Ṛgveda · Maṇḍala 8 · Sūkta 96

Ṛk 8.96.10

Indra · Indra (C) · Maruts (D) · Indra, Bṛhaspati · Indra, Soma · Tiraścī Āṅgirasa Or Dyutāna Māruti

The whole sūkta Link

Saṃhitā

म॒ह उ॒ग्राय॑ त॒वसे॑ सुवृ॒क्तिं प्रेर॑य शि॒वत॑माय प॒श्वः ।
गिर्वा॑हसे॒ गिर॒ इंद्रा॑य पू॒र्वीर्धे॒हि त॒न्वे॑ कु॒विदं॒ग वेद॑त् ॥

मह उग्राय तवसे सुवृक्तिम् प्रेरय शिवतमाय पश्वः |
गिर्वाहसे गिर इन्द्राय पूर्वीर् धेहि तन्वे कुविद् अङ्ग वेदत् ||

mahá ugrā́ya taváse suvṛktím préraya śivátamāya paśváḥ ǀ
gírvāhase gíra índrāya pūrvī́rdhehí tanvé kuvídaṅgá védat ǁ

maha ugrāya tavase suvṛktim preraya śivatamāya paśvaḥ |
girvāhase gira indrāya pūrvīr dhehi tanve kuvid aṅga vedat ||

Padapāṭha

म॒हे । उ॒ग्राय॑ । त॒वसे॑ । सु॒ऽवृ॒क्तिम् । प्र । ई॒र॒य॒ । शि॒वऽत॑माय । प॒श्वः ।
गिर्वा॑हसे । गिरः॑ । इन्द्रा॑य । पू॒र्वीः । धे॒हि । त॒न्वे॑ । कु॒वित् । अ॒ङ्ग । वेद॑त् ॥

महे । उग्राय । तवसे । सुऽवृक्तिम् । प्र । ईरय । शिवऽतमाय । पश्वः ।
गिर्वाहसे । गिरः । इन्द्राय । पूर्वीः । धेहि । तन्वे । कुवित् । अङ्ग । वेदत् ॥

mahé ǀ ugrā́ya ǀ taváse ǀ su-vṛktím ǀ prá ǀ īraya ǀ śivá-tamāya ǀ paśváḥ ǀ
gírvāhase ǀ gíraḥ ǀ índrāya ǀ pūrvī́ḥ ǀ dhehí ǀ tanvé ǀ kuvít ǀ aṅgá ǀ védat ǁ

mahe ǀ ugrāya ǀ tavase ǀ su-vṛktim ǀ pra ǀ īraya ǀ śiva-tamāya ǀ paśvaḥ ǀ
girvāhase ǀ giraḥ ǀ indrāya ǀ pūrvīḥ ǀ dhehi ǀ tanve ǀ kuvit ǀ aṅga ǀ vedat ǁ

References

Maṇḍala · Sūkta · Ṛk
08.096.10
Aṣṭaka · Adhyāya · Varga · Ṛk
6.6.33.05
Maṇḍala · Anuvāka · Ṛk
8.10.031
Devatā देवता
1-13, 16-20: Indra; 14: Indra (C); Maruts (D);; 15: Indra, Bṛhaspati; 21: Indra, Soma
Ṛṣi ऋषि
Tiraścī Āṅgirasa Or Dyutāna Māruti
Chandas छन्दस्
Triṣṭubh, Virāj
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.96.10

Interpretations

Sāyaṇa

हे स्तोतः महे महते गुणैः उग्राय बलेनोद्गूर्णाय तवसे तुइति धातुर्वृद्भ्यर्थः । प्रवृद्धाय शिवतमाय कल्याणतमायेन्द्राय सुवृक्तिंशोभनां स्तुतिं प्रेरय चोदय कुरु । किमर्थं पश्वः पशोः द्विपाच्च चतुष्पाच्च पशोर्मम अस्मदीयाय गवेवा यद्वा पशोरतीन्द्रियार्थं द्रष्टुर्मम धनादिकं दातुं गवे सुखादिकं प्रदातुमिन्द्राय स्तुतिं प्रेरय । एतदेवाह हे स्तोतः गिर्वाहसे गीर्भिः स्तुतिभिरुह्यमानायेन्द्राय पूर्वीर्बह्वीः गिरः स्तुतीः धेहि कुरु । ततः सइन्द्रः तन्वे तनोति कुलमिति तनूस्तनयः तस्मै पुत्राय स्वशरीराय आत्मनेवा कुवित् बहुनामैतत् बहुधनं अंग क्षिप्रं वेदत् लंभयतु ददातु । विदॢलाभे लेट्यडागमः कुविच्छब्दयोगादनिघातः ॥ १० ॥