Ṛgveda · Maṇḍala 8 · Sūkta 96

Ṛk 8.96.12

Indra · Indra (C) · Maruts (D) · Indra, Bṛhaspati · Indra, Soma · Tiraścī Āṅgirasa Or Dyutāna Māruti

The whole sūkta Link

Saṃhitā

तद्वि॑विड्ढि॒ यत्त॒ इंद्रो॒ जुजो॑षत्स्तु॒हि सु॑ष्टु॒तिं नम॒सा वि॑वास ।
उप॑ भूष जरित॒र्मा रु॑वण्यः श्रा॒वया॒ वाचं॑ कु॒विदं॒ग वेद॑त् ॥

तद् विविड्ढि यत् त इन्द्रो जुजोषत् स्तुहि सुष्टुतिं नमसा विवास |
उप भूष जरितर् मा रुवण्यः श्रावया वाचं कुविद् अङ्ग वेदत् ||

tádviviḍḍhi yátta índro jújoṣatstuhí suṣṭutím námasā́ vivāsa ǀ
úpa bhūṣa jaritarmā́ ruvaṇyaḥ śrāváyā vā́cam kuvídaṅgá védat ǁ

tad viviḍḍhi yat ta indro jujoṣat stuhi suṣṭutiṃ namasā vivāsa |
upa bhūṣa jaritar mā ruvaṇyaḥ śrāvayā vācaṃ kuvid aṅga vedat ||

Padapāṭha

तत् । वि॒वि॒ड्ढि॒ । यत् । ते॒ । इन्द्रः॑ । जुजो॑षत् । स्तु॒हि । सु॒ऽस्तु॒तिम् । नम॑सा । आ । वि॒वा॒स॒ ।
उप॑ । भू॒ष॒ । ज॒रि॒तः॒ । मा । रु॒व॒ण्यः॒ । श्र॒वय॑ । वाच॑म् । कु॒वित् । अ॒ङ्ग । वेद॑त् ॥

तत् । विविड्ढि । यत् । ते । इन्द्रः । जुजोषत् । स्तुहि । सुऽस्तुतिम् । नमसा । आ । विवास ।
उप । भूष । जरितः । मा । रुवण्यः । श्रवय । वाचम् । कुवित् । अङ्ग । वेदत् ॥

tát ǀ viviḍḍhi ǀ yát ǀ te ǀ índraḥ ǀ jújoṣat ǀ stuhí ǀ su-stutím ǀ námasā ǀ ā́ ǀ vivāsa ǀ
úpa ǀ bhūṣa ǀ jaritaḥ ǀ mā́ ǀ ruvaṇyaḥ ǀ śraváya ǀ vā́cam ǀ kuvít ǀ aṅgá ǀ védat ǁ

tat ǀ viviḍḍhi ǀ yat ǀ te ǀ indraḥ ǀ jujoṣat ǀ stuhi ǀ su-stutim ǀ namasā ǀ ā ǀ vivāsa ǀ
upa ǀ bhūṣa ǀ jaritaḥ ǀ mā ǀ ruvaṇyaḥ ǀ śravaya ǀ vācam ǀ kuvit ǀ aṅga ǀ vedat ǁ

References

Maṇḍala · Sūkta · Ṛk
08.096.12
Aṣṭaka · Adhyāya · Varga · Ṛk
6.6.34.02
Maṇḍala · Anuvāka · Ṛk
8.10.033
Devatā देवता
1-13, 16-20: Indra; 14: Indra (C); Maruts (D);; 15: Indra, Bṛhaspati; 21: Indra, Soma
Ṛṣi ऋषि
Tiraścī Āṅgirasa Or Dyutāna Māruti
Chandas छन्दस्
Triṣṭubh, Virāj
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.96.12

Interpretations

Sāyaṇa

हे त्विक् तत्सोमादिहविः स्तोत्रंवा विविड्ढि व्यापय तानीन्द्रार्थं कुर्वित्यर्थः । ते तव स्वभूतं यद्धविः स्तोत्रंवा इन्द्रोजुजोषत् स्वीकुर्यात् तत्कुरु । जुषीप्रीतिसेवनयोः लेटिशपःश्लुः अडागमश्छान्दसत्वात् श्नाभ्यस्तस्येति गुणप्रतिषेधाभावः । हे स्तोतः सुष्टुतिं सुस्तुतिं शोभनास्तुतिर्यस्य सतथोक्तः तादृशमिन्द्रं स्तुहि । तथा नमसा स्तोत्रेण हविषावा आविवास इन्द्रमाभिमुख्येन परिचर । विवासतिःपरिचरणकर्मा लोटिरूपं । हे जरितः स्तोतः उपभुष भूषअलंकारे अलंकृतोभव मारुवण्यः धनाभावात् मा ध्वनयः मारोदीरित्यर्थः । धनागमने कारणमाह-हे स्तोतः वाचं स्तुतिं इन्द्रं श्रावय ज्ञापय ततस्त्वया स्तुतइन्द्रः तुभ्यं कुवित् बहुधनं क्षिप्रं प्रयच्छत् ॥ १२ ॥ पृष्ठ्यषडहगतेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिशस्त्रे अवद्रप्सइतितृचः । सूत्रितंच-अवद्रप्सोअंशुमतीमतिष्ठदिति तिस्रोच्छामइन्द्रमिति नित्यमैकाहिकमिति ।