Sūkta 51
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Śruṣṭigu Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
Metres by ṛk
1st set of styles nicṛtpaṅkti (4, 6, 8, 10); nicṛdbṛhatī (1, 3, 9); virāṭpaṅkti (2); virāḍbṛhatī (5); bṛhatī (7)
2nd set of styles bṛhatī (1, 3, 5, 7, 9); satobṛhatī (2, 4, 6, 8, 10)
-
Ṛk 1
यथा॒ मनौ॒ सांव॑रणौ॒ सोम॑मिं॒द्रापि॑बः सु॒तं ।
नीपा॑तिथौ मघव॒न्मेध्या॑तिथौ॒ पुष्टि॑गौ॒ श्रुष्टि॑गौ॒ सचा॑ ॥यथा मनौ सांवरणौ सोमम् इन्द्रापिबः सुतम् |
नीपातिथौ मघवन् मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा ||yáthā mánau sā́ṃvaraṇau sómamindrā́pibaḥ sutám ǀ
nī́pātithau maghavanmédhyātithau púṣṭigau śrúṣṭigau sácā ǁyathā manau sāṃvaraṇau somam indrāpibaḥ sutam |
nīpātithau maghavan medhyātithau puṣṭigau śruṣṭigau sacā ||यथा॑ । मनौ॑ । साम्ऽव॑रणौ । सोम॑म् । इ॒न्द्र॒ । अपि॑बः । सु॒तम् ।
नीप॑ऽअतिथौ । म॒घ॒ऽव॒न् । मेध्य॑ऽअतिथौ । पुष्टि॑ऽगौ । श्रुष्टि॑ऽगौ । सचा॑ ॥यथा । मनौ । साम्ऽवरणौ । सोमम् । इन्द्र । अपिबः । सुतम् ।
नीपऽअतिथौ । मघऽवन् । मेध्यऽअतिथौ । पुष्टिऽगौ । श्रुष्टिऽगौ । सचा ॥yáthā ǀ mánau ǀ sā́m-varaṇau ǀ sómam ǀ indra ǀ ápibaḥ ǀ sutám ǀ
nī́pa-atithau ǀ magha-van ǀ médhya-atithau ǀ púṣṭi-gau ǀ śrúṣṭi-gau ǀ sácā ǁyathā ǀ manau ǀ sām-varaṇau ǀ somam ǀ indra ǀ apibaḥ ǀ sutam ǀ
nīpa-atithau ǀ magha-van ǀ medhya-atithau ǀ puṣṭi-gau ǀ śruṣṭi-gau ǀ sacā ǁ8.51.1 Aṣṭaka 6.4.18.1Anuvāka 8.6.192
-
Ṛk 2
पा॒र्ष॒द्वा॒णः प्रस्क॑ण्वं॒ सम॑सादय॒च्छया॑नं॒ जिव्रि॒मुद्धि॑तं ।
स॒हस्रा॑ण्यसिषास॒द्गवा॒मृषि॒स्त्वोतो॒ दस्य॑वे॒ वृकः॑ ॥पार्षद्वाणः प्रस्कण्वं सम् असादयच् छयानं जिव्रिम् उद्धितम् |
सहस्राण्य् असिषासद् गवाम् ऋषिस् त्वोतो दस्यवे वृकः ||pārṣadvāṇáḥ práskaṇvam sámasādayaccháyānam jívrimúddhitam ǀ
sahásrāṇyasiṣāsadgávāmṛ́ṣistvóto dásyave vṛ́kaḥ ǁpārṣadvāṇaḥ praskaṇvaṃ sam asādayac chayānaṃ jivrim uddhitam |
sahasrāṇy asiṣāsad gavām ṛṣis tvoto dasyave vṛkaḥ ||पा॒र्ष॒द्वा॒णः । प्रस्क॑ण्वम् । सम् । अ॒सा॒द॒य॒त् । शया॑नम् । जिव्रि॑म् । उद्धि॑तम् ।
स॒हस्रा॑णि । अ॒सि॒सा॒स॒त् । गवा॑म् । ऋषिः॑ । त्वाऽऊ॑तः । दस्य॑वे । वृकः॑ ॥पार्षद्वाणः । प्रस्कण्वम् । सम् । असादयत् । शयानम् । जिव्रिम् । उद्धितम् ।
सहस्राणि । असिसासत् । गवाम् । ऋषिः । त्वाऽऊतः । दस्यवे । वृकः ॥pārṣadvāṇáḥ ǀ práskaṇvam ǀ sám ǀ asādayat ǀ śáyānam ǀ jívrim ǀ úddhitam ǀ
sahásrāṇi ǀ asisāsat ǀ gávām ǀ ṛ́ṣiḥ ǀ tvā́-ūtaḥ ǀ dásyave ǀ vṛ́kaḥ ǁpārṣadvāṇaḥ ǀ praskaṇvam ǀ sam ǀ asādayat ǀ śayānam ǀ jivrim ǀ uddhitam ǀ
sahasrāṇi ǀ asisāsat ǀ gavām ǀ ṛṣiḥ ǀ tvā-ūtaḥ ǀ dasyave ǀ vṛkaḥ ǁ8.51.2 Aṣṭaka 6.4.18.2Anuvāka 8.6.193
-
Ṛk 3
य उ॒क्थेभि॒र्न विं॒धते॑ चि॒किद्य ऋ॑षि॒चोद॑नः ।
इंद्रं॒ तमच्छा॑ वद॒ नव्य॑स्या म॒त्यवि॑ष्यंतं॒ न भोज॑से ॥य उक्थेभिर् न विन्धते चिकिद् य ऋषिचोदनः |
इन्द्रं तम् अच्छा वद नव्यस्या मत्य् अरिष्यन्तं न भोजसे ||yá ukthébhirná vindháte cikídyá ṛṣicódanaḥ ǀ
índram támácchā vada návyasyā matyáviṣyantam ná bhójase ǁya ukthebhir na vindhate cikid ya ṛṣicodanaḥ |
indraṃ tam acchā vada navyasyā maty ariṣyantaṃ na bhojase ||यः । उ॒क्थेभिः॑ । न । वि॒न्धते॑ । चि॒कित् । यः । ऋ॒षि॒ऽचोद॑नः ।
इन्द्र॑म् । तम् । अच्छ॑ । व॒द॒ । नव्य॑स्या । म॒ती । अवि॑ष्यन्तम् । न । भोज॑से ॥यः । उक्थेभिः । न । विन्धते । चिकित् । यः । ऋषिऽचोदनः ।
इन्द्रम् । तम् । अच्छ । वद । नव्यस्या । मती । अविष्यन्तम् । न । भोजसे ॥yáḥ ǀ ukthébhiḥ ǀ ná ǀ vindháte ǀ cikít ǀ yáḥ ǀ ṛṣi-códanaḥ ǀ
índram ǀ tám ǀ áccha ǀ vada ǀ návyasyā ǀ matī́ ǀ áviṣyantam ǀ ná ǀ bhójase ǁyaḥ ǀ ukthebhiḥ ǀ na ǀ vindhate ǀ cikit ǀ yaḥ ǀ ṛṣi-codanaḥ ǀ
indram ǀ tam ǀ accha ǀ vada ǀ navyasyā ǀ matī ǀ aviṣyantam ǀ na ǀ bhojase ǁ8.51.3 Aṣṭaka 6.4.18.3Anuvāka 8.6.194
-
Ṛk 4
यस्मा॑ अ॒र्कं स॒प्तशी॑र्षाणमानृ॒चुस्त्रि॒धातु॑मुत्त॒मे प॒दे ।
स त्वि१॒॑मा विश्वा॒ भुव॑नानि चिक्रद॒दादिज्ज॑निष्ट॒ पौंस्यं॑ ॥यस्मा अर्कं सप्तशीर्षाणम् आनृचुस् त्रिधातुम् उत्तमे पदे |
स त्व् इमा विश्वा भुवनानि चिक्रदद् आद् इज् जनिष्ट पौंस्यम् ||yásmā arkám saptáśīrṣāṇamānṛcústridhā́tumuttamé padé ǀ
sá tvímā́ víśvā bhúvanāni cikradadā́díjjaniṣṭa páuṃsyam ǁyasmā arkaṃ saptaśīrṣāṇam ānṛcus tridhātum uttame pade |
sa tv imā viśvā bhuvanāni cikradad ād ij janiṣṭa pauṃsyam ||यस्मै॑ । अ॒र्कम् । स॒प्तऽशी॑र्षाणम् । आ॒नृ॒चुः । त्रि॒ऽधातु॑म् । उ॒त्ऽत॒मे । प॒दे ।
सः । तु । इ॒मा । विश्वा॑ । भुव॑नानि । चि॒क्र॒द॒त् । आत् । इत् । ज॒नि॒ष्ट॒ । पौंस्य॑म् ॥यस्मै । अर्कम् । सप्तऽशीर्षाणम् । आनृचुः । त्रिऽधातुम् । उत्ऽतमे । पदे ।
सः । तु । इमा । विश्वा । भुवनानि । चिक्रदत् । आत् । इत् । जनिष्ट । पौंस्यम् ॥yásmai ǀ arkám ǀ saptá-śīrṣāṇam ǀ ānṛcúḥ ǀ tri-dhā́tum ǀ ut-tamé ǀ padé ǀ
sáḥ ǀ tú ǀ imā́ ǀ víśvā ǀ bhúvanāni ǀ cikradat ǀ ā́t ǀ ít ǀ janiṣṭa ǀ páuṃsyam ǁyasmai ǀ arkam ǀ sapta-śīrṣāṇam ǀ ānṛcuḥ ǀ tri-dhātum ǀ ut-tame ǀ pade ǀ
saḥ ǀ tu ǀ imā ǀ viśvā ǀ bhuvanāni ǀ cikradat ǀ āt ǀ it ǀ janiṣṭa ǀ pauṃsyam ǁ8.51.4 Aṣṭaka 6.4.18.4Anuvāka 8.6.195
-
Ṛk 5
यो नो॑ दा॒ता वसू॑ना॒मिंद्रं॒ तं हू॑महे व॒यं ।
वि॒द्मा ह्य॑स्य सुम॒तिं नवी॑यसीं ग॒मेम॒ गोम॑ति व्र॒जे ॥यो नो दाता वसूनाम् इन्द्रं तं हूमहे वयम् |
विद्मा ह्य् अस्य सुमतिं नवीयसीं गमेम गोमति व्रजे ||yó no dātā́ vásūnāmíndram tám hūmahe vayám ǀ
vidmā́ hyásya sumatím návīyasīm gaméma gómati vrajé ǁyo no dātā vasūnām indraṃ taṃ hūmahe vayam |
vidmā hy asya sumatiṃ navīyasīṃ gamema gomati vraje ||यः । नः॒ । दा॒ता । वसू॑नाम् । इन्द्र॑म् । तम् । हू॒म॒हे॒ । व॒यम् ।
वि॒द्म । हि । अ॒स्य॒ । सु॒ऽम॒तिम् । नवी॑यसीम् । ग॒मेम॑ । गोऽम॑ति । व्र॒जे ॥यः । नः । दाता । वसूनाम् । इन्द्रम् । तम् । हूमहे । वयम् ।
विद्म । हि । अस्य । सुऽमतिम् । नवीयसीम् । गमेम । गोऽमति । व्रजे ॥yáḥ ǀ naḥ ǀ dātā́ ǀ vásūnām ǀ índram ǀ tám ǀ hūmahe ǀ vayám ǀ
vidmá ǀ hí ǀ asya ǀ su-matím ǀ návīyasīm ǀ gaméma ǀ gó-mati ǀ vrajé ǁyaḥ ǀ naḥ ǀ dātā ǀ vasūnām ǀ indram ǀ tam ǀ hūmahe ǀ vayam ǀ
vidma ǀ hi ǀ asya ǀ su-matim ǀ navīyasīm ǀ gamema ǀ go-mati ǀ vraje ǁ8.51.5 Aṣṭaka 6.4.18.5Anuvāka 8.6.196
-
Ṛk 6
यस्मै॒ त्वं व॑सो दा॒नाय॒ शिक्ष॑सि॒ स रा॒यस्पोष॑मश्नुते ।
तं त्वा॑ व॒यं म॑घवन्निंद्र गिर्वणः सु॒तावं॑तो हवामहे ॥यस्मै त्वं वसो दानाय शिक्षसि स रायस् पोषम् अश्नुते |
तं त्वा वयम् मघवन्न् इन्द्र गिर्वणः सुतावन्तो हवामहे ||yásmai tvám vaso dānā́ya śíkṣasi sá rāyáspóṣamaśnute ǀ
tám tvā vayám maghavannindra girvaṇaḥ sutā́vanto havāmahe ǁyasmai tvaṃ vaso dānāya śikṣasi sa rāyas poṣam aśnute |
taṃ tvā vayam maghavann indra girvaṇaḥ sutāvanto havāmahe ||यस्मै॑ । त्वम् । व॒सो॒ इति॑ । दा॒नाय॑ । शिक्ष॑सि । सः । रा॒यः । पोष॑म् । अ॒श्नु॒ते॒ ।
तम् । त्वा॒ । व॒यम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । सु॒तऽव॑न्तः । ह॒वा॒म॒हे॒ ॥यस्मै । त्वम् । वसो इति । दानाय । शिक्षसि । सः । रायः । पोषम् । अश्नुते ।
तम् । त्वा । वयम् । मघऽवन् । इन्द्र । गिर्वणः । सुतऽवन्तः । हवामहे ॥yásmai ǀ tvám ǀ vaso íti ǀ dānā́ya ǀ śíkṣasi ǀ sáḥ ǀ rāyáḥ ǀ póṣam ǀ aśnute ǀ
tám ǀ tvā ǀ vayám ǀ magha-van ǀ indra ǀ girvaṇaḥ ǀ sutá-vantaḥ ǀ havāmahe ǁyasmai ǀ tvam ǀ vaso iti ǀ dānāya ǀ śikṣasi ǀ saḥ ǀ rāyaḥ ǀ poṣam ǀ aśnute ǀ
tam ǀ tvā ǀ vayam ǀ magha-van ǀ indra ǀ girvaṇaḥ ǀ suta-vantaḥ ǀ havāmahe ǁ8.51.6 Aṣṭaka 6.4.19.1Anuvāka 8.6.197
-
Ṛk 7
क॒दा च॒न स्त॒रीर॑सि॒ नेंद्र॑ सश्चसि दा॒शुषे॑ ।
उपो॒पेन्नु म॑घव॒न्भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ॥कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे |
उपोपेन् नु मघवन् भूय इन् नु ते दानं देवस्य पृच्यते ||kadā́ caná starī́rasi néndra saścasi dāśúṣe ǀ
úpopénnú maghavanbhū́ya ínnú te dā́nam devásya pṛcyate ǁkadā cana starīr asi nendra saścasi dāśuṣe |
upopen nu maghavan bhūya in nu te dānaṃ devasya pṛcyate ||क॒दा । च॒न । स्त॒रीः । अ॒सि॒ । न । इ॒न्द्र॒ । स॒श्च॒सि॒ । दा॒शुषे॑ ।
उप॑ऽउप । इत् । नु । म॒घ॒ऽव॒न् । भूयः॑ । इत् । नु । ते॒ । दान॑म् । दे॒वस्य॑ । पृ॒च्य॒ते॒ ॥कदा । चन । स्तरीः । असि । न । इन्द्र । सश्चसि । दाशुषे ।
उपऽउप । इत् । नु । मघऽवन् । भूयः । इत् । नु । ते । दानम् । देवस्य । पृच्यते ॥kadā́ ǀ caná ǀ starī́ḥ ǀ asi ǀ ná ǀ indra ǀ saścasi ǀ dāśúṣe ǀ
úpa-upa ǀ ít ǀ nú ǀ magha-van ǀ bhū́yaḥ ǀ ít ǀ nú ǀ te ǀ dā́nam ǀ devásya ǀ pṛcyate ǁkadā ǀ cana ǀ starīḥ ǀ asi ǀ na ǀ indra ǀ saścasi ǀ dāśuṣe ǀ
upa-upa ǀ it ǀ nu ǀ magha-van ǀ bhūyaḥ ǀ it ǀ nu ǀ te ǀ dānam ǀ devasya ǀ pṛcyate ǁ8.51.7 Aṣṭaka 6.4.19.2Anuvāka 8.6.198
-
Ṛk 8
प्र यो न॑न॒क्षे अ॒भ्योज॑सा॒ क्रिविं॑ व॒धैः शुष्णं॑ निघो॒षय॑न् ।
य॒देदस्तं॑भीत्प्र॒थय॑न्न॒मूं दिव॒मादिज्ज॑निष्ट॒ पार्थि॑वः ॥प्र यो ननक्षे अभ्य् ओजसा क्रिविं वधैः शुष्णं निघोषयन् |
यदेद् अस्तम्भीत् प्रथयन्न् अमूं दिवम् आद् इज् जनिष्ट पार्थिवः ||prá yó nanakṣé abhyójasā krívim vadháiḥ śúṣṇam nighoṣáyan ǀ
yadédástambhītpratháyannamū́m dívamā́díjjaniṣṭa pā́rthivaḥ ǁpra yo nanakṣe abhy ojasā kriviṃ vadhaiḥ śuṣṇaṃ nighoṣayan |
yaded astambhīt prathayann amūṃ divam ād ij janiṣṭa pārthivaḥ ||प्र । यः । न॒न॒क्षे । अ॒भि । ओज॑सा । क्रिवि॑म् । व॒धैः । शुष्ण॑म् । नि॒ऽघो॒षय॑न् ।
य॒दा । इत् । अस्त॑म्भीत् । प्र॒थय॑न् । अ॒मूम् । दिव॑म् । आत् । इत् । ज॒नि॒ष्ट॒ । पार्थि॑वः ॥प्र । यः । ननक्षे । अभि । ओजसा । क्रिविम् । वधैः । शुष्णम् । निऽघोषयन् ।
यदा । इत् । अस्तम्भीत् । प्रथयन् । अमूम् । दिवम् । आत् । इत् । जनिष्ट । पार्थिवः ॥prá ǀ yáḥ ǀ nanakṣé ǀ abhí ǀ ójasā ǀ krívim ǀ vadháiḥ ǀ śúṣṇam ǀ ni-ghoṣáyan ǀ
yadā́ ǀ ít ǀ ástambhīt ǀ pratháyan ǀ amū́m ǀ dívam ǀ ā́t ǀ ít ǀ janiṣṭa ǀ pā́rthivaḥ ǁpra ǀ yaḥ ǀ nanakṣe ǀ abhi ǀ ojasā ǀ krivim ǀ vadhaiḥ ǀ śuṣṇam ǀ ni-ghoṣayan ǀ
yadā ǀ it ǀ astambhīt ǀ prathayan ǀ amūm ǀ divam ǀ āt ǀ it ǀ janiṣṭa ǀ pārthivaḥ ǁ8.51.8 Aṣṭaka 6.4.19.3Anuvāka 8.6.199
-
Ṛk 9
यस्या॒यं विश्व॒ आर्यो॒ दासः॑ शेवधि॒पा अ॒रिः ।
ति॒रश्चि॑द॒र्ये रुश॑मे॒ परी॑रवि॒ तुभ्येत्सो अ॑ज्यते र॒यिः ॥यस्यायं विश्व आर्यो दासः शेवधिपा अरिः |
तिरश् चिद् अर्ये रुशमे परीरवि तुभ्येत् सो अज्यते रयिः ||yásyāyám víśva ā́ryo dā́saḥ śevadhipā́ aríḥ ǀ
tiráścidaryé rúśame párīravi túbhyétsó ajyate rayíḥ ǁyasyāyaṃ viśva āryo dāsaḥ śevadhipā ariḥ |
tiraś cid arye ruśame parīravi tubhyet so ajyate rayiḥ ||यस्य॑ । अ॒यम् । विश्वः॑ । आर्यः॑ । दासः॑ । शे॒व॒धि॒ऽपाः । अ॒रिः ।
ति॒रः । चि॒त् । अ॒र्ये । रुश॑मे । पवी॑रवि । तुभ्य॑ । इत् । सः । अ॒ज्य॒ते॒ । र॒यिः ॥यस्य । अयम् । विश्वः । आर्यः । दासः । शेवधिऽपाः । अरिः ।
तिरः । चित् । अर्ये । रुशमे । पवीरवि । तुभ्य । इत् । सः । अज्यते । रयिः ॥yásya ǀ ayám ǀ víśvaḥ ǀ ā́ryaḥ ǀ dā́saḥ ǀ śevadhi-pā́ḥ ǀ aríḥ ǀ
tiráḥ ǀ cit ǀ aryé ǀ rúśame ǀ pávīravi ǀ túbhya ǀ ít ǀ sáḥ ǀ ajyate ǀ rayíḥ ǁyasya ǀ ayam ǀ viśvaḥ ǀ āryaḥ ǀ dāsaḥ ǀ śevadhi-pāḥ ǀ ariḥ ǀ
tiraḥ ǀ cit ǀ arye ǀ ruśame ǀ pavīravi ǀ tubhya ǀ it ǀ saḥ ǀ ajyate ǀ rayiḥ ǁ8.51.9 Aṣṭaka 6.4.19.4Anuvāka 8.6.200
-
Ṛk 10
तु॒र॒ण्यवो॒ मधु॑मंतं घृत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नृचुः ।
अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इंद॑वः ॥तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कम् आनृचुः |
अस्मे रयिः पप्रथे वृष्ण्यं शवो ऽस्मे सुवानास इन्दवः ||turaṇyávo mádhumantam ghṛtaścútam víprāso arkámānṛcuḥ ǀ
asmé rayíḥ paprathe vṛ́ṣṇyam śávo’smé suvānā́sa índavaḥ ǁturaṇyavo madhumantaṃ ghṛtaścutaṃ viprāso arkam ānṛcuḥ |
asme rayiḥ paprathe vṛṣṇyaṃ śavo 'sme suvānāsa indavaḥ ||तु॒र॒ण्यवः॑ । मधु॑ऽमन्तम् । घृ॒त॒ऽश्चुत॑म् । विप्रा॑सः । अ॒र्कम् । आ॒नृ॒चुः॒ ।
अ॒स्मे इति॑ । र॒यिः । प॒प्र॒थे॒ । वृष्ण्य॑म् । शवः॑ । अ॒स्मे इति॑ । सु॒वा॒नासः॑ । इन्द॑वः ॥तुरण्यवः । मधुऽमन्तम् । घृतऽश्चुतम् । विप्रासः । अर्कम् । आनृचुः ।
अस्मे इति । रयिः । पप्रथे । वृष्ण्यम् । शवः । अस्मे इति । सुवानासः । इन्दवः ॥turaṇyávaḥ ǀ mádhu-mantam ǀ ghṛta-ścútam ǀ víprāsaḥ ǀ arkám ǀ ānṛcuḥ ǀ
asmé íti ǀ rayíḥ ǀ paprathe ǀ vṛ́ṣṇyam ǀ śávaḥ ǀ asmé íti ǀ suvānā́saḥ ǀ índavaḥ ǁturaṇyavaḥ ǀ madhu-mantam ǀ ghṛta-ścutam ǀ viprāsaḥ ǀ arkam ǀ ānṛcuḥ ǀ
asme iti ǀ rayiḥ ǀ paprathe ǀ vṛṣṇyam ǀ śavaḥ ǀ asme iti ǀ suvānāsaḥ ǀ indavaḥ ǁ8.51.10 Aṣṭaka 6.4.19.5Anuvāka 8.6.201
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.