Ṛgveda · Maṇḍala 8 · Sūkta 96

Ṛk 8.96.14

Indra · Indra (C) · Maruts (D) · Indra, Bṛhaspati · Indra, Soma · Tiraścī Āṅgirasa Or Dyutāna Māruti

The whole sūkta Link

Saṃhitā

द्र॒प्सम॑पश्यं॒ विषु॑णे॒ चरं॑तमुपह्व॒रे न॒द्यो॑ अंशु॒मत्याः॑ ।
नभो॒ न कृ॒ष्णम॑वतस्थि॒वांस॒मिष्या॑मि वो वृषणो॒ युध्य॑ता॒जौ ॥

द्रप्सम् अपश्यं विषुणे चरन्तम् उपह्वरे नद्यो अंशुमत्याः |
नभो न कृष्णम् अवतस्थिवांसम् इष्यामि वो वृषणो युध्यताजौ ||

drapsámapaśyam víṣuṇe cárantamupahvaré nadyó aṃśumátyāḥ ǀ
nábho ná kṛṣṇámavatasthivā́ṃsamíṣyāmi vo vṛṣaṇo yúdhyatājáu ǁ

drapsam apaśyaṃ viṣuṇe carantam upahvare nadyo aṃśumatyāḥ |
nabho na kṛṣṇam avatasthivāṃsam iṣyāmi vo vṛṣaṇo yudhyatājau ||

Padapāṭha

द्र॒प्सम् । अ॒प॒श्य॒म् । विषु॑णे । चर॑न्तम् । उ॒प॒ऽह्व॒रे । न॒द्यः॑ । अं॒शु॒ऽमत्याः॑ ।
नभः॑ । न । कृ॒ष्णम् । अ॒व॒त॒स्थि॒ऽवांस॑म् । इष्या॑मि । वः॒ । वृ॒ष॒णः॒ । युध्य॑त । आ॒जौ ॥

द्रप्सम् । अपश्यम् । विषुणे । चरन्तम् । उपऽह्वरे । नद्यः । अंशुऽमत्याः ।
नभः । न । कृष्णम् । अवतस्थिऽवांसम् । इष्यामि । वः । वृषणः । युध्यत । आजौ ॥

drapsám ǀ apaśyam ǀ víṣuṇe ǀ cárantam ǀ upa-hvaré ǀ nadyáḥ ǀ aṃśu-mátyāḥ ǀ
nábhaḥ ǀ ná ǀ kṛṣṇám ǀ avatasthi-vā́ṃsam ǀ íṣyāmi ǀ vaḥ ǀ vṛṣaṇaḥ ǀ yúdhyata ǀ ājáu ǁ

drapsam ǀ apaśyam ǀ viṣuṇe ǀ carantam ǀ upa-hvare ǀ nadyaḥ ǀ aṃśu-matyāḥ ǀ
nabhaḥ ǀ na ǀ kṛṣṇam ǀ avatasthi-vāṃsam ǀ iṣyāmi ǀ vaḥ ǀ vṛṣaṇaḥ ǀ yudhyata ǀ ājau ǁ

References

Maṇḍala · Sūkta · Ṛk
08.096.14
Aṣṭaka · Adhyāya · Varga · Ṛk
6.6.34.04
Maṇḍala · Anuvāka · Ṛk
8.10.035
Devatā देवता
1-13, 16-20: Indra; 14: Indra (C); Maruts (D);; 15: Indra, Bṛhaspati; 21: Indra, Soma
Ṛṣi ऋषि
Tiraścī Āṅgirasa Or Dyutāna Māruti
Chandas छन्दस्
Triṣṭubh, Virāj
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.96.14

Interpretations

Sāyaṇa

चतुर्थः पादोमारुतः मरुतः प्रति यद्वाक्यमिन्द्रउवाच । तदत्रकीर्त्यते हे मरुतः द्रप्सं द्रुतगामिनं कृष्णमहमपश्यं अदर्शं । कुत्रवर्तमानं विषुणे विष्वगंचने सर्वतोविस्तृतेदेशे यद्वा विषुणे विषमे परैरदृश्ये देशे चरन्तं परितोगच्छन्तं किंच अंशुमत्याः एतन्नामिकायानद्यो नद्याः उपह्वरे अत्यन्तंगूढे स्थाने नभोन नभसि यथादित्योदीप्यते तद्वतत्र दीप्यमानं अवतस्थिवांसं उदकस्यान्तरवस्थितं कृष्णं एतन्नामकं असुरं अपश्यं तस्मिन् दृष्टेसति हे वृषणः कामानामुदकानांवा सेक्तारोमरुतः वोयुष्मान् युद्धार्थं इष्यामि अहमिच्छामि । ततोयूयं तमिमं कृष्णं आजौ अजन्ति गच्छन्त्यत्रयोद्धारः आयुधानि प्रक्षेपयन्तीतिवा आजिः संग्रामः तस्मिन् युध्यत संहरत वाक्यभेदादनिघातः । केचिदिष्यामिवोमरुतइतिपठन्ति । तत्र हेमरुतः वोयुष्मानिच्छामीत्यर्थोभवति ॥ १४ ॥