Ṛgveda · Maṇḍala 8 · Sūkta 96

Ṛk 8.96.15

Indra · Indra (C) · Maruts (D) · Indra, Bṛhaspati · Indra, Soma · Tiraścī Āṅgirasa Or Dyutāna Māruti

The whole sūkta Link

Saṃhitā

अध॑ द्र॒प्सो अं॑शु॒मत्या॑ उ॒पस्थेऽधा॑रयत्त॒न्वं॑ तित्विषा॒णः ।
विशो॒ अदे॑वीर॒भ्या॒३॒॑चरं॑ती॒र्बृह॒स्पति॑ना यु॒जेंद्रः॑ ससाहे ॥

अध द्रप्सो अंशुमत्या उपस्थे ऽधारयत् तन्वं तित्विषाणः |
विशो अदेवीर् अभ्य् आचरन्तीर् बृहस्पतिना युजेन्द्रः ससाहे ||

ádha drapsó aṃśumátyā upásthé’dhārayattanvám titviṣāṇáḥ ǀ
víśo ádevīrabhyā́cárantīrbṛ́haspátinā yujéndraḥ sasāhe ǁ

adha drapso aṃśumatyā upasthe 'dhārayat tanvaṃ titviṣāṇaḥ |
viśo adevīr abhy ācarantīr bṛhaspatinā yujendraḥ sasāhe ||

Padapāṭha

अध॑ । द्र॒प्सः । अं॒शु॒ऽमत्याः॑ । उ॒पऽस्थे॑ । अधा॑रयत् । त॒न्व॑म् । ति॒त्वि॒षा॒णः ।
विशः॑ । अदे॑वीः । अ॒भि । आ॒ऽचर॑न्तीः । बृह॒स्पति॑ना । यु॒जा । इन्द्रः॑ । स॒स॒हे॒ ॥

अध । द्रप्सः । अंशुऽमत्याः । उपऽस्थे । अधारयत् । तन्वम् । तित्विषाणः ।
विशः । अदेवीः । अभि । आऽचरन्तीः । बृहस्पतिना । युजा । इन्द्रः । ससहे ॥

ádha ǀ drapsáḥ ǀ aṃśu-mátyāḥ ǀ upá-sthe ǀ ádhārayat ǀ tanvám ǀ titviṣāṇáḥ ǀ
víśaḥ ǀ ádevīḥ ǀ abhí ǀ ā-cárantīḥ ǀ bṛ́haspátinā ǀ yujā́ ǀ índraḥ ǀ sasahe ǁ

adha ǀ drapsaḥ ǀ aṃśu-matyāḥ ǀ upa-sthe ǀ adhārayat ǀ tanvam ǀ titviṣāṇaḥ ǀ
viśaḥ ǀ adevīḥ ǀ abhi ǀ ā-carantīḥ ǀ bṛhaspatinā ǀ yujā ǀ indraḥ ǀ sasahe ǁ

References

Maṇḍala · Sūkta · Ṛk
08.096.15
Aṣṭaka · Adhyāya · Varga · Ṛk
6.6.34.05
Maṇḍala · Anuvāka · Ṛk
8.10.036
Devatā देवता
1-13, 16-20: Indra; 14: Indra (C); Maruts (D);; 15: Indra, Bṛhaspati; 21: Indra, Soma
Ṛṣi ऋषि
Tiraścī Āṅgirasa Or Dyutāna Māruti
Chandas छन्दस्
Triṣṭubh, Virāj
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.96.15

Interpretations

Sāyaṇa

अध अथ द्रप्सोद्रुतगामी कृष्णः अंशुमत्यानद्याः उपस्थे समीपे तित्विषाणो दीप्यमानः सन् तन्वं आत्मीयं शरीरं अधारयत् परैरहिंस्यत्वेन बेभर्ति । यद्वा बलप्राप्त्यर्थं स्वशरीरमाहाशदिभिरपोषयत् तत्र इन्द्रोगत्वा बृहस्पतिना एतन्नामकेन देवेन युजा सहायेन अदेवीः अद्योतमानाः कृष्णरूपा- इत्यर्थः । यद्वा पापयुक्तत्वादस्तुत्याः आचरन्तीः आगच्छन्तीर्विशः असुरसोनाः अभिससहे जघान । तमवधीदित्यर्थः प्रसंगादवगम्यते ॥ १५ ॥