Ṛgveda · Maṇḍala 8 · Sūkta 96

Ṛk 8.96.11

Indra · Indra (C) · Maruts (D) · Indra, Bṛhaspati · Indra, Soma · Tiraścī Āṅgirasa Or Dyutāna Māruti

The whole sūkta Link

Saṃhitā

उ॒क्थवा॑हसे वि॒भ्वे॑ मनी॒षां द्रुणा॒ न पा॒रमी॑रया न॒दीनां॑ ।
नि स्पृ॑श धि॒या त॒न्वि॑ श्रु॒तस्य॒ जुष्ट॑तरस्य कु॒विदं॒ग वेद॑त् ॥

उक्थवाहसे विभ्वे मनीषां द्रुणा न पारम् ईरया नदीनाम् |
नि स्पृश धिया तन्वि श्रुतस्य जुष्टतरस्य कुविद् अङ्ग वेदत् ||

ukthávāhase vibhvé manīṣā́m drúṇā ná pārámīrayā nadī́nām ǀ
ní spṛśa dhiyā́ tanví śrutásya júṣṭatarasya kuvídaṅgá védat ǁ

ukthavāhase vibhve manīṣāṃ druṇā na pāram īrayā nadīnām |
ni spṛśa dhiyā tanvi śrutasya juṣṭatarasya kuvid aṅga vedat ||

Padapāṭha

उ॒क्थऽवा॑हसे । वि॒ऽभ्वे॑ । म॒नी॒षाम् । द्रुणा॑ । न । पा॒रम् । ई॒र॒य॒ । न॒दीना॑म् ।
नि । स्पृ॒श॒ । धि॒या । त॒न्वि॑ । श्रु॒तस्य॑ । जुष्ट॑ऽतरस्य । कु॒वित् । अ॒ङ्ग । वेद॑त् ॥

उक्थऽवाहसे । विऽभ्वे । मनीषाम् । द्रुणा । न । पारम् । ईरय । नदीनाम् ।
नि । स्पृश । धिया । तन्वि । श्रुतस्य । जुष्टऽतरस्य । कुवित् । अङ्ग । वेदत् ॥

ukthá-vāhase ǀ vi-bhvé ǀ manīṣā́m ǀ drúṇā ǀ ná ǀ pārám ǀ īraya ǀ nadī́nām ǀ
ní ǀ spṛśa ǀ dhiyā́ ǀ tanví ǀ śrutásya ǀ júṣṭa-tarasya ǀ kuvít ǀ aṅgá ǀ védat ǁ

uktha-vāhase ǀ vi-bhve ǀ manīṣām ǀ druṇā ǀ na ǀ pāram ǀ īraya ǀ nadīnām ǀ
ni ǀ spṛśa ǀ dhiyā ǀ tanvi ǀ śrutasya ǀ juṣṭa-tarasya ǀ kuvit ǀ aṅga ǀ vedat ǁ

References

Maṇḍala · Sūkta · Ṛk
08.096.11
Aṣṭaka · Adhyāya · Varga · Ṛk
6.6.34.01
Maṇḍala · Anuvāka · Ṛk
8.10.032
Devatā देवता
1-13, 16-20: Indra; 14: Indra (C); Maruts (D);; 15: Indra, Bṛhaspati; 21: Indra, Soma
Ṛṣi ऋषि
Tiraścī Āṅgirasa Or Dyutāna Māruti
Chandas छन्दस्
Triṣṭubh, Virāj
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.96.11

Interpretations

Sāyaṇa

हे स्तोतः उक्थवाहसे उक्थैः स्तोत्रशस्त्रादिभिरुह्यमानाय अतएव विभ्वे महत यद्वा शत्रूणामभिभवित्रे इन्द्राय इन्द्रार्थं मनीषां मनसईषां स्तुतिं ईरय प्रेरय । तत्रदृष्टान्तः-द्रुणानयथा नाविकः नदीनां नदमानानां सरितां पारं तीरंप्रति पथिकं द्रुणा नावा प्रापयति तद्वदिंद्रं प्रति स्तुतिं गमयेति । किंच निस्पृश नितरां धनं स्पर्शय गमय तन्वि आत्मनि पुत्रेवा । किदृशं श्रुतस्य सर्वत्र विश्रुतस्य प्रसिद्धस्य जुष्टतरस्य अत्यर्थं प्रीणयितु- रिन्द्रस्य स्वभुतं धनं धिया त्वदीयया स्तुत्या कर्मणावा आत्मानं गमय ततस्त्वयाभिष्टुतइन्द्रः कुविद्बहुधनं अंग क्षिप्रं वेदत् लंभयतु ददातु ॥ ११ ॥