Ṛgveda · Maṇḍala 8 · Sūkta 96

Ṛk 8.96.17

Indra · Indra (C) · Maruts (D) · Indra, Bṛhaspati · Indra, Soma · Tiraścī Āṅgirasa Or Dyutāna Māruti

The whole sūkta Link

Saṃhitā

त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे॑ण वज्रिंधृषि॒तो ज॑घंथ ।
त्वं शुष्ण॒स्यावा॑तिरो॒ वध॑त्रै॒स्त्वं गा इं॑द्र॒ शच्येद॑विंदः ॥

त्वं ह त्यद् अप्रतिमानम् ओजो वज्रेण वज्रिन् धृषितो जघन्थ |
त्वं शुष्णस्यावातिरो वधत्रैस् त्वं गा इन्द्र शच्येद् अविन्दः ||

tvám ha tyádapratimānámójo vájreṇa vajrindhṛṣitó jaghantha ǀ
tvám śúṣṇasyā́vātiro vádhatraistvám gā́ indra śácyédavindaḥ ǁ

tvaṃ ha tyad apratimānam ojo vajreṇa vajrin dhṛṣito jaghantha |
tvaṃ śuṣṇasyāvātiro vadhatrais tvaṃ gā indra śacyed avindaḥ ||

Padapāṭha

त्वम् । ह॒ । त्यत् । अ॒प्र॒ति॒ऽमा॒नम् । ओजः॑ । वज्रे॑ण । व॒ज्रि॒न् । धृ॒षि॒तः । ज॒घ॒न्थ॒ ।
त्वम् । शुष्ण॑स्य । अव॑ । अ॒ति॒रः॒ । वध॑त्रैः । त्वम् । गाः । इ॒न्द्र॒ । शच्या॑ । इत् । अ॒वि॒न्दः॒ ॥

त्वम् । ह । त्यत् । अप्रतिऽमानम् । ओजः । वज्रेण । वज्रिन् । धृषितः । जघन्थ ।
त्वम् । शुष्णस्य । अव । अतिरः । वधत्रैः । त्वम् । गाः । इन्द्र । शच्या । इत् । अविन्दः ॥

tvám ǀ ha ǀ tyát ǀ aprati-mānám ǀ ójaḥ ǀ vájreṇa ǀ vajrin ǀ dhṛṣitáḥ ǀ jaghantha ǀ
tvám ǀ śúṣṇasya ǀ áva ǀ atiraḥ ǀ vádhatraiḥ ǀ tvám ǀ gā́ḥ ǀ indra ǀ śácyā ǀ ít ǀ avindaḥ ǁ

tvam ǀ ha ǀ tyat ǀ aprati-mānam ǀ ojaḥ ǀ vajreṇa ǀ vajrin ǀ dhṛṣitaḥ ǀ jaghantha ǀ
tvam ǀ śuṣṇasya ǀ ava ǀ atiraḥ ǀ vadhatraiḥ ǀ tvam ǀ gāḥ ǀ indra ǀ śacyā ǀ it ǀ avindaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
08.096.17
Aṣṭaka · Adhyāya · Varga · Ṛk
6.6.35.02
Maṇḍala · Anuvāka · Ṛk
8.10.038
Devatā देवता
1-13, 16-20: Indra; 14: Indra (C); Maruts (D);; 15: Indra, Bṛhaspati; 21: Indra, Soma
Ṛṣi ऋषि
Tiraścī Āṅgirasa Or Dyutāna Māruti
Chandas छन्दस्
Triṣṭubh, Virāj
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.96.17

Interpretations

Sāyaṇa

हे इन्द्र त्वंह त्वंखलु त्यदेतत्कर्माकार्षीः । किंतत् अभिधीयते-यतः हेवज्रिन् वज्रवन्निन्द्र धृषितः धृष्टः संग्रामेषु शत्रुहनने कुशलःसन् । यद्वा धृष्टोधीरःसन् अप्रतिमानं प्रतिमानमुपमा । निरुपमं अस्य सदृशं अन्यदीयं वीर्यं नास्तीत्यर्थः । तादृशं शुष्णस्य ओजोबलं वज्रेणायुधेन जघंथ हतवानसि । अभ्यासाच्चेति हंतेर्घत्वं । पूर्वं शुष्णस्य बलं विनाश्य इदानीं शुष्णमपिहतवानित्याह-त्वं वधत्रैः हननसाधनैः आयुधैः शुष्णस्य । क्रियाग्रहणं कर्तव्यमिति संप्रदानसंज्ञा चतुर्थ्यर्थे बहुलमिति षष्ठी । शुष्णमवातिरः कुत्साय राजर्षये अवाङ्मुखं कृत्वा अवधीः । तथाचनिगमः-कुत्सायशुष्णमशुषंनिबर्हीरिति । तथा हे इन्द्र त्वं शच्या स्वकीयया प्रज्ञया कर्मणावा गाः शत्रून्हत्वा तेषां गाअविन्दः अलभथाः । यद्वा अंगिरसां गाः पणीन् संप्रहृत्य लब्धवानसि ॥ १७ ॥