Ṛgveda · Maṇḍala 8 · Sūkta 96

Ṛk 8.96.13

Indra · Indra (C) · Maruts (D) · Indra, Bṛhaspati · Indra, Soma · Tiraścī Āṅgirasa Or Dyutāna Māruti

The whole sūkta Link

Saṃhitā

अव॑ द्र॒प्सो अं॑शु॒मती॑मतिष्ठदिया॒नः कृ॒ष्णो द॒शभिः॑ स॒हस्रैः॑ ।
आव॒त्तमिंद्रः॒ शच्या॒ धमं॑त॒मप॒ स्नेहि॑तीर्नृ॒मणा॑ अधत्त ॥

अव द्रप्सो अंशुमतीम् अतिष्ठद् इयानः कृष्णो दशभिः सहस्रैः |
आवत् तम् इन्द्रः शच्या धमन्तम् अप स्नेहितीर् नृमणा अधत्त ||

áva drapsó aṃśumátīmatiṣṭhadiyānáḥ kṛṣṇó daśábhiḥ sahásraiḥ ǀ
ā́vattámíndraḥ śácyā dhámantamápa snéhitīrnṛmáṇā adhatta ǁ

ava drapso aṃśumatīm atiṣṭhad iyānaḥ kṛṣṇo daśabhiḥ sahasraiḥ |
āvat tam indraḥ śacyā dhamantam apa snehitīr nṛmaṇā adhatta ||

Padapāṭha

अव॑ । द्र॒प्सः । अं॒शु॒ऽमती॑म् । अ॒ति॒ष्ठ॒त् । इ॒या॒नः । कृ॒ष्णः । द॒शऽभिः॑ । स॒हस्रैः॑ ।
आव॑त् । तम् । इन्द्रः॑ । शच्या॑ । धम॑न्तम् । अप॑ । स्नेहि॑तीः । नृ॒ऽमनाः॑ । अ॒ध॒त्त॒ ॥

अव । द्रप्सः । अंशुऽमतीम् । अतिष्ठत् । इयानः । कृष्णः । दशऽभिः । सहस्रैः ।
आवत् । तम् । इन्द्रः । शच्या । धमन्तम् । अप । स्नेहितीः । नृऽमनाः । अधत्त ॥

áva ǀ drapsáḥ ǀ aṃśu-mátīm ǀ atiṣṭhat ǀ iyānáḥ ǀ kṛṣṇáḥ ǀ daśá-bhiḥ ǀ sahásraiḥ ǀ
ā́vat ǀ tám ǀ índraḥ ǀ śácyā ǀ dhámantam ǀ ápa ǀ snéhitīḥ ǀ nṛ-mánāḥ ǀ adhatta ǁ

ava ǀ drapsaḥ ǀ aṃśu-matīm ǀ atiṣṭhat ǀ iyānaḥ ǀ kṛṣṇaḥ ǀ daśa-bhiḥ ǀ sahasraiḥ ǀ
āvat ǀ tam ǀ indraḥ ǀ śacyā ǀ dhamantam ǀ apa ǀ snehitīḥ ǀ nṛ-manāḥ ǀ adhatta ǁ

References

Maṇḍala · Sūkta · Ṛk
08.096.13
Aṣṭaka · Adhyāya · Varga · Ṛk
6.6.34.03
Maṇḍala · Anuvāka · Ṛk
8.10.034
Devatā देवता
1-13, 16-20: Indra; 14: Indra (C); Maruts (D);; 15: Indra, Bṛhaspati; 21: Indra, Soma
Ṛṣi ऋषि
Tiraścī Āṅgirasa Or Dyutāna Māruti
Chandas छन्दस्
Triṣṭubh, Virāj
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.96.13

Interpretations

Sāyaṇa

अत्रेतिहासमाचक्षते-किलकृष्णोनामासुरः दशसहस्रसंख्यैरसुरैः परिवृतःसन् अंशुमतीनामधेयाया नद्यास्तीरे अतिष्ठत् । तत्र तं कृष्णमुदकमध्ये स्थितं इन्द्रोबृहस्पतिनासहागच्छत् आगत्य तं कृष्णं तस्यानुचरांश्च बृहस्पतिसहायोजघानेति । केचिदन्यथावदन्ति-तेषां कथाहेतुः द्रप्सइति उदककणोभिधीयते सतुसोमः । द्रप्सश्चस्कन्देत्यादिषु । सोमपरत्वेनोक्तत्वादेतत् पदमाश्रित्याहुः-अपऋम्यतुदेवेभ्यः सोमोवृत्रभयार्दितः । नदीमं शुमतींनाम अभ्यतिष्ठत्कुरून्प्रति १ तंबृहस्पतिनैकेन सोभ्ययाद्वृत्रहासह । योत्स्यमानंसुसंहृष्टैर्मरुद्भिर्विविधायुधैः २ दृष्ट्वा तानायतःसोमः स्वबलेनव्यवस्थितः । मत्वानोवृत्रमायान्तं जिघांसुमरिसेनया ३ व्यवस्थितंधनुष्मन्तं तमुवाचबृहस्पतिः । मरुत्पतिरयंसोमः प्रेहिदेवान्पुनर्विभो ४ सोब्रवीन्नेतितंशक्रः ओजसैवबलाद्बली । इयायदेवानादाय तंपपुर्विधिवत्सुराः ५ जघ्नुःपीत्वाचदैत्यानां समरेनवतीर्नव । तदवद्रप्सइत्यस्मिन्नृ- चेसर्वंनिगद्यते ६ एतदनार्षत्वेनादरणीयंभवति । एषोर्थः क्रमेणऋक्षुवक्ष्यते । तथाचास्याऋचोयमर्थः-द्रप्सः द्रुतं सरति गच्छतीतिद्रप्सः पृषो- दरादिः द्रुतं गच्छन् दशभिः सहस्रैः दशसहस्रसंख्यैरसुरैः इयानः कृष्णः एतन्नामकःअसुरः अंशुमतीं नामनदीं अवातिष्ठत् अवतिष्ठते ततः शच्या कर्मणा प्रज्ञानेनवा धमन्तं उदकस्यान्तरुच्छ्वसन्तं यद्वा जगद्भीतिकरं शब्दं कुर्वन्तं तं कृष्णासुरं इन्द्रोमरुद्भिःसह आवत् प्राप्नोत् । पश्चात् तं कृष्णासुरं तस्यानुचरांश्च हतवानित्याह-नृमनाः नृषु मनोयस्यसः यद्वा कर्मनेतृषु ऋत्विक्षु एकविधं मनोयस्य सतथोक्तः तादृशः सन् स्नेहितिर्वधकर्मसुपठितः सर्वस्यहिंसित्रीस्तस्यसेनाः अपाधत्त अपधानं हननं अवधीदित्यर्थः अपस्नीहितिं नृमणाअधद्राइति छन्दोगाः पठंति । तस्यानुचरान्हत्वा तं द्रुतं गच्छन्तमसुरं अपाधत्त हतवान् ॥ १३ ॥