Sūkta 76
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Kurusuti Kāṇva
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1, 2, 5, 6, 8-12); nicṛdgāyatrī (3, 4, 7)
2nd set of styles gāyatrī
-
Ṛk 1
इ॒मं नु मा॒यिनं॑ हुव॒ इंद्र॒मीशा॑न॒मोज॑सा ।
म॒रुत्वं॑तं॒ न वृं॒जसे॑ ॥इमं नु मायिनं हुव इन्द्रम् ईशानम् ओजसा |
मरुत्वन्तं न वृञ्जसे ||imám nú māyínam huva índramī́śānamójasā ǀ
marútvantam ná vṛñjáse ǁimaṃ nu māyinaṃ huva indram īśānam ojasā |
marutvantaṃ na vṛñjase ||इ॒मम् । नु । मा॒यिन॑म् । हु॒वे॒ । इन्द्र॑म् । ईशा॑नम् । ओज॑सा ।
म॒रुत्व॑न्तम् । न । वृ॒ञ्जसे॑ ॥इमम् । नु । मायिनम् । हुवे । इन्द्रम् । ईशानम् । ओजसा ।
मरुत्वन्तम् । न । वृञ्जसे ॥imám ǀ nú ǀ māyínam ǀ huve ǀ índram ǀ ī́śānam ǀ ójasā ǀ
marútvantam ǀ ná ǀ vṛñjáse ǁimam ǀ nu ǀ māyinam ǀ huve ǀ indram ǀ īśānam ǀ ojasā ǀ
marutvantam ǀ na ǀ vṛñjase ǁ8.76.1 Aṣṭaka 6.5.27.1Anuvāka 8.8.98
-
Ṛk 2
अ॒यमिंद्रो॑ म॒रुत्स॑खा॒ वि वृ॒त्रस्या॑भिन॒च्छिरः॑ ।
वज्रे॑ण श॒तप॑र्वणा ॥अयम् इन्द्रो मरुत्सखा वि वृत्रस्याभिनच् छिरः |
वज्रेण शतपर्वणा ||ayámíndro marútsakhā ví vṛtrásyābhinacchíraḥ ǀ
vájreṇa śatáparvaṇā ǁayam indro marutsakhā vi vṛtrasyābhinac chiraḥ |
vajreṇa śataparvaṇā ||अ॒यम् । इन्द्रः॑ । म॒रुत्ऽस॑खा । वि । वृ॒त्रस्य॑ । अ॒भि॒न॒त् । शिरः॑ ।
वज्रे॑ण । श॒तऽप॑र्वणा ॥अयम् । इन्द्रः । मरुत्ऽसखा । वि । वृत्रस्य । अभिनत् । शिरः ।
वज्रेण । शतऽपर्वणा ॥ayám ǀ índraḥ ǀ marút-sakhā ǀ ví ǀ vṛtrásya ǀ abhinat ǀ śíraḥ ǀ
vájreṇa ǀ śatá-parvaṇā ǁayam ǀ indraḥ ǀ marut-sakhā ǀ vi ǀ vṛtrasya ǀ abhinat ǀ śiraḥ ǀ
vajreṇa ǀ śata-parvaṇā ǁ8.76.2 Aṣṭaka 6.5.27.2Anuvāka 8.8.99
-
Ṛk 3
वा॒वृ॒धा॒नो म॒रुत्स॒खेंद्रो॒ वि वृ॒त्रमै॑रयत् ।
सृ॒जन्त्स॑मु॒द्रिया॑ अ॒पः ॥वावृधानो मरुत्सखेन्द्रो वि वृत्रम् ऐरयत् |
सृजन् समुद्रिया अपः ||vāvṛdhānó marútsakhéndro ví vṛtrámairayat ǀ
sṛjántsamudríyā apáḥ ǁvāvṛdhāno marutsakhendro vi vṛtram airayat |
sṛjan samudriyā apaḥ ||व॒वृ॒धा॒नः । म॒रुत्ऽस॑खा । इन्द्रः॑ । वि । वृ॒त्रम् । ऐ॒र॒य॒त् ।
सृ॒जन् । स॒मु॒द्रियाः॑ । अ॒पः ॥ववृधानः । मरुत्ऽसखा । इन्द्रः । वि । वृत्रम् । ऐरयत् ।
सृजन् । समुद्रियाः । अपः ॥vavṛdhānáḥ ǀ marút-sakhā ǀ índraḥ ǀ ví ǀ vṛtrám ǀ airayat ǀ
sṛján ǀ samudríyāḥ ǀ apáḥ ǁvavṛdhānaḥ ǀ marut-sakhā ǀ indraḥ ǀ vi ǀ vṛtram ǀ airayat ǀ
sṛjan ǀ samudriyāḥ ǀ apaḥ ǁ8.76.3 Aṣṭaka 6.5.27.3Anuvāka 8.8.100
-
Ṛk 4
अ॒यं ह॒ येन॒ वा इ॒दं स्व॑र्म॒रुत्व॑ता जि॒तं ।
इंद्रे॑ण॒ सोम॑पीतये ॥अयं ह येन वा इदं स्वर् मरुत्वता जितम् |
इन्द्रेण सोमपीतये ||ayám ha yéna vā́ idám svármarútvatā jitám ǀ
índreṇa sómapītaye ǁayaṃ ha yena vā idaṃ svar marutvatā jitam |
indreṇa somapītaye ||अ॒यम् । ह॒ । येन॑ । वै । इ॒दम् । स्वः॑ । म॒रुत्व॑ता । जि॒तम् ।
इन्द्रे॑ण । सोम॑ऽपीतये ॥अयम् । ह । येन । वै । इदम् । स्वः । मरुत्वता । जितम् ।
इन्द्रेण । सोमऽपीतये ॥ayám ǀ ha ǀ yéna ǀ vái ǀ idám ǀ sváḥ ǀ marútvatā ǀ jitám ǀ
índreṇa ǀ sóma-pītaye ǁayam ǀ ha ǀ yena ǀ vai ǀ idam ǀ svaḥ ǀ marutvatā ǀ jitam ǀ
indreṇa ǀ soma-pītaye ǁ8.76.4 Aṣṭaka 6.5.27.4Anuvāka 8.8.101
-
Ṛk 5
म॒रुत्वं॑तमृजी॒षिण॒मोज॑स्वंतं विर॒प्शिनं॑ ।
इंद्रं॑ गी॒र्भिर्ह॑वामहे ॥मरुत्वन्तम् ऋजीषिणम् ओजस्वन्तं विरप्शिनम् |
इन्द्रं गीर्भिर् हवामहे ||marútvantamṛjīṣíṇamójasvantam virapśínam ǀ
índram gīrbhírhavāmahe ǁmarutvantam ṛjīṣiṇam ojasvantaṃ virapśinam |
indraṃ gīrbhir havāmahe ||म॒रुत्व॑न्तम् । ऋ॒जी॒षिण॑म् । ओज॑स्वन्तम् । वि॒ऽर॒प्शिन॑म् ।
इन्द्र॑म् । गीः॒ऽभिः । ह॒वा॒म॒हे॒ ॥मरुत्वन्तम् । ऋजीषिणम् । ओजस्वन्तम् । विऽरप्शिनम् ।
इन्द्रम् । गीःऽभिः । हवामहे ॥marútvantam ǀ ṛjīṣíṇam ǀ ójasvantam ǀ vi-rapśínam ǀ
índram ǀ gīḥ-bhíḥ ǀ havāmahe ǁmarutvantam ǀ ṛjīṣiṇam ǀ ojasvantam ǀ vi-rapśinam ǀ
indram ǀ gīḥ-bhiḥ ǀ havāmahe ǁ8.76.5 Aṣṭaka 6.5.27.5Anuvāka 8.8.102
-
Ṛk 6
इंद्रं॑ प्र॒त्नेन॒ मन्म॑ना म॒रुत्वं॑तं हवामहे ।
अ॒स्य सोम॑स्य पी॒तये॑ ॥इन्द्रम् प्रत्नेन मन्मना मरुत्वन्तं हवामहे |
अस्य सोमस्य पीतये ||índram pratnéna mánmanā marútvantam havāmahe ǀ
asyá sómasya pītáye ǁindram pratnena manmanā marutvantaṃ havāmahe |
asya somasya pītaye ||इन्द्र॑म् । प्र॒त्नेन॑ । मन्म॑ना । म॒रुत्व॑न्तम् । ह॒वा॒म॒हे॒ ।
अ॒स्य । सोम॑स्य । पी॒तये॑ ॥इन्द्रम् । प्रत्नेन । मन्मना । मरुत्वन्तम् । हवामहे ।
अस्य । सोमस्य । पीतये ॥índram ǀ pratnéna ǀ mánmanā ǀ marútvantam ǀ havāmahe ǀ
asyá ǀ sómasya ǀ pītáye ǁindram ǀ pratnena ǀ manmanā ǀ marutvantam ǀ havāmahe ǀ
asya ǀ somasya ǀ pītaye ǁ8.76.6 Aṣṭaka 6.5.27.6Anuvāka 8.8.103
-
Ṛk 7
म॒रुत्वाँ॑ इंद्र मीढ्वः॒ पिबा॒ सोमं॑ शतक्रतो ।
अ॒स्मिन्य॒ज्ञे पु॑रुष्टुत ॥मरुत्वां इन्द्र मीढ्वः पिबा सोमं शतक्रतो |
अस्मिन् यज्ञे पुरुष्टुत ||marútvām̐ indra mīḍhvaḥ píbā sómam śatakrato ǀ
asmínyajñé puruṣṭuta ǁmarutvāṃ indra mīḍhvaḥ pibā somaṃ śatakrato |
asmin yajñe puruṣṭuta ||म॒रुत्वा॑न् । इ॒न्द्र॒ । मी॒ढ्वः॒ । पिब॑ । सोम॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
अ॒स्मिन् । य॒ज्ञे । पु॒रु॒ऽस्तु॒त॒ ॥मरुत्वान् । इन्द्र । मीढ्वः । पिब । सोमम् । शतक्रतो इति शतऽक्रतो ।
अस्मिन् । यज्ञे । पुरुऽस्तुत ॥marútvān ǀ indra ǀ mīḍhvaḥ ǀ píba ǀ sómam ǀ śatakrato íti śata-krato ǀ
asmín ǀ yajñé ǀ puru-stuta ǁmarutvān ǀ indra ǀ mīḍhvaḥ ǀ piba ǀ somam ǀ śatakrato iti śata-krato ǀ
asmin ǀ yajñe ǀ puru-stuta ǁ8.76.7 Aṣṭaka 6.5.28.1Anuvāka 8.8.104
-
Ṛk 8
तुभ्येदिं॑द्र म॒रुत्व॑ते सु॒ताः सोमा॑सो अद्रिवः ।
हृ॒दा हू॑यंत उ॒क्थिनः॑ ॥तुभ्येद् इन्द्र मरुत्वते सुताः सोमासो अद्रिवः |
हृदा हूयन्त उक्थिनः ||túbhyédindra marútvate sutā́ḥ sómāso adrivaḥ ǀ
hṛdā́ hūyanta ukthínaḥ ǁtubhyed indra marutvate sutāḥ somāso adrivaḥ |
hṛdā hūyanta ukthinaḥ ||तुभ्य॑ । इत् । इ॒न्द्र॒ । म॒रुत्व॑ते । सु॒ताः । सोमा॑सः । अ॒द्रि॒ऽवः॒ ।
हृ॒दा । हू॒य॒न्ते॒ । उ॒क्थिनः॑ ॥तुभ्य । इत् । इन्द्र । मरुत्वते । सुताः । सोमासः । अद्रिऽवः ।
हृदा । हूयन्ते । उक्थिनः ॥túbhya ǀ ít ǀ indra ǀ marútvate ǀ sutā́ḥ ǀ sómāsaḥ ǀ adri-vaḥ ǀ
hṛdā́ ǀ hūyante ǀ ukthínaḥ ǁtubhya ǀ it ǀ indra ǀ marutvate ǀ sutāḥ ǀ somāsaḥ ǀ adri-vaḥ ǀ
hṛdā ǀ hūyante ǀ ukthinaḥ ǁ8.76.8 Aṣṭaka 6.5.28.2Anuvāka 8.8.105
-
Ṛk 9
पिबेदिं॑द्र म॒रुत्स॑खा सु॒तं सोमं॒ दिवि॑ष्टिषु ।
वज्रं॒ शिशा॑न॒ ओज॑सा ॥पिबेद् इन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु |
वज्रं शिशान ओजसा ||píbédindra marútsakhā sutám sómam díviṣṭiṣu ǀ
vájram śíśāna ójasā ǁpibed indra marutsakhā sutaṃ somaṃ diviṣṭiṣu |
vajraṃ śiśāna ojasā ||पिब॑ । इत् । इ॒न्द्र॒ । म॒रुत्ऽस॑खा । सु॒तम् । सोम॑म् । दिवि॑ष्टिषु ।
वज्र॑म् । शिशा॑नः । ओज॑सा ॥पिब । इत् । इन्द्र । मरुत्ऽसखा । सुतम् । सोमम् । दिविष्टिषु ।
वज्रम् । शिशानः । ओजसा ॥píba ǀ ít ǀ indra ǀ marút-sakhā ǀ sutám ǀ sómam ǀ díviṣṭiṣu ǀ
vájram ǀ śíśānaḥ ǀ ójasā ǁpiba ǀ it ǀ indra ǀ marut-sakhā ǀ sutam ǀ somam ǀ diviṣṭiṣu ǀ
vajram ǀ śiśānaḥ ǀ ojasā ǁ8.76.9 Aṣṭaka 6.5.28.3Anuvāka 8.8.106
-
Ṛk 10
उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः ।
सोम॑मिंद्र च॒मू सु॒तं ॥उत्तिष्ठन्न् ओजसा सह पीत्वी शिप्रे अवेपयः |
सोमम् इन्द्र चमू सुतम् ||uttíṣṭhannójasā sahá pītvī́ śípre avepayaḥ ǀ
sómamindra camū́ sutám ǁuttiṣṭhann ojasā saha pītvī śipre avepayaḥ |
somam indra camū sutam ||उ॒त्ऽतिष्ठ॑न् । ओज॑सा । स॒ह । पी॒त्वी । शिप्रे॒ इति॑ । अ॒वे॒प॒यः॒ ।
सोम॑म् । इ॒न्द्र॒ । च॒मू इति॑ । सु॒तम् ॥उत्ऽतिष्ठन् । ओजसा । सह । पीत्वी । शिप्रे इति । अवेपयः ।
सोमम् । इन्द्र । चमू इति । सुतम् ॥ut-tíṣṭhan ǀ ójasā ǀ sahá ǀ pītvī́ ǀ śípre íti ǀ avepayaḥ ǀ
sómam ǀ indra ǀ camū́ íti ǀ sutám ǁut-tiṣṭhan ǀ ojasā ǀ saha ǀ pītvī ǀ śipre iti ǀ avepayaḥ ǀ
somam ǀ indra ǀ camū iti ǀ sutam ǁ8.76.10 Aṣṭaka 6.5.28.4Anuvāka 8.8.107
-
Ṛk 11
अनु॑ त्वा॒ रोद॑सी उ॒भे क्रक्ष॑माणमकृपेतां ।
इंद्र॒ यद्द॑स्यु॒हाभ॑वः ॥अनु त्वा रोदसी उभे क्रक्षमाणम् अकृपेताम् |
इन्द्र यद् दस्युहाभवः ||ánu tvā ródasī ubhé krákṣamāṇamakṛpetām ǀ
índra yáddasyuhā́bhavaḥ ǁanu tvā rodasī ubhe krakṣamāṇam akṛpetām |
indra yad dasyuhābhavaḥ ||अनु॑ । त्वा॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । क्रक्ष॑माणम् । अ॒कृ॒पे॒ता॒म् ।
इन्द्र॑ । यत् । द॒स्यु॒ऽहा । अभ॑वः ॥अनु । त्वा । रोदसी इति । उभे इति । क्रक्षमाणम् । अकृपेताम् ।
इन्द्र । यत् । दस्युऽहा । अभवः ॥ánu ǀ tvā ǀ ródasī íti ǀ ubhé íti ǀ krákṣamāṇam ǀ akṛpetām ǀ
índra ǀ yát ǀ dasyu-hā́ ǀ ábhavaḥ ǁanu ǀ tvā ǀ rodasī iti ǀ ubhe iti ǀ krakṣamāṇam ǀ akṛpetām ǀ
indra ǀ yat ǀ dasyu-hā ǀ abhavaḥ ǁ8.76.11 Aṣṭaka 6.5.28.5Anuvāka 8.8.108
-
Ṛk 12
वाच॑म॒ष्टाप॑दीम॒हं नव॑स्रक्तिमृत॒स्पृशं॑ ।
इंद्रा॒त्परि॑ त॒न्वं॑ ममे ॥वाचम् अष्टापदीम् अहं नवस्रक्तिम् ऋतस्पृशम् |
इन्द्रात् परि तन्वम् ममे ||vā́camaṣṭā́padīmahám návasraktimṛtaspṛ́śam ǀ
índrātpári tanvám mame ǁvācam aṣṭāpadīm ahaṃ navasraktim ṛtaspṛśam |
indrāt pari tanvam mame ||वाच॑म् । अ॒ष्टाऽप॑दीम् । अ॒हम् । नव॑ऽस्रक्तिम् । ऋ॒त॒ऽस्पृश॑म् ।
इन्द्रा॑त् । परि॑ । त॒न्व॑म् । म॒मे॒ ॥वाचम् । अष्टाऽपदीम् । अहम् । नवऽस्रक्तिम् । ऋतऽस्पृशम् ।
इन्द्रात् । परि । तन्वम् । ममे ॥vā́cam ǀ aṣṭā́-padīm ǀ ahám ǀ náva-sraktim ǀ ṛta-spṛ́śam ǀ
índrāt ǀ pári ǀ tanvám ǀ mame ǁvācam ǀ aṣṭā-padīm ǀ aham ǀ nava-sraktim ǀ ṛta-spṛśam ǀ
indrāt ǀ pari ǀ tanvam ǀ mame ǁ8.76.12 Aṣṭaka 6.5.28.6Anuvāka 8.8.109
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.