Sūkta 64
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Pragātha Kāṇva
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (2, 6, 8, 10-12); nicṛdgāyatrī (1, 5, 7, 9); svarāḍārcīgāyatrī (3); virāḍgāyatrī (4)
2nd set of styles gāyatrī
-
Ṛk 1
उत्त्वा॑ मंदंतु॒ स्तोमाः॑ कृणु॒ष्व राधो॑ अद्रिवः ।
अव॑ ब्रह्म॒द्विषो॑ जहि ॥उत् त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः |
अव ब्रह्मद्विषो जहि ||úttvā mandantu stómāḥ kṛṇuṣvá rā́dho adrivaḥ ǀ
áva brahmadvíṣo jahi ǁut tvā mandantu stomāḥ kṛṇuṣva rādho adrivaḥ |
ava brahmadviṣo jahi ||उत् । त्वा॒ । म॒न्द॒न्तु॒ । स्तोमाः॑ । कृ॒णु॒ष्व । राधः॑ । अ॒द्रि॒ऽवः॒ ।
अव॑ । ब्र॒ह्म॒ऽद्विषः॑ । ज॒हि॒ ॥उत् । त्वा । मन्दन्तु । स्तोमाः । कृणुष्व । राधः । अद्रिऽवः ।
अव । ब्रह्मऽद्विषः । जहि ॥út ǀ tvā ǀ mandantu ǀ stómāḥ ǀ kṛṇuṣvá ǀ rā́dhaḥ ǀ adri-vaḥ ǀ
áva ǀ brahma-dvíṣaḥ ǀ jahi ǁut ǀ tvā ǀ mandantu ǀ stomāḥ ǀ kṛṇuṣva ǀ rādhaḥ ǀ adri-vaḥ ǀ
ava ǀ brahma-dviṣaḥ ǀ jahi ǁ8.64.1 Aṣṭaka 6.4.44.1Anuvāka 8.7.63
-
Ṛk 2
प॒दा प॒णीँर॑रा॒धसो॒ नि बा॑धस्व म॒हाँ अ॑सि ।
न॒हि त्वा॒ कश्च॒न प्रति॑ ॥पदा पणींर् अराधसो नि बाधस्व महां असि |
नहि त्वा कश् चन प्रति ||padā́ paṇī́m̐rarādháso ní bādhasva mahā́m̐ asi ǀ
nahí tvā káścaná práti ǁpadā paṇīṃr arādhaso ni bādhasva mahāṃ asi |
nahi tvā kaś cana prati ||प॒दा । प॒णीन् । अ॒रा॒धसः॑ । नि । बा॒ध॒स्व॒ । म॒हान् । अ॒सि॒ ।
न॒हि । त्वा॒ । कः । च॒न । प्रति॑ ॥पदा । पणीन् । अराधसः । नि । बाधस्व । महान् । असि ।
नहि । त्वा । कः । चन । प्रति ॥padā́ ǀ paṇī́n ǀ arādhásaḥ ǀ ní ǀ bādhasva ǀ mahā́n ǀ asi ǀ
nahí ǀ tvā ǀ káḥ ǀ caná ǀ práti ǁpadā ǀ paṇīn ǀ arādhasaḥ ǀ ni ǀ bādhasva ǀ mahān ǀ asi ǀ
nahi ǀ tvā ǀ kaḥ ǀ cana ǀ prati ǁ8.64.2 Aṣṭaka 6.4.44.2Anuvāka 8.7.64
-
Ṛk 3
त्वमी॑शिषे सु॒ताना॒मिंद्र॒ त्वमसु॑तानां ।
त्वं राजा॒ जना॑नां ॥त्वम् ईशिषे सुतानाम् इन्द्र त्वम् असुतानाम् |
त्वं राजा जनानाम् ||tvámīśiṣe sutā́nāmíndra tvámásutānām ǀ
tvám rā́jā jánānām ǁtvam īśiṣe sutānām indra tvam asutānām |
tvaṃ rājā janānām ||त्वम् । ई॒शि॒षे॒ । सु॒ताना॑म् । इ॒न्द्र॒ । त्वम् । असु॑तानाम् ।
त्वम् । राजा॑ । जना॑नाम् ॥त्वम् । ईशिषे । सुतानाम् । इन्द्र । त्वम् । असुतानाम् ।
त्वम् । राजा । जनानाम् ॥tvám ǀ īśiṣe ǀ sutā́nām ǀ indra ǀ tvám ǀ ásutānām ǀ
tvám ǀ rā́jā ǀ jánānām ǁtvam ǀ īśiṣe ǀ sutānām ǀ indra ǀ tvam ǀ asutānām ǀ
tvam ǀ rājā ǀ janānām ǁ8.64.3 Aṣṭaka 6.4.44.3Anuvāka 8.7.65
-
Ṛk 4
एहि॒ प्रेहि॒ क्षयो॑ दि॒व्या॒३॒॑घोषं॑चर्षणी॒नां ।
ओभे पृ॑णासि॒ रोद॑सी ॥एहि प्रेहि क्षयो दिव्य् आघोषञ् चर्षणीनाम् |
ओभे पृणासि रोदसी ||éhi préhi kṣáyo divyā́ghóṣañcarṣaṇīnā́m ǀ
óbhé pṛṇāsi ródasī ǁehi prehi kṣayo divy āghoṣañ carṣaṇīnām |
obhe pṛṇāsi rodasī ||आ । इ॒हि॒ । प्र । इ॒हि॒ । क्षयः॑ । दि॒वि । आ॒ऽघोष॑न् । च॒र्ष॒णी॒नाम् ।
आ । उ॒भे इति॑ । पृ॒णा॒सि॒ । रोद॑सी॒ इति॑ ॥आ । इहि । प्र । इहि । क्षयः । दिवि । आऽघोषन् । चर्षणीनाम् ।
आ । उभे इति । पृणासि । रोदसी इति ॥ā́ ǀ ihi ǀ prá ǀ ihi ǀ kṣáyaḥ ǀ diví ǀ ā-ghóṣan ǀ carṣaṇīnā́m ǀ
ā́ ǀ ubhé íti ǀ pṛṇāsi ǀ ródasī íti ǁā ǀ ihi ǀ pra ǀ ihi ǀ kṣayaḥ ǀ divi ǀ ā-ghoṣan ǀ carṣaṇīnām ǀ
ā ǀ ubhe iti ǀ pṛṇāsi ǀ rodasī iti ǁ8.64.4 Aṣṭaka 6.4.44.4Anuvāka 8.7.66
-
Ṛk 5
त्यं चि॒त्पर्व॑तं गि॒रिं श॒तवं॑तं सह॒स्रिणं॑ ।
वि स्तो॒तृभ्यो॑ रुरोजिथ ॥त्यं चित् पर्वतं गिरिं शतवन्तं सहस्रिणम् |
वि स्तोतृभ्यो रुरोजिथ ||tyám citpárvatam girím śatávantam sahasríṇam ǀ
ví stotṛ́bhyo rurojitha ǁtyaṃ cit parvataṃ giriṃ śatavantaṃ sahasriṇam |
vi stotṛbhyo rurojitha ||त्यम् । चि॒त् । पर्व॑तम् । गि॒रिम् । श॒तऽव॑न्तम् । स॒ह॒स्रिण॑म् ।
वि । स्तो॒तृऽभ्यः॑ । रु॒रो॒जि॒थ॒ ॥त्यम् । चित् । पर्वतम् । गिरिम् । शतऽवन्तम् । सहस्रिणम् ।
वि । स्तोतृऽभ्यः । रुरोजिथ ॥tyám ǀ cit ǀ párvatam ǀ girím ǀ śatá-vantam ǀ sahasríṇam ǀ
ví ǀ stotṛ́-bhyaḥ ǀ rurojitha ǁtyam ǀ cit ǀ parvatam ǀ girim ǀ śata-vantam ǀ sahasriṇam ǀ
vi ǀ stotṛ-bhyaḥ ǀ rurojitha ǁ8.64.5 Aṣṭaka 6.4.44.5Anuvāka 8.7.67
-
Ṛk 6
व॒यमु॑ त्वा॒ दिवा॑ सु॒ते व॒यं नक्तं॑ हवामहे ।
अ॒स्माकं॒ काम॒मा पृ॑ण ॥वयम् उ त्वा दिवा सुते वयं नक्तं हवामहे |
अस्माकं कामम् आ पृण ||vayámu tvā dívā suté vayám náktam havāmahe ǀ
asmā́kam kā́mamā́ pṛṇa ǁvayam u tvā divā sute vayaṃ naktaṃ havāmahe |
asmākaṃ kāmam ā pṛṇa ||व॒यम् । ऊं॒ इति॑ । त्वा॒ । दिवा॑ । सु॒ते । व॒यम् । नक्त॑म् । ह॒वा॒म॒हे॒ ।
अ॒स्माक॑म् । काम॑म् । आ । पृ॒ण॒ ॥वयम् । ऊं इति । त्वा । दिवा । सुते । वयम् । नक्तम् । हवामहे ।
अस्माकम् । कामम् । आ । पृण ॥vayám ǀ ūṃ íti ǀ tvā ǀ dívā ǀ suté ǀ vayám ǀ náktam ǀ havāmahe ǀ
asmā́kam ǀ kā́mam ǀ ā́ ǀ pṛṇa ǁvayam ǀ ūṃ iti ǀ tvā ǀ divā ǀ sute ǀ vayam ǀ naktam ǀ havāmahe ǀ
asmākam ǀ kāmam ǀ ā ǀ pṛṇa ǁ8.64.6 Aṣṭaka 6.4.44.6Anuvāka 8.7.68
-
Ṛk 7
क्व१॒॑ स्य वृ॑ष॒भो युवा॑ तुवि॒ग्रीवो॒ अना॑नतः ।
ब्र॒ह्मा कस्तं स॑पर्यति ॥क्व स्य वृषभो युवा तुविग्रीवो अनानतः |
ब्रह्मा कस् तं सपर्यति ||kvá syá vṛṣabhó yúvā tuvigrī́vo ánānataḥ ǀ
brahmā́ kástám saparyati ǁkva sya vṛṣabho yuvā tuvigrīvo anānataḥ |
brahmā kas taṃ saparyati ||क्व॑ । स्यः । वृ॒ष॒भः । युवा॑ । तु॒वि॒ऽग्रीवः॑ । अना॑नतः ।
ब्र॒ह्मा । कः । तम् । स॒प॒र्य॒ति॒ ॥क्व । स्यः । वृषभः । युवा । तुविऽग्रीवः । अनानतः ।
ब्रह्मा । कः । तम् । सपर्यति ॥kvá ǀ syáḥ ǀ vṛṣabháḥ ǀ yúvā ǀ tuvi-grī́vaḥ ǀ ánānataḥ ǀ
brahmā́ ǀ káḥ ǀ tám ǀ saparyati ǁkva ǀ syaḥ ǀ vṛṣabhaḥ ǀ yuvā ǀ tuvi-grīvaḥ ǀ anānataḥ ǀ
brahmā ǀ kaḥ ǀ tam ǀ saparyati ǁ8.64.7 Aṣṭaka 6.4.45.1Anuvāka 8.7.69
-
Ṛk 8
कस्य॑ स्वि॒त्सव॑नं॒ वृषा॑ जुजु॒ष्वाँ अव॑ गच्छति ।
इंद्रं॒ क उ॑ स्वि॒दा च॑के ॥कस्य स्वित् सवनं वृषा जुजुष्वां अव गच्छति |
इन्द्रं क उ स्विद् आ चके ||kásya svitsávanam vṛ́ṣā jujuṣvā́m̐ áva gacchati ǀ
índram ká u svidā́ cake ǁkasya svit savanaṃ vṛṣā jujuṣvāṃ ava gacchati |
indraṃ ka u svid ā cake ||कस्य॑ । स्वि॒त् । सव॑नम् । वृषा॑ । जु॒जु॒ष्वान् । अव॑ । ग॒च्छ॒ति॒ ।
इन्द्र॑म् । कः । ऊं॒ इति॑ । स्वि॒त् । आ । च॒के॒ ॥कस्य । स्वित् । सवनम् । वृषा । जुजुष्वान् । अव । गच्छति ।
इन्द्रम् । कः । ऊं इति । स्वित् । आ । चके ॥kásya ǀ svit ǀ sávanam ǀ vṛ́ṣā ǀ jujuṣvā́n ǀ áva ǀ gacchati ǀ
índram ǀ káḥ ǀ ūṃ íti ǀ svit ǀ ā́ ǀ cake ǁkasya ǀ svit ǀ savanam ǀ vṛṣā ǀ jujuṣvān ǀ ava ǀ gacchati ǀ
indram ǀ kaḥ ǀ ūṃ iti ǀ svit ǀ ā ǀ cake ǁ8.64.8 Aṣṭaka 6.4.45.2Anuvāka 8.7.70
-
Ṛk 9
कं ते॑ दा॒ना अ॑सक्षत॒ वृत्र॑ह॒न्कं सु॒वीर्या॑ ।
उ॒क्थे क उ॑ स्वि॒दंत॑मः ॥कं ते दाना असक्षत वृत्रहन् कं सुवीर्या |
उक्थे क उ स्विद् अन्तमः ||kám te dānā́ asakṣata vṛ́trahankám suvī́ryā ǀ
ukthé ká u svidántamaḥ ǁkaṃ te dānā asakṣata vṛtrahan kaṃ suvīryā |
ukthe ka u svid antamaḥ ||कम् । ते॒ । दा॒नाः । अ॒स॒क्ष॒त॒ । वृत्र॑ऽहन् । कम् । सु॒ऽवीर्या॑ ।
उ॒क्थे । कः । ऊं॒ इति॑ । स्वि॒त् । अन्त॑मः ॥कम् । ते । दानाः । असक्षत । वृत्रऽहन् । कम् । सुऽवीर्या ।
उक्थे । कः । ऊं इति । स्वित् । अन्तमः ॥kám ǀ te ǀ dānā́ḥ ǀ asakṣata ǀ vṛ́tra-han ǀ kám ǀ su-vī́ryā ǀ
ukthé ǀ káḥ ǀ ūṃ íti ǀ svit ǀ ántamaḥ ǁkam ǀ te ǀ dānāḥ ǀ asakṣata ǀ vṛtra-han ǀ kam ǀ su-vīryā ǀ
ukthe ǀ kaḥ ǀ ūṃ iti ǀ svit ǀ antamaḥ ǁ8.64.9 Aṣṭaka 6.4.45.3Anuvāka 8.7.71
-
Ṛk 10
अ॒यं ते॒ मानु॑षे॒ जने॒ सोमः॑ पू॒रुषु॑ सूयते ।
तस्येहि॒ प्र द्र॑वा॒ पिब॑ ॥अयं ते मानुषे जने सोमः पूरुषु सूयते |
तस्येहि प्र द्रवा पिब ||ayám te mā́nuṣe jáne sómaḥ pūrúṣu sūyate ǀ
tásyéhi prá dravā píba ǁayaṃ te mānuṣe jane somaḥ pūruṣu sūyate |
tasyehi pra dravā piba ||अ॒यम् । ते॒ । मानु॑षे । जने॑ । सोमः॑ । पू॒रुषु॑ । सू॒य॒ते॒ ।
तस्य॑ । आ । इ॒हि॒ । प्र । द्र॒व॒ । पिब॑ ॥अयम् । ते । मानुषे । जने । सोमः । पूरुषु । सूयते ।
तस्य । आ । इहि । प्र । द्रव । पिब ॥ayám ǀ te ǀ mā́nuṣe ǀ jáne ǀ sómaḥ ǀ pūrúṣu ǀ sūyate ǀ
tásya ǀ ā́ ǀ ihi ǀ prá ǀ drava ǀ píba ǁayam ǀ te ǀ mānuṣe ǀ jane ǀ somaḥ ǀ pūruṣu ǀ sūyate ǀ
tasya ǀ ā ǀ ihi ǀ pra ǀ drava ǀ piba ǁ8.64.10 Aṣṭaka 6.4.45.4Anuvāka 8.7.72
-
Ṛk 11
अ॒यं ते॑ शर्य॒णाव॑ति सु॒षोमा॑या॒मधि॑ प्रि॒यः ।
आ॒र्जी॒कीये॑ म॒दिंत॑मः ॥अयं ते शर्यणावति सुषोमायाम् अधि प्रियः |
आर्जीकीये मदिन्तमः ||ayám te śaryaṇā́vati suṣómāyāmádhi priyáḥ ǀ
ārjīkī́ye madíntamaḥ ǁayaṃ te śaryaṇāvati suṣomāyām adhi priyaḥ |
ārjīkīye madintamaḥ ||अ॒यम् । ते॒ । श॒र्य॒णाऽव॑ति । सु॒ऽसोमा॑याम् । अधि॑ । प्रि॒यः ।
आ॒र्जी॒कीये॑ । म॒दिन्ऽत॑मः ॥अयम् । ते । शर्यणाऽवति । सुऽसोमायाम् । अधि । प्रियः ।
आर्जीकीये । मदिन्ऽतमः ॥ayám ǀ te ǀ śaryaṇā́-vati ǀ su-sómāyām ǀ ádhi ǀ priyáḥ ǀ
ārjīkī́ye ǀ madín-tamaḥ ǁayam ǀ te ǀ śaryaṇā-vati ǀ su-somāyām ǀ adhi ǀ priyaḥ ǀ
ārjīkīye ǀ madin-tamaḥ ǁ8.64.11 Aṣṭaka 6.4.45.5Anuvāka 8.7.73
-
Ṛk 12
तम॒द्य राध॑से म॒हे चारुं॒ मदा॑य॒ घृष्व॑ये ।
एही॑मिंद्र॒ द्रवा॒ पिब॑ ॥तम् अद्य राधसे महे चारुम् मदाय घृष्वये |
एहीम् इन्द्र द्रवा पिब ||támadyá rā́dhase mahé cā́rum mádāya ghṛ́ṣvaye ǀ
éhīmindra drávā píba ǁtam adya rādhase mahe cārum madāya ghṛṣvaye |
ehīm indra dravā piba ||तम् । अ॒द्य । राध॑से । म॒हे । चारु॑म् । मदा॑य । घृष्व॑ये ।
आ । इ॒हि॒ । ई॒म् । इ॒न्द्र॒ । द्रव॑ । पिब॑ ॥तम् । अद्य । राधसे । महे । चारुम् । मदाय । घृष्वये ।
आ । इहि । ईम् । इन्द्र । द्रव । पिब ॥tám ǀ adyá ǀ rā́dhase ǀ mahé ǀ cā́rum ǀ mádāya ǀ ghṛ́ṣvaye ǀ
ā́ ǀ ihi ǀ īm ǀ indra ǀ dráva ǀ píba ǁtam ǀ adya ǀ rādhase ǀ mahe ǀ cārum ǀ madāya ǀ ghṛṣvaye ǀ
ā ǀ ihi ǀ īm ǀ indra ǀ drava ǀ piba ǁ8.64.12 Aṣṭaka 6.4.45.6Anuvāka 8.7.74
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.