Ṛgveda · Maṇḍala 8 · Sūkta 96

Ṛk 8.96.16

Indra · Indra (C) · Maruts (D) · Indra, Bṛhaspati · Indra, Soma · Tiraścī Āṅgirasa Or Dyutāna Māruti

The whole sūkta Link

Saṃhitā

त्वं ह॒ त्यत्स॒प्तभ्यो॒ जाय॑मानोऽश॒त्रुभ्यो॑ अभवः॒ शत्रु॑रिंद्र ।
गू॒ळ्हे द्यावा॑पृथि॒वी अन्व॑विंदो विभु॒मद्भ्यो॒ भुव॑नेभ्यो॒ रणं॑ धाः ॥

त्वं ह त्यत् सप्तभ्यो जायमानो ऽशत्रुभ्यो अभवः शत्रुर् इन्द्र |
गूऌहे द्यावापृथिवी अन्व् अविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ||

tvám ha tyátsaptábhyo jā́yamāno’śatrúbhyo abhavaḥ śátrurindra ǀ
gūḷhé dyā́vāpṛthivī́ ánvavindo vibhumádbhyo bhúvanebhyo ráṇam dhāḥ ǁ

tvaṃ ha tyat saptabhyo jāyamāno 'śatrubhyo abhavaḥ śatrur indra |
gūḷhe dyāvāpṛthivī anv avindo vibhumadbhyo bhuvanebhyo raṇaṃ dhāḥ ||

Padapāṭha

त्वम् । ह॒ । त्यत् । स॒प्तऽभ्यः॑ । जाय॑मानः । अ॒श॒त्रुऽभ्यः॑ । अ॒भ॒वः॒ । शत्रुः॑ । इ॒न्द्र॒ ।
गू॒ळ्हे इति॑ । द्यावा॑पृथि॒वी इति॑ । अनु॑ । अ॒वि॒न्दः॒ । वि॒भु॒मत्ऽभ्यः॑ । भुव॑नेभ्यः । रण॑म् । धाः॒ ॥

त्वम् । ह । त्यत् । सप्तऽभ्यः । जायमानः । अशत्रुऽभ्यः । अभवः । शत्रुः । इन्द्र ।
गूळ्हे इति । द्यावापृथिवी इति । अनु । अविन्दः । विभुमत्ऽभ्यः । भुवनेभ्यः । रणम् । धाः ॥

tvám ǀ ha ǀ tyát ǀ saptá-bhyaḥ ǀ jā́yamānaḥ ǀ aśatrú-bhyaḥ ǀ abhavaḥ ǀ śátruḥ ǀ indra ǀ
gūḷhé íti ǀ dyā́vāpṛthivī́ íti ǀ ánu ǀ avindaḥ ǀ vibhumát-bhyaḥ ǀ bhúvanebhyaḥ ǀ ráṇam ǀ dhāḥ ǁ

tvam ǀ ha ǀ tyat ǀ sapta-bhyaḥ ǀ jāyamānaḥ ǀ aśatru-bhyaḥ ǀ abhavaḥ ǀ śatruḥ ǀ indra ǀ
gūḷhe iti ǀ dyāvāpṛthivī iti ǀ anu ǀ avindaḥ ǀ vibhumat-bhyaḥ ǀ bhuvanebhyaḥ ǀ raṇam ǀ dhāḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
08.096.16
Aṣṭaka · Adhyāya · Varga · Ṛk
6.6.35.01
Maṇḍala · Anuvāka · Ṛk
8.10.037
Devatā देवता
1-13, 16-20: Indra; 14: Indra (C); Maruts (D);; 15: Indra, Bṛhaspati; 21: Indra, Soma
Ṛṣi ऋषि
Tiraścī Āṅgirasa Or Dyutāna Māruti
Chandas छन्दस्
Triṣṭubh, Virāj
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.96.16

Interpretations

Sāyaṇa

हे इन्द्र त्वं खलु तत् कर्म कृतवानसि । किंतत् उच्यते-जायमानस्त्वं प्रादुर्भवन्नेव अशत्रुभ्यः शत्रुरहितेभ्यः सप्तभ्यः कृष्णवृत्रनमुचिशंबरादिसप्तभ्यो- बलवद्भ्यः शत्रुभ्यः तदर्थं शत्रुरभवः । यद्वा सप्तभ्यः सप्तैवांगिरसः । सप्तभ्यः अंगिरोभ्यः गवानयनार्थं प्रादुर्भवन्ने वाशत्रुभ्योबलवद्भ्यः पणिभ्यः शत्रुरभवः । किंच हे इन्द्र त्वं गूह्ळे तमसा गूढे संवृते द्यावापृथिवी द्यावापृथिव्यौ सूर्यात्मना ते प्रकाश्य अनुक्रमेण अविन्दः अलभथाः । तथा विभुमद्भ्यः महत्त्वयुक्तेभ्योभुवनेभ्योलोकेभ्यः रणं रमणं धाः धारयसि विदधासीत्यर्थः ॥ १६ ॥