Sūkta 52
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Āyu Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
Metres by ṛk
1st set of styles nicṛtpaṅkti (4, 6, 8, 10); nicṛdbṛhatī (1, 7); bṛhatī (3, 5); pādanicṛtpaṅkti (2); virāḍbṛhatī (9)
2nd set of styles bṛhatī (1, 3, 5, 7, 9); satobṛhatī (2, 4, 6, 8, 10)
-
Ṛk 1
यथा॒ मनौ॒ विव॑स्वति॒ सोमं॑ श॒क्रापि॑बः सु॒तं ।
यथा॑ त्रि॒ते छंद॑ इंद्र॒ जुजो॑षस्या॒यौ मा॑दयसे॒ सचा॑ ॥यथा मनौ विवस्वति सोमं शक्रापिबः सुतम् |
यथा त्रिते छन्द इन्द्र जुजोषस्य् आयौ मादयसे सचा ||yáthā mánau vívasvati sómam śakrā́pibaḥ sutám ǀ
yáthā trité chánda indra jújoṣasyāyáu mādayase sácā ǁyathā manau vivasvati somaṃ śakrāpibaḥ sutam |
yathā trite chanda indra jujoṣasy āyau mādayase sacā ||यथा॑ । मनौ॑ । विव॑स्वति । सोम॑म् । श॒क्र॒ । अपि॑बः । सु॒तम् ।
यथा॑ । त्रि॒ते । छन्दः॑ । इ॒न्द्र॒ । जुजो॑षसि । आ॒यौ । मा॒द॒य॒से॒ । सचा॑ ॥यथा । मनौ । विवस्वति । सोमम् । शक्र । अपिबः । सुतम् ।
यथा । त्रिते । छन्दः । इन्द्र । जुजोषसि । आयौ । मादयसे । सचा ॥yáthā ǀ mánau ǀ vívasvati ǀ sómam ǀ śakra ǀ ápibaḥ ǀ sutám ǀ
yáthā ǀ trité ǀ chándaḥ ǀ indra ǀ jújoṣasi ǀ āyáu ǀ mādayase ǀ sácā ǁyathā ǀ manau ǀ vivasvati ǀ somam ǀ śakra ǀ apibaḥ ǀ sutam ǀ
yathā ǀ trite ǀ chandaḥ ǀ indra ǀ jujoṣasi ǀ āyau ǀ mādayase ǀ sacā ǁ8.52.1 Aṣṭaka 6.4.20.1Anuvāka 8.6.202
-
Ṛk 2
पृष॑ध्रे॒ मेध्ये॑ मात॒रिश्व॒नींद्र॑ सुवा॒ने अमं॑दथाः ।
यथा॒ सोमं॒ दश॑शिप्रे॒ दशो॑ण्ये॒ स्यूम॑रश्मा॒वृजू॑नसि ॥पृषध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः |
यथा सोमं दशशिप्रे दशोण्ये स्यूमरश्माव् ऋजूनसि ||pṛ́ṣadhre médhye mātaríśvanī́ndra suvāné ámandathāḥ ǀ
yáthā sómam dáśaśipre dáśoṇye syū́maraśmāvṛ́jūnasi ǁpṛṣadhre medhye mātariśvanīndra suvāne amandathāḥ |
yathā somaṃ daśaśipre daśoṇye syūmaraśmāv ṛjūnasi ||पृष॑ध्रे । मेध्ये॑ । मा॒त॒रिश्व॑नि । इन्द्र॑ । सु॒वा॒ने । अम॑न्दथाः ।
यथा॑ । सोम॑म् । दश॑ऽशिप्रे । दश॑ऽओण्ये । स्यूम॑ऽरश्मौ । ऋजू॑नसि ॥पृषध्रे । मेध्ये । मातरिश्वनि । इन्द्र । सुवाने । अमन्दथाः ।
यथा । सोमम् । दशऽशिप्रे । दशऽओण्ये । स्यूमऽरश्मौ । ऋजूनसि ॥pṛ́ṣadhre ǀ médhye ǀ mātaríśvani ǀ índra ǀ suvāné ǀ ámandathāḥ ǀ
yáthā ǀ sómam ǀ dáśa-śipre ǀ dáśa-oṇye ǀ syū́ma-raśmau ǀ ṛ́jūnasi ǁpṛṣadhre ǀ medhye ǀ mātariśvani ǀ indra ǀ suvāne ǀ amandathāḥ ǀ
yathā ǀ somam ǀ daśa-śipre ǀ daśa-oṇye ǀ syūma-raśmau ǀ ṛjūnasi ǁ8.52.2 Aṣṭaka 6.4.20.2Anuvāka 8.6.203
-
Ṛk 3
य उ॒क्था केव॑ला द॒धे यः सोमं॑ धृषि॒तापि॑बत् ।
यस्मै॒ विष्णु॒स्त्रीणि॑ प॒दा वि॑चक्र॒म उप॑ मि॒त्रस्य॒ धर्म॑भिः ॥य उक्था केवला दधे यः सोमं धृषितापिबत् |
यस्मै विष्णुस् त्रीणि पदा विचक्रम उप मित्रस्य धर्मभिः ||yá ukthā́ kévalā dadhé yáḥ sómam dhṛṣitā́pibat ǀ
yásmai víṣṇustrī́ṇi padā́ vicakramá úpa mitrásya dhármabhiḥ ǁya ukthā kevalā dadhe yaḥ somaṃ dhṛṣitāpibat |
yasmai viṣṇus trīṇi padā vicakrama upa mitrasya dharmabhiḥ ||यः । उ॒क्था । केव॑ला । द॒धे । यः । सोम॑म् । धृ॒षि॒ता । अपि॑बत् ।
यस्मै॑ । विष्णुः॑ । त्रीणि॑ । प॒दा । वि॒ऽच॒क्र॒मे । उप॑ । मि॒त्रस्य॑ । धर्म॑ऽभिः ॥यः । उक्था । केवला । दधे । यः । सोमम् । धृषिता । अपिबत् ।
यस्मै । विष्णुः । त्रीणि । पदा । विऽचक्रमे । उप । मित्रस्य । धर्मऽभिः ॥yáḥ ǀ ukthā́ ǀ kévalā ǀ dadhé ǀ yáḥ ǀ sómam ǀ dhṛṣitā́ ǀ ápibat ǀ
yásmai ǀ víṣṇuḥ ǀ trī́ṇi ǀ padā́ ǀ vi-cakramé ǀ úpa ǀ mitrásya ǀ dhárma-bhiḥ ǁyaḥ ǀ ukthā ǀ kevalā ǀ dadhe ǀ yaḥ ǀ somam ǀ dhṛṣitā ǀ apibat ǀ
yasmai ǀ viṣṇuḥ ǀ trīṇi ǀ padā ǀ vi-cakrame ǀ upa ǀ mitrasya ǀ dharma-bhiḥ ǁ8.52.3 Aṣṭaka 6.4.20.3Anuvāka 8.6.204
-
Ṛk 4
यस्य॒ त्वमिं॑द्र॒ स्तोमे॑षु चा॒कनो॒ वाजे॑ वाजिंछतक्रतो ।
तं त्वा॑ व॒यं सु॒दुघा॑मिव गो॒दुहो॑ जुहू॒मसि॑ श्रव॒स्यवः॑ ॥यस्य त्वम् इन्द्र स्तोमेषु चाकनो वाजे वाजिञ् छतक्रतो |
तं त्वा वयं सुदुघाम् इव गोदुहो जुहूमसि श्रवस्यवः ||yásya tvámindra stómeṣu cākáno vā́je vājiñchatakrato ǀ
tám tvā vayám sudúghāmiva godúho juhūmási śravasyávaḥ ǁyasya tvam indra stomeṣu cākano vāje vājiñ chatakrato |
taṃ tvā vayaṃ sudughām iva goduho juhūmasi śravasyavaḥ ||यस्य॑ । त्वम् । इ॒न्द्र॒ । स्तोमे॑षु । चा॒कनः॑ । वाजे॑ । वा॒जि॒न् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
तम् । त्वा॒ । व॒यम् । सु॒दुघा॑म्ऽइव । गो॒ऽदुहः॑ । जु॒हू॒मसि॑ । श्र॒व॒स्यवः॑ ॥यस्य । त्वम् । इन्द्र । स्तोमेषु । चाकनः । वाजे । वाजिन् । शतक्रतो इति शतऽक्रतो ।
तम् । त्वा । वयम् । सुदुघाम्ऽइव । गोऽदुहः । जुहूमसि । श्रवस्यवः ॥yásya ǀ tvám ǀ indra ǀ stómeṣu ǀ cākánaḥ ǀ vā́je ǀ vājin ǀ śatakrato íti śata-krato ǀ
tám ǀ tvā ǀ vayám ǀ sudúghām-iva ǀ go-dúhaḥ ǀ juhūmási ǀ śravasyávaḥ ǁyasya ǀ tvam ǀ indra ǀ stomeṣu ǀ cākanaḥ ǀ vāje ǀ vājin ǀ śatakrato iti śata-krato ǀ
tam ǀ tvā ǀ vayam ǀ sudughām-iva ǀ go-duhaḥ ǀ juhūmasi ǀ śravasyavaḥ ǁ8.52.4 Aṣṭaka 6.4.20.4Anuvāka 8.6.205
-
Ṛk 5
यो नो॑ दा॒ता स नः॑ पि॒ता म॒हाँ उ॒ग्र ई॑शान॒कृत् ।
अया॑मन्नु॒ग्रो म॒घवा॑ पुरू॒वसु॒र्गोरश्व॑स्य॒ प्र दा॑तु नः ॥यो नो दाता स नः पिता महां उग्र ईशानकृत् |
अयामन्न् उग्रो मघवा पुरूवसुर् गोर् अश्वस्य प्र दातु नः ||yó no dātā́ sá naḥ pitā́ mahā́m̐ ugrá īśānakṛ́t ǀ
áyāmannugró maghávā purūvásurgóráśvasya prá dātu naḥ ǁyo no dātā sa naḥ pitā mahāṃ ugra īśānakṛt |
ayāmann ugro maghavā purūvasur gor aśvasya pra dātu naḥ ||यः । नः॒ । दा॒ता । सः । नः॒ । पि॒ता । म॒हान् । उ॒ग्रः । ई॒शा॒न॒ऽकृत् ।
अया॑मन् । उ॒ग्रः । म॒घऽवा॑ । पु॒रु॒ऽवसुः॑ । गोः । अश्व॑स्य । प्र । दा॒तु॒ । नः॒ ॥यः । नः । दाता । सः । नः । पिता । महान् । उग्रः । ईशानऽकृत् ।
अयामन् । उग्रः । मघऽवा । पुरुऽवसुः । गोः । अश्वस्य । प्र । दातु । नः ॥yáḥ ǀ naḥ ǀ dātā́ ǀ sáḥ ǀ naḥ ǀ pitā́ ǀ mahā́n ǀ ugráḥ ǀ īśāna-kṛ́t ǀ
áyāman ǀ ugráḥ ǀ maghá-vā ǀ puru-vásuḥ ǀ góḥ ǀ áśvasya ǀ prá ǀ dātu ǀ naḥ ǁyaḥ ǀ naḥ ǀ dātā ǀ saḥ ǀ naḥ ǀ pitā ǀ mahān ǀ ugraḥ ǀ īśāna-kṛt ǀ
ayāman ǀ ugraḥ ǀ magha-vā ǀ puru-vasuḥ ǀ goḥ ǀ aśvasya ǀ pra ǀ dātu ǀ naḥ ǁ8.52.5 Aṣṭaka 6.4.20.5Anuvāka 8.6.206
-
Ṛk 6
यस्मै॒ त्वं व॑सो दा॒नाय॒ मंह॑से॒ स रा॒यस्पोष॑मिन्वति ।
व॒सू॒यवो॒ वसु॑पतिं श॒तक्र॑तुं॒ स्तोमै॒रिंद्रं॑ हवामहे ॥यस्मै त्वं वसो दानाय मंहसे स रायस् पोषम् इन्वति |
वसूयवो वसुपतिं शतक्रतुं स्तोमैर् इन्द्रं हवामहे ||yásmai tvám vaso dānā́ya máṃhase sá rāyáspóṣaminvati ǀ
vasūyávo vásupatim śatákratum stómairíndram havāmahe ǁyasmai tvaṃ vaso dānāya maṃhase sa rāyas poṣam invati |
vasūyavo vasupatiṃ śatakratuṃ stomair indraṃ havāmahe ||यस्मै॑ । त्वम् । व॒सो॒ इति॑ । दा॒नाय॑ । मंह॑से । सः । रा॒यः । पोष॑म् । इ॒न्व॒ति॒ ।
व॒सु॒ऽयवः॑ । वसु॑ऽपतिम् । श॒तऽक्र॑तुम् । स्तोमैः॑ । इन्द्र॑म् । ह॒वा॒म॒हे॒ ॥यस्मै । त्वम् । वसो इति । दानाय । मंहसे । सः । रायः । पोषम् । इन्वति ।
वसुऽयवः । वसुऽपतिम् । शतऽक्रतुम् । स्तोमैः । इन्द्रम् । हवामहे ॥yásmai ǀ tvám ǀ vaso íti ǀ dānā́ya ǀ máṃhase ǀ sáḥ ǀ rāyáḥ ǀ póṣam ǀ invati ǀ
vasu-yávaḥ ǀ vásu-patim ǀ śatá-kratum ǀ stómaiḥ ǀ índram ǀ havāmahe ǁyasmai ǀ tvam ǀ vaso iti ǀ dānāya ǀ maṃhase ǀ saḥ ǀ rāyaḥ ǀ poṣam ǀ invati ǀ
vasu-yavaḥ ǀ vasu-patim ǀ śata-kratum ǀ stomaiḥ ǀ indram ǀ havāmahe ǁ8.52.6 Aṣṭaka 6.4.21.1Anuvāka 8.6.207
-
Ṛk 7
क॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा॑सि॒ जन्म॑नी ।
तुरी॑यादित्य॒ हव॑नं त इंद्रि॒यमा त॑स्थाव॒मृतं॑ दि॒वि ॥कदा चन प्र युच्छस्य् उभे नि पासि जन्मनी |
तुरीयादित्य हवनं त इन्द्रियम् आ तस्थाव् अमृतं दिवि ||kadā́ caná prá yucchasyubhé ní pāsi jánmanī ǀ
túrīyāditya hávanam ta indriyámā́ tasthāvamṛ́tam diví ǁkadā cana pra yucchasy ubhe ni pāsi janmanī |
turīyāditya havanaṃ ta indriyam ā tasthāv amṛtaṃ divi ||क॒दा । च॒न । प्र । यु॒च्छ॒सि॒ । उ॒भे इति॑ । नि । पा॒सि॒ । जन्म॑नी॒ इति॑ ।
तुरी॑य । आ॒दि॒त्य॒ । हव॑नम् । ते॒ । इ॒न्द्रि॒यम् । आ । त॒स्थौ॒ । अ॒मृत॑म् । दि॒वि ॥कदा । चन । प्र । युच्छसि । उभे इति । नि । पासि । जन्मनी इति ।
तुरीय । आदित्य । हवनम् । ते । इन्द्रियम् । आ । तस्थौ । अमृतम् । दिवि ॥kadā́ ǀ caná ǀ prá ǀ yucchasi ǀ ubhé íti ǀ ní ǀ pāsi ǀ jánmanī íti ǀ
túrīya ǀ āditya ǀ hávanam ǀ te ǀ indriyám ǀ ā́ ǀ tasthau ǀ amṛ́tam ǀ diví ǁkadā ǀ cana ǀ pra ǀ yucchasi ǀ ubhe iti ǀ ni ǀ pāsi ǀ janmanī iti ǀ
turīya ǀ āditya ǀ havanam ǀ te ǀ indriyam ǀ ā ǀ tasthau ǀ amṛtam ǀ divi ǁ8.52.7 Aṣṭaka 6.4.21.2Anuvāka 8.6.208
-
Ṛk 8
यस्मै॒ त्वं म॑घवन्निंद्र गिर्वणः॒ शिक्षो॒ शिक्ष॑सि दा॒शुषे॑ ।
अ॒स्माकं॒ गिर॑ उ॒त सु॑ष्टु॒तिं व॑सो कण्व॒वच्छृ॑णुधी॒ हवं॑ ॥यस्मै त्वम् मघवन्न् इन्द्र गिर्वणः शिक्षो शिक्षसि दाशुषे |
अस्माकं गिर उत सुष्टुतिं वसो कण्ववच् छृणुधी हवम् ||yásmai tvám maghavannindra girvaṇaḥ śíkṣo śíkṣasi dāśúṣe ǀ
asmā́kam gíra utá suṣṭutím vaso kaṇvavácchṛṇudhī hávam ǁyasmai tvam maghavann indra girvaṇaḥ śikṣo śikṣasi dāśuṣe |
asmākaṃ gira uta suṣṭutiṃ vaso kaṇvavac chṛṇudhī havam ||यस्मै॑ । त्वम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । शिक्षो॒ इति॑ । शिक्ष॑सि । दा॒शुषे॑ ।
अ॒स्माक॑म् । गिरः॑ । उ॒त । सु॒ऽस्तु॒तिम् । व॒सो॒ इति॑ । क॒ण्व॒ऽवत् । शृ॒णु॒धि॒ । हव॑म् ॥यस्मै । त्वम् । मघऽवन् । इन्द्र । गिर्वणः । शिक्षो इति । शिक्षसि । दाशुषे ।
अस्माकम् । गिरः । उत । सुऽस्तुतिम् । वसो इति । कण्वऽवत् । शृणुधि । हवम् ॥yásmai ǀ tvám ǀ magha-van ǀ indra ǀ girvaṇaḥ ǀ śíkṣo íti ǀ śíkṣasi ǀ dāśúṣe ǀ
asmā́kam ǀ gíraḥ ǀ utá ǀ su-stutím ǀ vaso íti ǀ kaṇva-vát ǀ śṛṇudhi ǀ hávam ǁyasmai ǀ tvam ǀ magha-van ǀ indra ǀ girvaṇaḥ ǀ śikṣo iti ǀ śikṣasi ǀ dāśuṣe ǀ
asmākam ǀ giraḥ ǀ uta ǀ su-stutim ǀ vaso iti ǀ kaṇva-vat ǀ śṛṇudhi ǀ havam ǁ8.52.8 Aṣṭaka 6.4.21.3Anuvāka 8.6.209
-
Ṛk 9
अस्ता॑वि॒ मन्म॑ पू॒र्व्यं ब्रह्मेंद्रा॑य वोचत ।
पू॒र्वीर्ऋ॒तस्य॑ बृह॒तीर॑नूषत स्तो॒तुर्मे॒धा अ॑सृक्षत ॥अस्तावि मन्म पूर्व्यम् ब्रह्मेन्द्राय वोचत |
पूर्वीर् ऋतस्य बृहतीर् अनूषत स्तोतुर् मेधा असृक्षत ||ástāvi mánma pūrvyám bráhméndrāya vocata ǀ
pūrvī́rṛtásya bṛhatī́ranūṣata stotúrmedhā́ asṛkṣata ǁastāvi manma pūrvyam brahmendrāya vocata |
pūrvīr ṛtasya bṛhatīr anūṣata stotur medhā asṛkṣata ||अस्ता॑वि । मन्म॑ । पू॒र्व्यम् । ब्रह्म॑ । इन्द्रा॑य । वो॒च॒त॒ ।
पू॒र्वीः । ऋ॒तस्य॑ । बृ॒ह॒तीः । अ॒नू॒ष॒त॒ । स्तो॒तुः । मे॒धाः । अ॒सृ॒क्ष॒त॒ ॥अस्तावि । मन्म । पूर्व्यम् । ब्रह्म । इन्द्राय । वोचत ।
पूर्वीः । ऋतस्य । बृहतीः । अनूषत । स्तोतुः । मेधाः । असृक्षत ॥ástāvi ǀ mánma ǀ pūrvyám ǀ bráhma ǀ índrāya ǀ vocata ǀ
pūrvī́ḥ ǀ ṛtásya ǀ bṛhatī́ḥ ǀ anūṣata ǀ stotúḥ ǀ medhā́ḥ ǀ asṛkṣata ǁastāvi ǀ manma ǀ pūrvyam ǀ brahma ǀ indrāya ǀ vocata ǀ
pūrvīḥ ǀ ṛtasya ǀ bṛhatīḥ ǀ anūṣata ǀ stotuḥ ǀ medhāḥ ǀ asṛkṣata ǁ8.52.9 Aṣṭaka 6.4.21.4Anuvāka 8.6.210
-
Ṛk 10
समिंद्रो॒ रायो॑ बृह॒तीर॑धूनुत॒ सं क्षो॒णी समु॒ सूर्यं॑ ।
सं शु॒क्रासः॒ शुच॑यः॒ सं गवा॑शिरः॒ सोमा॒ इंद्र॑ममंदिषुः ॥सम् इन्द्रो रायो बृहतीर् अधूनुत सं क्षोणी सम् उ सूर्यम् |
सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रम् अमन्दिषुः ||sámíndro rā́yo bṛhatī́radhūnuta sám kṣoṇī́ sámu sū́ryam ǀ
sám śukrā́saḥ śúcayaḥ sám gávāśiraḥ sómā índramamandiṣuḥ ǁsam indro rāyo bṛhatīr adhūnuta saṃ kṣoṇī sam u sūryam |
saṃ śukrāsaḥ śucayaḥ saṃ gavāśiraḥ somā indram amandiṣuḥ ||सम् । इन्द्रः॑ । रायः॑ । बृ॒ह॒तीः । अ॒धू॒नु॒त॒ । सम् । क्षो॒णी इति॑ । सम् । ऊं॒ इति॑ । सूर्य॑म् ।
सम् । शु॒क्रासः॑ । शुच॑यः । सम् । गोऽआ॑शिरः । सोमाः॑ । इन्द्र॑म् । अ॒म॒न्दि॒षुः॒ ॥सम् । इन्द्रः । रायः । बृहतीः । अधूनुत । सम् । क्षोणी इति । सम् । ऊं इति । सूर्यम् ।
सम् । शुक्रासः । शुचयः । सम् । गोऽआशिरः । सोमाः । इन्द्रम् । अमन्दिषुः ॥sám ǀ índraḥ ǀ rā́yaḥ ǀ bṛhatī́ḥ ǀ adhūnuta ǀ sám ǀ kṣoṇī́ íti ǀ sám ǀ ūṃ íti ǀ sū́ryam ǀ
sám ǀ śukrā́saḥ ǀ śúcayaḥ ǀ sám ǀ gó-āśiraḥ ǀ sómāḥ ǀ índram ǀ amandiṣuḥ ǁsam ǀ indraḥ ǀ rāyaḥ ǀ bṛhatīḥ ǀ adhūnuta ǀ sam ǀ kṣoṇī iti ǀ sam ǀ ūṃ iti ǀ sūryam ǀ
sam ǀ śukrāsaḥ ǀ śucayaḥ ǀ sam ǀ go-āśiraḥ ǀ somāḥ ǀ indram ǀ amandiṣuḥ ǁ8.52.10 Aṣṭaka 6.4.21.5Anuvāka 8.6.211
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.