Ṛk 8.96.2
Saṃhitā
अति॑विद्धा विथु॒रेणा॑ चि॒दस्त्रा॒ त्रिः स॒प्त सानु॒ संहि॑ता गिरी॒णां ।
न तद्दे॒वो न मर्त्य॑स्तुतुर्या॒द्यानि॒ प्रवृ॑द्धो वृष॒भश्च॒कार॑ ॥
अतिविद्धा विथुरेणा चिद् अस्त्रा त्रिः सप्त सानु संहिता गिरीणाम् |
न तद् देवो न मर्त्यस् तुतुर्याद् यानि प्रवृद्धो वृषभश् चकार ||
átividdhā vithuréṇā cidástrā tríḥ saptá sā́nu sáṃhitā girīṇā́m ǀ
ná táddevó ná mártyastuturyādyā́ni právṛddho vṛṣabháścakā́ra ǁ
atividdhā vithureṇā cid astrā triḥ sapta sānu saṃhitā girīṇām |
na tad devo na martyas tuturyād yāni pravṛddho vṛṣabhaś cakāra ||
Padapāṭha
अति॑ऽविद्धा । वि॒थु॒रेण॑ । चि॒त् । अस्त्रा॑ । त्रिः । स॒प्त । सानु॑ । सम्ऽहि॑ता । गि॒री॒णाम् ।
न । तत् । दे॒वः । न । मर्त्यः॑ । तु॒तु॒र्या॒त् । यानि॑ । प्रऽवृ॑द्धः । वृ॒ष॒भः । च॒कार॑ ॥
अतिऽविद्धा । विथुरेण । चित् । अस्त्रा । त्रिः । सप्त । सानु । सम्ऽहिता । गिरीणाम् ।
न । तत् । देवः । न । मर्त्यः । तुतुर्यात् । यानि । प्रऽवृद्धः । वृषभः । चकार ॥
áti-viddhā ǀ vithuréṇa ǀ cit ǀ ástrā ǀ tríḥ ǀ saptá ǀ sā́nu ǀ sám-hitā ǀ girīṇā́m ǀ
ná ǀ tát ǀ deváḥ ǀ ná ǀ mártyaḥ ǀ tuturyāt ǀ yā́ni ǀ prá-vṛddhaḥ ǀ vṛṣabháḥ ǀ cakā́ra ǁ
ati-viddhā ǀ vithureṇa ǀ cit ǀ astrā ǀ triḥ ǀ sapta ǀ sānu ǀ sam-hitā ǀ girīṇām ǀ
na ǀ tat ǀ devaḥ ǀ na ǀ martyaḥ ǀ tuturyāt ǀ yāni ǀ pra-vṛddhaḥ ǀ vṛṣabhaḥ ǀ cakāra ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.096.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.6.32.02
- Maṇḍala · Anuvāka · Ṛk
- 8.10.023
- Devatā देवता
- 1-13, 16-20: Indra; 14: Indra (C); Maruts (D);; 15: Indra, Bṛhaspati; 21: Indra, Soma
- Ṛṣi ऋषि
- Tiraścī Āṅgirasa Or Dyutāna Māruti
- Chandas छन्दस्
- Triṣṭubh, Virāj
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.