आ यद्वज्रं॑ बा॒ह्वोरिं॑द्र॒ धत्से॑ मद॒च्युत॒मह॑ये॒ हंत॒वा उ॑ ।
प्र पर्व॑ता॒ अन॑वंत॒ प्र गावः॒ प्र ब्र॒ह्माणो॑ अभि॒नक्षं॑त॒ इंद्रं॑ ॥आ यद् वज्रम् बाह्वोर् इन्द्र धत्से मदच्युतम् अहये हन्तवा उ |
प्र पर्वता अनवन्त प्र गावः प्र ब्रह्माणो अभिनक्षन्त इन्द्रम् ||ā́ yádvájram bāhvórindra dhátse madacyútamáhaye hántavā́ u ǀ
prá párvatā ánavanta prá gā́vaḥ prá brahmā́ṇo abhinákṣanta índram ǁā yad vajram bāhvor indra dhatse madacyutam ahaye hantavā u |
pra parvatā anavanta pra gāvaḥ pra brahmāṇo abhinakṣanta indram ||आ । यत् । वज्र॑म् । बा॒ह्वोः । इ॒न्द्र॒ । धत्से॑ । म॒द॒ऽच्युत॑म् । अह॑ये । हन्त॒वै । ऊं॒ इति॑ ।
प्र । पर्व॑ताः । अन॑वन्त । प्र । गावः॑ । प्र । ब्र॒ह्माणः॑ । अ॒भि॒ऽनक्ष॑न्तः । इन्द्र॑म् ॥आ । यत् । वज्रम् । बाह्वोः । इन्द्र । धत्से । मदऽच्युतम् । अहये । हन्तवै । ऊं इति ।
प्र । पर्वताः । अनवन्त । प्र । गावः । प्र । ब्रह्माणः । अभिऽनक्षन्तः । इन्द्रम् ॥ā́ ǀ yát ǀ vájram ǀ bāhvóḥ ǀ indra ǀ dhátse ǀ mada-cyútam ǀ áhaye ǀ hántavái ǀ ūṃ íti ǀ
prá ǀ párvatāḥ ǀ ánavanta ǀ prá ǀ gā́vaḥ ǀ prá ǀ brahmā́ṇaḥ ǀ abhi-nákṣantaḥ ǀ índram ǁā ǀ yat ǀ vajram ǀ bāhvoḥ ǀ indra ǀ dhatse ǀ mada-cyutam ǀ ahaye ǀ hantavai ǀ ūṃ iti ǀ
pra ǀ parvatāḥ ǀ anavanta ǀ pra ǀ gāvaḥ ǀ pra ǀ brahmāṇaḥ ǀ abhi-nakṣantaḥ ǀ indram ǁ8.96.5 Aṣṭaka 6.6.32.5Anuvāka 8.10.26
-
Ṛk 6
तमु॑ ष्टवाम॒ य इ॒मा ज॒जान॒ विश्वा॑ जा॒तान्यव॑राण्यस्मात् ।
इंद्रे॑ण मि॒त्रं दि॑धिषेम गी॒र्भिरुपो॒ नमो॑भिर्वृष॒भं वि॑शेम ॥तम् उ ष्टवाम य इमा जजान विश्वा जातान्य् अवराण्य् अस्मात् |
इन्द्रेण मित्रं दिधिषेम गीर्भिर् उपो नमोभिर् वृषभं विशेम ||támu ṣṭavāma yá imā́ jajā́na víśvā jātā́nyávarāṇyasmāt ǀ
índreṇa mitrám didhiṣema gīrbhírúpo námobhirvṛṣabhám viśema ǁtam u ṣṭavāma ya imā jajāna viśvā jātāny avarāṇy asmāt |
indreṇa mitraṃ didhiṣema gīrbhir upo namobhir vṛṣabhaṃ viśema ||तम् । ऊं॒ इति॑ । स्त॒वा॒म॒ । यः । इ॒मा । ज॒जान॑ । विश्वा॑ । जा॒तानि॑ । अव॑राणि । अ॒स्मा॒त् ।
इन्द्रे॑ण । मि॒त्रम् । दि॒धि॒षे॒म॒ । गीः॒ऽभिः । उपो॒ इति॑ । नमः॑ऽभिः । वृ॒ष॒भम् । वि॒शे॒म॒ ॥तम् । ऊं इति । स्तवाम । यः । इमा । जजान । विश्वा । जातानि । अवराणि । अस्मात् ।
इन्द्रेण । मित्रम् । दिधिषेम । गीःऽभिः । उपो इति । नमःऽभिः । वृषभम् । विशेम ॥tám ǀ ūṃ íti ǀ stavāma ǀ yáḥ ǀ imā́ ǀ jajā́na ǀ víśvā ǀ jātā́ni ǀ ávarāṇi ǀ asmāt ǀ
índreṇa ǀ mitrám ǀ didhiṣema ǀ gīḥ-bhíḥ ǀ úpo íti ǀ námaḥ-bhiḥ ǀ vṛṣabhám ǀ viśema ǁtam ǀ ūṃ iti ǀ stavāma ǀ yaḥ ǀ imā ǀ jajāna ǀ viśvā ǀ jātāni ǀ avarāṇi ǀ asmāt ǀ
indreṇa ǀ mitram ǀ didhiṣema ǀ gīḥ-bhiḥ ǀ upo iti ǀ namaḥ-bhiḥ ǀ vṛṣabham ǀ viśema ǁ8.96.6 Aṣṭaka 6.6.33.1Anuvāka 8.10.27
-
Ṛk 7
वृ॒त्रस्य॑ त्वा श्व॒सथा॒दीष॑माणा॒ विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः ।
म॒रुद्भि॑रिंद्र स॒ख्यं ते॑ अ॒स्त्वथे॒मा विश्वाः॒ पृत॑ना जयासि ॥वृत्रस्य त्वा श्वसथाद् ईषमाणा विश्वे देवा अजहुर् ये सखायः |
मरुद्भिर् इन्द्र सख्यं ते अस्त्व् अथेमा विश्वाः पृतना जयासि ||vṛtrásya tvā śvasáthādī́ṣamāṇā víśve devā́ ajahuryé sákhāyaḥ ǀ
marúdbhirindra sakhyám te astváthemā́ víśvāḥ pṛ́tanā jayāsi ǁvṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ |
marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsi ||वृ॒त्रस्य॑ । त्वा॒ । श्व॒सथा॑त् । ईष॑माणाः । विश्वे॑ । दे॒वाः । अ॒ज॒हुः॒ । ये । सखा॑यः ।
म॒रुत्ऽभिः॑ । इ॒न्द्र॒ । स॒ख्यम् । ते॒ । अ॒स्तु॒ । अथ॑ । इ॒माः । विश्वाः॑ । पृत॑नाः । ज॒या॒सि॒ ॥वृत्रस्य । त्वा । श्वसथात् । ईषमाणाः । विश्वे । देवाः । अजहुः । ये । सखायः ।
मरुत्ऽभिः । इन्द्र । सख्यम् । ते । अस्तु । अथ । इमाः । विश्वाः । पृतनाः । जयासि ॥vṛtrásya ǀ tvā ǀ śvasáthāt ǀ ī́ṣamāṇāḥ ǀ víśve ǀ devā́ḥ ǀ ajahuḥ ǀ yé ǀ sákhāyaḥ ǀ
marút-bhiḥ ǀ indra ǀ sakhyám ǀ te ǀ astu ǀ átha ǀ imā́ḥ ǀ víśvāḥ ǀ pṛ́tanāḥ ǀ jayāsi ǁvṛtrasya ǀ tvā ǀ śvasathāt ǀ īṣamāṇāḥ ǀ viśve ǀ devāḥ ǀ ajahuḥ ǀ ye ǀ sakhāyaḥ ǀ
marut-bhiḥ ǀ indra ǀ sakhyam ǀ te ǀ astu ǀ atha ǀ imāḥ ǀ viśvāḥ ǀ pṛtanāḥ ǀ jayāsi ǁ8.96.7 Aṣṭaka 6.6.33.2Anuvāka 8.10.28
-
Ṛk 8
त्रिः ष॒ष्टिस्त्वा॑ म॒रुतो॑ वावृधा॒ना उ॒स्रा इ॑व रा॒शयो॑ य॒ज्ञिया॑सः ।
उप॒ त्वेमः॑ कृ॒धि नो॑ भाग॒धेयं॒ शुष्मं॑ त ए॒ना ह॒विषा॑ विधेम ॥त्रिः षष्टिस् त्वा मरुतो वावृधाना उस्रा इव राशयो यज्ञियासः |
उप त्वेमः कृधि नो भागधेयं शुष्मं त एना हविषा विधेम ||tríḥ ṣaṣṭístvā marúto vāvṛdhānā́ usrā́ iva rāśáyo yajñíyāsaḥ ǀ
úpa tvémaḥ kṛdhí no bhāgadhéyam śúṣmam ta enā́ havíṣā vidhema ǁtriḥ ṣaṣṭis tvā maruto vāvṛdhānā usrā iva rāśayo yajñiyāsaḥ |
upa tvemaḥ kṛdhi no bhāgadheyaṃ śuṣmaṃ ta enā haviṣā vidhema ||त्रिः । ष॒ष्टिः । त्वा॒ । म॒रुतः॑ । व॒वृ॒धा॒नाः । उ॒स्राःऽइ॑व । रा॒शयः॑ । य॒ज्ञिया॑सः ।
उप॑ । त्वा॒ । आ । इ॒मः॒ । कृ॒धि । नः॒ । भा॒ग॒ऽधेय॑म् । शुष्म॑म् । ते॒ । ए॒ना । ह॒विषा॑ । वि॒धे॒म॒ ॥त्रिः । षष्टिः । त्वा । मरुतः । ववृधानाः । उस्राःऽइव । राशयः । यज्ञियासः ।
उप । त्वा । आ । इमः । कृधि । नः । भागऽधेयम् । शुष्मम् । ते । एना । हविषा । विधेम ॥tríḥ ǀ ṣaṣṭíḥ ǀ tvā ǀ marútaḥ ǀ vavṛdhānā́ḥ ǀ usrā́ḥ-iva ǀ rāśáyaḥ ǀ yajñíyāsaḥ ǀ
úpa ǀ tvā ǀ ā́ ǀ imaḥ ǀ kṛdhí ǀ naḥ ǀ bhāga-dhéyam ǀ śúṣmam ǀ te ǀ enā́ ǀ havíṣā ǀ vidhema ǁtriḥ ǀ ṣaṣṭiḥ ǀ tvā ǀ marutaḥ ǀ vavṛdhānāḥ ǀ usrāḥ-iva ǀ rāśayaḥ ǀ yajñiyāsaḥ ǀ
upa ǀ tvā ǀ ā ǀ imaḥ ǀ kṛdhi ǀ naḥ ǀ bhāga-dheyam ǀ śuṣmam ǀ te ǀ enā ǀ haviṣā ǀ vidhema ǁ8.96.8 Aṣṭaka 6.6.33.3Anuvāka 8.10.29
-
Ṛk 9
ति॒ग्ममायु॑धं म॒रुता॒मनी॑कं॒ कस्त॑ इंद्र॒ प्रति॒ वज्रं॑ दधर्ष ।
अ॒ना॒यु॒धासो॒ असु॑रा अदे॒वाश्च॒क्रेण॒ ताँ अप॑ वप ऋजीषिन् ॥तिग्मम् आयुधम् मरुताम् अनीकं कस् त इन्द्र प्रति वज्रं दधर्ष |
अनायुधासो असुरा अदेवाश् चक्रेण तां अप वप ऋजीषिन् ||tigmámā́yudham marútāmánīkam kásta indra práti vájram dadharṣa ǀ
anāyudhā́so ásurā adevā́ścakréṇa tā́m̐ ápa vapa ṛjīṣin ǁtigmam āyudham marutām anīkaṃ kas ta indra prati vajraṃ dadharṣa |
anāyudhāso asurā adevāś cakreṇa tāṃ apa vapa ṛjīṣin ||ति॒ग्मम् । आयु॑धम् । म॒रुता॑म् । अनी॑कम् । कः । ते॒ । इ॒न्द्र॒ । प्रति॑ । वज्र॑म् । द॒ध॒र्ष॒ ।
अ॒ना॒यु॒धासः॑ । असु॑राः । अ॒दे॒वाः । च॒क्रेण॑ । तान् । अप॑ । व॒प॒ । ऋ॒जी॒षि॒न् ॥तिग्मम् । आयुधम् । मरुताम् । अनीकम् । कः । ते । इन्द्र । प्रति । वज्रम् । दधर्ष ।
अनायुधासः । असुराः । अदेवाः । चक्रेण । तान् । अप । वप । ऋजीषिन् ॥tigmám ǀ ā́yudham ǀ marútām ǀ ánīkam ǀ káḥ ǀ te ǀ indra ǀ práti ǀ vájram ǀ dadharṣa ǀ
anāyudhā́saḥ ǀ ásurāḥ ǀ adevā́ḥ ǀ cakréṇa ǀ tā́n ǀ ápa ǀ vapa ǀ ṛjīṣin ǁtigmam ǀ āyudham ǀ marutām ǀ anīkam ǀ kaḥ ǀ te ǀ indra ǀ prati ǀ vajram ǀ dadharṣa ǀ
anāyudhāsaḥ ǀ asurāḥ ǀ adevāḥ ǀ cakreṇa ǀ tān ǀ apa ǀ vapa ǀ ṛjīṣin ǁ8.96.9 Aṣṭaka 6.6.33.4Anuvāka 8.10.30
-
Ṛk 10
म॒ह उ॒ग्राय॑ त॒वसे॑ सुवृ॒क्तिं प्रेर॑य शि॒वत॑माय प॒श्वः ।
गिर्वा॑हसे॒ गिर॒ इंद्रा॑य पू॒र्वीर्धे॒हि त॒न्वे॑ कु॒विदं॒ग वेद॑त् ॥मह उग्राय तवसे सुवृक्तिम् प्रेरय शिवतमाय पश्वः |
गिर्वाहसे गिर इन्द्राय पूर्वीर् धेहि तन्वे कुविद् अङ्ग वेदत् ||mahá ugrā́ya taváse suvṛktím préraya śivátamāya paśváḥ ǀ
gírvāhase gíra índrāya pūrvī́rdhehí tanvé kuvídaṅgá védat ǁmaha ugrāya tavase suvṛktim preraya śivatamāya paśvaḥ |
girvāhase gira indrāya pūrvīr dhehi tanve kuvid aṅga vedat ||म॒हे । उ॒ग्राय॑ । त॒वसे॑ । सु॒ऽवृ॒क्तिम् । प्र । ई॒र॒य॒ । शि॒वऽत॑माय । प॒श्वः ।
गिर्वा॑हसे । गिरः॑ । इन्द्रा॑य । पू॒र्वीः । धे॒हि । त॒न्वे॑ । कु॒वित् । अ॒ङ्ग । वेद॑त् ॥महे । उग्राय । तवसे । सुऽवृक्तिम् । प्र । ईरय । शिवऽतमाय । पश्वः ।
गिर्वाहसे । गिरः । इन्द्राय । पूर्वीः । धेहि । तन्वे । कुवित् । अङ्ग । वेदत् ॥mahé ǀ ugrā́ya ǀ taváse ǀ su-vṛktím ǀ prá ǀ īraya ǀ śivá-tamāya ǀ paśváḥ ǀ
gírvāhase ǀ gíraḥ ǀ índrāya ǀ pūrvī́ḥ ǀ dhehí ǀ tanvé ǀ kuvít ǀ aṅgá ǀ védat ǁmahe ǀ ugrāya ǀ tavase ǀ su-vṛktim ǀ pra ǀ īraya ǀ śiva-tamāya ǀ paśvaḥ ǀ
girvāhase ǀ giraḥ ǀ indrāya ǀ pūrvīḥ ǀ dhehi ǀ tanve ǀ kuvit ǀ aṅga ǀ vedat ǁ8.96.10 Aṣṭaka 6.6.33.5Anuvāka 8.10.31
-
Ṛk 11
उ॒क्थवा॑हसे वि॒भ्वे॑ मनी॒षां द्रुणा॒ न पा॒रमी॑रया न॒दीनां॑ ।
नि स्पृ॑श धि॒या त॒न्वि॑ श्रु॒तस्य॒ जुष्ट॑तरस्य कु॒विदं॒ग वेद॑त् ॥उक्थवाहसे विभ्वे मनीषां द्रुणा न पारम् ईरया नदीनाम् |
नि स्पृश धिया तन्वि श्रुतस्य जुष्टतरस्य कुविद् अङ्ग वेदत् ||ukthávāhase vibhvé manīṣā́m drúṇā ná pārámīrayā nadī́nām ǀ
ní spṛśa dhiyā́ tanví śrutásya júṣṭatarasya kuvídaṅgá védat ǁukthavāhase vibhve manīṣāṃ druṇā na pāram īrayā nadīnām |
ni spṛśa dhiyā tanvi śrutasya juṣṭatarasya kuvid aṅga vedat ||उ॒क्थऽवा॑हसे । वि॒ऽभ्वे॑ । म॒नी॒षाम् । द्रुणा॑ । न । पा॒रम् । ई॒र॒य॒ । न॒दीना॑म् ।
नि । स्पृ॒श॒ । धि॒या । त॒न्वि॑ । श्रु॒तस्य॑ । जुष्ट॑ऽतरस्य । कु॒वित् । अ॒ङ्ग । वेद॑त् ॥उक्थऽवाहसे । विऽभ्वे । मनीषाम् । द्रुणा । न । पारम् । ईरय । नदीनाम् ।
नि । स्पृश । धिया । तन्वि । श्रुतस्य । जुष्टऽतरस्य । कुवित् । अङ्ग । वेदत् ॥ukthá-vāhase ǀ vi-bhvé ǀ manīṣā́m ǀ drúṇā ǀ ná ǀ pārám ǀ īraya ǀ nadī́nām ǀ
ní ǀ spṛśa ǀ dhiyā́ ǀ tanví ǀ śrutásya ǀ júṣṭa-tarasya ǀ kuvít ǀ aṅgá ǀ védat ǁuktha-vāhase ǀ vi-bhve ǀ manīṣām ǀ druṇā ǀ na ǀ pāram ǀ īraya ǀ nadīnām ǀ
ni ǀ spṛśa ǀ dhiyā ǀ tanvi ǀ śrutasya ǀ juṣṭa-tarasya ǀ kuvit ǀ aṅga ǀ vedat ǁ8.96.11 Aṣṭaka 6.6.34.1Anuvāka 8.10.32
-
Ṛk 12
तद्वि॑विड्ढि॒ यत्त॒ इंद्रो॒ जुजो॑षत्स्तु॒हि सु॑ष्टु॒तिं नम॒सा वि॑वास ।
उप॑ भूष जरित॒र्मा रु॑वण्यः श्रा॒वया॒ वाचं॑ कु॒विदं॒ग वेद॑त् ॥तद् विविड्ढि यत् त इन्द्रो जुजोषत् स्तुहि सुष्टुतिं नमसा विवास |
उप भूष जरितर् मा रुवण्यः श्रावया वाचं कुविद् अङ्ग वेदत् ||tádviviḍḍhi yátta índro jújoṣatstuhí suṣṭutím námasā́ vivāsa ǀ
úpa bhūṣa jaritarmā́ ruvaṇyaḥ śrāváyā vā́cam kuvídaṅgá védat ǁtad viviḍḍhi yat ta indro jujoṣat stuhi suṣṭutiṃ namasā vivāsa |
upa bhūṣa jaritar mā ruvaṇyaḥ śrāvayā vācaṃ kuvid aṅga vedat ||तत् । वि॒वि॒ड्ढि॒ । यत् । ते॒ । इन्द्रः॑ । जुजो॑षत् । स्तु॒हि । सु॒ऽस्तु॒तिम् । नम॑सा । आ । वि॒वा॒स॒ ।
उप॑ । भू॒ष॒ । ज॒रि॒तः॒ । मा । रु॒व॒ण्यः॒ । श्र॒वय॑ । वाच॑म् । कु॒वित् । अ॒ङ्ग । वेद॑त् ॥तत् । विविड्ढि । यत् । ते । इन्द्रः । जुजोषत् । स्तुहि । सुऽस्तुतिम् । नमसा । आ । विवास ।
उप । भूष । जरितः । मा । रुवण्यः । श्रवय । वाचम् । कुवित् । अङ्ग । वेदत् ॥tát ǀ viviḍḍhi ǀ yát ǀ te ǀ índraḥ ǀ jújoṣat ǀ stuhí ǀ su-stutím ǀ námasā ǀ ā́ ǀ vivāsa ǀ
úpa ǀ bhūṣa ǀ jaritaḥ ǀ mā́ ǀ ruvaṇyaḥ ǀ śraváya ǀ vā́cam ǀ kuvít ǀ aṅgá ǀ védat ǁtat ǀ viviḍḍhi ǀ yat ǀ te ǀ indraḥ ǀ jujoṣat ǀ stuhi ǀ su-stutim ǀ namasā ǀ ā ǀ vivāsa ǀ
upa ǀ bhūṣa ǀ jaritaḥ ǀ mā ǀ ruvaṇyaḥ ǀ śravaya ǀ vācam ǀ kuvit ǀ aṅga ǀ vedat ǁ8.96.12 Aṣṭaka 6.6.34.2Anuvāka 8.10.33
-
Ṛk 13
अव॑ द्र॒प्सो अं॑शु॒मती॑मतिष्ठदिया॒नः कृ॒ष्णो द॒शभिः॑ स॒हस्रैः॑ ।
आव॒त्तमिंद्रः॒ शच्या॒ धमं॑त॒मप॒ स्नेहि॑तीर्नृ॒मणा॑ अधत्त ॥अव द्रप्सो अंशुमतीम् अतिष्ठद् इयानः कृष्णो दशभिः सहस्रैः |
आवत् तम् इन्द्रः शच्या धमन्तम् अप स्नेहितीर् नृमणा अधत्त ||áva drapsó aṃśumátīmatiṣṭhadiyānáḥ kṛṣṇó daśábhiḥ sahásraiḥ ǀ
ā́vattámíndraḥ śácyā dhámantamápa snéhitīrnṛmáṇā adhatta ǁava drapso aṃśumatīm atiṣṭhad iyānaḥ kṛṣṇo daśabhiḥ sahasraiḥ |
āvat tam indraḥ śacyā dhamantam apa snehitīr nṛmaṇā adhatta ||अव॑ । द्र॒प्सः । अं॒शु॒ऽमती॑म् । अ॒ति॒ष्ठ॒त् । इ॒या॒नः । कृ॒ष्णः । द॒शऽभिः॑ । स॒हस्रैः॑ ।
आव॑त् । तम् । इन्द्रः॑ । शच्या॑ । धम॑न्तम् । अप॑ । स्नेहि॑तीः । नृ॒ऽमनाः॑ । अ॒ध॒त्त॒ ॥अव । द्रप्सः । अंशुऽमतीम् । अतिष्ठत् । इयानः । कृष्णः । दशऽभिः । सहस्रैः ।
आवत् । तम् । इन्द्रः । शच्या । धमन्तम् । अप । स्नेहितीः । नृऽमनाः । अधत्त ॥áva ǀ drapsáḥ ǀ aṃśu-mátīm ǀ atiṣṭhat ǀ iyānáḥ ǀ kṛṣṇáḥ ǀ daśá-bhiḥ ǀ sahásraiḥ ǀ
ā́vat ǀ tám ǀ índraḥ ǀ śácyā ǀ dhámantam ǀ ápa ǀ snéhitīḥ ǀ nṛ-mánāḥ ǀ adhatta ǁava ǀ drapsaḥ ǀ aṃśu-matīm ǀ atiṣṭhat ǀ iyānaḥ ǀ kṛṣṇaḥ ǀ daśa-bhiḥ ǀ sahasraiḥ ǀ
āvat ǀ tam ǀ indraḥ ǀ śacyā ǀ dhamantam ǀ apa ǀ snehitīḥ ǀ nṛ-manāḥ ǀ adhatta ǁ8.96.13 Aṣṭaka 6.6.34.3Anuvāka 8.10.34
-
Ṛk 14
द्र॒प्सम॑पश्यं॒ विषु॑णे॒ चरं॑तमुपह्व॒रे न॒द्यो॑ अंशु॒मत्याः॑ ।
नभो॒ न कृ॒ष्णम॑वतस्थि॒वांस॒मिष्या॑मि वो वृषणो॒ युध्य॑ता॒जौ ॥द्रप्सम् अपश्यं विषुणे चरन्तम् उपह्वरे नद्यो अंशुमत्याः |
नभो न कृष्णम् अवतस्थिवांसम् इष्यामि वो वृषणो युध्यताजौ ||drapsámapaśyam víṣuṇe cárantamupahvaré nadyó aṃśumátyāḥ ǀ
nábho ná kṛṣṇámavatasthivā́ṃsamíṣyāmi vo vṛṣaṇo yúdhyatājáu ǁdrapsam apaśyaṃ viṣuṇe carantam upahvare nadyo aṃśumatyāḥ |
nabho na kṛṣṇam avatasthivāṃsam iṣyāmi vo vṛṣaṇo yudhyatājau ||द्र॒प्सम् । अ॒प॒श्य॒म् । विषु॑णे । चर॑न्तम् । उ॒प॒ऽह्व॒रे । न॒द्यः॑ । अं॒शु॒ऽमत्याः॑ ।
नभः॑ । न । कृ॒ष्णम् । अ॒व॒त॒स्थि॒ऽवांस॑म् । इष्या॑मि । वः॒ । वृ॒ष॒णः॒ । युध्य॑त । आ॒जौ ॥द्रप्सम् । अपश्यम् । विषुणे । चरन्तम् । उपऽह्वरे । नद्यः । अंशुऽमत्याः ।
नभः । न । कृष्णम् । अवतस्थिऽवांसम् । इष्यामि । वः । वृषणः । युध्यत । आजौ ॥drapsám ǀ apaśyam ǀ víṣuṇe ǀ cárantam ǀ upa-hvaré ǀ nadyáḥ ǀ aṃśu-mátyāḥ ǀ
nábhaḥ ǀ ná ǀ kṛṣṇám ǀ avatasthi-vā́ṃsam ǀ íṣyāmi ǀ vaḥ ǀ vṛṣaṇaḥ ǀ yúdhyata ǀ ājáu ǁdrapsam ǀ apaśyam ǀ viṣuṇe ǀ carantam ǀ upa-hvare ǀ nadyaḥ ǀ aṃśu-matyāḥ ǀ
nabhaḥ ǀ na ǀ kṛṣṇam ǀ avatasthi-vāṃsam ǀ iṣyāmi ǀ vaḥ ǀ vṛṣaṇaḥ ǀ yudhyata ǀ ājau ǁ8.96.14 Aṣṭaka 6.6.34.4Anuvāka 8.10.35
-
Ṛk 15
अध॑ द्र॒प्सो अं॑शु॒मत्या॑ उ॒पस्थेऽधा॑रयत्त॒न्वं॑ तित्विषा॒णः ।
विशो॒ अदे॑वीर॒भ्या॒३॒॑चरं॑ती॒र्बृह॒स्पति॑ना यु॒जेंद्रः॑ ससाहे ॥अध द्रप्सो अंशुमत्या उपस्थे ऽधारयत् तन्वं तित्विषाणः |
विशो अदेवीर् अभ्य् आचरन्तीर् बृहस्पतिना युजेन्द्रः ससाहे ||ádha drapsó aṃśumátyā upásthé’dhārayattanvám titviṣāṇáḥ ǀ
víśo ádevīrabhyā́cárantīrbṛ́haspátinā yujéndraḥ sasāhe ǁadha drapso aṃśumatyā upasthe 'dhārayat tanvaṃ titviṣāṇaḥ |
viśo adevīr abhy ācarantīr bṛhaspatinā yujendraḥ sasāhe ||अध॑ । द्र॒प्सः । अं॒शु॒ऽमत्याः॑ । उ॒पऽस्थे॑ । अधा॑रयत् । त॒न्व॑म् । ति॒त्वि॒षा॒णः ।
विशः॑ । अदे॑वीः । अ॒भि । आ॒ऽचर॑न्तीः । बृह॒स्पति॑ना । यु॒जा । इन्द्रः॑ । स॒स॒हे॒ ॥अध । द्रप्सः । अंशुऽमत्याः । उपऽस्थे । अधारयत् । तन्वम् । तित्विषाणः ।
विशः । अदेवीः । अभि । आऽचरन्तीः । बृहस्पतिना । युजा । इन्द्रः । ससहे ॥ádha ǀ drapsáḥ ǀ aṃśu-mátyāḥ ǀ upá-sthe ǀ ádhārayat ǀ tanvám ǀ titviṣāṇáḥ ǀ
víśaḥ ǀ ádevīḥ ǀ abhí ǀ ā-cárantīḥ ǀ bṛ́haspátinā ǀ yujā́ ǀ índraḥ ǀ sasahe ǁadha ǀ drapsaḥ ǀ aṃśu-matyāḥ ǀ upa-sthe ǀ adhārayat ǀ tanvam ǀ titviṣāṇaḥ ǀ
viśaḥ ǀ adevīḥ ǀ abhi ǀ ā-carantīḥ ǀ bṛhaspatinā ǀ yujā ǀ indraḥ ǀ sasahe ǁ8.96.15 Aṣṭaka 6.6.34.5Anuvāka 8.10.36
-
Ṛk 16
त्वं ह॒ त्यत्स॒प्तभ्यो॒ जाय॑मानोऽश॒त्रुभ्यो॑ अभवः॒ शत्रु॑रिंद्र ।
गू॒ळ्हे द्यावा॑पृथि॒वी अन्व॑विंदो विभु॒मद्भ्यो॒ भुव॑नेभ्यो॒ रणं॑ धाः ॥त्वं ह त्यत् सप्तभ्यो जायमानो ऽशत्रुभ्यो अभवः शत्रुर् इन्द्र |
गूऌहे द्यावापृथिवी अन्व् अविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ||tvám ha tyátsaptábhyo jā́yamāno’śatrúbhyo abhavaḥ śátrurindra ǀ
gūḷhé dyā́vāpṛthivī́ ánvavindo vibhumádbhyo bhúvanebhyo ráṇam dhāḥ ǁtvaṃ ha tyat saptabhyo jāyamāno 'śatrubhyo abhavaḥ śatrur indra |
gūḷhe dyāvāpṛthivī anv avindo vibhumadbhyo bhuvanebhyo raṇaṃ dhāḥ ||त्वम् । ह॒ । त्यत् । स॒प्तऽभ्यः॑ । जाय॑मानः । अ॒श॒त्रुऽभ्यः॑ । अ॒भ॒वः॒ । शत्रुः॑ । इ॒न्द्र॒ ।
गू॒ळ्हे इति॑ । द्यावा॑पृथि॒वी इति॑ । अनु॑ । अ॒वि॒न्दः॒ । वि॒भु॒मत्ऽभ्यः॑ । भुव॑नेभ्यः । रण॑म् । धाः॒ ॥त्वम् । ह । त्यत् । सप्तऽभ्यः । जायमानः । अशत्रुऽभ्यः । अभवः । शत्रुः । इन्द्र ।
गूळ्हे इति । द्यावापृथिवी इति । अनु । अविन्दः । विभुमत्ऽभ्यः । भुवनेभ्यः । रणम् । धाः ॥tvám ǀ ha ǀ tyát ǀ saptá-bhyaḥ ǀ jā́yamānaḥ ǀ aśatrú-bhyaḥ ǀ abhavaḥ ǀ śátruḥ ǀ indra ǀ
gūḷhé íti ǀ dyā́vāpṛthivī́ íti ǀ ánu ǀ avindaḥ ǀ vibhumát-bhyaḥ ǀ bhúvanebhyaḥ ǀ ráṇam ǀ dhāḥ ǁtvam ǀ ha ǀ tyat ǀ sapta-bhyaḥ ǀ jāyamānaḥ ǀ aśatru-bhyaḥ ǀ abhavaḥ ǀ śatruḥ ǀ indra ǀ
gūḷhe iti ǀ dyāvāpṛthivī iti ǀ anu ǀ avindaḥ ǀ vibhumat-bhyaḥ ǀ bhuvanebhyaḥ ǀ raṇam ǀ dhāḥ ǁ8.96.16 Aṣṭaka 6.6.35.1Anuvāka 8.10.37
-
Ṛk 17
त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे॑ण वज्रिंधृषि॒तो ज॑घंथ ।
त्वं शुष्ण॒स्यावा॑तिरो॒ वध॑त्रै॒स्त्वं गा इं॑द्र॒ शच्येद॑विंदः ॥त्वं ह त्यद् अप्रतिमानम् ओजो वज्रेण वज्रिन् धृषितो जघन्थ |
त्वं शुष्णस्यावातिरो वधत्रैस् त्वं गा इन्द्र शच्येद् अविन्दः ||tvám ha tyádapratimānámójo vájreṇa vajrindhṛṣitó jaghantha ǀ
tvám śúṣṇasyā́vātiro vádhatraistvám gā́ indra śácyédavindaḥ ǁtvaṃ ha tyad apratimānam ojo vajreṇa vajrin dhṛṣito jaghantha |
tvaṃ śuṣṇasyāvātiro vadhatrais tvaṃ gā indra śacyed avindaḥ ||त्वम् । ह॒ । त्यत् । अ॒प्र॒ति॒ऽमा॒नम् । ओजः॑ । वज्रे॑ण । व॒ज्रि॒न् । धृ॒षि॒तः । ज॒घ॒न्थ॒ ।
त्वम् । शुष्ण॑स्य । अव॑ । अ॒ति॒रः॒ । वध॑त्रैः । त्वम् । गाः । इ॒न्द्र॒ । शच्या॑ । इत् । अ॒वि॒न्दः॒ ॥त्वम् । ह । त्यत् । अप्रतिऽमानम् । ओजः । वज्रेण । वज्रिन् । धृषितः । जघन्थ ।
त्वम् । शुष्णस्य । अव । अतिरः । वधत्रैः । त्वम् । गाः । इन्द्र । शच्या । इत् । अविन्दः ॥tvám ǀ ha ǀ tyát ǀ aprati-mānám ǀ ójaḥ ǀ vájreṇa ǀ vajrin ǀ dhṛṣitáḥ ǀ jaghantha ǀ
tvám ǀ śúṣṇasya ǀ áva ǀ atiraḥ ǀ vádhatraiḥ ǀ tvám ǀ gā́ḥ ǀ indra ǀ śácyā ǀ ít ǀ avindaḥ ǁtvam ǀ ha ǀ tyat ǀ aprati-mānam ǀ ojaḥ ǀ vajreṇa ǀ vajrin ǀ dhṛṣitaḥ ǀ jaghantha ǀ
tvam ǀ śuṣṇasya ǀ ava ǀ atiraḥ ǀ vadhatraiḥ ǀ tvam ǀ gāḥ ǀ indra ǀ śacyā ǀ it ǀ avindaḥ ǁ8.96.17 Aṣṭaka 6.6.35.2Anuvāka 8.10.38
-
Ṛk 18
त्वं ह॒ त्यद्वृ॑षभ चर्षणी॒नां घ॒नो वृ॒त्राणां॑ तवि॒षो ब॑भूथ ।
त्वं सिंधूँ॑रसृजस्तस्तभा॒नांत्वम॒पो अ॑जयो दा॒सप॑त्नीः ॥त्वं ह त्यद् वृषभ चर्षणीनां घनो वृत्राणां तविषो बभूथ |
त्वं सिन्धूंर् असृजस् तस्तभानान् त्वम् अपो अजयो दासपत्नीः ||tvám ha tyádvṛṣabha carṣaṇīnā́m ghanó vṛtrā́ṇām taviṣó babhūtha ǀ
tvám síndhūm̐rasṛjastastabhānā́ntvámapó ajayo dāsápatnīḥ ǁtvaṃ ha tyad vṛṣabha carṣaṇīnāṃ ghano vṛtrāṇāṃ taviṣo babhūtha |
tvaṃ sindhūṃr asṛjas tastabhānān tvam apo ajayo dāsapatnīḥ ||त्वम् । ह॒ । त्यत् । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् । घ॒नः । वृ॒त्राणा॑म् । त॒वि॒षः । ब॒भू॒थ॒ ।
त्वम् । सिन्धू॑न् । अ॒सृ॒जः॒ । त॒स्त॒भा॒नान् । त्वम् । अ॒पः । अ॒ज॒यः॒ । दा॒सऽप॑त्नीः ॥त्वम् । ह । त्यत् । वृषभ । चर्षणीनाम् । घनः । वृत्राणाम् । तविषः । बभूथ ।
त्वम् । सिन्धून् । असृजः । तस्तभानान् । त्वम् । अपः । अजयः । दासऽपत्नीः ॥tvám ǀ ha ǀ tyát ǀ vṛṣabha ǀ carṣaṇīnā́m ǀ ghanáḥ ǀ vṛtrā́ṇām ǀ taviṣáḥ ǀ babhūtha ǀ
tvám ǀ síndhūn ǀ asṛjaḥ ǀ tastabhānā́n ǀ tvám ǀ apáḥ ǀ ajayaḥ ǀ dāsá-patnīḥ ǁtvam ǀ ha ǀ tyat ǀ vṛṣabha ǀ carṣaṇīnām ǀ ghanaḥ ǀ vṛtrāṇām ǀ taviṣaḥ ǀ babhūtha ǀ
tvam ǀ sindhūn ǀ asṛjaḥ ǀ tastabhānān ǀ tvam ǀ apaḥ ǀ ajayaḥ ǀ dāsa-patnīḥ ǁ8.96.18 Aṣṭaka 6.6.35.3Anuvāka 8.10.39
-
Ṛk 19
स सु॒क्रतू॒ रणि॑ता॒ यः सु॒तेष्वनु॑त्तमन्यु॒र्यो अहे॑व रे॒वान् ।
य एक॒ इन्नर्यपां॑सि॒ कर्ता॒ स वृ॑त्र॒हा प्रतीद॒न्यमा॑हुः ॥स सुक्रतू रणिता यः सुतेष्व् अनुत्तमन्युर् यो अहेव रेवान् |
य एक इन् नर्य् अपांसि कर्ता स वृत्रहा प्रतीद् अन्यम् आहुः ||sá sukrátū ráṇitā yáḥ sutéṣvánuttamanyuryó áheva revā́n ǀ
yá éka ínnáryápāṃsi kártā sá vṛtrahā́ prátī́danyámāhuḥ ǁsa sukratū raṇitā yaḥ suteṣv anuttamanyur yo aheva revān |
ya eka in nary apāṃsi kartā sa vṛtrahā pratīd anyam āhuḥ ||सः । सु॒ऽक्रतुः॑ । रणि॑ता । यः । सु॒तेषु॑ । अनु॑त्तऽमन्युः । यः । अहा॑ऽइव । रे॒वान् ।
यः । एकः॑ । इत् । नरि॑ । अपां॑सि । कर्ता॑ । सः । वृ॒त्र॒ऽहा । प्रति॑ । इत् । अ॒न्यम् । आ॒हुः॒ ॥सः । सुऽक्रतुः । रणिता । यः । सुतेषु । अनुत्तऽमन्युः । यः । अहाऽइव । रेवान् ।
यः । एकः । इत् । नरि । अपांसि । कर्ता । सः । वृत्रऽहा । प्रति । इत् । अन्यम् । आहुः ॥sáḥ ǀ su-krátuḥ ǀ ráṇitā ǀ yáḥ ǀ sutéṣu ǀ ánutta-manyuḥ ǀ yáḥ ǀ áhā-iva ǀ revā́n ǀ
yáḥ ǀ ékaḥ ǀ ít ǀ nári ǀ ápāṃsi ǀ kártā ǀ sáḥ ǀ vṛtra-hā́ ǀ práti ǀ ít ǀ anyám ǀ āhuḥ ǁsaḥ ǀ su-kratuḥ ǀ raṇitā ǀ yaḥ ǀ suteṣu ǀ anutta-manyuḥ ǀ yaḥ ǀ ahā-iva ǀ revān ǀ
yaḥ ǀ ekaḥ ǀ it ǀ nari ǀ apāṃsi ǀ kartā ǀ saḥ ǀ vṛtra-hā ǀ prati ǀ it ǀ anyam ǀ āhuḥ ǁ8.96.19 Aṣṭaka 6.6.35.4Anuvāka 8.10.40
-
Ṛk 20
स वृ॑त्र॒हेंद्र॑श्चर्षणी॒धृत्तं सु॑ष्टु॒त्या हव्यं॑ हुवेम ।
स प्रा॑वि॒ता म॒घवा॑ नोऽधिव॒क्ता स वाज॑स्य श्रव॒स्य॑स्य दा॒ता ॥स वृत्रहेन्द्रश् चर्षणीधृत् तं सुष्टुत्या हव्यं हुवेम |
स प्राविता मघवा नो ऽधिवक्ता स वाजस्य श्रवस्यस्य दाता ||sá vṛtrahéndraścarṣaṇīdhṛ́ttám suṣṭutyā́ hávyam huvema ǀ
sá prāvitā́ maghávā no’dhivaktā́ sá vā́jasya śravasyásya dātā́ ǁsa vṛtrahendraś carṣaṇīdhṛt taṃ suṣṭutyā havyaṃ huvema |
sa prāvitā maghavā no 'dhivaktā sa vājasya śravasyasya dātā ||सः । वृ॒त्र॒ऽहा । इन्द्रः॑ । च॒र्ष॒णि॒ऽधृत् । तम् । सु॒ऽस्तु॒त्या । हव्य॑म् । हु॒वे॒म॒ ।
सः । प्र॒ऽअ॒वि॒ता । म॒घऽवा॑ । नः॒ । अ॒धि॒ऽव॒क्ता । सः । वाज॑स्य । श्र॒व॒स्य॑स्य । दा॒ता ॥सः । वृत्रऽहा । इन्द्रः । चर्षणिऽधृत् । तम् । सुऽस्तुत्या । हव्यम् । हुवेम ।
सः । प्रऽअविता । मघऽवा । नः । अधिऽवक्ता । सः । वाजस्य । श्रवस्यस्य । दाता ॥sáḥ ǀ vṛtra-hā́ ǀ índraḥ ǀ carṣaṇi-dhṛ́t ǀ tám ǀ su-stutyā́ ǀ hávyam ǀ huvema ǀ
sáḥ ǀ pra-avitā́ ǀ maghá-vā ǀ naḥ ǀ adhi-vaktā́ ǀ sáḥ ǀ vā́jasya ǀ śravasyásya ǀ dātā́ ǁsaḥ ǀ vṛtra-hā ǀ indraḥ ǀ carṣaṇi-dhṛt ǀ tam ǀ su-stutyā ǀ havyam ǀ huvema ǀ
saḥ ǀ pra-avitā ǀ magha-vā ǀ naḥ ǀ adhi-vaktā ǀ saḥ ǀ vājasya ǀ śravasyasya ǀ dātā ǁ8.96.20 Aṣṭaka 6.6.35.5Anuvāka 8.10.41
-
Ṛk 21
स वृ॑त्र॒हेंद्र॑ ऋभु॒क्षाः स॒द्यो ज॑ज्ञा॒नो हव्यो॑ बभूव ।
कृ॒ण्वन्नपां॑सि॒ नर्या॑ पु॒रूणि॒ सोमो॒ न पी॒तो हव्यः॒ सखि॑भ्यः ॥स वृत्रहेन्द्र ऋभुक्षाः सद्यो जज्ञानो हव्यो बभूव |
कृण्वन्न् अपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः ||sá vṛtrahéndra ṛbhukṣā́ḥ sadyó jajñānó hávyo babhūva ǀ
kṛṇvánnápāṃsi náryā purū́ṇi sómo ná pītó hávyaḥ sákhibhyaḥ ǁsa vṛtrahendra ṛbhukṣāḥ sadyo jajñāno havyo babhūva |
kṛṇvann apāṃsi naryā purūṇi somo na pīto havyaḥ sakhibhyaḥ ||सः । वृ॒त्र॒ऽहा । इन्द्रः॑ । ऋ॒भु॒क्षाः । स॒द्यः । ज॒ज्ञा॒नः । हव्यः॑ । ब॒भू॒व॒ ।
कृ॒ण्वन् । अपां॑सि । नर्या॑ । पु॒रूणि॑ । सोमः॑ । न । पी॒तः । हव्यः॑ । सखि॑ऽभ्यः ॥सः । वृत्रऽहा । इन्द्रः । ऋभुक्षाः । सद्यः । जज्ञानः । हव्यः । बभूव ।
कृण्वन् । अपांसि । नर्या । पुरूणि । सोमः । न । पीतः । हव्यः । सखिऽभ्यः ॥sáḥ ǀ vṛtra-hā́ ǀ índraḥ ǀ ṛbhukṣā́ḥ ǀ sadyáḥ ǀ jajñānáḥ ǀ hávyaḥ ǀ babhūva ǀ
kṛṇván ǀ ápāṃsi ǀ náryā ǀ purū́ṇi ǀ sómaḥ ǀ ná ǀ pītáḥ ǀ hávyaḥ ǀ sákhi-bhyaḥ ǁsaḥ ǀ vṛtra-hā ǀ indraḥ ǀ ṛbhukṣāḥ ǀ sadyaḥ ǀ jajñānaḥ ǀ havyaḥ ǀ babhūva ǀ
kṛṇvan ǀ apāṃsi ǀ naryā ǀ purūṇi ǀ somaḥ ǀ na ǀ pītaḥ ǀ havyaḥ ǀ sakhi-bhyaḥ ǁ8.96.21 Aṣṭaka 6.6.35.6Anuvāka 8.10.42
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.