Ṛk 8.52.10
Saṃhitā
समिंद्रो॒ रायो॑ बृह॒तीर॑धूनुत॒ सं क्षो॒णी समु॒ सूर्यं॑ ।
सं शु॒क्रासः॒ शुच॑यः॒ सं गवा॑शिरः॒ सोमा॒ इंद्र॑ममंदिषुः ॥
सम् इन्द्रो रायो बृहतीर् अधूनुत सं क्षोणी सम् उ सूर्यम् |
सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रम् अमन्दिषुः ||
sámíndro rā́yo bṛhatī́radhūnuta sám kṣoṇī́ sámu sū́ryam ǀ
sám śukrā́saḥ śúcayaḥ sám gávāśiraḥ sómā índramamandiṣuḥ ǁ
sam indro rāyo bṛhatīr adhūnuta saṃ kṣoṇī sam u sūryam |
saṃ śukrāsaḥ śucayaḥ saṃ gavāśiraḥ somā indram amandiṣuḥ ||
Padapāṭha
सम् । इन्द्रः॑ । रायः॑ । बृ॒ह॒तीः । अ॒धू॒नु॒त॒ । सम् । क्षो॒णी इति॑ । सम् । ऊं॒ इति॑ । सूर्य॑म् ।
सम् । शु॒क्रासः॑ । शुच॑यः । सम् । गोऽआ॑शिरः । सोमाः॑ । इन्द्र॑म् । अ॒म॒न्दि॒षुः॒ ॥
सम् । इन्द्रः । रायः । बृहतीः । अधूनुत । सम् । क्षोणी इति । सम् । ऊं इति । सूर्यम् ।
सम् । शुक्रासः । शुचयः । सम् । गोऽआशिरः । सोमाः । इन्द्रम् । अमन्दिषुः ॥
sám ǀ índraḥ ǀ rā́yaḥ ǀ bṛhatī́ḥ ǀ adhūnuta ǀ sám ǀ kṣoṇī́ íti ǀ sám ǀ ūṃ íti ǀ sū́ryam ǀ
sám ǀ śukrā́saḥ ǀ śúcayaḥ ǀ sám ǀ gó-āśiraḥ ǀ sómāḥ ǀ índram ǀ amandiṣuḥ ǁ
sam ǀ indraḥ ǀ rāyaḥ ǀ bṛhatīḥ ǀ adhūnuta ǀ sam ǀ kṣoṇī iti ǀ sam ǀ ūṃ iti ǀ sūryam ǀ
sam ǀ śukrāsaḥ ǀ śucayaḥ ǀ sam ǀ go-āśiraḥ ǀ somāḥ ǀ indram ǀ amandiṣuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.052.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.21.05
- Maṇḍala · Anuvāka · Ṛk
- 08.06.211
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Āyu Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.